उमासंहिता ॥
लोचनैवमुमुक्षूणां मनुष्याणां काश्यां श्रोत्रिय
तस्योपदेशमन्त्रेण मुक्तिं विन्दन्ति मानवाः ।
उच्चार्य * * * * * * * * * * मानवः ॥
अमृते कथयिष्यामि इतिहासं पुरातनम् ।
अवन्ति विषये कश्चित् ब्राह्मणोवेद * * * ॥
श्रुताध्ययनसम्पन्नो विद्याधर इति श्रुतः ।
धनिनां श्रोत्रियादीनां स्वाध्यायव्रत षालिनाम् ॥
कुले * तो विशेषेण स्नानानुष्ठानतत्परः ।
स्वयमस्मै द्विजगणैर्वेदपाठ परश्च सः ॥
सत्कन्यां श्रोत्रियकुले परिणीय शुचिस्मिताम् ।
मन्दसासेति विख्यातां रामां सर्वाङ्गसुन्दरीम् ॥
दीक्षितो * न् सदाकाले जुहोतिस्म विधानतः ।
एवं भूतो द्विजवरो वेदवादबहिष्कृतैः ॥
प्। २)
कदाचित्कृतसंवादस्तत्र सङ्ख्यमरोचत ।
विहाय वैदिकान्धर्माञ्छ्रुतिस्मृत्युररीकृतान् ॥
पाषण्डैः कृत्संसर्गः परदारपरायणः ।
वेश्यापतिरभून्नित्यं द्रव्यत्याग कृतादरः ॥
एवं धनेषु गच्छत्सु विभज्य भ्रातरो धनम् ।
उपेक्षाञ्चकुरनिशं तं द्विजं वेददूषकम् ॥
नष्टेषु द्रव्यजातेषु स्वदारनिरतो भवत् ।
सापिनी वुरुजा दग्धा पञ्चत्वं गमिता भृशम् ॥
हाराम राम रामेति हारामेति मनोरमे ।
इति शब्दं स बहुधा कृत्वा सञ्चरति क्षितौ ॥
एवं काले बहुगते गतकल्मष पञ्जरः ।
रामस्मरण माहान्त्याज्जीवन्मुक्तश्च चार सः ॥
एवं भूतद्विजवरं किं कराः कालचोदिताः ।
सञ्चाल्य सर्व प्राणानि क्रष्टुमु * * * * * ॥
कृष्यमाणे तेजसितु त * वविलयं गतः ॥
प्। ३)
विद्याधरो न दृष्टोत्र क्वगतो ब्राह्मणाधमः ।
इति शक्तितचित्तास्ते मा गतेस्म परस्परम् ॥
मार्गित्वा बहुकालं तु दूतास्स्विन्न मुखा भृशम् ।
राज्ञे निवेदयामासुर्ब्राह्मणानधनक्रियाम् ॥
भो भो प्रेत पते युष्मद्गणकस्य मुखाच्छ्रुतम् ।
वाक्यमाकर्ण्य वेगेन गतास्म ब्राह्मणान्तिकम् ॥
महान्तं यत्नमास्थाय ब्राह्मणग्रहणे सति ।
न तत्र किञ्चिन्न दृष्टं निराशा जीविते वयम् ॥
अस्मान्नुकं स्वराजेन्द्र तवाज्ञाकारिणो वयम् ।
इत्युक्त * * * * न चित्रगुप्तमथाह्वयत् ॥
यमः-
चित्रगुप्त त्वया सर्वं ज्ञातं सर्वज * * * ।
अद्य विद्याधराख्यस्य ब्राह्मणस्य विचेष्टितम् ।
आलोच्या च * * णक पक्षपातविवर्जितम् ॥
पत्रजालं परं मृश्य चित्रो दण्डधरं वचः ।
प्रोवाच नाथ मद्वाक्यं यथावच्छृणु सूर्यज ॥
जन्मप्रभृति विप्रेण परदाराभिमर्शनम् ।
वृषलीगमनं चैव शूद्रस्त्रीगमनं तथा ॥
रजकीगमनं चैव नर्तकी गमनं तथा ।
प्। ४)
वंशकाराङ्गनाञ्चापि सुधाकाराङ्गनां तथा ॥
सूचिकारस्य ललनां प्रियां क्राकचिकस्य च ।
वृषलीगमनं चापि कृतं रागव्यशाद्भृशम् ॥
आरूढपति ताज्जाता वर्धकीवारयोषितः ।
रजसोदर्शनात्पूर्वमनूढा ब्राह्मणाङ्गना ॥
ऊढा च समगोत्रेण वृषल्यः कीर्तिता बुधैः ।
यः करोत्येकरात्रेण वृषलीसेचनन्द्विजः ॥
सभैक्ष भुञ्जपन्नित्यं त्रिभिर्वर्षैर्विशुध्यति ।
वृषलीगमनाद्विप्रः कुम्भीपाकेषु पच्यते ॥
परदारान्निगमनात्कालसूत्रेषु पच्यते ।
अयं विद्याधरो नाम पापिनामग्रसम्भवः ॥
अभक्ष्य भक्षणं चक्रेग्रञ्च नानां च भक्षणम् ।
खट्वाङ्ग कबकं चापि शुग्रुकं लशुनं तथा ॥
निष्पावभक्षणं चापि व्याघ्र पर्णस्य भक्षणम् ।
उपोतकीभक्षणं च मौर्वा भक्षणमादरात् ॥
एवमादीनि पापानि कृतवाञ्छ्रद्धया सह ।
एकोद्दिष्टं नवश्राद्धं स पिण्डप्रेत भोजनम् ॥
गोदानग्रहणं चापि कृतवान्विप्रपातकी ।
वेदमुच्चार्य वादेन दानग्रहण तत्परः ॥
यतीनां निन्दकश्चायं महतां दूषकस्तथा ।
प्। ५)
एवमादीनि पापानि नित्यमाचरते मुधा ॥
तस्माद्विदेहनिर्वाण पदवीं नार्हते द्विजः ।
एवमुक्तेन चित्रेण कालो दण्डधरोरुष ॥
दण्डमुद्रां च सङ्गृह्य वेधसोन्तिकमभ्यगात् ।
सत्यलोकं गतो राजा प्रेतानां कार्यसाधकः ॥
प्रणम्य सत्यलोकस्थं चतुराननमस्तुवत् ।
जय वाणीश लोकानां सृष्टिकर्म विशारद ॥
चतुर्मुखदयासिन्धो वेदवेद्य जगन्मय ।
सृष्टिस्थित्यन्त करणे ब्रह्मविष्ण्वीशनामक ॥
विज्ञापनं शृणुष्वाद्य दासस्य तव मारिष ।
एवं स्तुतो दण्डधरेण देवो
वाणीश्वरी वेदसमूहयोनिः ।
प्रोवाच कालं परमासनस्थः
संस्तूयमानोऽप्सरसां समूहैः ॥
इत्युमा संहितायां द्वितीयोध्यायः ॥
॥ अथ तृतीयोध्यायः ॥
उमा-
स्रठुरन्तिकमासाद्य किं कृतं रविसूनुना ।
वदस्व कृपया मह्यं यद्यद्गुह्यं महेश्वर ॥
ईश्वरः-
शृणु देवि प्रवक्ष्यामि विप्रस्य चरितं महत् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नरकादपि ॥
विद्याधराख्यो विप्रषू सायुज्यं मुक्तिमभ्यगात् ।
ब्रह्मा-
धर्मराज प्रवक्ष्यामि विप्रस्य चरितं महत् ॥
यस्य स्मरणमात्रेण जीवन्मुक्तो भविष्यति ।
अयं ब्राह्मणदायोदो रामनाम सदा स्मरन् ॥
सहस्रनाम सदृशं रामनाम वरानने ।
कोटियज्ञसमं रामचन्द्रो भद्रेत्ययं मनुः ॥
नमोन्तश्रुतिना प्रोक्तो वेदान्तेषु यथा क्रमम् ।
रामाय रामचन्द्राय रामभद्राय वा मनुम् ॥
यावज्जीवञ्जपन्मर्त्यो जीवन्मुक्तो न संशयः ।
तस्मात् कौशिकगोत्रोयं जजाप परमं मनुम् ॥
प्।७)
चित्रगुप्तः-
अनेन सर्वपापानि बुद्धिपूर्वकृतानि च ।
बुद्धि पूर्वगते पापे प्रायश्चित्तं न विद्यते ॥
परदार परद्रव्य परान्न ग्रहणे रतः ।
वेदवादत्रिषेणैव गृहीतं धनसञ्चयम् ॥
गवां प्रतिग्रहं कृत्वा विक्रयं कृतवानयम् ।
दुर्भोजनविधौ सक्तो दुष्प्रति ग्रहणे रतः ॥
अजस्रं विषयासक्तश्शौचाचारबहिष्कृतः ।
ब्रह्मा-
रा शब्दोच्चारणे जाते वक्त्रात्पापस्य निर्गमः ।
मकार स्मरणे जाते भस्मभावं व्रजन्ति ते ॥
ब्रह्महत्या सहस्राणि स्वर्णस्तेयशतानि च ।
गुरुदारशतं चापि सुरापानशतं तथा ॥
तत्संयोगिशतं चापि मुच्यते रामदर्शनात् ।
औपासनाग्निरहिताः पञ्चयज्ञ पराङ्मुखाः ॥
सन्ध्यावन्दनहीनाश्च शुद्धा रामस्य कीर्तनात् ।
अभक्ष्यभक्षणासक्ता वृषलीगमने रताः ॥
उच्चार्य सततं रामशब्दं मुक्ता न संशयः ।
गच्छन्तिष्ठन्स्वपन्नृत्यन् भुञ्जानोवापि मानसः ॥
मुच्यते रघुनाथस्य नाम्नां कीर्तनो द्विजः ।
प्। ८)
भोजनादौ स्मरन्मन्त्रं प्रतिग्रासं यथारुचि ।
उच्चार्य रामविजयं मुच्यते क्षत्रियोहंसः ॥
रघुनाथस्य नामानि यो गृह्णाति नरो भुवि ।
विमुक्त सर्वपापस्स विष्णुलोके महीयते ॥
रामायणस्य श्लोक्यं वा पादं वा पदमेव वा ।
भुक्त्यन्तेषु प्रयुञ्जानो ब्रह्मभूयाय कल्पते ॥
रामायण कथामेव ये भृण्वन्ति नरोत्तमाः ।
विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम् ॥
ये शृण्वन्ति कथां मर्त्या राघवेन्द्र जयार्थिताम् ।
पादं वा सर्गमेकं वा काण्डमेकमथापि वा ॥
अश्वमेधसहस्राणां फलं विन्दन्ति मानवाः ।
चतुर्विंशत्सहस्राणां श्लोकानामुक्तवा नृषिः ॥
तथा सर्गशतान्पञ्च षट्काण्डानि तथोत्तरम् ।
कृत्स्नं रामायणं यो वा शृणोति श्रावयेत वा ॥
सर्वबन्धविनिर्मुक्तो ब्रह्मभूयाय कल्पते ।
अपुत्रो लभते पुत्रं कन्या सत्पतिमाप्नुयात् ॥
विद्यार्थी लभते विद्यां वित्तार्थी धनवान्भवेत् ।
स्त्रियो रजस्वला श्रुत्वा पुत्रान् सूयुरनुत्तमान् ॥
श्रुत्वा रामायणमिदं बन्ध्या पुत्रमवाप्नुयात् ।
कटुम्बस्य च वृद्धिस्स्याद्धनधान्य समृद्धिता ॥
प्। ८)
मित्राणां चैव वृद्धिस्स्यात् पुत्राणां च तथा भवेत् ।
आनुकूल्यं कलत्रेषु श्रवणादेव जायते ॥
महादान प्रतिग्रहं महापापहरं भवेत् ।
चतुर्विंशति वाराणामादृत्या नियमेव च ॥
षडब्दकृच्छ्रे यत्पुण्यं यत्पुण्यं सेतुदर्शने ।
तीर्थाचल प्रेक्षणे च तत्पुण्यं श्रवणाद्भवेत् ॥
ज्योतिष्टोमादि यज्ञानां केषाञ्चिदधिकारिता ।
श्रीमद्रामायणे काव्ये सर्वेषामधिकारिता ॥
अर्थित्वादिविशिष्टस्य कर्मण्यधिकृतिर्मता ।
नित्यादि साधनोपायो ब्रह्मज्ञाने यथा भवेत् ॥
तद्वत्साधनसापेक्षा नास्ति रामायणश्रुतौ ।
श्रुत्वा रामायणं काव्यं मुक्तिभाग्जायते नरा ॥
गायत्री वेदमातृत्वाद्यथा श्रेष्ठतमा मता ।
तद्वद्रामायणाख्यानं चतुर्विंशति वर्णकम् ॥
धर्ममर्थञ्च कामञ्च गायत्री जपतो लभेत् ।
मोक्षञ्च श्रवणादेव विन्दन्ति मनुजा भुवि ॥
संसारतापयुक्तानां जन्तूनां हतचेतसाम् ।
श्रीमद्रामायणाख्यानपीयूषं भेषजं भवेत् ॥
दुरान्न दग्धजिह्वानां दुर्दानहतचेतसाम् ।
दुस्सङ्गहतचित्तानां कलिपाशावपाशिनाम् ॥
प्। १०)
देवपूजाविहीनानां श्रौतस्मार्ता पवर्जिनाम् ।
पितृपूजाविहीनानां वियुक्ताग्न्यर्चिनामपि ॥
श्रीमद्रामायणकथा सर्वपापप्रणाशिनी ।
श्रीमद्रामायणं मर्त्या ये शृण्वन्ति महीतले ॥
सर्वपाप विनिर्मुक्ता विष्णुमन्दिर गामिनीः ।
इति दण्डधर प्रख्यानुक्तवांश्चतुराननः ॥
श्रुत्वा धर्मो विश्वसृजोक्तवाक्यं
निवर्त्य लोकाच्चतुराननस्य ।
भृत्यैर्वृतस्संयमिनीति सञ्ज्ञां
पुरीं गतो विश्वसृजं प्रणम्य ॥
इत्युमा संहितायां तृतीयोध्यायः ॥
॥ अथ चतुर्थोध्यायः ॥
उमा-
भूयोऽपि श्रोतुमिच्छामि रघुनाथस्य वैभवम् ।
लङ्कायां रावणं हत्वा प्रतिष्ठाप्य विभीषणम् ॥
किं कृतं रघुनाथेन तत्सर्वं वक्तुमर्हसि ।
शिवः-
हत्वा दशग्रीव मथानि मध्ये
आरुह्य यानम्मनसा विसृष्टम् ।
धात्रा त्रिकूटाचलसन्निविष्टे
लङ्कापुरे रावण सोदरञ्च ॥
कृत्वा राजानमव्यग्रं दृष्ट्वा रामो महेश्वरम् ।
ऋक्षगोपुच्छहरिभिः रक्षोभिः परिवारितः ॥
लिङ्गं रत्नमयं तत्र प्रतिष्ठाप्य महेशितुः ।
ब्रह्महत्यापनोदार्थं लोकानुग्रहकाम्यया ॥
दृष्ट्वा रत्नमयं लिङ्गं रामनाथेति विश्रुतम् ।
विधूत सर्वपापास्ते शिवलोके महीयते ॥
प्रतिष्ठाप्य महालिङ्गं ब्रह्महत्यापनुत्तये ।
सेतुमध्ये स्थितं लिङ्गं चामीकर विनिष्ठितम् ॥
प्। १२)
रामनाथेति विख्यातं सर्वपापापहारकम् ।
दृष्ट्वा माहेश्वरं लिङ्गं महारजतनिर्मितम् ॥
अविद्यापाशमुक्तास्ते सायुज्यपदगामिनः ।
वार्धेरुत्तरकूले च सैकतं लिङ्गमुत्तमम् ॥
स्थाप्य लोकस्य रक्षायै महापातकशान्तये ।
रामेण स्थापितं लिङ्गं गन्धमादनमस्तके ॥
ब्रह्महत्यादि पापेभ्यो दृष्ट्वा मुच्येत मानवः ।
कृच्छ्रं वा द्वादशाब्दं वा ब्रह्महत्या निवृत्तये ॥
हयमेधक्रतुर्वापि रामसेतोः प्रदर्शनम् ।
मुनिभिर्वेद तत्वज्ञैस्स्थितं लोकस्य गुप्तये ॥
षष्टिकृच्छ्रसमं प्राहुश्श्रीशैलस्यावलोकनम् ।
तद्वद्रामेश्वराख्यस्य दर्शनान्मुनयोविदुः ॥
भक्त्वा सेतुं त्रिः प्रकारं तूणीराग्रेण राघवः ।
पुष्पकाशे समारुह्य जगाम दिशमुत्तराम् ॥
श्रीतीर्थ शिखरीन्द्रश्य शिखरे समुपस्थिते ।
मध्याह्न समये रामः पुष्पकादवरुह्य च ॥
आकाशगङ्गामावाह्य पूजांशम्भोश्चकार ह ।
गत्वा तीर्थगिरिं मर्त्यः स्नात्वा मन्दाकिनी जले ॥
दृष्ट्वा तीर्थगिरीशस्य लिङ्गं मुक्तो भविष्यति ।
फनर्विमानमारुह्य किष्किन्धागिरिगम्बरे ॥
प्। १३)
पुष्पकादवरुह्याशु स्नात्वा नद्यां शुभोदके ।
विरूपाक्षाभिधानं च मां पूजयामास शास्त्रतः ॥
किरातो बहुकालं मां मुक्त्यर्थं समपूजयत् ।
सवालिर्वानरेन्द्रो भूद्धत्वा वालिनमाहवे ॥
रामाख्येन मया तस्मै मुक्तिर्दत्ता शराग्निना ।
भरद्वाजाश्रमं गत्वा रामस्सत्यपराक्रमः ॥
भरतस्य सकाशाय प्रेषयामास मारुतिम् ।
श्रुत्वा हनूमतो वाक्यं भरतस्सत्य विक्रमः ॥
पौरैरनुगतो दूरं रामं प्रत्युद्ययौ पुरात् ।
रामोऽपि भ्रातृभिस्सार्धमभिषिक्तो वरासने ॥
न्यायेन कारयामास राज्यस्य परिपालनम् ।
शतं क्रतूनामाजह्ने विधिवद्भूरिदक्षिणैः ॥
वाजपेय शतैरिष्ट्वा तथा बहुसुवर्णकैः ।
प्रत्यहं दशसाहस्रं गवां दानमकल्पयत् ॥
ब्राह्मणानां विशिष्ठानां प्रत्यहं कोटि सङ्ख्यकम् ।
सुवर्णमददाद्रामो ब्रह्मार्पणधियादरात् ॥
सृष्टपुष्टजनपदा ब्राह्मणा वेद पालिनः ।
राजानो बहुवीर्याढ्यो वैश्याबहुधनाधिपाः ॥
शूद्रा दानपराश्चासन् रामे राजनि भूतले ।
एवं स्थितो राघवाणां वरिष्ठो
प्। ११४)
दिवारात्रं ब्रह्महत्याकुलोभूत् ।
तस्योन्मादं चिन्तयानो दन्ते
मित्रावरुणं दुद्भवं प्राहवाक्यम् ॥
रामः-
वीरहस्यापनोदार्थं वदोपायं गुरो मम ।
वसिष्ठः-
शृणु राघव राजेन्द्र सर्वपापापनोदकम् ।
पुरा कोलाहलो नाम वृषलः कालचोदितः ॥
खड्गेन पितरं हत्वा गृहीत्वा मातरं ययौ ।
वेदारण्यं समासाद्य सरंसीत्काममोहितः ॥
सोपि वेदवनेशस्य प्रभावात्क्षेमृणौरवात् ।
वेदान्त ज्ञानमासाद्य शिवानुग्रह हेतुतः ॥
विमुक्तिं परमां प्राप्त इति शास्त्रेषु शुश्रुमः ।
त्वन्तु वेदवनं गत्वा समाराध्य वृषाकपिम् ॥
नत्वा गुरुं शमीमूले मुच्यतें हो गणाद्भवान् ।
इत्युक्तोरुन्धती भर्त्रा रामो भ्रातृगणैस्सह ॥
मातृभिस्सीतया सार्धं बलेन महतावृतः ।
वेदारण्यं समुद्दिश्य ययौ पुष्पविमानतः ॥
वसिष्ठो वामदेवश्च जाबालिरथकाश्यपः ।
भरद्वाजो गौतमश्च ऋषयो ब्रह्मवादिनः ॥
प्। १५)
शिष्यैः प्रशिष्यैस्सहिता रामस्य त्वनुयायिनः ।
धृष्टिर्जयन्तो विजयस्सिद्धार्थोह्यर्थ साधकः ॥
अशोको मन्त्रपा * श्च सुमन्त्रश्च ययौ द्रुतम् ।
ऋक्षवानरगोपुच्छैस्संयुतो वानराधिपः ॥
रामपादावलोकार्थं गतो वेदवनं प्रिये ।
विभीषणस्समाकर्ण्य खेर्वंशविवर्धनम् ॥
आगतं सेतु शिरसि तूर्णमभ्यर्णमभ्यगात् ।
राम इन्दीवरश्यामः पुष्पकादवरुह्य च ॥
नियमेन समागत्य ब्रह्मतीर्थे वगाह्य च ।
वेदतीर्थे ततस्स्नात्वा स्नात्वा तु मणि कर्णिकाम् ॥
लिङ्गं स्वायम्भुवं दृष्ट्वा विमुक्तो वीरघातकात् ।
स्नात्वा तीर्थवरे तत्र सन्तर्प्य पितृदेवताः ॥
ब्राह्मणेभ्यो धनं दत्वा महादानान्यशेषतः ।
रत्नं मणिं सुवर्णं च गजदानानि भूरिशः ॥
रामचन्द्रपुरन्नाम बहुग्राममकल्पयत् ।
स्वनाम्ना स्थापयामास लिङ्गं सर्वार्थ सिद्धिदम् ॥
सकृत्तद्दर्शनादेव मुच्यते सर्वपातकात् ।
महापातक युक्तो वा युक्तो वा क्षुद्रपातकैः ॥
श्रीरामलिङ्गमासाद्य जीवन्मुक्तो भविष्यति ।
लक्ष्मणस्स्थापयामास लिङ्गं पापापनुत्तये ॥
प्। १६)
