००३

॥ अथ तृतीयः पटलः ॥

विश्वास-प्रस्तुतिः

अथ वक्ष्यामि संक्षेपाद्
विष्णोर् वैभवमुत्तमम्।
येन ज्ञातेन शुद्धात्मा
वैष्णवं पदम् आप्नुयात्॥ 3.1 ॥

मूलम्

अथ वक्ष्यामि संक्षेपाद् विष्णोर्वैभवमुत्तमम्।
येन ज्ञातेन शुद्धात्मा वैष्णवं पदमाप्नुयात्॥ 3.1 ॥

विश्वास-प्रस्तुतिः

देवतेह परं ज्योतिर्
एक एव परः पुमान्।
स एव बहुधा लोके
मायया भिद्यते स्वया॥ 3.2 ॥

मूलम्

देवतेह परं ज्योतिरेक एव परः पुमान्।
स एव बहुधा लोके मायया भिद्यते स्वया॥ 3.2 ॥

विश्वास-प्रस्तुतिः

पुरुषाख्यः स्वयं मायां
प्रकृतिं व्यज्य स द्विधा।
स्थितस् त्रिधा च सत्त्वादि-
गुण-भेदात् प्रतीयते॥ 3.3 ॥

मूलम्

पुरुषाख्यः स्वयं मायां प्रकृतिं व्यज्य स द्विधा।
स्थितस्त्रिधा च सत्त्वादिगुणभेदात् प्रतीयते॥ 3.3 ॥

विश्वास-प्रस्तुतिः

विष्णु-ब्रह्म-शिवाख्योऽसौ
स्थित्य्-उत्पत्त्य्-अन्त-कृन् मतः।
मूर्तयो वासुदेवाद्या
धर्म-ज्ञानादि-भेदतः॥ 3.4 ॥

मूलम्

विष्णुब्रह्मशिवाख्योऽसौ स्थित्युत्पत्त्यन्तकृन्मतः।
मूर्तयो वासुदेवाद्या धर्मज्ञानादिभेदतः॥ 3.4 ॥

विश्वास-प्रस्तुतिः

चतस्रस् तस्य विज्ञेया
वेद-वर्ण-युगाश्रयाः।
परमेष्ठी पुमान् विश्वो
निवृत्तिः सर्व इत्यसौ॥ 3.5 ॥

मूलम्

चतस्रस्तस्य विज्ञेया वेदवर्णयुगाश्रयाः।
परमेष्ठी पुमान् विश्वो निवृत्तिः सर्व इत्यसौ॥ 3.5 ॥

विश्वास-प्रस्तुतिः

पञ्चधोपनिषद्-भेदान्
महा-भूतत्वम् आगतः।
मनः श्रोत्रादिभिः षड्भिर्
अङ्गैश्च हृदयादिभिः॥ 3.6 ॥

मूलम्

पञ्चधोपनिषद्भेदान्महाभूतत्वमागतः।
मनः श्रोत्रादिभिः षड्भिरङ्गैश्च हृदयादिभिः॥ 3.6 ॥

विश्वास-प्रस्तुतिः

षड्-अक्षरात्मको नित्यम्
ऋतुभिश् चैष भिद्यते।
सप्त-व्याहृतिभिर् लोकैश्
छन्दोभिः क्रतुभिस् तथा॥ 3.7 ॥

मूलम्

षडक्षरात्मको नित्यमृतुभिश्चैष भिद्यते।
सप्तव्याहृतिभिर्लोकैश्छन्दोभिः क्रतुभिस्तथा॥ 3.7 ॥

विश्वास-प्रस्तुतिः

सप्त-धा भिद्यमानोऽसौ
विज्ञातव्यो विचक्षणैः।
अष्ट-प्रकृतिभिश् चासाव्
अष्टमूर्तिभिर् एव च॥ 3.8 ॥

मूलम्

सप्तधा भिद्यमानोऽसौ विज्ञातव्यो विचक्षणैः।
अष्टप्रकृतिभिश्चासावष्टमूर्तिभिरेव च॥ 3.8 ॥

विश्वास-प्रस्तुतिः

अष्टाक्षरमयो नित्यम्
अष्टधा चैष भिद्यते।
नारायणो नृसिंहश्च
वराहो वामनस्तथा॥ 3.9 ॥

मूलम्

अष्टाक्षरमयो नित्यमष्टधा चैष भिद्यते।
नारायणो नृसिंहश्च वराहो वामनस्तथा॥ 3.9 ॥

विश्वास-प्रस्तुतिः

राम-ब्रह्मेन्द्र-सूर्याश् च
चन्द्रस् तैर् नवधा स्थितः।
इन्द्रोऽग्निश् च यमश् चैव
निर्ऋतिर् वरुणस् तथा॥ 3.10 ॥

मूलम्

रामब्रह्मेन्द्रसूर्याश्च चन्द्रस्तैर्नवधा स्थितः।
इन्द्रोऽग्निश्च यमश्चैव निर्ऋतिर्वरुणस्तथा॥ 3.10 ॥

विश्वास-प्रस्तुतिः

वायुश्च सोम ईशानो
ब्रह्माऽनन्तश्च ते दश।
एकादशेन्द्रियैर् भिन्नस्
तथा द्वादश-मासपैः॥ 3.11 ॥