हनुमानपि तत्रैव शाम्भवं लिङ्गमुत्तमम् ।
स्वनाम्ना स्थाप्य सम्पूज्य विमुक्तः पातकौघतः ॥
सह्यजायास्तटे रम्ये ग्रामं बहुगुणान्वितम् ।
कृत्वा वायूद्भवः पापाद्विमुक्तो रक्षसां वधात् ॥
पञ्चाशतं महालिङ्गं कावेरी पुण्यरोधसि ।
तत्र तत्र प्रतिष्ठाप्य पूजयामास राघवः ॥
पम्पानद्यास्तटे वापि सुब्रह्मण्य नदी तटे ।
तथा क्षुरनदीतीरे पेण्णातीरे तथैव च ॥
गोदावर्यास्तटे रम्ये रेवानद्यास्तटेषु च ।
तत्र तत्र प्रतिष्ठाप्य पुण्यदेशेषु राघवः ॥
न्यायेन कृतवान्रामो राज्यस्य परिपालनम् ॥
॥ इत्युमासंहितायां चतुर्थोध्यायः ॥
॥ अथ पञ्चमोध्यायः ॥
ईश्वरः-
शृणु वक्ष्यामि हे देवि बालकाण्ड कथाफलम् ।
तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ॥
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ।
इदं श्रुत्वा नरो भक्त्या तपस्सिद्धिमवाप्नुयात् ॥
स्वाध्यायनिरतानां च फलं प्राप्नोति मानवः ।
दुरन्न भक्षणान्मुक्तः पूतो भवति नित्यशः ॥
श्रुत्वा सङ्क्षेपमाख्यानं प्रत्यहं श्रावयेत् वा ।
पठेद्वा प्रत्यहं मर्त्यो ब्रह्मभूयाय कल्पते ॥
भुक्त्यन्ते जपतां देवि सङ्क्षेपकथनं महत् ।
क्षीयन्ते सर्वपापानि कृष्णपक्षे यथाशशी ॥
धनधान्य समृद्धिश्च पुत्रवृद्धिस्तथैव च ।
क्षेत्रारामाभिवृद्धिश्च भविष्यति न संशयः ॥
नियमेन च संयुक्तः फलकामनया युतः ।
जपन्सत्वाच्य कृच्छ्राशीति फलं लभेत् ॥
द्वितीयश्रवणादेवमननोक्तफलं लभेत् ।
अन्येषां श्रवणादेव निदिध्यासफलं लभेत् ॥
प्। १६)
तानिषाद प्रतिष्ठा त्वमगमश्शाश्वतीस्समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥
इमं श्लोकं प्रथमतो ब्रह्मणा प्रहिता सती ।
वाणी स्वयमृषेर्वक्त्रान्निस्ससार कुतूहलात् ॥
तस्मादिदं बालकाना पाठ्यमक्षरतः पुरा ।
कृत्स्नशास्त्रेषु निपुणस्सर्व देवेषु वल्लभः ॥
वाग्मिनां प्रथमो भूत्वा लोकेषु विचरिष्यति ।
सर्वा पूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा ॥
प्रजापतिमुपादाय नृपानां जयशालिनाम् ।
येषां स सगरो राजा नामधर्मपरायणः ॥
इक्ष्वाकूणां महावंशे रामो राजा भवित्क्षितौ ।
महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥
वतदिं वर्तयिष्यामि सर्वं निखिलमादितः ।
धर्मार्थकामसहितं श्रोतव्यमनसूयया ॥
अयोध्यावर्णनं श्रुत्वा मुच्यते सकलाघतः ।
दीर्घायुषो नरास्सर्वे धर्मार्थफल भागिनः ॥
राज्ञो गुणोक्ति श्रवणाद्राजदोषात्प्रमुच्यते ।
मन्त्रिणां महिमानोक्त्या मन्त्री मुच्येत किल्विषात् ॥
नाध्यगच्छद्विशिष्टं वा तुल्य वा शत्रुमात्मनः ।
इति शृण्वन्ति ये मर्त्यास्तेषां क्रोधादयो न हि ॥
प्। १९)
तस्य त्वेवं प्रभावस्य इत्यादिग्रन्थविस्तरैः ।
परस्य ब्रह्मणस्सूक्तिमिति स्यादिति चिन्तनम् ॥
सरय्वाश्चोत्तरेत्युक्त्वा वाक्यानां विदिषा मता ।
ऋश्य शृङ्गगुणाख्यानाच्छान्त्यादि गुणकीर्तनम् ॥
अनेनानयनार्थाय वारमुख्यास्स्वलङ्कृताः ।
प्रेषिता रोमपादेन रूपयौवन पालिनः ॥
तासां वश्ये मुनिरभूत्का कथा प्राकृते जने ।
स्त्रीणां समक्षे वस्तव्यं संसारभय भीरुभिः ॥
न जातु तासां सम्पर्कः पतनायैव केवलम् ।
रूपं गुण क्षयं चैव बलं प्रज्ञानमेव च ॥
आयुः कीर्तिञ्च नारीणां नाशयत्येव केवलम् ।
ऋषेरभ्यागमादृष्टिर्जायते कथनाद्भृशम् ॥
अवग्रह विनाशाय ब्राह्मणान्सम्यगर्चयेत् ।
शान्तापाणिं प्रत्यगृद्धाद्धर्मद्विधिवत्प्रीतिपूर्वकम् ॥
कुलीना रूपसम्पन्ना शान्त्यादिगुण संयुता ।
गृहकर्मणि दक्षा च पतिशु श्रूषणे रता ॥
यस्य स्याद्गेहिनी नारी सर्वार्थान्लभते हि सः ।
धर्ममर्थं च कामञ्च मोक्षञ्च त्रिपुरेश्वरि ॥
यत्रानुकूल्यं दम्पत्योस्त्री वर्गस्तत्र वर्धते ।
सनत्कुमारोपाख्यानम्मन्त्रिप्रवरभाषितम् ॥
श्रुत्वा नरो मोक्षकामी कैवल्य पदमाप्नुयात् ।
रोमपादपुरे विप्रं द्रष्टुकामेन भूभुजा ॥
तत्सकाशि परिप्राप्ति श्रवणाद्गुरुमान्भवेत् ।
सर्वथा प्राप्स्यसे पुत्रांश्चत्वार इति सङ्ख्यया ॥
यमैवैषेति वाक्यार्थः कथितः कविना पुरा ।
यज्ञेनेति श्रुतेरर्थो यज्ञोप क्रमणोद्भवेत् ॥
एतस्मिन्नन्तरे देवा यज्ञभागार्थमागताः ।
ब्राह्मणमग्रतः कृत्वा क्षिराब्धेस्तटमन्तरम् ॥
गत्वा श्रुत्युक्तमार्गेण श्रुत्वा चक्रधरं हरिम् ।
प्रार्थयां चक्रिरे राजन्रावणेन भृशार्दिताः ॥
देवाः-
नमस्ते विश्वगुप्ताय शङ्खिने चक्रिणे नमः ।
सप्ताश्वलोचनाय त्वं सप्तसामीरभिष्टुतः ॥
सप्तार्चित तवक्त्राय सप्तलोकैकनायक ।
सप्तसालप्रभेत्रे ते सप्तमालाय ते नमः ॥
इति स्तुतो देवगणेन देवान्
श्रीशार्गधन्वा ज्वलदप्रकाशः ।
आलोक्यवृन्दन्दिवषद्गणानां
प्रोवाच गम्भीरतर स्वरेण ॥
हरिः-
प्। २१)
भो भोमरा ब्रूत किमर्थमत्र
क्षीराम्बुधेस्तीरमतीवखिन्नाः ।
उपेत्य धात्रावलसूदनेन
प्रचेतसा दण्डधरेण देवाः ॥
नमस्ते देव देवेश शङ्खचक्रगदाधर ।
विज्ञापनं दिविषदामनुग्राह्या यदि प्रभो ॥
श्रुत्वा चेतसि निश्रित्य तत्साधय दयानिधे ।
पुलस्त्यवंशप्रभवो रावणो नाम राक्षसः ॥
गोकर्णे त (य) साराध्य चतुर्वक्त्रममुं पुरा ।
लब्ध्वा वरन्दशग्रीवो लोकपीडापरायणः ॥
विजित्य वज्रिणं कालं पाशिय क्षेश्वरादिकान् ।
वसूनि बहुधा हृत्वा भुङ्क्ते लङ्काह्वये पुरे ॥
वह्निरान्धसिको जातश्श्वसनो गृहमार्जुकः ।
वरुणो जलवाहस्तु तुम्बुरुर्गायकोऽभवत् ॥
गुरुः प्रत्यहमासाद्य दिनशुद्धिं वदत्यसौ ।
पुष्पदन्तावस्य गृहे दीपस्तम्भाविव स्थितौ ॥
गन्धर्वाप्सरसां मुख्या राजर्षीणां प्रिया अपि ।
नागानां मनुजाताना कन्यकाश्चेदिका भवन् ॥
शुची गृहीतु कामोसा देवमातुश्च कुण्ड क्ले ।
छत्रं च पाशहस्तस्य ग्रहणे कृतकौतुकः ॥
प्। २२)
विमानं पुष्पकन्नाम कुबेरस्या ग्रहीत्पुरा ।
एवमास्ते दशग्रीवो लोकपीडापरायणः ॥
तं हत्वा राव(ण)ञ्जन्मे अस्मन्रक्षस्व माचिरम् ।
भवन्तं शरणं प्राप्ता नान्यो गतिरिहास्तिनः ॥
विष्णो पुत्र त्वमागच्छ कृत्वात्मानञ्चतुर्विधम् ।
रावणस्य विनाशाय रावणेर्निधनाय च ॥
लवणस्य वधार्थाय गन्धर्वाणां वधाय च ।
कर्तव्यन्निधनं देव चतुर्णां देवशत्रुणाम् ॥
श्रीहरिः-
जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ।
उपायः को वधे तस्य राक्षसाधिपतेस्सुराः ॥
श्रीमद्रामावतारेषु अश्वत्क्रियते मया ।
तत्र शङ्का न कर्तव्या सर्वज्ञेनापि पृच्छते ॥
इति द्योतयितुं विष्णुस्सम पृच्छन्मरुद्गणान् ।
केनोपायेन तस्य स्याद्वधो लोकाहितैषिणः ॥
जन्माय या मोहितस्तु मनुष्यान्समुपेक्षते ।
अन्यथा तस्य हननं न भवेद्यत्र कुत्रचित् ॥
पुरा कदाचित्केना कृतो युद्धो महत्तरः ।
पुरा पुष्पकमारुह्य विचचार ससैनिकः ॥
अक्षोहिणी सहस्रेण चतुर्भिः परिवारि(तः) ।
प्। २३)
युद्धोन्मत्तो दुराधर्षस्साचिवैः परिवारितः ॥
मारीचेन प्रहस्तेन विरूपाक्षेण रक्षसा ।
वज्रदंष्ट्र पिशाचाद्यैर्निकुम्भेन बलीयसा ॥
कुम्भे निकुम्भात्येन शोणिताक्ष प्रजंस्थिना ।
युध्येन्मत्तेन मत्तेन दवान्तकयुतो बली ॥
नागलोकं समासाद्य नागानां विजयं व्यधात् ।
एतस्मिन्नन्तरे शेषो मदन्तिकमुपागतः ॥
नागस्य रक्षणार्थाय दक्षोहन्तार्क्ष्य वाहनः ।
तेनासीज्जन्यमतुलं लोकक्षयकरं महत् ॥
तस्मिन्सुदारुणे युद्धे शस्त्रं कोटि रवि प्रभम् ।
तद्वधार्थम्महावेगात्प्रयुञ्जे रणमूर्धनि ॥
तेन वक्षस्य भिहितश्चचालन ममारसः ।
वरदा नवशात्स्रष्टु खध्यसृसर्व देवतैः ॥
तादृशन्दुर्विनीताना महमग्रेसर युधि ।
हत्वाभयं प्रदास्यामि रघूणामन्वयेऽमले ॥
भूत्वा नखरः कालं सचिरं परिपालये ।
इत्युक्त्वा देवता विष्णुस्तत्रैवान्तरधीयत ॥
एतस्मिन्नन्तरे राजा साकेत पुरनायकः ।
पुत्रार्थमिष्टिमकरोद्धयमेधा दनन्तरम् ॥
महाभूतसमुत्थानं ये शृण्वन्ति महीतले ।
प्। २४)
तेषां भूतादिरोगेभ्यो नास्ति पीडा कदाचन ।
नृपाङ्गनानां राज्ञा तु पायसस्य प्रभेदनम् ॥
शृणोति या स्त्री पुष्पाढ्या पुत्रं सा लभते चिरात् ।
औषधग्रहणं श्रुत्वा पुत्रार्थं यासभर्तृका ॥
करोति लभते नारी पुत्रं वंशविवर्धनम् ।
प्राप्ते यूपोछ्रये तावदित्यादि ग्रन्थविस्तरम् ॥
श्रुत्वा यज्ञायुतफलं प्राप्नोति श्रद्धसान्वितः ।
ब्रह्महामुच्यते पापात्पितृद्रोही च मुच्यते ॥
सुरापानरतो विप्रस्तथैव गुरुतल्पगः ।
प्रकीर्णकदियुक्ताश्च मुच्यते श्रवणादिह ॥
प्राचीं होत्रेत्युपक्रम्य ये श्रवन्ति च दक्षिणाम् ।
तेषां कर्म सवैगुण्यं क्राम्यत्येव न संशयः ॥
कौसल्याजनयत्पुत्रं सर्वलक्षणलक्षितम् ।
चैत्रे मासि सिते पक्षे नवम्यामुच्चकेरवौ ॥
पुनर्वसुदिने मध्ये लग्ने कर्कटकाभिधे ।
कौसल्याजनयत्पुत्रं विष्णोरर्धसमन्वितम् ॥
साक्षाद्विष्णोश्चतुर्भागं भरतं कैकयीसुतम् ।
अजीजनत् सुमित्रा च विष्णोरर्धसमन्वितौ ॥
पुत्रौ लक्ष्मणशत्रुघ्नौ जनयामास मागधी ।
पुष्येजातस्तु भरतो मीनलग्ने प्रसन्नधीः ॥
प्। २५)
सर्पर्क्षे लक्ष्मणो जातश्शत्रुघ्नोह्यनुजो बली ।
श्रीमद्रामजयन्तीति भण्यते नवमी तिथिः ॥
उपवासं हरेः पूजां रात्रौ जागरणं तथा ।
कृत्वा नवम्यां भूलोकाद्विष्णुमन्दिरगामिनः ॥
नवमी चाष्टमी विध्या त्याज्या विष्णुपरायणैः ।
दशम्यामुपवासेन कोटियज्ञफलं लभेत् ॥
अष्टपत्रं समालिख्य मध्ये श्रीराममालिखेत् ।
मात्रा सह प्रपञ्चस्य गुप्त्यर्थं नररूपिणम् ॥
पूर्वे तु भरतं पूज्य हरेरंशं सुदर्शनम् ।
दक्षिणे लक्ष्मणं पूज्य शत्रुघ्नं पश्चिमे तथा ॥
उत्तरस्यान्दिशि तथा सुमित्रां केकयात्मजाम् ।
दुर्गां विनायकं चापि क्षेत्रपालं सरस्वतीम् ॥
कोणेषु पूजयेद्भक्त्या विष्णुभक्तो जितेन्द्रियः ।
भक्षैर्भोज्यैर्बहुविधैरम्भा वृक्षफलैस्तथा ॥
नालिकेरैश्च पनसैरिक्षुका पडस्सोदकैः ।
पायसैर्घृतसम्मिश्रैर्गुडखण्डैश्च फाणितैः ॥
अपूपैरेकविंशभिरेकैकैः पूजनं हरेः ।
एवं रामदिने पूजां कृत्वा पारणमाचरेत् ॥
ब्राह्मणान्भोजयित्वा तु यथावित्तं यथा बलम् ।
प्। २६)
रामानुग्रहमासाद्य रामसायुज्य भागिनः ।
चान्द्रायणशते हृद्यतप्तकृच्छ्रशते तथा ॥
श्रीमद्रामजयन्त्यन्ते विन्दन्ति फलभागिनः ।
भुक्त्वा रामनवम्याख्ये तिथौ मूढमनानरः ॥
सहस्रवर्षपर्यन्तं पच्यते कालसू के ।
ब्रह्महत्यादिपापानां नवमीभयभीरुणाम् ॥
अन्नमाधारमाख्यातमामे सर्वात्मनामया ।
ब्रह्महत्यादि पापानां दृष्ट्वा शास्त्रेषु निष्कृतिः ॥
नवम्यां रघुनाथस्य भोक्तॄणां नास्ति निष्कृतिः ।
सकृच्छ्रीनवमीमर्त्य उप्रोष्य श्रद्धया सह ॥
एकादशी शतेनापि लभते मानवो ध्रुवम् ।
यथावदुपनीतास्ते वेदग्रहणतत्पराः ॥
चक्रुर्गुरुकुलावासं धनुर्विद्याविशारदाः ।
एतस्मिन्नन्तरेविप्रो गाधिवंशसमुद्भवः ॥
द्रष्टुकामो महीपालं लोकानुग्रहकाम्यया ।
प्रत्युत्थान मृषे श्रुत्वा पापान्मुच्येत मानवः ॥
ऋषेस्तवनमाकर्ण्य ऋणान्मुक्तो द्विजो भवेत् ।
राज्ञः प्रतिज्ञा श्रवणाज्जीवन्मुक्तो भविष्यति ॥
विश्वामित्रं दशरथो न रामं नेतु मर्हसि ।
इत्यू चिवास्त्री प्रकारं तस्यार्था भव ईरितः ॥
प्। २७)
जन्मान्तर सहस्रेण कृतस्य तपसः फलम् ।
रामं परब्रह्म महं क्षणार्धमपि नोत्सहे ॥
वियोक्तुं विश्वजगता मादिकर्तारमीश्वरम् ।
विडम्ब्य मानुषीलीलां पुत्रेषु जनकस्य च ॥
अहञ्जाने वसिष्ठाया जानन्ति पररूपिणम् ।
इत्युक्त ज्ञान तत्वोयमिति मत्वा विसृष्टवान् ॥
बलाबलप्रदानस्य श्रवणाद्बुद्धिमान्भवेत् ।
ताटकाख्यानमार्ण्य पापं ताडयते नरः ॥
ताटकावधमाकर्ण्या विद्यानाशमवाप्नुयात् ।
मलदाश्च करूशाश्च जातौ जनपदौ पुरा ॥
तस्याख्यानमपि श्रुत्वा मुच्यते मलपञ्चरात् ।
यथैव मघवानिन्द्रो विमुक्तश्चाभिशापतः ॥
तद्वद्विमुक्तो भविता अभिशप्तोऽभिशापतः ।
श्रुत्वा सिद्धाश्रमाख्यानं चराचरविधायिनः ॥
श्रीमन्नलिननाभस्य श्रोता सिद्धिमवाप्नुयात् ।
तपस्सिद्धिं ज्ञानसिद्धिं विद्यासिद्धिं तथैव च ॥
कर्मणां पलसिद्धिं च मनुजो लभते ध्रुवम् ।
उपक्रान्ते सप्ततन्तौ ब्रह्मर्षिप्रवरेण वै ॥
षष्ठेऽह्निसमनुप्राप्ते वेदिर्जज्वालमण्डिता ।
दक्षिणस्यान्निशिचराः प्रादुरासीन्महाबलाः ॥
प्। २८)
स तेन परमास्त्रेण मानवेन समाहतः ।
सम्पूर्णं योजनशतं क्षिप्तस्सागरसम्प्लवे ॥
उक्त्वा तपे तच्छब्दं फूकारो बोध्यतेऽधुना ।
सकराश्रवणान्मर्त्यस्संसारन्तरति ध्रुवम् ॥
रघुनाथ प्रयुक्तेन मानवेन निशाचरः ।
तद्वद प्रतिभङ्गस्स्यात्सकारपरिशीलनात् ॥
हत्वा निशाचरनिकायमथाजि मध्ये
स्नात्वा कृते त्ववभृथे कृत पुण्यभाजि ।
स्थित्वा दिनानि चतुरो मुनिबृन्दमध्ये
प्रोवाच वाक्यन्विकरन्नियमेन युक्तः ॥
॥ इत्युमा संहितायां पञ्चमोध्यायः ॥
॥ अथ षष्ठोध्यायः ॥
ईश्वरः-
रामं प्रतिकृतां पूजां प्रशंसां मुनिना कृताम् ।
श्रुत्वा प्रशस्तो भवति यथा रामो जगत्त्रये ॥
सीताविवाहकल्याणं द्रष्टुकामा महर्षयः ।
जग्मुर्जनकराजस्य पुरीमैक्ष्वाकुणा सह ॥
प्। २९)
शकटीशतमात्रन्तु प्रयाणे ब्रह्मवादिनाम् ।
अग्निहोत्रं पुरस्तुत्य श्रीराघवमनुद्रुतम् ॥
यथा मधूनि सरघा नत्यजन्त्यपसारिताः ।
तद्वन्मुनिगणास्सर्वे रघुनाथस्य दैवतम् ॥
श्रुवा कामवनाख्यानं प्रव्रन्तोऽपि शमं व्रजेत् ।
काशाङ्ख्यादि चतुर्णां हि पुरीणां गणकीर्तनम् ॥
श्रुत्वा नरो मोक्षकामी साधनं लभते उचिरात् ।
विदुषां विषयासङ्गो नास्तीति परिकीर्तितम् ।
विश्वामित्र ऋषेश्श्रुत्वा विशुद्धान्वय वर्णनम् ॥
तस्मात्कुलीन जन्मानो भवन्ति प्रतिलोमजाः ।
स्कन्दस्य जन्म परिकीर्तितं वाक्यजातं श्रुत्वा ॥
चिरेण इहलोकमनुव्रजन्ति * * * * ।
पूर्वजा भगिनी चापि मम राघव सुव्रता ॥
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ।
सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी ॥
कौशिकी परमोदारा सा प्रवृत्ता महानदी ।
एतच्छ्रुत्वा वरं कापि साध्वीनां लोकगामिनीं ॥
प्। ३०)
भवत्येव न सन्देहो नात्र कार्या विचारणा ।
एवमन्यानु या कान्तमनुगच्छति गामिनी ॥
अग्रजानां गता लोकं पूज्यतेप्सरसां गणैः ।
तिस्रः कोट्यर्धकोटी च यानि रोमाणि मानुषे ॥
तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ।
व्यालग्राही यथा व्यालं विलादुद्धरते बलात् ॥
एवं लोकान्तरं कान्तमादाय स्वर्गगामिनी ।
गृहात्पितृवनं यान्त्या पादस्पर्शनजोक्षिता ॥
कृतार्थामन्यते भूमिर्दुर्जन स्पर्शदूषिता ।
वायुस्स्वदेहशुध्यर्थं चन्द्रमा भास्करस्तथा ॥
नक्षत्राणि च भूतानि द्रष्टुं वाञ्छन्ति तां सतीम् ।
स्पृष्ट्वा कृतार्थतां प्राप्ता भवन्ति पतिमन्वगाम् ॥
गच्छेत्कान्तं ब्राह्मणानी पतिमालिङ्ग्य सादरम् ।
क्षत्रियाणी पतिं ग्राह्य कीकसं वापि कुत्रचित् ॥
वैश्या तथा शूद्रयोषित्कीकसं गात्रमेव वा ।
उद्दिश्य वा पतिं गच्छेल्लोकान्तरगतं प्रियम् ॥
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।
हुत्वा चैवाग्निहोत्राणि प्राश्यचामृतवद्धविः ॥
गत्वा गङ्गातटं रामो विश्वामित्रमभाषत ।
शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् ॥
प्। ३१)
इत्युपं क्रमगङ्गाया वैभव श्रवणादराः ।
विमुक्तबद्धास्ते सर्वे गङ्गासायुज्यमाप्नुयुः ॥
पुरा राम कृतोब्दाहश्शितिकण्ठो महातपाः ।
दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे ॥
इत्युपक्रम्य देवेन कार्तिकेय समुद्भवम् ।
सुरसेनापतित्वं च पापान्मुच्येत पातकः ॥
कुमारसम्भवंश्चैव धन्यः पुण्यस्तथैव च ।
भक्तश्च यः कार्तिकेये का * स्थ भुवि मानवः ॥
आयुष्मान्पुत्रपौत्रैश्च स्कन्दसालोक्यमाप्नुयात् ।
अथ वर्षशते पूर्णे तपसा राधितो मुनिः ॥
सगराय वरं प्रादादित्यो तद्ग्रन्थविस्तरैः ।
ब्राह्मणानां वरं दातुं सामर्थ्यं प्रतिपादितम् ॥
यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ।
श्रुत्वा गन्धर्व मेधस्य करणं भुविदारणम् ॥
ब्रह्महत्यादि पापेभ्यो मुक्ता स्युश्रद्धनराः ।
ततस्तेनाप्रमेयेन कपिलेन महात्मना ॥
भस्मराशीकृतास्ससर्वे काकुत्स्थ सगरात्मजाः ।
तस्मान्नजातु विप्राणां द्रोहं कुर्यान्मनागपि ॥
सा तस्मिन्पतिता पुण्या पुण्ये रुद्रास्य मूर्धनि ।
श्रुत्वा रुद्रस्य माहात्म्यं रुद्रलोकं स गच्छति ॥
प्। ३२)
तस्यां विसृज्यमानाया सप्तस्रोतांसि जज्ञिरे ।
उमा-
त्यक्ता जटाचूडतटाद्भगीरथ तपः फलात् ।
कथं तस्य रथं त्यक्त्वा सप्तधा गमनं वद ॥
महेश्वरः-
शृणु देवि प्रवक्ष्यामि गङ्गाभेदनकारणम् ।
विसृष्टायां तु गङ्गायां मायां बिन्दुसरस्यपि ॥
क्रोशमात्रे ब्रह्माग्रे वृषभो नाम पर्वतः ।
तेन रुद्रगती गङ्गा स्तिमितासीन्महारयात् ॥
भगीरथापि राजर्षिस्तुष्टाव परया गिरा ।
तेन तुष्टो महादेवः प्रसादम करोत्पुनः ॥
नन्दीश्वरं समाहूय प्रेषयत्कार्यसाधने ।
नन्दी कुठारमादाय भेदयामास पर्वतम् ॥
सप्तधा भेदितेतास्मि सप्तस्रोतांसि जज्ञिरे ।
सप्तमीचान्वगात्तासां भगीरथमथो नृपम् ॥
तच्छङ्करशिरो भ्रष्टं भ्रष्टं भूमितले पुनः ।
व्यरेचत तदा तोयं निर्मलं गतकल्मषम् ॥
तत्रर्षिगणगन्धर्वा वसुधातलवासिनः ।
भवाङ्गपतितं तोयं पवित्रमिति पवित्रमिति पस्पृशुः ॥
भवाङ्गे पतितं यस्मात्कुत्रापि सलिलं नराः ।
प्। ३३)
धृत्वा विधूतपापास्ते शिवमन्दिरगामिनः ।
धृत्वा शिवस्य सलिलमभिषेचन सम्भवम् ॥
मुच्यन्ते संस्रति भयात् ब्राह्मणाद्याः पिबन्तु वा ।
गङ्गा सम्प्लावयामास यज्ञवाटम्महात्मनः ॥
तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुस्तु राघव ।
अपिवत्तज्जलं सर्वं गङ्गायाः परमाद्भुतम् ॥
हृदि ध्यायन्महादेवं शिवानुग्रह वैभवात् ।
अपिवच्चोदकं वार्धेर्यथा वै कुम्भसम्भवः ॥
गङ्गामुपनयन्तिस्म दुहि तृत्वे महात्मनः ।
शिवानुग्रह वै शिष्टयाच्छ्रोत्राभ्यामसृजत्पुनः ॥
तस्यावलेपनम् ।
पितामहान्भस्मकृतानपश्यद्दीनचेतनः ॥
अथ तद्भस्मनां राशिं गङ्गापतनमुत्तमम् ।
प्लावयत्पूतपाप्मानस्स्वर्गं प्राप्ता रघूत्तम ॥
ब्रह्माण्डस्ताडितः पूर्वं हरिणा छिद्रतां गतः ।
ब्रह्माण्डं बाह्यतो येन दशपाशभृताप्रतम् ॥
तेन छिद्रेण तत्तोयं विवेशाण्डं वरानने ।
यथा कथं चिद्वै दृष्ट्वा भक्तितश्चिन्मयः सकृत् ॥
गङ्गा तारयते नॄणां कुलानां शतमम्भसा ।
यैस्तु स्पृष्टा वशिष्टा च गङ्गा भक्त्या स कृन्न ॥
प्। ३४)
कुलानान्तु सहस्रन्तु तेषां धारयते भयात् ।
पीता मधुद्रुवा मर्त्यैर्यैर्गङ्गा भक्तितस्सकृत् ॥
तेषां कुलानामयुतं भवात्तारयते ध्रुवम् ।
यैः पुण्य वाहिनी गङ्गा सकृद्भक्त्या वगाहिता ॥
तेषां कुलानां लक्षन्तु भवात्तारयते शिवा ।
यैर्दिनं सेविता गङ्गा भक्त्या पुण्यजनैर्नरैः ॥
कुलानां दशलक्षन्तु तेषां धारयते भवात् ।
गण्गे गङ्गेति गङ्गेति यैस्त्रिसन्ध्यमुदीरिता ॥
दूरस्थेश्चापि तत्पापं हन्ति जन्मत्रयार्जितम् ।
सहस्रयोजनस्थोऽपि त्रिसन्ध्यं यस्समाहितः ॥
गङ्गे गङ्गेति च ब्रूयात्सगच्छेत्परमां गतिम् ।
योजनानां सहस्रेषु गङ्गां स्मरति यो नरः ॥
अपि दुष्कृत कर्मासौ लभते परमां गतिम् ।
गङ्गायां वैष्णवे शक्तौ परब्रह्मविभावनाम् ॥
न कुर्वन्ति च ये मर्त्या न तैस्तु सहसं वसेत् ।
नदीनामवमन्तव्यं कदाचिदपि सुव्रते ॥
गङ्गारयं समाकर्ण्य सागरोथ भगीरथम् ।
प्रार्थयामास गङ्गायाः प्रवाहो वेगवत्तरः ॥
सोदुं न शक्यते त्राहि गाधो मे भविता प्रभो ।
इत्युक्तवन्तं वारीशं माभीरित्यवदन्नृपः ॥
प्। ३५)
अस्मत्कुलीनैस्संवृद्धो मया किं दूयसेऽधुना ।
भगीरथोऽपि राजर्षिः प्रोवाच तनयान्निजाम् ॥
पुत्री वाक्यं समाकर्ण्य कुरुकार्यमनन्तरम् ।
त्वत्पूर्व प्रभवैः पूर्वं खानितः प्रपितामहैः ॥
पूर्वैराचरितो धर्मो न हन्तव्योन्वयोद्भवैः ।
इत्युक्ता स्वर्धुनी पित्रा करिष्ये वचनन्तव ॥
सहस्रधा नदी भूत्वा तदा सागरमभ्यगात् ।
स गत्वा सागरं राजा इत्युपक्रम्य शृण्वताम् ॥
पितरस्स्वर्गमायान्ति निरयस्था अनूदकाः ।
गङ्गावतारमारभ्य श्रावयेच्छ्राद्धभोजने ॥
पितरस्तेन तृप्तास्स्युर्यावदाभूतसम्प्लवम् ।
त्रीन् पथः पावयन्तीति ततस्त्रिपथगा स्मृता ॥
सन्तारं कथयामासा सर्षि सङ्घस्स राघवः ।
भवाम्बुधौ निमग्नानां वीक्षणात्तारकस्वयम् ॥
रामस्सुरनदीं नावा तारयत्का विचित्रता ।
श्रुत्वा पीयूषमथनं सुरासुरविनिर्मितम् ॥
औषधस्वीकृतिं कुर्यात्तस्य रोगो विनश्यति ।
धन्वन्तरिं गरुत्मन्तं मणिराजं च कौस्तुभम् ॥
अच्युतञ्चामृतं चैव स्मरेदौषधकर्मणि ।
उच्चैश्रवा हरिश्रेष्ठो मणिरत्नं च कौस्तुभम् ॥
प्। ३६)
उदतिष्ठन्नर श्रेष्ठ तथैवामृतमुत्तमम् ।
अदितेरिन्द्रसंवादं श्रुत्वा तु मरुताञ्जनिम् ॥
असपत्नो महीं भुङ्क्ते राजा शक्रो यथा दिवम् ।
अहल्यामृतुकाले तु इन्द्रेण कृतसङ्गमाम् ॥
आत्मानं मां च देवेशं सर्वदा रक्षमानद ।
इत्यादि प्रियवार्तां च शक्रस्य गमनं तथा ॥
गौतमस्य नरेन्द्रस्य सदृशाकृतिशोभने ।
शापमिन्द्रे च भार्याया मुनिनाकृतमञ्जसा ॥
श्रुत्वा मुच्येत मनुजो नारी वा व्यभिचारिणी ।
मुच्यते सर्वदोषेभ्यो व्यभिचारकृतान्निजात् ॥
इमौ कुमारौ भद्रं ते देव तुल्यपराक्रमौ ।
जग सिह्मगतीवीरौ शार्दूलाविव रूपिणौ ॥
इत्यादि कृतजालन्तु जनकेन सुभाषितम् ।
विश्वामित्र-ऋषेर्भक्त्या पुष्कलं ब्रह्ममाप्नुयात् ॥
ब्रह्महामुच्यते पापान्मित्रहा मुच्यते ततः ।
सावित्री पतितश्चापि व्रात्या नाचारदूषितः ॥
तपसां सिद्धिमाकर्ण्य विश्वामित्रस्य मानवः ।
तपश्चरणि संसिद्धिं लभन्ते मानवा चिरात् ॥
विश्वामित्रो महातेजाः पालयामास मेदिनीम् ।
इत्यादि श्रवणादेव पठनाद्विजितेन्द्रियः ॥
प्। ३७)
कामधेनु प्रसादा सर्वान्कामानवाप्नुयात् ।
दुरन्नभक्षणा ता भविष्यति न संशयः ॥
हुङ्कारेणैव तान्सर्वान्निर्ददाह महानृषिः ।
तस्माद्विप्रेषु नावज्ञा कार्या भूतिमिहेछता ॥
अवज्ञाता दहन्त्येते हुङ्कृत्या वीक्षणेन च ।
केन चित्तथकालेन देवदेवो वृषध्वजः ॥
इत्यादि ग्रन्थजालेन शिवो ध्येयश्शिवङ्करः ।
इत्युक्त-ऋषिणा देवो महादेवो ममेप्सितम् ॥
एवमस्त्विति देवेशस्तं वरं वृणुयाद्वरम् ।
ब्रह्मास्त्रग्रसनं श्रुत्वा दण्डाग्रेरुन्धती पतेः ॥
ब्राह्मण्यं वर्धते तस्य पूर्वपक्षे शशी यथा ।
अन्यां गतिं गमिश्यामि स्वस्ति वोस्तु तपोधनाः ॥
शेपुः परमसङ्क्रुद्धाश्चण्डालत्वं गमिष्यसि ।
तस्माद्गुरुषु नावज्ञा कार्या भूतिमिहेच्छता ॥
रुष्टे शिवे गुरुस्त्राता गुरौ रुष्टे न कोपि हि ।
इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम् ॥
शरणं ते भविष्यामि मा भैषी रघुपुङ्गव ।
पूर्वमेव वरो दत्तो मया तुभ्यम्महीपते ॥
तदिदं साधयिष्यामि दुर्दशायामिहाधुना ।
त्रिंशकोः कारयामास वेदारण्ये महाक्रतुम् ॥
प्। ३८)
स्वर्लोकात्पतितं दृष्ट्वा त्रिशङ्कुं कोपदूषितम् ।
सृजदक्षिणमार्गस्थान् सप्तर्षी न परान्पुनः ॥
नक्षत्र मालामपरामसृजत्क्रोधमूर्छितः ।
अन्यमिन्द्रं करिष्यामि लोको वास्यादनिन्द्रकः ॥
इति सङ्कल्पमकरोन्मदनुग्रह वैभवात् ।
उमा-
भण्यतां देवदेवेश विश्वामित्राय धीमते ।
दत्तं स्रष्ट्रमपरं विना तु चतुराननम् ॥
महेश्वरः-
श्रूयतां देवि वक्ष्यामि पुनस्स्वर्गस्य कारणम् ।
पद्मयोनिं पुरा लब्ध्वा स्रष्टुत्वं मत्सकाशतः ॥
लोकानसृक्षत्सङ्कल्पात् वीक्षणात्पूर्वहेतुतः ।
अहमेव परो लोके पदार्थानि पृथक् पृथक् ॥
सृष्टा ऋक्षाणि गगने वैश्वानरपथाद्बहिः ।
अवाक् शिरास्त्रिशङ्कुश्च तिष्ठत्वमर सन्निभः ॥
उमा-
वेदेस्त्र तिषु सर्वत्र ब्राह्मणस्यैव याजनम् ।
शिष्टास्रे वर्णिका याज्या कथमेतेन कारितम् ॥
महेश्वरः-
शृणु देवि प्रवक्ष्यामि विश्वामित्रस्तु सम्भवम् ।
प्। ३९)
प्रजापतिसुतश्श्रीमान्कुशोनाम महीपतिः ॥
कुशस्य पुत्रो बलवान्कुशनाभस्सुधार्मिकः ।
कुशनाभसुतश्श्रीमान्गाधिरित्येव विश्रुतः ॥
अनपत्यो गाधिराजा नाम्ना सत्यवतीं सुताम् ।
ऋचीक-ऋषये प्रादात्कुलस्य त्राणकारणात् ॥
सोऽपि पुत्रार्थ ममलामिष्टिमारब्धवानृषिः ।
पात्रे निधाय हविषां द्वितयं पुत्रसम्भवम् ॥
कृपीडयोना वजुहोदेकं पुत्रस्य सम्पदे ।
दत्वा शेषं यज्ञपत्न्यं अन्यदादातु मैच्छत ॥
नष्ठं हविषमालोक्य ऋषिः पत्नीमवैक्षत ।
सापि भर्तुः पदे गृह्य प्रणनाम भयातुरा ॥
स्त्रीबुध्या साहसमिदं कृतमेकाहठात्प्रभो ।
अनपत्या हि मे माता तस्यापत्यस्य कारणात् ॥
दत्तं मया साहसेन मन्त्रितं हविरुत्तमम् ।
प्रसीद मह्यं दयया भक्तां रक्षस्व मत्प्रभो ॥
इत्येवं प्रार्थितः पत्न्या कौशिक्या भगवानृषिः ।
कृपां चकार दयया सोऽपि ब्राह्मणतां व्रजेत् ॥
इत्याभाष्य प्रियां विप्रः क्रतु शेषं समापयत् ।
उमा-
एतादृशगुणोपेत-ऋषिः कौशिकनन्दनः ।
प्। ४०)
अयाज्य याजने श्रद्धमकरोत्तद्वदस्वमे ।
महेश्वरः-
सत्रिशङ्कुः पूर्वमभूद्दुर्नयं कल्पमास्थितः ।
पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च ॥
अप्रेषितो पयोगाच्च त्रिविधोस्य व्यतिक्रमः ।
एवं त्रीण्यस्य शाकुनि तानि दृष्ट्वा महर्षयः ॥
प्रयुञ्जते शब्दजालं त्रिशङ्कुपदवाचकम् ।
यौवस्थस्सतीं भार्यां न व्रजेद्यदि मानवः ॥
स जीवन्नेव चण्डालो नर्मदान्नैव भुक्तवान् ।
ब्राह्मण्यां यो नरो मौढ्याद्ब्राह्मणीं काममोहितः ॥
न परिग्रहेत्
यदि गृह्णीत मूढात्मा चण्डालत्वं स गच्छति ।
गत्वा तु मातरं मर्त्यस्स्नुषां भ्राप्तृ?त्रङ्गनां तथा ।
पुत्रीं वा भगिनीं मौढ्याद्व्रजेद्यः काममोहितः ॥
सजीवन्नेव चण्डालमाशु गच्छति सान्वयः ।
उमा-
इदानीं गुरुणा शप्तः कथं याज्यो भव दृषे ।
चण्डाल प्रोक्षितं दुष्टं स्मृतं कर्मान्तरालके ॥
तत्सर्वं निष्फलं प्राहुर्मुनयस्तत्वचिन्तकाः ।
महेश्वरः-
प्। ४१)
शृणु देवि प्रवक्ष्यामि त्रिशङ्कोर्यजनं प्रति ।
पुरा त्रिशङ्कुर्गुरुणा पितृशोकाच्च तापितः ॥
तस्य शापापनोदार्थमृषिभिस्सूक्ष्मदर्शिभिः ।
त्रिषड्वारं षडब्दाख्यं कृच्छ्रं कृत्वा विधानतः ॥
ततस्स्नानं समादाय शिवनिर्णेजने जले ।
शिवक्षेत्रे शिवं पूज्य तीर्थेषु च निमज्य च ॥
शुद्धदेहे महीपाले ह्ययजत्कृतसत्तमैः ।
अबालको देवलोको न क्षत्रः ग्राम याजकः ॥
कर्मचण्डालका ह्येते महापातकपञ्चमाः ।
गुरुद्रोहवशाज्जाता कर्मचण्डालता मयम् ॥
तस्मात्कृच्छ्रादि चरणाच्छुद्धिर्नान्यस्य कस्य चित् ।
तद्वत्पूतं कारयित्वा यज्ञं कौशिकनन्दनः ॥
त्रिंशकोः कारयामास शास्त्र दृष्टेन वर्त्मना ।
अनागतान्दि विषदान्प्रेक्ष्य क्रोधानलोज्ज्वलः ॥
स्वर्लोकं प्रापयामास स्वकीय तपसः फलात् ।
उमा-
स्वर्लोकात्पतनः कस्मात्प्रायश्चित्तगतैनसः ॥
तन्ममाचक्ष्व देवेश यमान्तक पुरान्तक ।
महेश्वरः-
प्रायचित्ते कृते पुंसामेनसां नाशयिष्यते ।
प्। ४२)
भूलोकशुद्धिर्नास्त्येव शुद्धिस्स्यात्पारलौकिकी ।
तस्मात्तद्देह युक्तत्वात्पातयन्ति स्म भूतले ॥
उमा-
अशुद्धो यदि भूपालस्तस्मिन्प्रेम कथं मुनेः ।
इति पृष्ठः कथा मध्ये प्रोवाच कृपया शिवः ॥
तपः कर्तुमना देवि विश्वामित्र-ऋषिः पुरा ।
भार्यां त्रिशङ्कोर्निकटे निधाय तपसे गतः ॥
सिद्धे तपसि राजानं प्रीतोभूद्गाधिनन्दनः ।
वरन्ददामि गृह्णीष्व भार्याभरणतोषितः ॥
समाकर्ण्य ऋषेर्वाक्यं राजा प्रोवाच गाधिजम् ।
मास्त्विदानीं परगुरो आपत्काले तथाकुरु ॥
तसं प्रार्थितो राज्ञा इदानीं च पुनः पुनः ।
दयां चकार राजानं चण्डालाकाररूपिणम् ॥
उमा-
ये दूषयन्त्य दूष्यं मान्तप उग्रं समास्थितम् ।
भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः ॥