मूलम्

वायुश्च सोम ईशानो ब्रह्माऽनन्तश्च ते दश।
एकादशेन्द्रियैर्भिन्नस्तथा द्वादशमासपैः॥ 3.11 ॥

विश्वास-प्रस्तुतिः

स त्रयोदशधा चैव
विश्वेदेवादिभिः स्मृतः।
स चतुर्दशधा भिन्नो
मनुभिश् चाक्षुषादिभिः॥ 3.12 ॥

मूलम्

स त्रयोदशधा चैव विश्वेदेवादिभिः स्मृतः।
स चतुर्दशधा भिन्नो मनुभिश्चाक्षुषादिभिः॥ 3.12 ॥

विश्वास-प्रस्तुतिः

तिथिभिश्चैव विज्ञेयः
स पञ्चदशधा स्थितः।
स्वरैः षोडशधा भिन्नो
दिक्कोणावान्तरैस् तथा॥ 3.13 ॥

मूलम्

तिथिभिश्चैव विज्ञेयः स पञ्चदशधा स्थितः।
स्वरैः षोडशधा भिन्नो दिक्कोणावान्तरैस्तथा॥ 3.13 ॥

विश्वास-प्रस्तुतिः

मूर्त्य्-अन्तरैश् च विज्ञेयो
बहुधा तस्य विस्तरः।
एक-द्वि-त्रि-चतुष्-पञ्च-
षड्-आद्या विश्वतो-मुखाः॥ 3.14 ॥

मूलम्

मूर्त्यन्तरैश्च विज्ञेयो बहुधा तस्य विस्तरः।
एकद्वित्रिचतुष्पञ्चषडाद्या विश्वतोमुखाः॥ 3.14 ॥

विश्वास-प्रस्तुतिः

मुख-भेदाः समाख्यातास्
तस्य विश्वात्मनो हरेः।
द्व्य्-आदयो विश्वतः पाणेर्
भुज-भेदास् तथा स्मृताः॥ 3.15 ॥

मूलम्

मुखभेदाः समाख्यातास्तस्य विश्वात्मनो हरेः।
द्व्यादयो विश्वतः पाणेर्भुजभेदास्तथा स्मृताः॥ 3.15 ॥

विश्वास-प्रस्तुतिः

विविधाभरणा दीर्घा
विविधायुधधारिणः।
मूर्धानश्चैव तस्योक्ता
लसन्मकुटकुण्डलाः॥ 3.16 ॥

मूलम्

विविधाभरणा दीर्घा विविधायुधधारिणः।
मूर्धानश्चैव तस्योक्ता लसन्मकुटकुण्डलाः॥ 3.16 ॥

विश्वास-प्रस्तुतिः

सहस्रं पौरुषे सूक्ते पादाश्चाक्षीण्यनेकशः।
हिरण्यगर्भोऽनेकात्मा विमलः श्याम एव च॥ 3.17 ॥

मूलम्

सहस्रं पौरुषे सूक्ते पादाश्चाक्षीण्यनेकशः।
हिरण्यगर्भोऽनेकात्मा विमलः श्याम एव च॥ 3.17 ॥

विश्वास-प्रस्तुतिः

नीलः पीतश्च रक्तश्च नानावर्णश्च कीर्तितः।
चन्द्रादित्यौ स्मृतौ तस्य वामदक्षिणलोचने॥ 3.18 ॥

मूलम्

नीलः पीतश्च रक्तश्च नानावर्णश्च कीर्तितः।
चन्द्रादित्यौ स्मृतौ तस्य वामदक्षिणलोचने॥ 3.18 ॥

विश्वास-प्रस्तुतिः

ब्रह्माणमाहुर्मुर्धानं केशांश्चास्य वनस्पतीन्।
भ्रुवेर्मध्यं तथा रुद्रं सोमं च मनसि स्थितम्॥ 3.19 ॥

मूलम्

ब्रह्माणमाहुर्मुर्धानं केशांश्चास्य वनस्पतीन्।
भ्रुवेर्मध्यं तथा रुद्रं सोमं च मनसि स्थितम्॥ 3.19 ॥

विश्वास-प्रस्तुतिः

एकादशास्य विज्ञेया रुद्राः कण्ठं समाश्रिताः।
नक्षत्रग्रहताराश्च दर्शनास्तस्य कीर्तिताः॥ 3.20 ॥

मूलम्

एकादशास्य विज्ञेया रुद्राः कण्ठं समाश्रिताः।
नक्षत्रग्रहताराश्च दर्शनास्तस्य कीर्तिताः॥ 3.20 ॥

विश्वास-प्रस्तुतिः

धर्माधर्मौ तथोर्ध्वाधरोष्ठसम्पुटमाश्रितौ।
इद्राग्नी तालुके तस्य जिह्वा चैव सरस्वती॥ 3.21 ॥

मूलम्

धर्माधर्मौ तथोर्ध्वाधरोष्ठसम्पुटमाश्रितौ।
इद्राग्नी तालुके तस्य जिह्वा चैव सरस्वती॥ 3.21 ॥

विश्वास-प्रस्तुतिः

दिशश्च विदिशश्चैव श्रोत्रयोः संव्यवस्थिताः।
वायुः प्राणेषु विज्ञेयो मरुतोऽङ्गुलयः स्मृताः॥ 3.22 ॥