अद्यते कालपाशेन गता वैवस्वतक्षयम् ।
इत्या(दि) वाक्यनिकरं प्रोक्त्वा सदसिकोपनः ॥
विरराम महातेजा ऋषिमध्ये महामुनिः ।
इत्यादिवाक्यकथनाद्ब्रह्महत्या ऋषेः कथम् ॥
प्। ४३)
नासीत्कथं तत्र भवानुत्तरं वक्तुमर्हति ।
महेश्वरः-
पुरा कदाचिद्यज्ञाते मित्रावरुणसम्भवः ।
रघोः पुत्रं दुराधर्षं सौदा समशपद्भृशम् ॥
कल्माष पादस्संशप्तः प्रवृद्धः पुरुषादकः ।
अभवद्भूपतित्वेऽपि मध्याह्ने नरभोजनः ॥
विश्वामित्र-ऋषिः काल्ये कालेन त्वा पुरं व्रजेत् ।
तमस्मरन्महातेजास्सौदासं पुरुषादकः ॥
आगतस्मरणादेव निकटं गाधिनन्दनः ।
तं मे * * * * * घ्नं वासिष्ठान्हन्तुमुद्यतम् ॥
भक्षितास्तेन राज्ञाते भस्मीभावं गताः पुनः ।
अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥
एतत्सर्गं सदा शृण्वन् ब्रह्महा मुच्यतेंहसः ।
पुत्रविक्रयजाद्दोषात्तथा पुत्रार्पणायतः ।
विमुक्तञ्चरा लोके श्रीरामस्य प्रसादतः ॥
ऋग्वेदसिद्धेद्वे गाधे तृतीयाष्टकचोदितः ।
प्रयुञ्जानो नरो नित्यं भवाबन्धाद्विमुच्यते ॥
ऋणबन्धाद्विमुक्तास्युर्व्याधिबन्धात्तथैव च ।
तथैव शृङ्खलाबन्धान्मुच्यते श्रवणादिह ॥
प्। ४४)
विश्वामित्रो महान्भूयस्तपस्तेपे महामनाः ।
ततः कालेन महता मेनका परमाप्सराः ॥
तात्पर्यवर्णकमिदं गायत्र्यास्सर्वकामदम् ।
शृण्वतां सर्वपापघ्नं सर्वपापहरं परम् ॥
अहोरात्रापदेशेन गतास्संवत्सरा दश ।
अब्भक्षो वायुभक्षो वा जीर्णपर्णाशनोऽपि वा ॥
स्त्रीणां समक्षे वस्तव्यं न कदाचिन्महेश्वरि ।
वरदानं विश्वयोनेस्तपः फलचिकीर्षया ॥
शृण्वतां विफलं यान्ति पापानि त्रिदशेश्वरि ।
ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथा पुरा ॥
उमा-
अश्रद्धा ब्राह्मणो वाक्ये किं कृतं गाधिसूनुना ।
महेश्वरः-
मया यष्ठुमुपक्रान्ते त्रिशङ्कोर्यागकर्मणि ।
वासिष्ठादूषयन्तिस्म कथं सदसि देवताः ॥
तान्हन्तु प्रेषितः पूर्वं क्रुद्धः कल्माषपादकः ।
भक्षितास्तेन राज्ञा ते भस्मीभावं गताः पुनः ॥
तान्दृष्ट्वा भक्षितान्राज्ञा मित्रावरुणसम्भवः ।
पुत्रशोकाभिभूतस्तु प्रललाप भृशार्दितः ॥
प्रज्ञामवष्टभ्य शनैः पूर्ववत्तपसि स्थितः ।
प्। ४५)
सोपीदानीमदूष्यम्मामुग्रे तपसि संस्थितम् ॥
इत्युक्तो भारतीनाथः प्रोवाचारुन्धती पतिम् ।
ब्रह्मर्षित्वं वदानेन तपसा तोषितो भवान् ॥
ब्रह्मर्षिस्त्वं न सन्देहस्सर्वं सम्पाद्यते तव ।
विश्वामित्रस्तुतिं शृण्वन्शतानन्देन भाषिताम् ॥
पुष्कलं ब्राह्म्य मासाद्य ब्रह्मलोके महीयते ।
दक्षयज्ञवधे पूर्वन्धनुरादाय वीर्यवान् ॥
विध्वंस्य त्रिदशान्रोषात्सलीलमिदमब्रवीत् ।
प्रसादयन्ति देवेशन्नमस्ते रुद्रमन्यवे ॥
हे रुद्रधनुषस्तुभ्यमुतो त इषवे नमः ।
बाहुभ्यान्ते नम इति स्तुतिभिश्श्रुति चोदितैः ॥
प्रसादितो तो महादेवः प्रसादमकरोछिवः ।
भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा ॥
भूतलादुत्थितां देवीन्नारायण कुटुम्बिनीम् ।
राजानो बहुवीर्याढ्या वारयामासुरादरात् ॥
प्रत्याख्याता भूपतयस्तृणत प्रवणछलात् ।
अरुन्ध मिथुलां सर्वे वीर्य सन्देहमागताः ॥
तस्माद्विशिष्टं यद्वस्तु न धार्यं धीमता क्वचित् ।
धृते तु प्राणहानिस्स्यात्स्यमन्तक मणिर्यथा ॥
यथा पीयूषखं रक्षा यथा द्रुपदजास्थितिः ।
प्। ४६)
तस्माच्छ्रेष्ठगुणोपेतं न धार्यं वस्तु मानवैः ॥
बभञ्ज तद्धनुर्मध्ये नरश्रेष्ठो महायशाः ।
गृहीते रघुनाथेन महादेवशरासने ॥
शक्तिस्तु वैष्णवं प्राप्ते तस्मा भग्ना महेशितुः ।
तस्मिन्नवसरे पाशी वैष्णवं धनुरुत्तमम् ॥
दत्तवान्कोसलेन्द्रस्य करे प्रीतिपुरस्सरम् ।
तद्धनुर्वरुणाभ्यर्णे पुनः प्रत्यर्पयच्छिवे ॥
राज्ञा वंशानुकथनं शृण्वतां पापनाशनम् ।
श्रुत्वा गोदान कथनं गोदानफलमाप्नुयात् ॥
प्रपामध्येत्युपक्रम्य जानक्या मङ्गलोत्सवम् ।
श्रुत्वा विवाहं कुर्वीत पत्नी दीर्घायुषी भवेत् ॥
दम्पत्योस्सततं प्रीतिर्वर्धते नायके वयः ।
तस्मात्कल्याणसमये श्रोतव्यं भूतिमिच्छता ॥
गोदानं भूमिदानं च कन्यादानं तथैव च ।
आत्मनश्श्रियमन्विच्छन् प्रयच्छेत्सर्ववर्णकः ॥
तस्माद्विवाहं प्रेक्षेत आत्मनाश्रियमिच्छुभिः ।
सर्वोत्सवे तु कल्हारो मधूकस्तु स्वयंवरे ॥
सीमन्ते गर्भिणी नारी यवाङ्कुरमयी भवेत् ।
धार्या तु प्रेतकार्ये वै माला नलदनिर्मिता ॥
सीतायै प्रददौ रत्नं कौसल्या वारिसम्भवम् ।
प्। ४७)
तया भूषितगात्रा सा शुशुभेन्दीवरे क्षणा ॥
भार्गवं जामदग्न्यं च राजराजविमर्दनम् ।
इत्यादिश्रवणात्पुंसां ब्राह्मन्तेजोभिवर्धते ॥
शितिकण्ठस्य विष्णोश्च बलाबलपरीक्षया ।
अभिप्रायन्तु विज्ञाय देवतानां पितामहः ॥
विरोधञ्जनयामास तयोस्सत्ववतां वरः ।
अधिकं मेनिरे विष्णुं देवा ऋषिगणास्तदा ॥
उमा-
त्वत्तो विशिष्ट भावस्तु विष्णोस्सम्प्रति गण्यते ।
कथमेतद्दयासिन्धो कृपया वद सुव्रतम् ॥
महेश्वरः-
शृणु देवि प्रवक्ष्यामि विष्णोराधिक्यतां प्रति ।
पुरा कदाचिद्देवेशि परमानन्दकानने ॥
क्रीडासक्ते मयि तदा विश्वमेतदनायक ।
उपद्रुतं सदा दुष्टैर्वेदवादबहिष्कृतैः ॥
स्वाहास्वधा वषट्काररहिते कर्मवर्जितैः ।
ब्रह्मणा ज्ञातवृत्तान्तः कार्यशेषमचिन्तयम् ॥
चक्रपाणिं समाहूय रत्नसिंहासने शुभे ।
अभिषिच्य वरान्दत्वा प्रणामं करवं प्रिये ॥
सृष्टि स्थिति विनाशानां कर्तृत्वमकुतो भयम् ।
प्। ४८)
सर्वज्ञतादिसिद्धिं च दत्तवानस्मि विष्णवे ।
मत्तोधिको भवानाजौ भव विष्णो क्वचित् क्वचित् ॥
इति दत्वा वरान्पूर्वं वाराणस्यां हरिं पुरा ।
इति दत्वा वरान् पूर्वं वाराणस्यां हरिं पुरा ॥
इदं ज्ञात्वा कविः प्राह मेनिरे धिपतिं प्रिये ।
शरञ्च प्रतिसङ्गृह्य हस्तात्क्र?घु पराक्रमः ॥
आरोप्य धनुषी रामस्सशरं सन्निकर्षह ।
उमा-
निर्वीर्यो जामदग्न्योसौ रामो राममवैक्षत ॥
इत्युक्तं ऋषिणा काव्ये निर्वीर्यत्वं ऋषेः कथम् ।
महेश्वरः-
जामदग्न्यावतारोयं हरे रावेशमात्रकः ॥
पूर्णावतारमालोक्य शक्तिस्साङ्क्रमिता भवत् ।
रात्रौ दिवाकरं तेजो निहितं हव्यवाहने ॥
प्रातस्सूर्य यथा गच्छेद्वह्निरह्नि यथापुरम् ।
कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः ।
इत्यादि श्रवणात्स्त्रीणां स्नुषाभूयस्करं भवेत् ॥
स्नुषास्स्युः पतिमातॄणामिष्टाः प्रीतिणु वल्लभाः ।
काण्डान्तं श्रावयेद्वापि शृणुयाद्वा नरर्षभः ॥
उपेत्य भार्यां गृद्यां च रमते प्रीति पूर्वकम् ।
प्। ४९)
काण्डान्ते ब्राह्मणाः पूज्याः पूज्यस्सीतापतिः प्रभुः ॥
सीतासमेत प्रतिमा राघवस्य मनोरमाम् ।
चतुर्विंशत्पलैः कृत्वा तदर्धैः पादसम्मितैः ॥
जाम्बूनदैस्समाराध्य दद्याद्विद्वद्द्विजन्मने ।
निधाय पूर्णकलशे क्षौमोपरि शुचिस्मिते ॥
सहस्रसम्मितैर्वित्तैस्तदर्धैः पादमात्रकैः ।
यथा शक्तिप्रमाणेन वित्तशाठ्यविवर्जितः ॥
दक्षिणा सहितन्दद्याद्वाञ्छितार्थ सुसिद्धये ।
धर्ऽनीगर्भसम्भूते धरणीधरवल्लभे ॥
धरणीम्मे प्रयच्छाशु प्रीताभव शुचिस्मिते ।
कौसल्यागर्भसम्भूत भूभारोद्धारण प्रभो ॥
प्रतिमादान तुष्टस्सन् वाञ्छितार्थ सुसिद्धये ।
वक्ता प्राङ्मुख आसीत श्रोताचोत्तरदिङ्मुखः ॥
नित्यं द्विजान्समाराध्य यथा विभवविस्तरम् ।
विष्टरं मारुतेः कृत्वा भक्ष्यैर्भोज्यैश्च पूजयेत् ॥
दत्वा ताम्बूलमतुलं शृणो तु मुखतुष्टये ।
हविष्याशी स्वयं भूयाद्भार्यया नियतात्मवान् ॥
वक्तुर्मुखं समालोक्य शृणुयात्कार्य सिद्धये ।
वक्तारं रामबुध्या तु पूजयेन्वहं प्रिये ॥
इत्युमा संहितयां रामायणकथाफलप्रस्तावे बालकाण्डकथाफल
वर्णनं नाम षष्ठोध्यायः ॥
महेश्वरः-
सहदेवैरुदीर्णस्य रावणस्य वधार्थिभिः ।
अर्थितो मानुषे लोके जज्ञे विष्णुस्सनातनः ॥
विशेषणं हरेश्शृण्वन् क्वचित्स्कन्धान्वयं तथा ।
क्वचिद्रूपकथनं क्वचिज्ज्ञान प्रदर्शनम् ॥
यो नित्यं शृणुयाद्वापि श्रावयेद्वा समाहितः ।
सर्वबन्धविनिर्मुक्तो हरिमन्दिरगो भवेत् ॥
पट्टाभिषेकसम्भारान्वसिष्ठेन प्रचोदितान् ।
सौवर्णादीनि रत्नानि बलीन्सर्वौषधीरपि ॥
इत्यादीनि सदा शृण्वन् प्रातः काले महीपतिः ।
स्थिरं राज्यं समासाद्य प्रियपुत्रैश्च मोदते ॥
विप्रोषितश्च भरतो यावदेव पुरादितः ।
तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥
कामं खलुसतां वृत्ते भ्राता ते भरतस्स्थितः ।
ज्येष्ठानुवृत्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥
किन्नुचित्तं मनुष्याणामनित्यमिति मे मतिः ।
ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य च ॥
इति प्रोवाच भरतस्सर्वान्पौरजनान्प्रति ।
प्। ५१)
तादृशे को विचारोस्ति स्वच्छचित्तस्य भूपतेः ।
महेश्वरः-
शृणुवक्ष्यामि तत्वेन राजा पङ्क्तिरथाह्वयः ।
हृदि शङ्कान्निधायैव गिरिव्रजपुरं प्रति ॥
भरतं प्रेषयामास राजा दशरथस्सुतम् ।
कन्याम्मनोज्ञामाकर्ण्य केकयाख्यस्य भूपतेः ॥
गत्वा तां वरयामास पत्न्यर्थं केकयाधिपः ।
सोऽपि वव्रे वरं राजा दास्यामि तव कन्यकाम् ॥
अस्यामुत्पत्स्यते योसौ स तु राजा विधीयताम् ।
तथास्त्विति प्रतिज्ञाय गृहीता केकयात्मजा ॥
तस्यामुत्पादितः पुत्रो भरतो नाम विश्रुतः ।
उमा-
राज्ञो दशरथस्यास्य मृषावादित्वमागतम् ॥
प्रतिज्ञोल्लङ्घनं राज्ञः कारणद्वितयाद्भवेत् ।
केकयाधिपतेश्चापि तत्पुत्र्याः कारणान्तरे ॥
कैकेय्या ग्रहणेचापि तस्यास्सारश्यकर्मणि ।
महेश्वरः-
विवाहसमये राज्ञा प्रतिज्ञातमिदं शृणु ॥
पट्टाभिषेकसमये भवेयं स्मारितो यदि ।
त्वया वान्येन भूपाल तथा चेत्करवाण्यहम् ॥
इत्थं प्रतिज्ञामकरो पपात ग्रहणे नृपः ।
प्। ५२)
प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः ॥
तस्मात् पित्रोर्नमस्कारस्साष्टाङ्गश्श्रुतिचोदितः ।
विना साष्टाङ्गमन्येन कुर्वन्नरकमश्नुते ॥
देवर्षि पितृ विप्राणामनृणोस्मि तथात्मनः ।
उमा-
जायमानस्य विप्रस्य ऋणानां त्रितयं सह ॥
क्षत्रियाणां विशाञ्चैव कथं वेदविनाकृतम् ।
मङ्गलं प्राप्यते मर्त्यश्श्रुत्वा साकेतवर्णनम् ॥
गुरुमान्जायते मर्त्ये गुरुपूजा विधिश्रुतौ ।
ध्यायन्नारायणं देवं स्वस्तीर्णे कुशसंस्तरे ॥
ब्राह्मणानां शिवो ध्येयः क्षत्रियाणां हरिस्स्मृतः ।
हिरण्यगर्भो वैश्यानामुपस्यब्ध दृशस्मृतः ॥
इति द्योतयि तुं रामस्स्वात्मानमनुसन्दधे ।
कुब्जा देवैस्समादिष्टा कैकेयीं भेत्तुमारभेत् ॥
बाल्य एवहि मा तुल्यं भरतः प्रापितस्त्वया ।
धन्निकर्षाच्च सौहार्दो जायते स्थावरेष्वपि ॥
तस्मात्समक्षे वस्तव्यं स्वस्य भूमिमभीप्सतः ।
आसन्नं भजते नारी आसन्नः परिपूज्यते ॥
आसन्नं भजते राजा आसन्नं भजते लता ।
स्त्रीणां कौटिल्यमाख्यानं शूल्यालङ्कारवर्णनात् ॥
प्। ५३)
देवि केनाभि युक्तासि इत्यादिग्रन्थविस्तरैः ।
कामाचारो भवेत्कामो वृद्धानां यूनिका कथा ॥
कामातु राणां भूलोके अदेयन्नास्ति कुत्रचित् ।
शपेते जीवनार्हेण इति शापं वृथां नृपः ॥
सत्येनापि शपेद्यस्तु देवगुर्वग्निसन्निधौ ।
तस्या वैवस्वतो राजा धर्मस्यार्धं निकृन्तति ॥
एवं स्थितोपि राजर्षिः कामबाणेन पीडितः ।
अशपद्राममुद्दिश्य पाशबन्धमृगान्वितः ॥
सत्येन लोकाञ्जयति दीनान्दानेन राघवः ।
गुरूञ्छुश्रूषया वीरो धनुषा युधि शात्रवान् ॥
सत्यन्दानन्तपस्त्यागो मित्रता शौचमार्जवम् ।
विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥
हरिश्चन्द्रस्तु सत्येन शिबिर्दानेन भूतले ।
कोदण्डेनार्जुनश्शत्रून् रघुश्शुश्रूयया गुरून् ॥
विश्वामित्रस्तु तपसा आर्जवेन युधिष्ठिरः ।
जनको विद्यया चापि एकैकगुणयोगतः ॥
लोकानां विजयं कृत्वा प्रसिद्धा अभयन्नृपाः ।
ध्रुवाण्येतानि राजेन्द्र राघवे कृतकेतनाः ॥
रामोपि भरताद्भूयः तव शुश्रूषते सदा ।
वह्नीनामेकभार्येणामेका पुत्रवती यदि ॥
प्। ५४)
सर्वास्तास्तेन पुत्रेण पुत्रवत्यः प्रकीर्तिताः ।
यथा मातरि शुश्रूषां विदध्यादौरसस्सुतः ॥
तद्वन्मातृसपत्न्यां तु ऐहिकं पारलौकिकम् ।
अनार्य इति मामार्याः पुत्रविक्रयिणं ध्रुवम् ॥
धिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ।
पुत्रन्न विक्रयं कुर्यान्न दद्याद्द्रव्यलोलुपः ॥
दद्याद्यदि नरो लोभात् पुन्दि पच्येत विक्रयी ।
ब्राह्मणोन्नृसुरा पेया गौल्याद्याः पापकारिणः ॥
सुरापं ब्राह्मणं दृष्ट्वा कुलत्यागो विधीयते ।
पुन्वा जननवेलायां शङ्खचक्रगदाधरम् ॥
दृष्ट्वा तुष्टाव बहुधा काश्यपत्वात् स्वयं नृपम् ।
तन्मया मोहितो भूत्वा भक्त्या राममनुस्मरन् ॥
मास्म मे भरतः कार्षीत् प्रेतकृत्यङ्गतायुषः ।
इत्यादि प्रलपन्न्राजा कैकयीवरमोहितः ॥
श्रुत्वाविचित्रं करुणं विलापं * * * * * * ।
देवैस्सम्प्रार्थितो देवि मायाविश्वं भरस्य तु ।
केकयापत्य वादेन जाता विश्वस्य गुप्तये ॥
सामया भेदयामास राजानमकुतो भयम् ।
चतुरश्रो रथश्श्रीमान्निस्त्रिंशो धनुरुत्तमम् ॥
प्। ५६)
वाहनन्नरसंयुक्तञ्छत्रं च शशिसन्निभम् ।
तुरीयं वर्णकमिदं ब्रह्मविष्णुशिवात्मकम् ॥
भजतां सर्वदोषघ्नं संसारभयनाशनम् ।
तुष्टिदं पुष्टिदं चैव सर्वैश्वर्य प्रवर्तकम् ॥
रामाभिषेकसम्भारां छ्रुत्वामङ्गलमाप्नुयात् ।
राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् ॥
कर्तुमर्हति ते राजा वासवस्येव लोककृत् ।
इमं मन्त्रं समुच्चार्य प्रेषयेद्दूरगं प्रियम् ॥
सर्वान्कामानवाप्यैव पुनर्बन्धुषु युज्यते ।
पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः ॥
वरुणः पश्चिमामाशान्धनेशस्तूत्तरां दिशम् ।
सीताकवच युक्ताङ्गो यां यां याति दिशं प्रति ॥
तान्तान्कामानवाप्यैव लभते शाश्वतं पदम् ।
यश्च रामन्न पश्येत्तु यं च रामो न पश्यति ॥
निन्दितस्स भवेल्लोके स्वात्माप्येनं विगर्हते ।
रामं वा रामबेरं वा रामनामान्यथापि वा ॥
वीक्षेत शृणुयाद्वापि स नरो मुक्ति भाग्भवेत् ।
यज्ञैर्दानैस्तपसा नाशनेन बध्वा विष्णोख्ययस्य प्रसादम् ॥
लब्ध्वा साक्षाच्छाश्वतं कृच्छ्रात् मोक्तुं देवीं काञ्चितेनाल्प कालम् ॥
प्। ५६)
श्रुत्वा लक्ष्मण वाक्यानि कौसल्यारामयोः पुरा ।
सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥
हनिष्ये पितरं वृद्धं कैकेय्या वशमागतम् ।
इत्यादि श्रवणात्पुंसा क्षात्रन्तेजोभि वर्धते ॥
त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ।
पितुर्नियोगे स्थातव्यमेष धर्मस्सनातनः ॥
अत्रेतिहासं वक्ष्यामि पावनं पूर्वसम्भवम् ।
अवन्ती विषये कश्चित् किरातान्वय सम्भवः ॥
धर्मव्याध इति ख्यातः पित्रोः पूजापरायणः ।
आपणस्थं सदा मांसं क्रीत्वाक्रयण तत्परः ॥
क्रयलब्धैर्बहुद्रव्यैः पितृपूजापरो भवत् ।
अभ्यज्य पितरौ नित्यं स्नापनं चोष्णवारिणा ॥
कृत्वा सुभोज्यं भोज्यान्नैर्वीटिकार्पण पूर्वकम् ।
मञ्चे निधाय पितरौ कृतपादाभिवन्दनः ॥
एवं दिने दिने कुर्वन् व्याधोऽपि स्वर्गमभ्यगात् ।
श्रुत्वा धमार्थ कामेति धर्मभाग्जायते नराः ॥
श्रुत्वा राघव वाक्यानि वनप्रव्राजनं प्रति ।
रामप्रसादमासाद्य रामसायुज्य गामिनः ॥
श्रुत्वा लक्ष्मणवाक्यानि राघवेन्द्रस्य सन्निधौ ।
मित्रमभ्यन्तरं लब्ध्वा शत्रूणां विजयं लभेत् ॥
प्। ५७)
सन्ति धर्मो पदा श्लक्ष्णा धर्मात्मन् कि बुध्यसे ।
तयोस्सुचरितं स्वार्थं शाठ्यात् परिजिहीर्षतोः ॥
पुरा तु ब्राह्मणः कश्चित् कलिङ्ग विषये महान् ।
श्रुताध्याय न सम्पन्नो वेदाध्ययन लम्पटः ॥
चूल्याख्यो बहुकालन्तु द्रव्यार्जनपरायणः ।
प्रतिग्रहाध्यापनया याजकेभ्यो धनार्जनम् ॥
धनेन पूर्णप्रतिलब्धकामः
किञ्चिद्धनं ब्राह्मणसान्नकार्षीत् ।
धर्मस्य नाशात्पिशुनाश्च चोरा
कृपीडयोनिर्नृपतिश्च रुष्टः ॥
विनाशया मासुरथास्य वित्तं सवित्तनाशात् परितापितोभूत् ॥
धर्मस्य लोपान्मदचित्तनाशो
बभूव इत्युक्तिपरो द्विजोभूत् ।
धर्मं चरिष्याम इति ब्रुवाणो
वित्तार्जुनं धर्ममिषेण चक्रेः ॥
ब्राह्मणान् भोजयिष्यामि तटाकान् खातयाम्यहम् ।
प्रपाः प्रवर्तयिष्यामि करिष्ये देवपूजनम् ॥
तद्द्रव्येणाकरोत्स्वस्य संसारपरिपूरणाम् ।
किञ्चिद्धर्मं ह्ययं चक्रे नोचेद्दास्यन्ति ते मम ॥
प्। ५६)
परार्थे धर्मकार्तारो धर्मविक्रयिणस्तथा ।
मतङ्गजा भविष्यन्ति पिशाचा वा न संशयः ॥
एतादृशा महीदेवा क्षत्रविट्छूद्रजास्तथा ।
इति रामेण कथितं प्रिये प्रोक्तं मयाधुना ॥
शृणुष्वा परमाख्यानं स्वर्गस्यास्य पुरातनम् ।
पुरा कश्चिन्महीपालः कुन्ती भोज इति श्रुतः ॥
पृथिवीं पालयामास क्षत्रधर्ममनुस्मरन् ।
तादृशस्य महीभर्तुः राजानः परिपन्थिनः ॥
न्यरुन्धन्तस्य नगरं चतुरङ्गबलैर्युताः ।
निरुन्धं नगरं वीक्ष्य हेहयैस्ताल जङ्घजैः ॥
युद्धाय कृतसन्नाहो रथादि बलसंयुतः ।
पुरान्निर्गत्य स बहुकृतवाञ्जन्यमुत्तमम् ॥
नष्टेषु द्रव्यजातेषु भग्नेषु गजवाजिषु ।
पुरमागम्य भूपालः किं कार्यमिति चिन्तयत् ॥
चिन्ताविष्टं नृपं प्राह पुरोधाः कार्यसाधकः ।
राघवेन्द्रे वनं गन्तुं पित्रादिष्टे कृतत्वरे ॥
कौसल्या कारयामास पुत्रमङ्गलवाचकम् ।
तदिदानीं प्रयुञ्जानो युद्धं कुरु यथा बलम् ॥
ब्राह्मणान्सम्यगाहूय स्वस्तिवाचनपूर्वकम् ।
हुत्वा वैष्णवमन्त्रैश्च कृत्वा ब्राह्मणभोजनम् ॥
प्। ५९)
आशिषोन्ते विधायैव कृतमङ्गलपूर्वकम् ।
युद्धं कुरु महाबाहो शत्रूञ्जेष्यसि मा चिरम् ॥
इत्युक्त्वा कारयामास द्विजैश्च सपुरोहितैः ।
सापनीय तमायासमुपस्पृश्यजलं शुचि ॥
चकार माता रामस्य मङ्गलानि यशस्विनी ।
इत्युपक्रम्य मङ्गल्य जगामेत्यन्तमादितः ॥
ब्राह्मणैर्वाचयामास विजयार्थं नृपस्य च ।
युद्धाय कृतसन्नद्धो निर्जगाम पुरोत्तमात् ॥
हेहयैस्तालजङ्घैश्च युद्धमासीत्कृतारवम् ।
प्रवृत्ते घोरतसि बाणासार प्रपीडितम् ॥
भग्नं रागकुलं सर्वं विद्रुतं सर्वतो दिशम् ।
क्षणमात्रेण तेष्वेको नह्य दृश्यत भूतले ॥
प्रयाण समये जप्त्वा तु कार्यसिद्धिर्भविष्यति ।
देशान्तरगातानां च पुनरावृत्तिसिद्धिदम् ॥
व्रतोपवासरतया भवितव्यं त्वया नये ।
इत्यादि ग्रन्थसन्दर्भै स्त्रीधर्मं प्राहराघवः ॥
प्रोषिते नायके स्त्रीभिर्हरिद्राकुङ्कुमं तथा ।
कञ्चुकीं कङ्कणं वापि न धार्यं भूतिमिच्छता ॥
केशसंस्कारकरणं चित्राणि वसनानि च ।
आर्य पुत्र पिता माता भ्राता पुत्रस्तथास्नुषा ॥
प्। ६०)
स्वानि पुण्यानि भुञ्जाना स्वं स्वं भाग्यमुपासते ।
भर्तुर्भाग्यं तु भार्यैकामाप्नोति पुरुषर्षभ ॥
अतश्चैत्यादि सन्दर्भैस्सीता प्रोवाच राघवम् ।
अत्रेति हासं वक्ष्यामि शृणु पार्वति तत्वतः ॥
नलो नाम पुरा राजा चक्रवर्ती नरर्षभः ।
पृथिवीं पालयामास यथाशास्त्रं यथा मति ॥
तस्य दैववशाद्द्युते प्रवृत्तिरूपपद्यते ।
कलिना जितसर्वस्वो राज्य भ्रंशमवाप्तवान् ॥
तस्याङ्गना तु वैदेही तद्दुःखाद्दुःखिनी भवेत् ।
हरिश्चन्द्रश्च भार्या च भर्तृदुःखमुपेयिता ॥
तस्मादहं त्वया सार्धं वनं यास्यामिराघव ।
किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः ॥
रामञ्जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ।
अत्राहं कथयिष्यामि पुरावृत्तं रघूत्तम ॥
पुरा नरपतिः कश्चिदरक्षदवनीमिमाम् ।
स्वर्धुनी तनये राजौ पराजयमवाप्तवान् ॥
गाङ्गेन्यं हन्तुकामोसौ शिवाराधनको भवत् ।
सिद्धे तपसि तं प्राह शम्भुर्गङ्गाधरस्स्वयम् ॥
भो भो नरेन्द्र किं कार्यं तपश्चरसि खेदतः ।
इत्युक्ते प्राह भूपालः परमानन्दनिर्भरः ॥
प्। ६१)
भीष्महन्तारमिच्छामि कर्णे कालवरो मम ।
इत्युक्ते दत्तवान्देवो निर्वितं भीष्मनाशने ॥
कतिचित्कालमासाद्य स्त्रीत्वं पुंस्त्वमवाप्स्यसि ।
इति दत्तवरो राजा पुरमाप कुतूहलात् ॥
तस्य भार्यासुतां काले जनयामास सुप्रभाम् ।
राजा शिवस्य वाक्येन पुत्रो जात इति ब्रुवन् ॥
जातकर्मादिसंस्कारमकरोत् पुरुषे यथा ।
तामन्तरा तु तनयां शिखण्डीमुदवाहयत् ॥
रात्रौ विनोदसमये ज्ञात्वा नारीं शिखण्डिनम् ।
पित्रे सम्प्रेषयामास शीघ्रं सन्देशहारिणम् ॥
श्रुत्वा वृत्तान्तमत्युग्रं चतुरङ्गबलैर्वृतः ।
सम्बन्धिनगरं रोषादाक्रम्यानिष्ठदञ्जसा ॥
एवं शुश्राव वृत्तान्तं स्त्रियं पुरुषविग्रहम् ।
सीताराघवयोर्वाक्यं ये शृण्वन्ति महीतले ॥
तौ दम्पती सदा खेदात्स्यातां मुक्तौ भवाच्चवे ।
रामोपि वित्तं विप्राणां दत्वा वनगतो भवत् ॥
लोकान्तरं गन्तुकामैः काचमात्रञ्च दीयते ।
नव पञ्च च वर्षाणि नववासं विहृत्यते ॥
पुनः पादौ गृहीष्यामि प्रतिजानो नराधिप ।
वध्येवारद्वयन्नास्ति स्थापिते नास्ति चालनम् ॥
प्। ६२)
रामे वार्ताद्वयं नास्ति नास्ति युक्तरराघवऽपि ।
श्रेयसे वृद्धये तान पुनरागमनाय च ॥
गच्छस्वारिष्टमव्यग्रः पन्थान मकुतो भयम् ।
नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम् ॥
नैव सर्वानिमान्कामान्स्वर्गं नैव च जीवितम् ।
इदं प्रोक्त्वा प्रस्थितानां प्रस्थापनविधिर्भवेत् ॥
ते यान्ति सिद्धसङ्कल्पा दृढदेहा धनाधिपाः ।
पुनर्बन्धुसमेताश्च मोदन्ते दिवि देववत् ॥
पूर्णस्य ब्रह्मणो राज्ये इच्छा तस्माद्भविष्यति ।
लाभालाभे दुःखसुखे कार्याकार्ये प्रियाप्रिये ॥
अद्वैते निर्विशेषाख्ये मायालेशो न विद्यते ।
कैकेयी भर्त्सनं श्रुत्वा वसिष्ठमुनि भाषितम् ॥
नश्यन्ति सर्वपापानि तार्क्ष्यं दृष्ट्वा यथोरगाः ।
उमा-
एतादृशास्त्रियस्सन्ति किम्वलोद्वेगकारिकाः ।
भर्तुरुद्वेजिनी नारी व्याली भवति कानने ॥
भर्तुरग्रे तु भुञ्जाना लम्पते जतु वर्तिका ।
कथं द्रोहं प्रकुर्वन्ति स्त्रियकान्ते स्वदैवते ॥
एतदाचक्ष्व देवेश मम कामप्रपूरक ।
महेश्वरः-
शृणु वक्ष्यामि देवेशि किञ्चिदाख्यानमुत्तमम् ।
यस्य श्रवणमात्रेण विभ्यन्ति सकलास्स्त्रियः ॥
ज्येष्ठा दासीन्नरपति प्रियं वद इति भुतः ।
श्रुताध्ययन सम्पन्नो महीं धर्मेण पालयन् ॥
तस्य भार्याद्वयमभूदेका तु सुमुखाभिधा ।
अन्या कनक वर्णाङ्गी धर्मेणोढा भवत्स्त्रियः ॥
ज्येष्ठा प्रसूत तनयं कद्रूं कामाकृतिं शुभम् ।
अन्यात्वजीजनत्पुत्रमम्बुजा क्षेति विश्रुतम् ॥
प्रियंवदाख्यो नृपति रघु तत्र तयं समाः ।
कृत्वा राज्यं जीर्ण वपुः पुत्रं राजानमैच्छत ॥
प्रकृतीस्सम्यगाहूय चिन्तयामास वै हितम् ।
तस्मिन्नवसरे दूतं ज्ञात्वा राज्ञश्चिकीर्षितम् ॥
हेमाङ्गी कथयामास कद्रूराज्यस्य भाविताम् ।
सः पुष्ययोगे ज्येष्ठाया पुत्रं कद्रभिधानकम् ॥
अभिषेक्ष्यति धर्मेण प्रजापालनकर्मणि ।
इत्युक्ते सुप्रजज्वाल कोपेन ज्वलितानना ॥
द्यूतिं कनकवर्णाङ्गी उत्तरं समपृच्छत ।
सा चिन्तयित्वा तां प्राह साहसं परमौषधम् ॥
रात्रौ प्रसुप्ते नृपतौ शिरः खड्गेन लावय ।
मृते पितरि राजातु भविता त्वत्सुतो नघे ॥
मूलं बलं त्वत्सुतस्य तस्य नास्ति हि कोवि हि ।
तथा प्रबोधिता राज्ञी तथा श्रद्धाञ्चकार वै ॥
सिद्धः कश्चिद्ददौ राज्ञे मन्त्रं कम्बलिकां प्रति ।
सा तस्य कर्णे जपति सर्वं वृत्तान्तमादितः ॥
अथ वेदित वृत्तान्तः किमेतदिति चिन्तयत् ।
सा निश्चितार्थः पदति नानृतं वक्ति कर्हिचित् ॥
कूटमभ्यन्तरं शुद्धं शुद्धान्तचरलम्पटम् ।
प्राह भृत्यमथाज्ञप्तो तल्पाधश्शेष्वमे निशि ॥
इत्थं शुद्धान्त सञ्चारकुशलं कञ्चनं व्यधात् ।
रात्रौ कनकवर्णाङ्ग्या कृतभोगो नराधिपः ॥
निद्रावशमगात्सा च महिषी निद्रिता भवत् ।
पिशाच्या कर्णबोधिन्या बोधिनो नृपसत्तमः ॥
उत्थाय शीघ्रमभ्यर्णे निद्रालुं भृत्यमञ्जसा ।
तल्पे निधाय तस्याधः स्वयन्निद्रामुपागमत् ॥
एतस्मिन्नन्तरे सापि प्रबुद्धा चिन्तयत्स्वयम् ।
कृत्वा विकोशन्निस्त्रिंशं केशपक्षे परामृशत् ॥
स्त्रीबुध्या साहसान्मौर्ख्याच्चिच्छेद शिर उत्तमम् ।
इत्थं प्रज्ञात वृत्तान्तो निशान्ते भूपतिस्स्वयम् ॥
शूलाग्रे तां समारोप्य शयिष्ट ससुखं समाः ।
एतादृश्यस्स्त्रियस्सन्ति साहस प्रवरान्विताः ॥
प्। ६५)
साकेतपुरनाथस्य पितुर्दशरथस्य च ।
स्वरूपं दर्शयामास सहस्रार्कसमप्रभम् ॥
सहस्र शिरसं नित्यं सहस्राक्षमनामयम् ।
सहस्रबाहुपादोरुं सर्वतस्समवस्थितम् ॥
जटां त्रिणेत्रं गङ्गां च विभ्राणं प्रलयानलम् ।
शङ्खं चक्रञ्च कौमोदीन्नन्दकञ्च कमण्डलुम् ॥
पिनाकं धवलं रक्तं कार्ष्णञ्चैव वपुर्धरम् ।
ग्रसन्तं सर्वभूतानि व्याक्ताननमिवान्तकम् ॥
दृष्ट्वा रूपं हरेस्तुष्टास्तुष्टाव परमेश्वरम् ।
मां शिवम् ।
मधुवन्नोजसि तु वाञ्छां कुर्वन्ति सरघा यथा ॥
तद्वन्मां ज्ञाततत्वोयं न जहाति कदाचन ।
इति मत्वा स्वयं मायान्ततान नृपमोहिनीम् ॥
इयं धार्मिक कौसल्या मम माता यशस्विनी ।
वृद्धा चाक्षुद्रशीला च न त्वां देव विगर्हिते ॥
मया विहीनां वरद प्रपन्नां शोकसागरे ।
अदृष्टपूर्वव्यसनां भूयस्समन्तु महसि ॥
इत्थं मायामोहितस्तु गमनाय मतिं दधे ।
सीताकौसल्ययोर्वाक्यं पातिव्रत्योपदर्शनम् ॥
श्रुत्वा स्त्री प्राप्नुयान्नित्यं पतिशुश्रूषणाफलम् ।
प्। ६७)
दानवेन्द्रं हतन्दृष्ट्वा तिमिध्वजसुतं रणे ।
स शूरः पुरुषव्याघ्रस्स्वबाहु बलमाश्रितः ॥
असन्त्रस्थोप्यरण्यस्सो वेश्मनीवनिवत्स्वति ।
उमा-
अनुक्तो मुनिना क्वापि सिद्धवत्कथ्यते कथम् ।
एतदा च क्ष्वमन्नाथ रघुनाथ पराक्रमम् ॥
महेश्वरः-
कृतोद्वाहो दाशरथिस्साकेतनगरे मले ।
पितृशुश्रूषणरतो मातृशुश्रूषणे रतः ॥
गुरुशुश्रूषणे सक्तः प्रजापालन तत्परः ।
नियुक्तो गुरुणा रामः शिक्षयन्सकलाः प्रजाः ॥
दिनान्ते जनकं सर्वं विज्ञाप्यानुष्ठितं महत् ।
गृहं प्रविश्य रामस्स सीताया सुखितो भवत् ॥
एवं द्वादशवर्षाणि कृतवान्परिश्चनम् ।
तिमिध्वजस्य तनयशतमायो महाबलः ॥
दण्डकारण्यमभ्येत्य कोसलान्पर्यपीडयत् ।
श्रुत्वा दशरथस्तूर्णं सन्नाहेन समन्वितः ॥
चतुरङ्गबलोपेतः पुरात्तूर्णं विनिर्ययौ ।
अक्षौहिणीद्वयोपेतो दण्डकान्प्रत्यपद्यत ॥
तिमिद्वजस्य तनयश्शतमायो महाबलः ।
प्। ६८)
बलेन महता युक्तो युद्धायाशु विनिर्ययौ ॥
दण्डकारण्यमासाद्य तस्थौ युद्धाय निश्चितः ।
जन्यमासीन्महाघोरं रक्षसां मनुजां तथा ॥
एतस्मिन्नन्तरे रामो धनुर्विष्षारयन्महत् ।
ववर्ष शतवर्षाणि रक्षरतां प्राणशान्तये ॥
ते भग्नदेहमूर्धानो भिन्नाश्छिन्ना विदारिताः ।
त्यक्त्वा प्राणानाजि मध्ये योगि मृग्यं पदं गताः ॥
तान्दृष्ट्वा प्राणनिर्मुक्तान् राक्षसान्स तिमिध्वजः ।
तिमिध्वजसुतो वीरो मायां प्रावर्तयद्युधि ॥
छन्तमायाबलेनाजौ वीक्ष्य रामो महारणे ।
मुमो चास्त्रं महावेदं शब्द वेध्यभिधानकम् ॥
तेन सञ्छिन्नहृदयः पपात च ममार च ।
एतस्मिन्नन्तरे देवैः पुष्पवृष्टिरवर्षतः ॥
स्रष्टा सर्वस्य लोकस्य रामं प्राह मुदान्वितः ।
अस्त्रन्ददानि दिव्यन्ते ते यथा लक्ष्मणस्य च ॥
ददामि सर्वदेवानां पथावत्प्रतिभान्तु ते ।
इति दत्वा वरं वेधास्तत्रैवान्तरधीयत ॥
शान्ते जन्ये दशरथो रामादि सहितो जयी ।
पुरं प्राप्य मुदा युक्तः परां प्रीतिमवाप्तवान् ॥
वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन्सदानघः ।
प्। ६९)
दयावान्सर्वभूतेषु लाभस्तस्य महात्मनः ॥
श्रुत्वा देव्या पञ्चमं वृत्तमेतत्
वाणी शक्यं प्राप्नुयात्कीर्तनाच्च ।
अन्ते वाणी नाथ लोकम्प्रपद्य
अन्ते लोकं शाश्वतं याति मर्त्यः ॥
इत्युमा संहितायां अयोध्याकाण्डश्रवणफलवर्णनन्नाम सप्तमोध्यायः
॥
॥ अथाष्टमोध्यायः ॥
महादेवः-
गङ्गामध्यगता साध्वी प्रार्थयामास जाह्नवीम् ।
सुराघटसहस्त्रेण मांसभूतोदनेन च ॥