मूलम्

दिशश्च विदिशश्चैव श्रोत्रयोः संव्यवस्थिताः।
वायुः प्राणेषु विज्ञेयो मरुतोऽङ्गुलयः स्मृताः॥ 3.22 ॥

विश्वास-प्रस्तुतिः

ऋषयो रोमकूपस्थाः समुद्रा बस्तिगोचराः।
नद्यश्च वसुधा चास्य नागाश्च नलके स्थिताः॥ 3.23 ॥

मूलम्

ऋषयो रोमकूपस्थाः समुद्रा बस्तिगोचराः।
नद्यश्च वसुधा चास्य नागाश्च नलके स्थिताः॥ 3.23 ॥

विश्वास-प्रस्तुतिः

जातुस्थावश्विनौ देवौ पर्वताश्चोरुसंस्थिताः।
गुह्येऽस्य गुह्यका ज्ञेया वसवश्चोरसि स्थिताः॥ 3.24 ॥

मूलम्

जातुस्थावश्विनौ देवौ पर्वताश्चोरुसंस्थिताः।
गुह्येऽस्य गुह्यका ज्ञेया वसवश्चोरसि स्थिताः॥ 3.24 ॥

विश्वास-प्रस्तुतिः

नखाग्रेषु च विज्ञेया दिव्या ओषधयः स्थिताः।
नासिकायाः पुटौ ज्ञेयावयने दक्षिणोत्तरे॥ 3.25 ॥

मूलम्

नखाग्रेषु च विज्ञेया दिव्या ओषधयः स्थिताः।
नासिकायाः पुटौ ज्ञेयावयने दक्षिणोत्तरे॥ 3.25 ॥

विश्वास-प्रस्तुतिः

ऋतवो बाहुमूलस्था मासास्तस्य करेषु च।
ललाटाग्रे स्थिताः सिद्धा भ्रुवोर्मेघाः सविद्युतः॥ 3.26 ॥

मूलम्

ऋतवो बाहुमूलस्था मासास्तस्य करेषु च।
ललाटाग्रे स्थिताः सिद्धा भ्रुवोर्मेघाः सविद्युतः॥ 3.26 ॥

विश्वास-प्रस्तुतिः

यक्षकिन्नरगन्धर्वा दैतेया दानवास्तथा।
राक्षसाश्चारणाश्चस्य जठरं तु समाश्रिताः॥ 3.27 ॥

मूलम्

यक्षकिन्नरगन्धर्वा दैतेया दानवास्तथा।
राक्षसाश्चारणाश्चस्य जठरं तु समाश्रिताः॥ 3.27 ॥

विश्वास-प्रस्तुतिः

पितरः प्रेतकूश्माण्डवेतालप्रमथास्तथा।
पातालगोचराश्चास्य पादयुग्मे व्यवस्थिताः॥ 3.28 ॥

मूलम्

पितरः प्रेतकूश्माण्डवेतालप्रमथास्तथा।
पातालगोचराश्चास्य पादयुग्मे व्यवस्थिताः॥ 3.28 ॥

विश्वास-प्रस्तुतिः

पार्श्वयोस्तस्य विज्ञेया यज्ञा वेदिकतान्त्रिकाः।
अग्निहोत्रादिकर्माणि वर्णाश्रमगतानि च॥ 3.29 ॥

मूलम्

पार्श्वयोस्तस्य विज्ञेया यज्ञा वेदिकतान्त्रिकाः।
अग्निहोत्रादिकर्माणि वर्णाश्रमगतानि च॥ 3.29 ॥

विश्वास-प्रस्तुतिः

स्वाहास्वधावषट्काराः सर्वेऽस्य हृदये स्थिताः।
ये वै सहस्रनामानो विष्णवः परिकीर्तिताः॥ 3.30 ॥

मूलम्

स्वाहास्वधावषट्काराः सर्वेऽस्य हृदये स्थिताः।
ये वै सहस्रनामानो विष्णवः परिकीर्तिताः॥ 3.30 ॥

विश्वास-प्रस्तुतिः

सहस्रमूर्तयस्तेऽत्र यथायोगमवस्थिताः।
यतः सहस्रसंख्याऽपि बहुसंख्या प्रकीर्तिता॥ 3.31 ॥

मूलम्

सहस्रमूर्तयस्तेऽत्र यथायोगमवस्थिताः।
यतः सहस्रसंख्याऽपि बहुसंख्या प्रकीर्तिता॥ 3.31 ॥

विश्वास-प्रस्तुतिः

मूर्तयश्चास्य सर्वास्ताः संख्यातीता ह्यनेकशः।
देवादीनां च सर्वेषां मूर्तयोऽत्रैव कीर्तिताः॥ 3.32 ॥

मूलम्

मूर्तयश्चास्य सर्वास्ताः संख्यातीता ह्यनेकशः।
देवादीनां च सर्वेषां मूर्तयोऽत्रैव कीर्तिताः॥ 3.32 ॥

विश्वास-प्रस्तुतिः

तस्मात् सहस्रमूर्तिः सन् विष्णुः सर्वात्मको मतः।
दर्पणानां बहुत्वे तु दृश्यते नैकता यथा॥ 3.33 ॥

मूलम्

तस्मात् सहस्रमूर्तिः सन् विष्णुः सर्वात्मको मतः।
दर्पणानां बहुत्वे तु दृश्यते नैकता यथा॥ 3.33 ॥