यक्ष्यो त्वां प्रयता देवी नगरीं पुनरागता ।
पायसेन द्विजैः पूज्या क्षत्रियैर्गव्यसर्पिषा ॥
वैश्यैः पूज्या माक्षिकेण सुरया शूद्रजातिभिः ।
दर्शादीष्ट्यादि तिथिषु पूज्या शङ्करवल्लभा ॥
अतिदेशेन नारीणां शूद्रधर्मोयमागतः ।
प्। ७०)
भरद्वाजो महातेजाः पूजयामास राघवम् ॥
नानाविधानन्नरसान् वन्यमूलफलाश्रयान् ।
तेभ्यो ददौ महातेजा वासञ्चैवान्वकल्पयत् ॥
उमा-
मधुमूलफलर्जीवं हित्वा मुनिवदामिषम् ।
इति रामेण गदितं जनन्यैगच्छता वनम् ॥
पश्चाद्रामेण कथितं गङ्गासन्तारणात्परम् ।
तौ तत्र हत्वा चतुरो महामृगान्
वराह मृग्यं पृषतं महारुरुम् ।
आदाय मेध्यन्त्वरितं बुभुक्षिता
वासाय काले ययतुर्वनस्पतिः ॥
फलमूलाशिनौ दान्तौ तापसौ धर्मचारिणौ ।
इति नानाप्रकारेण संशयो वर्तते मम ॥
छिन्द्ये तत्संशयं कान्त चारित्रे राघवस्य तु ।
महेश्वरः-
शृणु देवि प्रवक्ष्यामि संशयं छेद्मि सुव्रते ।
एतत्सर्वमभिप्रेत्य
निवारान्नं क्वचिद्रामः क्वचिदामिषभोजनम् ।
मधुना क्वचिदाहारं फलमूलैः क्वचिद्भवेत् ॥
वने निवसता तत्र कृतं रामेण सुव्रते ।
प्। ७१)
एतत्सर्वमभिप्रेत्य मुनिवत्पदमङ्गन्ने ।
उमा-
तीर्त्वा हिमोद्भवां गङ्गां रामो लक्ष्मणमब्रवीत् ।
जागर्तव्यमतन्द्रिभ्यामद्य प्रभृति रात्रिषु ॥
योगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः ।
इत्युक्तं रघुनाथेन गङ्गासन्तारणात्परम् ॥
तञ्जाग्रतं गुणैर्युक्तं वरचापेषु धारिणम् ।
भ्रातृ गुप्त्यर्थमर्थमहं लक्ष्मणमब्रुवम् ॥
इत्थं निषादाधिपतिः प्रोक्तवान्भरतं प्रति ।
इत्थं धनुर्धरोभूत्वा उटजद्वारि लक्ष्मणः ॥
अतिष्ठत्सर्वमावृत्य इति प्राह महामुनिः ।
इदानीं भण्यते तेन मुनिना लक्ष्मणं प्रति ॥
महौ निद्रां च तन्द्रीं च प्रसक्तं च परिश्रमम् ।
रात्रौ धनुर्धरो भूत्वा रक्षत्यतुलविक्रमः ॥
महेश्वरः-
त्रियामायाः तृतीयांशे निद्रां किञ्चित्करोत्यसौ ।
श्रुत्वा वेदवरं काल्ये मुनिवृन्दैस्समीरितम् ॥
रक्षसान्नवकाशोऽस्ति वेदध्वनि विजृम्भणात् ।
तस्मात्प्रचेतसाप्युक्तं किञ्चिन्निद्रा प्रदर्शकम् ॥
अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम् ।
प्। ७२)
प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः ।
कौसल्या नृपतिं प्राह पुत्रव्यसनकर्शिता ॥
भोजयन्ति किल श्राद्धे के स्वानेव बान्धवान् ।
ततः पश्चात्समीक्षन्ते कृतकार्यान्द्विजर्षभान् ॥
तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः ।
न पश्चात्ते भिमन्यन्ते सुधामपि सुरोपमाः ॥
ब्राह्मणेषु वितृप्तेषु पश्चाद्भोक्तुं द्विजर्षभान् ।
नाभ्युपेतुमलं प्राज्ञाः शृङ्गछेदमिवर्षभाः ॥
एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते ।
भ्राता ज्येष्ठो वरिष्ठश्च किमर्थञ्चाभिमंस्यति ॥
अत्रेति हासं वक्ष्यामि शृणु शैलेन्द्रकन्यके ।
पुरा दुर्योधनो नाम राजा धर्मभृतां वरः ॥
सूर्यवंशसमुद्भूतो धर्मे सत्ये च निष्ठितः ।
शाण्डिल्याख्यो महातेजाः पुरोधा अभवन्मुनिः ॥
तस्यैवं वर्तमानस्य राज्ञो दुर्योधनस्य वै ।
पितुर्दिनं हरिदिने बभूव मृतियोगतः ॥
शाण्डिल्यं वरयामास पित्रर्थं ब्रह्मवित्तमम् ।
एतस्मिन्नभ्ययाद्विप्रो वार्षगण्य इति श्रुतः ॥
तन्दृष्ट्वा पूजयामास राजा दुर्योधनाभिधः ।
पित्रर्थे प्रार्थयामास विप्रं ब्रह्मविदांवरम् ॥
प्। ७३)
ओमिति प्राह राज्ञे तु स्नातुं गोदावरीं गतः ।
चिरायिते वार्षगण्ये राजा चिन्ताकुलो भवत् ॥
प्रातः पारणमाख्यातं द्वादश्यां तत्वदर्शिभिः ।
द्वादशीगुणयोगेन तत्काले हव्यकव्ययोः ॥
स्मृति शास्त्रं हृदि दधौ शाण्डिल्योक्त महर्निशम् ।
अनागते वार्षगण्ये श्राद्धं कर्तुमथारभत् ॥
निर्वर्त्य पित्र्यं विधिवदृषेरागमनं नृपः ।
प्रतीक्ष्य पारणां कृत्वा जलेनातिष्ठदासने ॥
एतस्मिन्नन्तरे वार्षगण्याख्यः कृतमज्जनः ।
अभ्यर्णं भूपतेः प्राप्तः पारणे कृतनिश्चयः ॥
तन्दृष्ट्वा कृत सत्कारं ब्राह्मणानां महीपतिम् ।
क्रोधेन महताविष्ठो व्याहर्तुमुपचक्रमे ॥
निमन्त्र्य पित्र्ये मां राजन्नुपेक्ष्या क्रियते कथम् ।
दद्मिशापं महीपालमवमान कृतो यतः ॥
भूपतिः-
श्रुत्वा शाण्डिल्यवचनं शास्त्रं द्वादशिवासरे ।
इदं वृतं मया विप्र शास्त्रं ते श्रावयाम्यहम् ॥
एकादशीदिने प्राप्ते अन्ने तिष्ठन्ति पातकाः ।
अन्नाशी पापमश्नाति दद्यान्नान्नं हरेर्दिने ॥
अन्नवस्त्ररतो वापि दद्यान्नान्नं हरेर्दिने ।
प्। ७४)
एकादश्यामन्नदाता रौरवं नरकं व्रजेत् ॥
हव्यकव्यानि कर्माणि न दद्याद्धरिवासरे ।
द्वादश्यामेव कुर्वीत तद्दिनश्राद्धमेव च ॥
प्रातः कालमति क्रम्य कुर्याच्छ्राद्धादिकं यदि ।
उपवासोद्भवं पुण्यं न धर्मञ्चाधिगच्छति ॥
नाश्नन्ति पितरः कव्यं कालाति क्रमणं यदि ।
इति शास्त्रं समालोक्य दत्तं श्राद्धमिह द्विज ॥
नृपेणोक्तमिदं श्रुत्वा कोपेन ज्वलिताननः ।
तान्त्रिकाणामयं धर्मो वेदनिष्ठैर्बहिष्कृतः ॥
तन्त्रेषु दीक्षितो भूत्वा तन्त्राचाररतो भव ।
इति शापं नृपे कृत्वा गतवान् स्वरस्य चाश्रमम् ॥
हा राघव महाबाहो हा ममायासनाशनः ।
हा पितृप्रिय मे नाथ हा ममाधिगतस्सुत ॥
इति मातुश्च रामस्य सुमित्रायाश्च सन्निधौ ।
राजा दशरथश्शोचन् शयानोन्तमुपागमत् ॥
यं भावं हृदि विन्यस्य देहं त्यजति मानवः ।
तन्न माप्नोति देहान्ते भावं भावनया युतः ॥
राघवस्मरणे नैव मृतिं प्राप्तो महीपतिः ।
तथापि गतवान्स्वर्गं काश्यपत्वाद्धरेः पिता ॥
पुत्रशोकातुरां बन्धौ शेपुर्दशरथन्नृपम् ।
प्। ७५)
त्वामप्त्यातादृशो भावः क्षिप्रमेव गमिष्यति ॥
जीवितान्तकरो योरो दातारमिव दक्षिणाः ।
तस्माद्द्रोहं न कुर्वीत ऋषिष्व ज्ञानतोऽपि वा ॥
यदि दुःखान्प्रपद्यन्ते यथा दशरथो नृपः ।
समेत्य राजकर्तारः सभामीयुर्द्विजातयः ॥
नाराजके जनपदे इत्यादि ग्रन्थ विस्तरैः ।
श्रुत्वा महीपतीनां तु विनाशो नास्त्यकालतः ॥
स्वप्नानां गतयाः प्रोक्ताः कालजा रोगजास्तथा ।
वातजाः पित्तजाश्चैव श्लेष्मजा मन्त्रजास्तथा ॥
देवता वेशवशगा स्वप्नानां गतयो ह्यमूः ।
दुस्स्वप्नानामपि तथा भवन्ति प्रतिभा बलात् ॥
समुद्रशोषणं चापि नदीशोषणमेव च ।
पर्वतात्पतनञ्चापि आह्वानं कृष्यायोषिता ॥
शकृन्मयह्रदे स्नानं शिरसो मुण्डनं तथा ।
वृक्षपर्वतभेदञ्च मूर्ध्निवज्रस्य पातनम् ॥
एवमादीनि दुःखानि दृष्ट्वा सन्तप्तमानसैः ।
तद्दोषशमनार्थाय जप्तव्यं प्रयतात्मभिः ॥
यामेव रात्रिं ते दूता प्रविशन्ति स्म तां पुरीम् ।
भरतेनापि तां रात्रिं स्वप्ने दृष्टो यमप्रियः ॥
इदं सर्गं प्रयोक्तॄणां दुस्स्वप्नशमनं भवेत् ।
प्। ७६)
श्रुत्वा शून्य पुराख्यानं भरतेन प्रभाषितम् ॥
राज्ञा तु नगरं शून्यन्न कदाचित् भविष्यति ।
ग्रहाणां न विनाशस्स्यात् सर्वथा ग्रहमेधिनाम् ॥
भरतस्य च कैकेय्यास्संवाद श्रवणान्नृणाम् ।
पातकानि च विभ्यन्ति तार्क्ष्यं दृष्ट्वा यथोरगाः ॥
सोमात्यमध्ये सङ्क्रुद्धो जननीमभ्यकुत्सयत् ।
ज्येष्ठो ह्यकृतदारे च ह्यकृताग्निपरिग्रहे ॥
दाराग्नियोगं चक्रुस्तेये नरा मूढचेतनाः ।
परिवेत्ता परित्याज्य इति शास्त्रेषु निन्दितः ॥
तद्वज्ज्येष्ठे विद्यमाने कृतभूमि परिग्रहः ।
परिराजकतां प्राप्य निन्दितस्स्याज्जगत्त्रये ॥
तद्दोषशमनार्थाय जननीमभ्यकुत्सयत् ।
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ॥
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ।
इति शास्त्रं समालोच्य मातरं प्रत्यकुत्सयत् ॥
कौसल्यायाश्च पुरतो भरते न प्रभाषितम् ।
शपथ प्रार्थनं सर्गं यस्यार्योनुमते गतः ॥
इत्यादि श्रवणात् पुंसामभिशापो न विद्यते ।
अत्र ते कथयिष्यामि इतिहासं पुरातनम् ॥
प्। ७७)
राज्येऽभिषेच्य तनयं तपसे गतवान्वनम् ॥
विरक्तस्य प्रवृद्धस्य स्वर्णरोमाख्य भूपतेः ।
निर्विशेषं परं ब्रह्म ध्यायतस्सततस्सुरैः ॥
प्रेषिताः कतिचिच्चोरा धना राज्ञो निवेशने ।
गृहीत्वा भूरिबहवो निर्गता राजवेश्मनः ॥
पालकास्सम्यगाज्ञाय अनुजग्मुर्मलिम्लचान् ।
तस्करान्पालकाञ्ज्ञात्वान्तुर्णितन्धनसञ्चयम् ॥
निधाय जग्मुर्वेगेन स्वर्ण रोम्णस्समीपतः ।
मोषितो वित्तनिकरः स्वर्णरोम्णेति वादिनः ॥
राज्ञो निकटमानिन्यू राजर्षि प्रवरं शुभम् ।
ज्ञात्वा सुवर्णरोमाणं प्रणिपातपुरस्सरम् ॥
प्रस्थापयन्महीपालस्तस्य माहात्म्य गौरवात् ।
स्वर्णस्ते यस्य विषये मिथ्याशापोयमागतः ॥
इति बुध्या स्वर्णरोमः प्रायश्चित्तमचिन्तयत् ।
अरुन्धती पतिं गत्वा प्रायश्चित्तमपृच्छत ॥
उपदिष्टो वसिष्ठेन शपथं भरतस्य सः ।
जजानतो न पूतात्मा प्राप्तवान्दिव्यमन्दिरम् ॥
प्राग्द्वारे भूत्तदा कुब्जा सर्वाभरणभूषिता ।
लिप्ता चन्दनचारेण राजवस्त्राणि बिभ्रती ॥
स्वजन्मनः फलं हेम स्वयं वा मनिका सती ।
प्। ७८)
निर्वापयामास शनैर्देवानां हितमिच्छति ॥
तस्माद्भषण सङ्कारै भूषणं युज्यते भृशम् ।
भरतस्य ससैन्यस्य भरद्वाजस्य सत्कृतिम् ॥
पठन्दद्यात् पितॄणां हि अक्षय्य फलसिद्धिदम् ।
जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि ॥
ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ।
गायत्र्या स्वरसङ्ख्यातं वर्णकं शृणु याद्यत् ॥
तस्य धर्मार्थ मोक्षाणां फलं हस्तगता भवेत् ।
क्वच्चित् सर्गं प्रयोक्तॄणां सायं प्रातरहर्निशम् ॥
तस्य विभ्यन्ति सकलाः युवराज मुखा भृशम् ।
चित्रकूटे गिरिवरे भ्रातृणान्तु समागमा ॥
शृण्वतां जपतां चापि तेषां सिध्यन्ति सिद्धयः ।
देशान्तरगतानान्तु पुनरागमनं भवेत् ॥
श्रुत्वा दशरथं वृत्तमरौदीद्राघवो भृशम् ।
माता पित्रोर्विनाशे तु रोदनं शास्त्रचोदितम् ॥
देशान्तरमृतिं श्रुत्वा पितृणां तनयस्तदा ।
तद्दिने वपनं कृत्वा निवापादीनि कारयेत् ॥
अकुर्वन्यदि मूढात्मा देहो शुद्धो भविष्यति ।
तद्दिनोपक्रमं कुर्याद्दशाहं तिलवारि च ॥
अञ्जलिस्तद्दिने वापि कुर्याद्दशदिनोदितम् ।
प्। ७९)
राज्ञामेकदिने कुर्यात् क्वचिद्भिन्नेऽपि तर्पणम् ॥
कर्कन्धुसहितं पिण्डमिङ्गुदि क्षो निर्वितम् ।
पितॄणां तृप्तिदं प्राहुर्याज्ञवल्क्यादयो द्विजाः ॥
एतत्ते राजशार्दूल विमलन्तोयमक्षयम् ।
पितृलोकं गतस्याद्य मद्दत्तमुपतिष्ठतु ॥
पितॄणामुदकं दत्वा पुत्र एकादशेऽहनि ।
श्रुणुयाद्विप्रवाक्येन तां श्रूत्वित्यादि सर्गकम् ॥
पितरस्तेन तृप्तास्स्युरक्षय्यगति गामिनः ।
तमेवं दुःखितं वीक्ष्य विलपन्तं यशस्विनम् ॥
रामाकृतात्मा भरतं समाश्वासयदात्मवान् ।
इत्यादि श्रवणं पुंसां वैराग्यं जायते भृशम् ॥
एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।
उवाच भरतश्चित्र वचनं धार्मिको यथा ॥
इति सर्गं प्रयोक्तॄणां राघवे जायते भृशम् ।
श्रुत्वा रामस्य भणितं जाबालिमतभञ्जनम् ॥
असच्छास्त्ररतिस्तस्य नैव जायेत कर्हिचित् ।
क्रुद्धामाज्ञाय रामन्तु वसिष्ठः प्रत्युवाचह ॥
आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ।
तस्मान्मरीचिस्सञ्जज्ञो मरीचेः काश्यपरस्सुतः ॥
त्वन्मायया विश्वमिदमुद्भूतं सचराचरम् ।
प्। ८०)
ज्येष्ठस्य पुत्रता प्रोक्ता कामजानितरान्विदुः ॥
तस्मात्त्वदुक्तमर्यादा न भेत्तव्या यथा पुरा ।
तथा कुरु महाविष्णो वराहेणोद्धृता पुरा ॥
राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् ।
वक्तुमर्हसि काकुत्स्थ मम मातुश्च याचनम् ॥
स्त्रीणां तु हृदयन्नित्यं वज्रं भवति राघव ।
ऋचा तथा सम्यगुक्तमवधारय सुव्रत ॥
शिष्यस्तु शरभङ्गस्य पादुकां कुशनिर्विताम् ।
दत्वा राघवहस्ते तु गुरोर्निकटमभ्यगात् ॥
तस्मिन्नवसरे रामः प्रतिज्ञां सञ्चकार ह ।
लक्ष्मीश्चन्द्रादपेयाब्दा हिमवान्वा हिमं त्यजेत् ॥
अतीयात्सागरो वेलान्न प्रतिज्ञामहं पितुः ।
एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् ॥
तेजसा नित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ।
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ॥
एते हि सर्वलोकस्य योगक्षेमं विधास्यत ।
अधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च ॥
प्रायच्छत्सुमहातेजा भरताय महात्मने ।
कौसल्या प्रार्थितस्तु वसिष्ठेन तु चोदितः ॥
रघुनाथस्य मातुश्च भरतस्य च भाषितम् ॥
शृण्वतां सर्वकार्याणि सिध्यन्त्येव न संशयः ।
रघुनाथ प्रसादेन रामसायुज्यमाप्नुयुः ॥
पुत्रपौत्र प्रपौत्रैश्च क्षेत्रारामाणि भूरिशः ।
सिध्यन्त्येव प्रसादेन रघुनाथस्य श्रीघ्रतः ॥
यथा कृतार्थो भरतो रघुनाथप्रसादतः ।
तद्वत्कृतार्थो भवति राघवे प्रसादतः ॥
अत्रेस्तु दर्शनं पश्चादनसूयाभिदर्शनम् ।
अनसूया प्रभावं च पातिव्रत्यसतुतिं तथा ॥
सीताकल्याण सम्प्रश्नमङ्गरागस्य चार्पणम् ।
विवाहात्पूर्व दिवसे भवान्या दर्शनात्परम् ॥
श्रुत्वा कन्या सदा भर्त्रा रमते रुन्धती यथा ।
साकेतकाण्डस्य फलं वक्तुं वर्षायुतैरपि ॥
न शक्यते मया देवि क्वचित् क्वचित् प्रदर्शितम् ।
अयोध्याकाण्डमखिलं ये शृण्वन्ति नरोत्तमाः ॥
ते सर्वे हरिसायुज्यं प्राप्नुवन्ति न संशयः ।
भरत प्रतिमां कृत्वा चतुर्विंशत्सुवर्णकैः ॥
कुम्भे निधाय रद्बेर मह तेन तु वेष्टयेत् ।
भरताय नमोमन्त्रमपूर्वं पूजयेन्नरः ॥
काण्डान्ते तु सहस्रं स्यादिति वेदविदो विदुः ।
प्। ८२)
दद्याद्द्विजातये सर्व सहस्रद्रव्यसंयुतम् ॥
तदर्धैर्वा तदर्धैर्वा तदर्धद्रव्यमात्रकैः ।
यथा शक्तिधनैर्वापि प्रतिमादानमाचरेत् ॥
सहस्रारसहस्रांशो प्रभया तुलित प्रभ ।
वाञ्छितं यच्च भरत प्रीतो भव दयानिधे ॥
इति मन्त्रं सकुर्यार्य प्रतिमामर्चयेन्नरः ।
काण्डान्ते तु सहस्रं स्याद्ब्राह्मणानान्तु भोजनम् ॥