विश्वास-प्रस्तुतिः

तद्वद् बहुत्वं मन्यन्ते विष्णोस्तस्याल्पचेतसः।
यथाऽम्भसीन्दुबिम्बानि प्रतिशब्दाश्च नैकधा॥ 3.34 ॥

मूलम्

तद्वद् बहुत्वं मन्यन्ते विष्णोस्तस्याल्पचेतसः।
यथाऽम्भसीन्दुबिम्बानि प्रतिशब्दाश्च नैकधा॥ 3.34 ॥

विश्वास-प्रस्तुतिः

एकोऽप्यात्मा बहुष्वेवमित्याहुस्तत्त्वदर्शिनः।
परमार्थमजानन्तो मूढास्त्वज्ञानमोहिताः॥ 3.35 ॥

मूलम्

एकोऽप्यात्मा बहुष्वेवमित्याहुस्तत्त्वदर्शिनः।
परमार्थमजानन्तो मूढास्त्वज्ञानमोहिताः॥ 3.35 ॥

विश्वास-प्रस्तुतिः

क्षेत्रज्ञस्य बहुत्वं हि वदन्तीह रमन्ति च।
ब्राह्मणा यस्य मुखतः क्षत्रिया यस्य बाहुतः॥ 3.36 ॥

मूलम्

क्षेत्रज्ञस्य बहुत्वं हि वदन्तीह रमन्ति च।
ब्राह्मणा यस्य मुखतः क्षत्रिया यस्य बाहुतः॥ 3.36 ॥

विश्वास-प्रस्तुतिः

वैश्या यस्योरुतो जातास्तद्विष्णोः परमं पदम्।
ईदृशं तं महाविष्णुमप्रमेयमनामयम्॥ 3.37 ॥

मूलम्

वैश्या यस्योरुतो जातास्तद्विष्णोः परमं पदम्।
ईदृशं तं महाविष्णुमप्रमेयमनामयम्॥ 3.37 ॥

विश्वास-प्रस्तुतिः

तत्प्रसादादृते वक्तुं ज्ञातुं वा नैव शक्यते।
सर्वदेवाश्रयो विष्णुः सर्वे देवास्तदात्मकाः॥ 3.38 ॥

मूलम्

तत्प्रसादादृते वक्तुं ज्ञातुं वा नैव शक्यते।
सर्वदेवाश्रयो विष्णुः सर्वे देवास्तदात्मकाः॥ 3.38 ॥

विश्वास-प्रस्तुतिः

अशेषं वाङ्मयं चेदं लोकालोकं चराचरम्।
व्याप्तं विष्णुशरीरेण वायुनेवाम्बरं सदा॥ 3.39 ॥

मूलम्

अशेषं वाङ्मयं चेदं लोकालोकं चराचरम्।
व्याप्तं विष्णुशरीरेण वायुनेवाम्बरं सदा॥ 3.39 ॥

विश्वास-प्रस्तुतिः

सर्वे विष्णुपरा देवाः
सर्वशास्त्रेषु कीर्तिताः।
यतो जाताऽखिला सृष्टिर्
अन्ते तल्लयभागिनी॥ 3.40 ॥

मूलम्

सर्वे विष्णुपरा देवाः सर्वशास्त्रेषु कीर्तिताः।
यतो जाताऽखिला सृष्टिरन्ते तल्लयभागिनी॥ 3.40 ॥

विश्वास-प्रस्तुतिः

ततोऽन्यः पुण्डरीकाक्षात्
को विश्वं व्याप्य तिष्ठति।
आधाराधेयभावेन
द्विधावस्थो जनार्दनः॥ 3.41 ॥

मूलम्

ततोऽन्यः पुण्डरीकाक्षात् को विश्वं व्याप्य तिष्ठति।
आधाराधेयभावेन द्विधावस्थो जनार्दनः॥ 3.41 ॥

विश्वास-प्रस्तुतिः

सर्वभूतहितायासौ
स्थितः सकलनिष्कलः।
एवं चोभयरूपोऽसौ
ज्ञेयो विष्णुः परात् परः॥ 3.42 ॥

मूलम्

सर्वभूतहितायासौ स्थितः सकलनिष्कलः।
एवं चोभयरूपोऽसौ ज्ञेयो विष्णुः परात् परः॥ 3.42 ॥

विश्वास-प्रस्तुतिः

स्थूलसूक्ष्मपरत्वेन
त्रिधा च भगवान् स्थितः।
प्रभविष्णुर्महाविष्णुः
सदाविष्णुश्च स स्मृतः॥ 3.43 ॥

मूलम्

स्थूलसूक्ष्मपरत्वेन त्रिधा च भगवान् स्थितः।
प्रभविष्णुर्महाविष्णुः सदाविष्णुश्च स स्मृतः॥ 3.43 ॥

विश्वास-प्रस्तुतिः

स ह्यात्मा चान्तरात्मा च
परमात्मा च स स्मृतः।
वैराजं लैङ्गिकं चैशं
वहिरन्तश्च सर्वशः॥ 3.44 ॥

मूलम्

स ह्यात्मा चान्तरात्मा च परमात्मा च स स्मृतः।
वैराजं लैङ्गिकं चैशं वहिरन्तश्च सर्वशः॥ 3.44 ॥

विश्वास-प्रस्तुतिः

शब्दादिश्चिन्मयं रूपं जाग्रत्स्वप्नसुषुप्तिगम्।
मन्त्रानुस्वारनादेषु त्रयमन्वेषयेद् बुधः॥ 3.45 ॥