यथा शक्ति द्विजातीनां भोजनं सम्यगाचरेत् ।
प्रत्यहं ब्राह्मणान्पूज्य वक्तारं प्रथमं यजेत् ॥
ताम्बूलदानं विप्राणां श्रोतॄणां प्रीतिपूर्वकम् ।
अपूपैरिक्षुखण्डैश्च खर्जूरैः कदली फलैः ॥
प्रत्यहं राघवेन्द्राय मारुतेः पूजनन्तथा ।
कुर्वन्न भीष्टममलं प्राप्नुयाद्धिहहेर्बलात् ॥
इत्युमा संहितायामयोध्याकाण्डे श्रवणफलवर्णनन्नाम अष्टमोध्यायः
॥
॥ अथ नवमोध्यायः ॥
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् ।
ददर्शरामो दुर्धर्षास्तापसाश्रममण्डलम् ॥
महेश्वरः-
आरण्यकाण्डोदितमर्थजातं सङ्क्षिप्य वक्ष्ये नगराजकन्यके ।
शृणुष्व तच्चोदित पुण्यराशिं सहेतिहासं मम विक्रमाणाम् ॥
प्रविश्यमानो विपिनं विराधन्नाम राक्षम् ।
ददर्शरामो दुष्प्रेक्ष्यं कृतपुण्यफलोदकम् ॥
सोपि तौ जानकी युक्ता दृष्ट्वा सञ्जातविभ्रमः ।
इयं परा महाशक्तिरियं सर्गस्य कारणम् ॥
अस्यापि बोधनं मुक्तेः कारणं बन्धनेऽपि च ।
तस्मादिमां भजिष्यामि यावत्प्रारब्धनाशनम् ॥
इति दर्शनमात्रेण विमुक्ताबोधपञ्जरम् ।
इत्थं भूत्वा महारैनां सीताञ्चैतन्य रूपिणीम् ॥
रामस्तत्पाप शान्त्यर्थं प्रायुङ्क निशितान्शरान् ।
न पीडाञ्च क्रुराहत्य क्रूरा राक्षसवक्षसि ॥
उमा-
रामकोदण्डनिर्मुक्ता शिताग्राश्च शिलीमुखाः ।
प्। ८४)
बलात्तु वरदानस्य न प्राणान्घ्नन्ति सायकाः ।
इति प्रचेतसा प्रोक्तं कथमे तन्महेश्वरः ॥
ईश्वरः-
शिवपूजा प्रभावेन वरदानवशादपि ।
महाबला महावीर्या राक्षसाः पिशिताशनाः ॥
तान्किञ्चिद्दर्शयिष्यामि शृणु शैलेन्द्रकन्यके ।
विराधो हाटकपुरे विधिवन्मामपूजयत् ॥
सूर्यपुष्करणीतीरे स्थापयामास धूर्जटिम् ।
अतिकायश्शक्तिपुरे वल्मीकेशस्य दक्षिणे ॥
पूजयामास विधिवत्प्रतिष्ठाप्य महेश्वरम् ।
दुन्दुभिः पूजयामास तस्य देवस्य वामके ॥
सार्धयोजनमात्रे तु दुन्दुभेशाभिधं शिवम् ।
खरः खरपुरे लिङ्गं क्षीरनद्यास्तु दक्षिणे ॥
दूषणोऽपि समासाद्य सरुह्यजायास्तु दक्षिणे ।
श्रीमद्रत्नगिरीशानमगस्त्येन सुपूजितम् ॥
त्रिशिरा दक्षिणे तीरे सह्ययोन्या ममोहरे ।
सुपूज्य बलिनो जाता लोकोपद्रव कारकाः ॥
दक्षिणाशामुनिन्नित्यं मत्समाराधने स्थिताः ।
ब्रह्मर्षिन्तमुपासन्ते दुराधर्षास्सुरैरपि ॥
उमा-
भवदाराधकास्सर्वे सात्विका ज्ञानपूजिताः ।
दुरात्मानः कथं जाता लोकोपद्रव कारकाः ॥
महेश्वरः-
ममाराधनमाख्यातं त्रिविधं मुनिसत्तमैः ।
सात्विकं राजसं चापि तामसं चेति तत्त्रिधा ॥
सात्विका ज्ञानवन्तश्च राजसा बलगर्विताः ।
तामसास्तु जना हीना लोकोपद्रवकारकाः ॥
दक्षिणाशामुनिन्नित्यं मत्समाराधने स्थिताः ।
ब्रह्मर्षिन्तमुपासन्ते इन्द्राद्या देवता गणाः ॥
राजसेन समाराध्य जमदग्निकुलोद्भवः ।
अभूद्राजसयोगेन क्षत्रियाणां कुलान्तकः ॥
केवलं तामसास्सर्वे विराधाद्या महाबलाः ।
बहिस्सत्वं मम सदा अन्तस्तामसमेव च ॥
मां हि सत्वगुणोद्रिक्तमुपासन्ते हि सात्विकाः ।
तामसास्तामसेनैव भजन्ते भुवि नित्यशः ॥
महेश्वरः-
रामकोदण्डनिर्मुक्ता विफला मार्गणाः कथम् ।
इत्यर्थे संशयछेदं करोमि तव पार्वति ॥
वध्येशनद्वयं नास्ति स्थापिते नास्ति चालनम् ।
रामे वार्ताद्वयन्नास्ति नास्तीत्युक्तिररावपि ॥
प्। ८६)
काण्डावलिर्विराधस्य निष्ठुरोरसि ताडितः ।
न व्यथाञ्च क्रुराहत्य अवध्य कवचावृते ॥
कादम्बः केवलालक्ष्ये पतन्ति न पतन्ति च ।
नामाङ्कितं लक्ष्यवेधं कुर्वन्त्येव न संशयः ॥
नाममन्त्रेण संयुक्ताश्शरा बर्हिण वाससः ।
हत्वा यान्ति पुनस्तूणीं प्रविशन्ति न संशयः ॥
केवला नाम संयुक्ताः पक्षत्रियत गामिनः ।
यो विराधवधं नित्यं शृणोति श्रावयेत वा ॥
तस्य पापानि सर्वाणि विलीनानि भवन्ति हि ।
न जातु महतां द्रोहं कुर्यात्तच्छेदधोगतिम् ॥
मुनिभिर्नित्यमाख्यातं मत्वाश्वभ्रे खनत्क्षितौ ।
विराधोऽपि गतो मुक्तिं काकथा ज्ञानपूरिते ॥
भक्त्या केचिन्महात्मानः केचिज्ज्ञानेन योगिनः ।
अपरे सन्तत द्वेषात् सङ्ग्रामादितरे जनाः ॥
शरभङ्गाश्रमप्राप्तिं पुरुहूतसमागमम् ।
दर्शनं शरभङ्गस्य रघुनाथस्य पूजनम् ॥
रामेण समनुज्ञातो लोकान्तरगतिन्तथा ।
शृण्वतां त्रिदशानां तु लोकप्राप्तिर्न संशयः ॥
दण्डकारण्यनिलया ऋषयस्संश्रितव्रताः ।
राममासं भोजयिष्यन्तश्चक्रुर्मेलानमादरात् ॥
प्। ८७)
रामराम महाबाहो शृणु वृत्तान्तमादितः ।
पौलस्त्यो रावणो नाम दशग्रीवो महाबलः ॥
तेनादिष्टा निशिचरा ऋषीणां प्राणहारिणः ।
सन्त्यत्र दण्डकारण्ये कर त्रिशिरदूषणैः ॥
ताटकातनयेनापि सहिता राक्षसर्षभाः ।
भक्षणं भर्त्सनं चापि शिरसां लवनं तथा ॥
वेतान वह्नेश्शमनं बहिर्वेदिप्रदूषणम् ।
तादृशानां महाबाहो हननं कुरु राघव ॥
रामो ऋषिगणैदीतं पूर्णकुम्भोदकं शुचि ।
जटाचूडाङ्किते मौलौ प्रोक्ष्य सीताञ्च लक्ष्मणम् ॥
रामः प्रतिज्ञामकरोत् ऋषीणामग्नि तेजसाम् ।
रक्षसां निधनं जन्ये ऋषीणामभयन्ददौ ॥
प्रपन्नानान्तनु भृतां रामश्शरणदस्सदा ।
ऋषीणामग्नि कल्पानान्दण्डकारण्यवासिनाम् ॥
शरणं प्रददौ राम इत्युक्ते का विचित्रता ।
प्रपत्तिर्द्विविधा प्रोक्ता जार्जारी चैव वानरी ॥
तवाहमित्युपगता स्तन्नाम कृतलाञ्छनाः ।
तदर्चापूजनरतास्तददृष्टान्नेन भुञ्जतः ॥
गर्भभूता वयमिति प्रोच्यस्तत्र महर्षयः ।
तस्माद्दास्यं गतास्सर्वे ऋषयो ब्रह्मवादिनः ॥
सीताथ रघुनाथस्य हितकामा तपस्विनी ।
शस्त्रत्यागनिमित्ताय कथामुक्तवती किल ॥
अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् ।
न तु प्रतिज्ञां संश्रुत्य बाह्मणेभ्यो विशेषतः ॥
एतच्छ्रवण मात्रेण रामात्काङ्क्षितमाप्नुयात् ।
क्वचिन्मासं क्वचित्पक्षं क्वचिन्मासचतुष्टयम् ॥
षाण्मासं वत्सरञ्चापि वत्सरत्रितयं तथा ।
उषित्वा दर्शनं कर्तुं दक्षिणामुनिं ययौ ॥
गत्वागस्त्याश्रमं प्राह शिष्यं प्राज्ञो महाजसकम् ।
ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् ॥
द्रष्टुमिच्छावहे सर्वे भगवन्तन्निवेद्यताम् ।
यङ्कारोयं निगदितं देव्या अष्टमवर्णकम् ॥
यङ्कारो वायुदैवत्यो वायुर्ब्रह्मेति गीयते ।
हृदि ध्यायन्महादेवमास्ते हि तपसां निधिः ॥
ध्यायन्तं शङ्करं सर्वे ब्रह्माद्या देवतागणाः ।
भजन्ते शङ्करं द्रष्टुं काङ्क्षया भक्तपूजनम् ॥
कैलासे भक्तहृदये पार्वत्याः केलिमण्टपे ।
नित्यमास्ते शिवो यस्मात्तस्माद्भक्तं समाश्रयेत् ॥
अगस्त्येनाभ्यनुज्ञातो मध्ये पञ्चवटीं प्रति ।
गच्छन्ददर्श राजानं गृध्राणां चिरजीविनम् ॥
प्। ८९)
बहुषान्मूलनिलयं रामः पप्रच्छ को भवान् ।
गृध्रोहं वैनते यस्य द्वितीयस्य सुतो बली ॥
जटायुं विद्धि राजेन्द्र रक्षिष्ये जानकी महम् ।
सर्गाणां कथनाद्देवी वंशसर्गविलोपनः ॥
न जायते कदाचिच्चः कुलवृद्धिर्भविष्यति ।
रामः पञ्चवटीं गत्वा शरदां त्रितयासुखम् ॥
उवास दैवतैरीड्यो गोदावर्यास्तटे शुभे ।
स्नात्वा कदाचिद्धेमन्ते लक्ष्मणेन च सीतया ॥
कथां चिरन्तनां तत्र श्रावयन्नुटजां कणे ॥
स्थितवान् जानकी वक्त्रे स्वबिम्बमवलोकयन् ॥
तन्देशं राक्षसी काचिदा जगाम यदृच्छया ।
सीतामुटजमध्यस्थां रामं वीक्ष्य च सुन्दरम् ॥
सा मन्मथ शरैर्विद्धा वृद्धा फलित मूर्धजा ।
सुकुमारं विरूपा सा सुस्वरं भैरवस्वनाम् ॥
तरुणन्दारुणा वृद्धा अकामयत वेगिता ।
सा रामाभ्यर्णमभ्येत्य प्राहेयन्त्यज्यतामिति ॥
स्वरूपं बिम्बितं वीक्ष्य जानक्यामुखदर्पणे ।
इमां विरूपामसतीं करालान्निर्नतोदरीम् ॥
सीतां विहायमान्नित्यं राम कान्तरभूमिषु ।
कृतदारोऽस्मि सुभगे यवीयान्लक्ष्मणाभिधः ॥
प्। ९०)
तस्य त्वं गेहिनी भूत्वा भुङ्क्त?भोगान्यथेच्छया ।
लक्ष्मणेनापि साक्षिप्ताः कथं दासं श्रयिष्यसि ॥
दासित्वञ्च दृशीनान्तु निन्दितं सुभ्रुगम्यताम् ।
इति डोलायिता चण्डी शीघ्रुक्षुर्जनकात्मजाम् ॥
उटजद्वारनिकटे रामेण प्रतिषेधिता ।
लक्ष्मणस्तूर्णमुत्थाय करवालेन वीर्यवान् ॥
कर्णौस्तनौ नासिकां चाच्छिनद्राम शासनात् ।
कर्णनासापहरणं शृण्वतां पठतां सदा ॥
न जातु मानभङ्गस्स्यात् रघुनाथप्रसादतः ।
खरं जनस्थानगतं खरस्वना
खरादिरक्षः कुलनाशकारिणी ।
खरांशु मलेस्तनयस्य रक्षसा-
मसौ प्रहाराय कृते वदूतिका ॥
खरः खरान्खट्टजनारिवर्गान्
व्यग्रः प्रयाणाय समादिदेश ।
रामोपि तान्रुक्य सुवर्ण पुङ्खैः
व्यसूंश्चकाराप्रतिमप्रभावः ॥
चतुर्दशसहस्राणां सङ्ग्रामेष्वनिवर्तिनाम् ॥
रक्षसां हिमकर्माणां प्रधानानां बलियसाम् ।
एकैकस्य सहस्राणां सन्त्येव पिशिनाशनाः ॥
प्। ९१)
तान्मेलयित्वा तु खरः पललंशन संहतिम् ।
समराय समाश्रित्य राघवाभ्यांशमभ्यगात् ॥
रामोऽपि जानकीं न्यस्य दय्यां भ्रातृसमन्विताम् ।
सन्नद्धः कवची खट्गी युधाय समुपस्थितः ॥
खरेण प्रहिताश्शूराः सङ्ग्रामेष्व निवर्तिनः ।
राममावृत्य बाणौघैः ववषुर्मुक्तिगामिनः ॥
सानुबन्धा निशिचरा बाणैर्दारितकिल्विषाः ।
राममासाद्य समरे सायुज्य पदवीं गताः ॥
खरस्य समरे रामं ददृशुस्सिद्धचारणाः ।
तं सर्वे तेजसाविष्टं प्राद्रवन् वनदेवताः ॥
रुद्रशक्त्या विलसितन्दृष्ट्वा रामकलेवरम् ।
शङ्खं चक्रं च शूलञ्च पिनाकं खैटमेव च ॥
खट्वां घण्टां च डमरूं बाणं पाशाङ्कुशं तथा ।
टङ्कं वज्रं च खड्गञ्च परशुं त्राणकारणम् ॥
जटां त्रिणेत्रं बिभ्राणां दतिशुस्सिद्धचारणाः ।
रणे रामेण बाणौघैः छिन्नाभिन्ना विदारिताः ॥
प्रभग्नं तद्बलं सर्वं रामेणाद्भुतकर्मणा ।
दृष्ट्वा निषूदितं सर्वं सैन्यं राक्षसपुङ्गवः ॥
त्यक्त्वा कथं महावेगात् राघवं शीघ्रमाययौ ।
अपासर्पत्प्रतिपदं किञ्चित् त्वरितविक्रमः ॥
प्। ९२)
स्थूलदेहावविस्रस्य नास्ति कैवल्यमण्वपि ।
तस्मात्प्रारब्धनाशाय विमोक्ष्येन्तकरं शरम् ॥
गृहीत्वा वैष्णवं चापं कठोरांशोन्वयोद्भवः ।
खरं प्रति महावेगात्ससर्जनिशितान्शरान् ॥
तानचिन्त्य महावेगान्रुक्मपुङ्खाञ्छिलाशितान् ।
सकाशं रघुनाथस्यं वेगेन प्रत्यपद्यत ॥
रामश्शरेणाशुजहार मौलिं
किरीटजुष्टं मणिकुण्डलाढ्यम् ।
कलेबरा भूमितलेत पापातखं ज्योतिषा
द्योतितमाशु कुर्वन् ॥
उत्पतेजस्तबको विशाल
मुरस्थलं प्राप रघूत्तमस्य ।
स्मृत्वा रघूत्तमं मर्त्यस्त्यजत्यन्ते कलेबरम् ।
रामसायुज्यमाप्नोति दृष्टेऽर्थे किं विचित्रता ॥
ववर्पुर्देवगन्धर्वास्सिद्धविद्याधरर्षयः ।
प्रसूननिकरैर्वर्षं राघवं खरधानिनम् ॥
राज्याभिषेक समये श्रोतव्यं विप्रवाक्यतः ।
स्थिरं राज्यमथासाद्य रमतेन्द्रो यथा दिवम् ॥
श्रुत्वा श्रीरामविजयं पापबन्धाद्विमुच्यते ।
तथैव शृङ्खलाबन्धाद्रण बन्धात्तथैव च ॥
प्। ९३)
श्रुत्वा पुष्पवती नारी तनयं वंशवर्धनम् ।
लभते राघवेन्द्रस्य प्रसादात्कीर्तिवर्धनम् ॥
पुरा विशां पतिः कश्चित् मणिगुप्त इति श्रुतः ।
श्रुताध्ययन सम्पन्नो वित्तो वित्तपतेस्समः ॥
निजाश्रमोचितान्धर्मान् त्यक्त्वार्षीको बभूवह ।
निषूरो निर्घृणो मूर्खो निरातङ्को वणिक्पतिः ॥
भिक्षुकाणास्रासमात्रन्दरिद्राणां वराटकम् ।
न ददाति घृणाशून्यो रत्नगुप्ताभिधो वणिक् ॥
एकदा ग्राममभ्येत्य भिक्षुरन्नमयाचत ।
तन्ताडयत वेगेन दण्डेन स वणिक्पतिः ॥
स्मित्वा भिक्षुरथप्राह खिन्नस्ते पाणिलाघवः ।
वराटकं प्रगृह्यत्वं यन्ता किं यममन्दिरम् ॥
इत्युक्त्वा तस्य भवनान्निश्चक्राम दयानिधिः ।
जन्मान्तरार्जितैः पुण्यैः चित्तशुद्धिमुपागतः ॥
वृधामांसानि जग्धानि कृसराणि पयोदनम् ।
शष्कुलीपिण्डिकाश्चापि तिलोदनमतः परम् ॥
सूपोदनं पायसं च वृद्धा जग्धान्याभुक्ष्णशः ।
प्रत्यब्दं पितृतृप्तिं च न कृता द्रव्यवाञ्छया ॥
तद्दोषशमनार्थाय प्रायश्चित्तं विधीयताम् ।
इति विज्ञापितं श्रुत्वा वैश्यस्य द्विजपुङ्गवाः ॥
प्। ९४)
आलोढ्य सर्वशास्त्राणि चक्रुः पापविमोचनम् ।
पूर्णकुम्भः प्रतिष्ठाप्य क्षौमवस्त्रेण वेष्टितम् ॥
श्रीरामप्रतिमां कृत्वा समाराध्य यथा विधि ।
तन्देशं राक्षसी काचिदाजगाम यदृच्छया ॥
इत्युपक्रम्य सर्वाणि जेपुर्द्वादशपुङ्गवाः ।
तन्दृष्ट्वा शत्रुहन्तारम्महर्षीणां सुखावहम् ॥
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ।
इत्यन्तैर्मन्त्रनिकरैर्जप्ता द्वादशभूषुराः ॥
सिष्टि चु कुम्भतोयेन मुक्तो भूत्पातकौधतः ।
अङ्कपनोदितं श्रुत्वा रावणो राक्षसाधिपः ॥
मारीचाश्रम मासाद्य वसन्तन्ताटकासुतम् ।
सहायं वरयामास मारीचन्नाम राक्षसम् ॥
वार्यमाणस्सु बहुशो मारीचेन स रावणः ।
निवृत्य लङ्कां वेगेन तूर्णं प्रत्य प्रपद्यत ॥
लङ्गां शूर्पणखी गत्वा रावणं प्राहराक्षसी ।
न च देवी न गन्धर्वी नासुरी न च राक्षसी ॥
दृष्टपूर्वा मया नारी त्वदर्थे हर्तुका मया ।
तदाभ्यर्णगता तेन विना सा कारिता बलात् ॥
तस्य भार्यां हर क्षिप्रं तस्मा * क्ष्यति जीवितम् ।
युद्धेन नावकाशोऽस्ति जेतुं रावण कर्हिचित् ॥
प्। ९५)
श्रुत्वा दशग्रीव गुणानुवर्णनं
सर्गं विशिष्टो भविता परित्र्याम् ।
श्रीपार्वती शस्य पदानुसेविनां
न लभ्यमस्त्यण्ड विकृत्स्नलोके ॥
पुनर्मारीच मासाद्य वरयामास रावणः ।
साहाय्यं बहुधा सोपि वारयामास रावणम् ॥
मारीचोक्तमुपश्रुत्य गुरुमान्भवति क्षितौ ।
जानकीम्मोहयामास मारीचोष्टापदो मृगः ॥
भूत्वा माया विकारेण सीतां मायास्वरूपिणीम् ।
माया सर्वान्क्षोभयति विनाराघवसेविनम् ॥
रामोऽपि भार्यावाक्येन दूरं वनमधावत ।
रामेपुणा हतस्सोऽपि विस्स्वनं क्रोशनं व्यधात् ॥
मां रन्तुकामो विपिनं भरतेन स्वयन्तु वा ।
प्रेषितस्तव कामानां नास्ति सिद्धिः कदाचन ॥
उपधाय करन्तस्य कथमन्यस्य संश्रये ।
न सिध्यति मरिष्यामि तवटच्छनचेदिह ॥
सीताकठोरवाक्येन ताडितो राघवानुजः ।
विसृज्य सीतां वेगेत्य पार्श्वं रामस्य जग्मिवान् ॥