मूलम्

शब्दादिश्चिन्मयं रूपं जाग्रत्स्वप्नसुषुप्तिगम्।
मन्त्रानुस्वारनादेषु त्रयमन्वेषयेद् बुधः॥ 3.45 ॥

विश्वास-प्रस्तुतिः

वेदे साङ्ख्ये च योगे च
पञ्चरात्रे च केवले।
धर्मशास्त्रे पुराणे च
मुनिभिर् देवमानुषैः॥ 3.46 ॥

मूलम्

वेदे साङ्ख्ये च योगे च पञ्चरात्रे च केवले।
धर्मशास्त्रे पुराणे च मुनिभिर्देवमानुषैः॥ 3.46 ॥

विश्वास-प्रस्तुतिः

पठ्यते निखिलैर्नित्यं विश्वं विष्णुमयं जगत्।
अतीतानागतं चैव वर्तमानं च किञ्चन॥ 3.47 ॥

मूलम्

पठ्यते निखिलैर्नित्यं विश्वं विष्णुमयं जगत्।
अतीतानागतं चैव वर्तमानं च किञ्चन॥ 3.47 ॥

विश्वास-प्रस्तुतिः

इन्द्रियाणीन्द्रियार्थाश्च भूतान्तःकरणानि च।
अव्यक्तं त्रिगुणा माया विद्या धर्मादयस्तथा॥ 3.48 ॥

मूलम्

इन्द्रियाणीन्द्रियार्थाश्च भूतान्तःकरणानि च।
अव्यक्तं त्रिगुणा माया विद्या धर्मादयस्तथा॥ 3.48 ॥

विश्वास-प्रस्तुतिः

नियतिश्च कला कालः
सर्वमन्यच्च तन्मयम्।
विष्णुरेव परो देवः
सर्वभूतेष्ववस्थितः॥ 3.49 ॥

मूलम्

नियतिश्च कला कालः सर्वमन्यच्च तन्मयम्।
विष्णुरेव परो देवः सर्वभूतेष्ववस्थितः॥ 3.49 ॥

विश्वास-प्रस्तुतिः

सर्वभूतानि चैवासौ
न तदस्तीह यन्न सः।
देवासुरादयो मर्त्याः
पशवश्च सरीसृपाः॥ 3.50 ॥

मूलम्

सर्वभूतानि चैवासौ न तदस्तीह यन्न सः।
देवासुरादयो मर्त्याः पशवश्च सरीसृपाः॥ 3.50 ॥

विश्वास-प्रस्तुतिः

तरुवल्लीतृणौषध्यो
महाभ्राशनि-विद्युतः।
शैलाब्धि-सरिद्-आराम-
नगराणि सरांसि च॥ 3.51 ॥

मूलम्

तरुवल्लीतृणौषध्यो महाभ्राशनिविद्युतः।
शैलाब्धिसरिदारामनगराणि सरांसि च॥ 3.51 ॥

विश्वास-प्रस्तुतिः

लोकाश् चानन्तकालाग्नि-
प्रेतावासोरगालयाः।
सप्त भूर्-आदयो ब्राह्म-
शैव-वैष्णव-संज्ञिताः॥ 3.52 ॥

मूलम्

लोकाश्चानन्तकालाग्निप्रेतावासोरगालयाः।
सप्त भूरादयो ब्राह्मशैववैष्णवसंज्ञिताः॥ 3.52 ॥

विश्वास-प्रस्तुतिः

सर्वे च विष्णुनैकेन
व्याप्ता इत्यवधारय।
वराहो भार्गवः सिंहो
रामश्रीधरवामनाः॥ 3.53 ॥

मूलम्

सर्वे च विष्णुनैकेन व्याप्ता इत्यवधारय।
वराहो भार्गवः सिंहो रामश्रीधरवामनाः॥ 3.53 ॥

विश्वास-प्रस्तुतिः

अश्वकृष्णौ च दिक्ष्व् एषां
लोकैरण्डं सहाखिलम्।
यच्चानुक्तम् अशेषेण
विष्णोरेता विभूतयः॥ 3.54 ॥

मूलम्

अश्वकृष्णौ च दिक्ष्वेषां लोकैरण्डं सहाखिलम्।
यच्चानुक्तमशेषेण विष्णोरेता विभूतयः॥ 3.54 ॥

विश्वास-प्रस्तुतिः

विश्वव्यापितयैवैष
विष्णुत्वं प्राप्तवान् प्रभुः।
वसनात् सर्वभूतेषु
वासुदेवत्वमेव च॥ 3.55 ॥

मूलम्

विश्वव्यापितयैवैष विष्णुत्वं प्राप्तवान् प्रभुः।
वसनात् सर्वभूतेषु वासुदेवत्वमेव च॥ 3.55 ॥

विश्वास-प्रस्तुतिः

आदिमूर्तेः समाकृष्ट
इति सङ्कर्षणः स्मृतः।
प्रद्युम्नो द्युम्न-पुष्टत्वाद्
अनिरुद्धोऽनिरोधनात्॥ 3.56 ॥

मूलम्

आदिमूर्तेः समाकृष्ट इति सङ्कर्षणः स्मृतः।
प्रद्युम्नो द्युम्नपुष्टत्वादनिरुद्धोऽनिरोधनात्॥ 3.56 ॥

विश्वास-प्रस्तुतिः

अच्युतोऽच्यवनाद् योगात् त्रिधामा धामभिस्त्रिभिः।
विलोमेन्द्रियगम्यत्वाज्ज्ञेयोऽन्तर्याम्यधोक्षजः॥ 3.57 ॥

मूलम्

अच्युतोऽच्यवनाद् योगात् त्रिधामा धामभिस्त्रिभिः।
विलोमेन्द्रियगम्यत्वाज्ज्ञेयोऽन्तर्याम्यधोक्षजः॥ 3.57 ॥

विश्वास-प्रस्तुतिः

वैकुण्ठामलवर्णत्वाद् वैकुण्ठश्चायमुच्यते।
केशौ सर्गान्तयोरस्य स्त इत्येवैष केशवः॥ 3.58 ॥

मूलम्

वैकुण्ठामलवर्णत्वाद् वैकुण्ठश्चायमुच्यते।
केशौ सर्गान्तयोरस्य स्त इत्येवैष केशवः॥ 3.58 ॥

विश्वास-प्रस्तुतिः

नरनारीप्रकर्तृत्वान्नराणां चायनादयम्।
नारायणो नरोत्थानामयनत्वादपां च सः॥ 3.59 ॥

मूलम्

नरनारीप्रकर्तृत्वान्नराणां चायनादयम्।
नारायणो नरोत्थानामयनत्वादपां च सः॥ 3.59 ॥

विश्वास-प्रस्तुतिः

माधवो मधुषूत्पत्त्या धवत्वाद् वा श्रियः स्मृतः।
गां विन्दतीति गोविन्दो दुःखानां हरणद्धरिः॥ 3.60 ॥

मूलम्

माधवो मधुषूत्पत्त्या धवत्वाद् वा श्रियः स्मृतः।
गां विन्दतीति गोविन्दो दुःखानां हरणद्धरिः॥ 3.60 ॥

विश्वास-प्रस्तुतिः

मध्वाख्यासुरघातित्वादुच्यते मधुसूदनः।
त्रिभिः स्वैर्विक्रमैर्व्याप्त इति ज्ञेयस्त्रिविक्रमः॥ 3.61 ॥

मूलम्

मध्वाख्यासुरघातित्वादुच्यते मधुसूदनः।
त्रिभिः स्वैर्विक्रमैर्व्याप्त इति ज्ञेयस्त्रिविक्रमः॥ 3.61 ॥

विश्वास-प्रस्तुतिः

वामनो ह्रस्वतायोगाच्छ्रीधरो वहनाच्छ्रियः।
हृषीकाख्येन्द्रियेशत्वाद्धृषीकेशोऽयमीरितः॥ 3.62 ॥

मूलम्

वामनो ह्रस्वतायोगाच्छ्रीधरो वहनाच्छ्रियः।
हृषीकाख्येन्द्रियेशत्वाद्धृषीकेशोऽयमीरितः॥ 3.62 ॥

विश्वास-प्रस्तुतिः

पद्मं नाभेरभूद् यस्य
पद्मनाभस्ततः स्मृतः।
उदरालम्बि दामास्येत्य्
उक्तो दामोदरश्च सः॥ 3.63 ॥

मूलम्

पद्मं नाभेरभूद् यस्य पद्मनाभस्ततः स्मृतः।
उदरालम्बि दामास्येत्युक्तो दामोदरश्च सः॥ 3.63 ॥

विश्वास-प्रस्तुतिः

स रुद्रो रोदानाज् जातो
ब्रह्मा बृंहण-कर्मणा।
इन्द्रश्च परमैश्वर्याद्
वहनाद् वह्निरुच्यते॥ 3.64 ॥

मूलम्

स रुद्रो रोदानाज्जातो ब्रह्मा बृंहणकर्मणा।
इन्द्रश्च परमैश्वर्याद् वहनाद् वह्निरुच्यते॥ 3.64 ॥

विश्वास-प्रस्तुतिः

यमः संयमनात् पुसां वरणाद् वरुमस्तथा।
वायुर्वानात् सवात् सोम ईशश्चेष्टो जनेष्वतः॥ 3.65 ॥

मूलम्

यमः संयमनात् पुसां वरणाद् वरुमस्तथा।
वायुर्वानात् सवात् सोम ईशश्चेष्टो जनेष्वतः॥ 3.65 ॥

विश्वास-प्रस्तुतिः

आदित्योऽदितिपुत्रत्वाच्चन्द्रश्चन्दयतीति सः।
इत्येवं गुणगृत्त्योह्यैः शब्दैरेकोऽप्यनेकधा॥ 3.66 ॥

मूलम्

आदित्योऽदितिपुत्रत्वाच्चन्द्रश्चन्दयतीति सः।
इत्येवं गुणगृत्त्योह्यैः शब्दैरेकोऽप्यनेकधा॥ 3.66 ॥

विश्वास-प्रस्तुतिः

प्रतीयतेऽम्भसीवेन्दुर्बहुत्वं नास्य तावता।
यथा सर्वगतो वायुरतिसूक्ष्मो न दृश्यते॥ 3.67 ॥

मूलम्

प्रतीयतेऽम्भसीवेन्दुर्बहुत्वं नास्य तावता।
यथा सर्वगतो वायुरतिसूक्ष्मो न दृश्यते॥ 3.67 ॥

विश्वास-प्रस्तुतिः

तथा सर्वगतो विष्णुरज्ञैस्तज्ज्ञैस्तु दुश्यते।
इच्छाज्ञानक्रियाभेदात् तिस्रो वै तस्य शक्तयः॥ 3.68 ॥

मूलम्

तथा सर्वगतो विष्णुरज्ञैस्तज्ज्ञैस्तु दुश्यते।
इच्छाज्ञानक्रियाभेदात् तिस्रो वै तस्य शक्तयः॥ 3.68 ॥

विश्वास-प्रस्तुतिः

याभिर्द्वादशधा भिन्नाश्चतस्रस्तस्य मूर्तयः।
सा तु शक्तिः परा सूक्ष्मा येच्छाख्या कामरूपिणी॥ 3.69 ॥

मूलम्

याभिर्द्वादशधा भिन्नाश्चतस्रस्तस्य मूर्तयः।
सा तु शक्तिः परा सूक्ष्मा येच्छाख्या कामरूपिणी॥ 3.69 ॥

विश्वास-प्रस्तुतिः

ओतं प्रोतं यया सर्वं दृश्यते सचराचरम्।
द्विधा विभज्य साऽऽत्मानं क्रियाज्ञानप्रवर्तनम्॥ 3.70 ॥

मूलम्

ओतं प्रोतं यया सर्वं दृश्यते सचराचरम्।
द्विधा विभज्य साऽऽत्मानं क्रियाज्ञानप्रवर्तनम्॥ 3.70 ॥

विश्वास-प्रस्तुतिः

प्रकरोति जगत् कृत्स्नं स्वतन्त्रमिव तद्वशात्।
क्रियाशक्त्यापरो विष्णुः ज्ञानशक्त्या खगेश्वरः॥ 3.71 ॥

मूलम्

प्रकरोति जगत् कृत्स्नं स्वतन्त्रमिव तद्वशात्।
क्रियाशक्त्यापरो विष्णुः ज्ञानशक्त्या खगेश्वरः॥ 3.71 ॥

विश्वास-प्रस्तुतिः

तं यज्ञपुरुषं प्राहुस्तपश्छन्दोमयं खगम्।
इच्छाशक्त्या तु विज्ञेयः पुरुषोः यः परोऽव्ययः॥ 3.72 ॥

मूलम्

तं यज्ञपुरुषं प्राहुस्तपश्छन्दोमयं खगम्।
इच्छाशक्त्या तु विज्ञेयः पुरुषोः यः परोऽव्ययः॥ 3.72 ॥

विश्वास-प्रस्तुतिः

ज्ञानपूर्वं प्रवर्तेत क्रिया कर्ता ततः पुनः।
ज्ञानाधारा क्रिया ज्ञेया न चैका संप्रवर्तते॥ 3.73 ॥

मूलम्

ज्ञानपूर्वं प्रवर्तेत क्रिया कर्ता ततः पुनः।
ज्ञानाधारा क्रिया ज्ञेया न चैका संप्रवर्तते॥ 3.73 ॥

विश्वास-प्रस्तुतिः

क्रियाज्ञानप्रभेदेन शक्तिरेका परस्य नुः।
द्विधा व्याप्य जगत् कृत्स्नं चराचरमवस्थिता॥ 3.74 ॥

मूलम्

क्रियाज्ञानप्रभेदेन शक्तिरेका परस्य नु।
द्विधा व्याप्य जगत् कृत्स्नं चराचरमवस्थिता॥ 3.74 ॥

विश्वास-प्रस्तुतिः

शक्तिशक्तिमतोर्यस्मान्न भेदोऽस्ति परस्परम्।
अभिन्नं तेन बोद्धव्यं क्रियाज्ञानद्वयं बुधैः॥ 3.75 ॥

मूलम्

शक्तिशक्तिमतोर्यस्मान्न भेदोऽस्ति परस्परम्।
अभिन्नं तेन बोद्धव्यं क्रियाज्ञानद्वयं बुधैः॥ 3.75 ॥

विश्वास-प्रस्तुतिः

एक एव त्रिधारूपो भेदेनानेन संस्थितः।
क्रिया ज्ञान तथेच्छा च त्रितयं चैकमेव हि॥ 3.76 ॥

मूलम्

एक एव त्रिधारूपो भेदेनानेन संस्थितः।
क्रिया ज्ञान तथेच्छा च त्रितयं चैकमेव हि॥ 3.76 ॥

विश्वास-प्रस्तुतिः

उपचारः स्मृतो भेद एकस्यैव महात्मनः।
खगोपेन्द्रशिवाश्चैवमभिन्नास्तेन किर्तिताः॥ 3.77 ॥

मूलम्

उपचारः स्मृतो भेद एकस्यैव महात्मनः।
खगोपेन्द्रशिवाश्चैवमभिन्नास्तेन किर्तिताः॥ 3.77 ॥

विश्वास-प्रस्तुतिः

इन्द्रियाणीन्द्रियार्थाश्च बुद्धेरेव विभूतयः।
अहङ्कारविकाराश्च जलबुद्बुदवन्मताः॥ 3.78 ॥

मूलम्

इन्द्रियाणीन्द्रियार्थाश्च बुद्धेरेव विभूतयः।
अहङ्कारविकाराश्च जलबुद्बुदवन्मताः॥ 3.78 ॥

विश्वास-प्रस्तुतिः

गोष्वप्यनेकवर्णासु यथा क्षीरैकवर्णता।
तथाऽऽश्रयेषु भिन्नेष्वप्येकरूपमवेक्ष्यताम्॥ 3.79 ॥

मूलम्

गोष्वप्यनेकवर्णासु यथा क्षीरैकवर्णता।
तथाऽऽश्रयेषु भिन्नेष्वप्येकरूपमवेक्ष्यताम्॥ 3.79 ॥

विश्वास-प्रस्तुतिः

क्षणभङ्गि जगत् सर्वं विद्ध्येतत् सचराचरम्।
तदभङ्ग्येकमेवेह यद् विष्णोः परमं पदम्॥ 3.80 ॥

मूलम्

क्षणभङ्गि जगत् सर्वं विद्ध्येतत् सचराचरम्।
तदभङ्ग्येकमेवेह यद् विष्णोः परमं पदम्॥ 3.80 ॥

विश्वास-प्रस्तुतिः

तस्येश्वरस्य चैश्वर्यात् सर्वमेतत् प्रवर्तते।
सेश्वरं हि जगत् कृत्स्नं नानीश्वरमिदं भवेत्॥ 3.81 ॥

मूलम्

तस्येश्वरस्य चैश्वर्यात् सर्वमेतत् प्रवर्तते।
सेश्वरं हि जगत् कृत्स्नं नानीश्वरमिदं भवेत्॥ 3.81 ॥

विश्वास-प्रस्तुतिः

क्षेत्रज्ञस्य बहुत्वं च वदन्त्यज्ञानमोहिताः।
न क्षेत्रज्ञबहुत्वं तु तत्त्वज्ञानां तु सम्मतम्॥ 3.82 ॥

मूलम्

क्षेत्रज्ञस्य बहुत्वं च वदन्त्यज्ञानमोहिताः।
न क्षेत्रज्ञबहुत्वं तु तत्त्वज्ञानां तु सम्मतम्॥ 3.82 ॥

विश्वास-प्रस्तुतिः

उपाधिभेदाद् ये त्वाहुर्बहुत्वं परमात्मनः।
संसरन्त्येव ते मूढा नाप्नुवन्ति परं पदम्॥ 3.83 ॥

मूलम्

उपाधिभेदाद् ये त्वाहुर्बहुत्वं परमात्मनः।
संसरन्त्येव ते मूढा नाप्नुवन्ति परं पदम्॥ 3.83 ॥

विश्वास-प्रस्तुतिः

येषां विश्वसृजोऽप्यस्य सर्वज्ञत्वमनीप्सितम्।
तैः प्रमाणप्रमेयानां सम्बन्धो नोऽवधारितः॥ 3.84 ॥

मूलम्

येषां विश्वसृजोऽप्यस्य सर्वज्ञत्वमनीप्सितम्।
तैः प्रमाणप्रमेयानां सम्बन्धो नोऽवधारितः॥ 3.84 ॥

विश्वास-प्रस्तुतिः

संस्थानिनां समुत्पत्त्या जगतो जन्म यन्मतम्।
तदीशकृतमन्योऽलं प्रकृतेर्न हि चोदने॥ 3.85 ॥

मूलम्

संस्थानिनां समुत्पत्त्या जगतो जन्म यन्मतम्।
तदीशकृतमन्योऽलं प्रकृतेर्न हि चोदने॥ 3.85 ॥

विश्वास-प्रस्तुतिः

तस्मादीशकृतं विश्वं तदूढं तन्मयं तथा।
तत्पालितं तदर्थं च तदीयं चेति गृह्यताम्॥ 3.86 ॥

मूलम्

तस्मादीशकृतं विश्वं तदूढं तन्मयं तथा।
तत्पालितं तदर्थं च तदीयं चेति गृह्यताम्॥ 3.86 ॥

विश्वास-प्रस्तुतिः

तस्येदृशस्य देवस्य प्रभावो नन्वदुर्गमः।
स्वयमेव स तं वेद यदि वा न तथा श्रुतेः॥ 3.87 ॥

मूलम्

तस्येदृशस्य देवस्य प्रभावो नन्वदुर्गमः।
स्वयमेव स तं वेद यदि वा न तथा श्रुतेः॥ 3.87 ॥

विश्वास-प्रस्तुतिः

यतो जाताऽखिला सृष्टिरियं को वेद तत् परम्।
अर्वाग्देवा हि तत्सृष्टा ब्रह्माद्या अपि मूर्तयः॥ 3.88 ॥

मूलम्

यतो जाताऽखिला सृष्टिरियं को वेद तत् परम्।
अर्वाग्देवा हि तत्सृष्टा ब्रह्माद्या अपि मूर्तयः॥ 3.88 ॥

विश्वास-प्रस्तुतिः

तथाऽपि महिमोद्देशस्तस्योक्तोऽचिन्त्यरूपिणः।
वक्ति यन्महिमानन्त्यं न ते विष्णाविति श्रुतिः॥ 3.89 ॥

मूलम्

तथाऽपि महिमोद्देशस्तस्योक्तोऽचिन्त्यरूपिणः।
वक्ति यन्महिमानन्त्यं न ते विष्णाविति श्रुतिः॥ 3.89 ॥

॥ इति विष्णुसंहितायां तृतीयः पटलः ॥