तदन्तरे खरे युक्तो रावणेनाहृतो रथः ।
सीतानिकटमभ्येत्य दर्शनं समपद्यत ॥
प्। ९६)
तं विसृज्य शिखि छत्री त्रिदण्डी भिक्षुवेषधृत् ।
सीतानिकटमासाद्य तस्थौ ब्रह्म उदीरयन् ॥
आगतं यतिनं वीक्ष्या नर्चचायतलोचना ।
यतीनां पूजनं कार्यं स्त्रिया वा पुरुषेण वा ॥
यस्य गेहे यतिर्भुङ्क्ते तस्य भुङ्क्ते हरिस्स्वयम् ।
यस्य गेहे हरिर्भुङ्क्ते तस्य भुङ्क्ते जगत्त्रयम् ॥
सीतारावणसंवादं ये शृण्वन्ति नरोत्तमाः ।
न जातु तेषां पापेभ्यः पीडा तस्य भविष्यति ॥
दशग्रीवं प्रतिप्राह तदा सीता यशस्विनी ।
मम भर्ता महातेजा वयसा पञ्चविंशकः ॥
अष्टादश च वर्षाणि गण्यन्ते मम जन्मनि ।
भकारार्णमुनिः प्राह नवमं मुनिसिद्धिदम् ॥
यदन्तरं सिह्मसृगालयोर्वने
यदन्तरं स्यन्दिनिका समुद्रयोः ।
यदन्तरं काञ्चन सीसलोहयोः
यदन्तरं मद्गुमयूरयोर्वने ॥
यदन्तरं हस्ति विडालयोर्वने
तदन्तरं दाशरथेस्तवैव च ।
इत्यादि वाक्यनिकरं शृण्वतां भूतनाशनम् ।
रघुनाथसमा लोके सति किम्मनुजेशुभम् ॥
प्। ९७)
स्वरूपं रावणं प्राप्य गृहीतुञ्जनकात्मजाम् ।
प्राप्तवान्निकटं तूर्णं गृहः खे रोहिणी विव ॥
वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः ।
ऊर्वास्तु दक्षिणेनैव परिजग्राह पाणिना ॥
तन्दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम् ।
प्राद्रवन्मृत्युसङ्काशं भयार्ता वनदेवताः ॥
छाया ग्राहित्वमस्यास्ति सर्वविद्याविशारदे ।
केशच्छायां परामृश्य जानुछायान्तथैव च ॥
गृहीत्वा जानकीं हृष्टो लङ्कां प्रायात्सरावणः ।
सीतापहारश्रवणं ये कुर्वन्ति नरोत्तमाः ॥
न तेषां विमुखा देवी भविष्यति कदाचन ।
अज्ञानं विलयं याति राघवस्य प्रसादतः ॥
क्रोशन्तीं रामरामेति वीक्ष्यन्यग्रोधमाश्रितः ।
रावणं योधयामास सीतामोक्षणकारणात् ॥
छत्रं बाहुं तस्य मौलिं चापं साङ्ग्रामिकं रथं ।
खरान्केशान्नखैस्तुण्डैरलावीद्रामहेतवे ॥
श्रुत्वा खगेश्वरस्यापि रक्षसामीश्वरस्य च ।
आयोधनं रणान्मुक्तो भृत्य स्वामिकृतान्निजात् ॥
रावणो खण्डयत्पक्षौ चन्द्रहासेन वीर्यवान् ।
सीतां गृहीत्वा च पुनर्दक्षिणाशां ययौ बलात् ॥
प्। ९८)
रावणाङ्कगता सीता शुशुभे मदिरेक्षणा ।
कालिका मध्यगा शम्पा यथा व्योम्नि प्रकाशते ॥
तस्याः कौशेयमुद्धुतमाकाशे हाटकप्रभम् ।
पाटितं वायुना पार्श्वात् कुचमण्डलमण्डनम् ॥
तस्मिन्नाभरणं बध्वा चेलखण्डे महीसुता ।
गिरिप्रवरमध्यस्थान् पञ्चवानरसत्तमान् ॥
उद्दिश्य पातयामास रावणो नैव बुद्धवान् ।
विस्रस्तं भूसुतायास्तु क्वचिद्धम्मिकसंहति ॥
गलितं भूसुतायास्तु क्वचित्कञ्चुकबन्धनम् ।
अबलेन युतन्देव्या क्वचित्ताम्बूलचर्वितम् ॥
क्वचित्स्त्रियः क्वचित्पुंसः तत्तद्वस्तु विलेपनम् ।
चक्रुर्दव्या कृतं यस्मात्तस्मात्सर्वे प्रिये इमे ॥
सीतापहारमारभ्य लङ्कायां स्थापनावधि ।
श्रवणाच्छास्त्रविहिताज्जेष्ठा देवी विमुञ्चति ॥
सीतारावणसंवादं राक्षसीनाञ्च तर्जनम् ।
सीता प्रत्युक्तिकथनं ये शृण्वन्ति नरोत्तमाः ॥
विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम् ।
अशोकवनिकामध्ये पूजिता जनकात्मजा ॥
आस्ते मघवता दत्त पायसान्नेन जीविका ।
रामो मायामृगं हत्वा न्यवर्तन महापथि ॥
प्। ९९)
शकुनं वायसं चापि लक्ष्मणस्य च दर्शनम् ।
सीतादुरुक्ति कथनं लक्ष्मणस्य मुखाच्छ्रुतम् ॥
श्रुत्वा न जातु पीडा स्यादभिशापकृतं मह ।
अत्र ते कथयिष्यामि इतिहासं जगात्मजे ॥
पुरा पुरूखाभिख्यो राजा धर्मपरायणः ।
तपस्तप्त्वा मखैरिष्ट्वा कृत्वा दानान्यभीक्ष्णशः ॥
उर्वशीं लोकविख्यातां रन्तुकामेन भूभुजा ।
प्रसादो भविता नियमुर्वश्या मे सलोकता ॥
विहारो भविता नित्यमिति कामार्षणं व्यधात् ।
लब्ध्वाचाप्सरसां मुख्यमरमद्बहुवत्सरम् ॥
इन्द्रेण भेदिता वेश्या तस्योत्कर्षासहिष्णुना ।
चरणे नाहनन्मौलौ पुरूस्वसमुर्वशी ॥
न जातुस्त्रैणसख्यानि सन्ति सालावृकास्समृताः ।
राजानमपि कामार्तं पदा शीघ्रमताडयत् ॥
पपात भूतले स्वर्गादुर्वशीचरणाहतः ।
भूमौ स्थित्वा परामृश्य ज्ञात्वा दिव्येन चक्षुषा ॥
अशपत्क्रोधताम्राक्षस्वर्वेण्यां मदगर्विताम् ।
हे जाये मन्नसातिष्ठ इति प्रोक्तम्मयापुरा ॥
त्वया विमृश्य मद्वाक्यं हठादिन्द्रेण चोदिता ।
पादेन ताडितो यस्मात् भगे रोगः प्रजायताम् ॥
प्। १००)
ये वेशीमुपयान्त्यज्ञा वेदनिष्ठैर्बहिष्कृताः ।
भवेयुः कर्म्म विमुखा ग्रन्धिलश्शूलरोगिणः ॥
अपिवा मातरं गच्छेन्नगच्छेद्देव दारिकाम् ।
मातृकल्पां स्वलिङ्गस्य छेदनम्मुनिभिस्स्मृतम् ॥
रूपा जीवासुना सत्ये निष्कृतिर्मुनिभिः स्मृता ।
इति शप्ते तान्देवान्शरजालेन रावणः ॥
विषेदुर्देवगन्धर्वा दानवाश्चारणैस्सह ।
राममार्तन्तदा दृष्ट्वा त्यक्त्वा तूष्णीन्न्यवीविशन् ॥
वसिष्ठो नृपशापेन त्यक्त्वा देहमचेतनम् ।
सत्यलोकेश्वरं नत्वा पुनर्देहमयाचत ॥
वसिष्ठेन समाज्ञप्तः क्षेत्रशुद्धिमथाकरोत् ।
ब्रह्म दिविषदां गुप्त्यै शापशुद्धिमतन्वत ॥
पुनरेवोदितश्शापो ह्यप्सरस्सु न दुष्यति ।
मानुषीषु भवेद्दोषो रूपा जीवासु कामिष्ठ ॥
पर्णशालामथागत्य शून्यां प्रेक्ष्याथ राघवः ।
चक्रोश सीतामुद्वीक्ष्य पक्वतालफलस्तनीम् ॥
बिम्बोष्ठीं कदलीकाण्डजङ्घां बिल्वोपमस्तनीम् ।
कामातुराणां काम्येषु प्रीतिरित्थं भविष्यति ॥
इत्थं ब्रह्मणी चेद्वृत्तिस्तस्य मुक्तिर्भविष्यति ।
इति द्योतयितुं रामो रुरोदोद्दिश्य गेहिनीम् ॥
प्। १०१)
सीतामन्वेक्षमाणौ तौ ददृशाते रणक्षितौ ।
क्षतजार्द्रम्महाकायम्मुमुर्षुं पक्षिपार्थिवम् ॥
दयाञ्चकार श्रीरामो भार्या रक्षणतोषितः ।
बाणमोक्षेण पापानां गृध्रं दग्धुमथैच्छत ॥
दर्शनाज्जातमाज्ञाय तस्मिन्दृष्टेति शासनात् ।
गृध्रराजः-
हे राम भवताज्ञप्तो रक्षिता जनकात्मजा ॥
दशग्रीवो जहारैनां वैदे लग्ने विमूढधीः ।
हत्वा पक्षौ मामकौ स चन्द्रहासेन वीर्यवान् ॥
केशछायां परामृश्य जानुछायां तथैव च ।
दक्षिणादिशमाक्रम्य लङ्कायां गतवान्प्रभो ॥
देवीमामाह राजेन्द्र यावत्सम्भाषणम्मम ।
भवता तावदास्ताम्मे प्राणा इत्याह जानकी ॥
इत्युक्त्वा स जहौ प्राणान्राधवेन्द्रस्य सन्निधौ ।
कङ्काचले समाराध्य महेशं लब्धवान्वरम् ॥
तस्मात्स्वरूपं गतवान्रघुनाथस्य पक्षिराट् ।
जययोस्संस्कृतिं श्रुत्वा स्वर्लोकं यातिमानवः ॥
प्लुष्टिस्सञ्चितपापानां प्रारब्धानां भविष्यति ।
दाहोद्युक्तं रघुवरं प्राह वागशरीरिणी ॥
श्मशानरहिते राम कुरु संस्कारमस्य तु ।
प्। १०२)
इत्युक्तो दिव्यया वाण्या रामस्सौमित्रिणा सह ॥
दग्धुमुद्योगमास्थाय जटायोस्समहीतले ।
तत्र चाप्यशरीराख्या वाणी प्रोवाच राघवम् ॥
अत्र पूर्वं शतन्दग्धं जटायूनां त्वया पुरा ।
इत्युक्तं क्ष्मातलं सर्वं विलोक्य पितृकाननम् ॥
वामोरौ दाहमकरोज्जटायोर्मुक्तिहेतवे ।
लक्ष्मी तद्भागमुत्सृज्य गता वक्षस्थलं हरेः ॥
दक्षिणं कौस्तुभाक्रान्तं राघवेन्द्रस्य सर्वदा ।
विना श्राद्धं समाकर्ण्य पितरस्तृप्तिगामिनः ॥
यज्जातयो मृतिं यायात्तज्जातीयांश्च पूजयेत् ।
ब्राह्मणः प्रथमं पूज्यजातीयास्तदनन्तरम् ॥
रामो नारायणो देवस्सीतालक्ष्मीति कीर्तिता ।
रावणेन परामृष्टा केशाद्वेदवती विभो ॥
सीतावेदवती देव दशग्रीवेण रक्षसा ।
श्रितवै कुण्ठभवना पूर्णांशेनावतीर्णवान् ॥
लक्ष्मीः कुत्रस्थिता देव हरिं नित्याश्रिता स्वयम् ।
सीतालक्ष्म्योर्भिदाकन्तु अभेदो वा वदस्व मे ॥
भेदे कुत्र स्थिता लक्ष्मीरभेदे दूषणं शृणु ।
केन भूलोकगमनं भवत्रितयसम्भवः ॥
कस्मल्लङ्कानिवासश्च राक्षसीनां च तर्ज्जनम् ।
प्। १०३)
हरणं रावणेनापि केन विष्णोः प्रिया भवेत् ।
महेश्वरः-
भेदाभेदोऽस्ति सीताया रमायाः कारणान्तरात् ।
पुरा विहारसमये लक्ष्मी कौस्तुभमध्यगा ॥
स्वछायां वीक्ष्य सापत्नशङ्कया कुपिता भवत् ।
तां हरिस्सान्त्वयामास कुपितामितरां भृशम् ॥
अन्यां विभर्षि दौरात्म्याम्मामति क्रम्य वक्षसि ।
सत्यन्त्वत्सदृशीमन्यां लोकानुग्रहकाम्यया ॥
सानित्यं शत्रुभिर्हृता भवेज्जन्मनि जन्मनि ।
तत्सर्वं लोकरक्षायै नित्यं भवतु सुन्दरि ॥
साहि वेदवती जाता सञ्जाता जनकात्मजा ।
इन्दिरा रघुनाथस्य नित्यमास्ते सुवक्षसि ॥
वामञ्जटायु संस्कारात्त्यक्त्वा दक्षिणतस्थिता ।
रामो गोदावरीतीरे विचिन्वन्जनकात्मजाम् ॥
लक्ष्मणेन युतो धन्वी सूरिं प्रत्यपद्यत ।
तत्र लिङ्गं प्रतिष्ठाप्य पूजयामास धूर्जटिम् ॥
रामेश्वरमिति ख्यातं सर्वाघौघविनाशनम् ।
यन्दृष्ट्वा मनुजास्सर्वे ब्रह्मज्ञानं भजन्ति ते ॥
नीवारान्नैः प्रशस्तैस्तु प्रशस्तैस्तुलसीदलैः ।
नीलोत्पल प्रसूनैश्च पूजयामास शङ्करम् ॥
प्। १०४)
आराधितो महादेवः प्रसादमकरोत्प्रभुः ।
शृणु राघव राजेन्द्र येन प्राप्स्यसि जानकीम् ॥
इतो दक्षिणभागे तु षष्टियोजनमात्रके ।
विरूपाक्षस्य सविधे तुङ्गभद्रासरित्तटे ॥
किष्किन्धेति पुरी रम्या नाना प्लवगसङ्कुला ।
तत्र वानरराजानौ वालिसुग्रीवनामकौ ॥
तत्रैको हरिराज्यार्थी मोक्षार्थीचापरो हरिः ।
तयोस्तेषां राज्यमोक्षं वदस्व मम शासनात् ॥
समुद्रमध्ये सेतुञ्च कुरु मच्छासनाद्भवान् ।
रावणं शिवपूजाढ्यं सर्ववेदोपब्रह्मितम् ॥
ब्रह्माणं सर्वशास्त्राणां संहर्तारणभूतले ।
हत्वा सीतां समासाद्य स्वपुरं यास्यसि ध्रुवम् ॥
इत्थं रामेश्वरस्याज्ञां प्राप्यरामो महीपतिः ।
क्रौञ्चारण्यं समासाद्य जगाम विपिनान्तरम् ॥
क्रोशमात्रे ददर्शाग्रे राक्षसीं विकटाननाम् ।
तस्यास्तनौ च कर्णौ च नासिकां चैव लक्ष्मणः ॥
अलावीत्खड्गधारेण साद्रद्रावातिवेगिता ।
कबन्धरामसंवादं ये शृण्वन्त्यादरान्नराः ॥
विप्रावमानजनितं नाशं क्षिप्रं गमिष्यति ।
अत्रेतिहास माकर्ण्य अवधारय चेतसि ॥
प्। १०५)
पुरा भोजकटे राजा कुन्तिभोज इति स्मृतः ।
पृथिवीं पालयामास धर्मेण समिनिञ्जयः ॥
तस्याभ्यर्णं समासाद्य विप्रोदङ्काह्वयो वदत् ।
इमां कन्यां प्रतीक्षस्व यावदागमनं मम ॥
कृत्स्नं भूमण्डलं दृष्ट्वा क्षिप्रमेक्ष्यामि भूपते ।
इति राज्ञे समादिह्य गतोदङ्को महामुनिः ॥
द्वित्रिसंवत्सरातीतो शुनश्शेपाभिधो द्विजः ।
अयाचत महीपालं भार्येयं दीयतां मम ॥
इदं श्रुत्वावनीपालश्चिन्ताविष्टोवदद्विजम् ।
न्यास भूता द्विजेनेयं कन्या यावत्समागमः ॥
पश्चाद्गृह्वीष्व हे विप्र उदङ्कागमने सति ।
इत्युक्तः कुपितः प्राह शुनश्शेपोऽवनीपतिम् ॥
अविचार्यैव शास्त्रं मामज्ज्ञानान्मूढजल्पसि ।
कन्या भर्तृवशे देया कन्याया भृतिमिच्छता ॥
गृहीते कुलहानिस्स्यात् मानहानिर्भविष्यति ।
ऋतुस्नातां सतीं भार्यां न व्रजेद्यदि मानवः ॥
ब्रह्महत्याम्वाप्नोति यावदार्तव्य सङ्ख्यया ।
अत्रेतिहासं वक्ष्यामि पुरावृत्तं नराधिप ॥
पुरा कलवरः कश्चिद्वृक्षशाखाग्र संस्थितः ।
मदनेन परीताङ्गो भार्यां रन्तुमथाह्वयत् ॥
प्। १०६)
वृक्षाग्रे संस्थितो नाथागेयं किं शाखिनश्शिखा ।
पतेयं पतिता भूमावध्यास्ते ब्राह्मणब्रुवः ॥
तस्य गात्रेण सम्पर्कः पतनायैव केवलम् ।
साध्वीं भार्यां विहायासौ तपस्तप्तुं कृत त्वरः ॥
तपोवनमुपागम्य ऋतूनां षट्समत्यगात् ॥
ब्रह्महत्यां गतो विप्रो ऋतुसङ्ख्या यथा भवेत् ।
तद्वद्भवेन्मम द्रोहो दीयतां गेहिनीं मम ॥
इदं वाक्यं समाकर्ण्य ब्राह्मणाय प्रियां नृपः ।
न दत्तवान्याच्यमानो गेहिनीं प्रणयीमपि ॥
क्रोधाद्धरापतिं प्राह शुनश्शेपाभिधो द्विजः ।
पिशाचो भव राजेन्द्र भार्याद्रोहः कृतोयतः ॥
कन्यां यच्छति वृद्धायनीचाय धनलिप्सया ।
कुशीलाय कुरूपाय सप्रेतो जायते नरः ॥
कन्या युति प्रदातव्या युवत्याः प्रीतिमिच्छता ।
तस्माद्भर्तृवरो देया पितृगेहे न वासयेत् ।
स्थितायां मानहानिस्स्यादृत्वति क्रमणं तथा ॥
नित्यादीनां च लोपश्च भविष्यति न संशयः ।
इत्युक्तमात्रे राजापि पिशाचत्वमुपेयिवान् ॥
मन्त्रिणो ब्राह्मणं नत्वा प्रार्थयाञ्चद्रुरञ्जसा ।
शुनश्शेपो व्याजहार कृपालुश्शापशान्तये ॥
प्। १०७)
श्रुत्वा राघवसंवादं कबन्धेन कृतं महत् ।
पिशाचत्वाद्विमुच्येत राज्यञ्चापि सगच्छति ॥
इत्यनुग्राह्य तां भार्यां गृहीत्वा स्वतपोवनम् ।
शुनश्शेपे गते राजा पिशाचत्वं समास्थितः ॥
गृहीत्वा क्षत्रियसुतं पीडयामास वेगतः ।
नित्यं शृणोति भुक्त्यन्ते श्रीमद्रामायणं पिता ॥
सोऽपि श्रुत्वा सहैवास्ते श्रीमद्रामायणं दिनम् ।
आरण्यकाण्डसमये श्रुत्वा दानवचेष्टितम् ॥
विमुक्तशापबन्धश्च कुन्तिभोजोभवन्नृपः ।
शबर्यास्सकृतिं श्रुत्वा साध्वीनां लोकभाक् भवेत् ॥
शबरीरघुनाथस्य पादपद्ममवन्दन ।
भक्तो हरिं प्रियं दृष्ट्वा प्रपत्तिं सम्यगाचरेत् ॥
पाद्यमङ्गुलिविच्छेदमुरोविन्यस्तमक्षरम् ।
तन्नामकरणं चापि दास्यमेतच्चतुर्विधम् ॥
सद्भक्तवन्दनं चापि भक्तानं च प्रपूजनम् ।
दर्शनं स्मरणं चापि हरिप्रीतिकरं भवेत् ॥
न कुर्याज्जाति नियमं न वयः प्रेक्षणं तथा ।
कुर्यान्नमस्कृतिं सोऽपि नमस्कुर्याधरेरिति ॥
भक्तानां मेलनं यत्र यत्र बिल्ववन्तथा ।
तुलसीकाननञ्चापि फुल्लपद्मवनं तथा ॥
प्। १०८)
नित्यमास्ते हरिस्तत्र रमया शङ्खचक्रभृत् ।
पम्पातीररुहान्वृक्षान् फुल्ल पुष्पैरलङ्कृतान् ॥
कासारान्फुल्लकमलान्नीलोत्पल झषाकुलान् ।
विद्याधरानुचरितान् किन्नरीभिस्तथैव च ॥
गजसिह्म समाकीर्णमुदीर्ण शरभायुतम् ।
उपेतममलैश्चैव मृगैर्मृदुनिनादितम् ॥
विशतुः क्रमशो वीरौ अरण्यं शुभकाननम् ।
जानव्या रहितौ वीरौ कोदण्डप्रवरान्वितौ ॥
शृण्वन्तौ प्रीतिजननम्मयुरान्मधुकाञ्छुभान् ।
श्रोत्ररम्यान्सुमधुराञ्छब्दान्नरमुखेरितान् ॥
सर्वत्र फलदान्रम्यान् सर्वत्रकुसुमोज्ज्वलान् ।
पश्यन्तौ पादपांश्चापि फलभाराभिनम्रितान् ॥
आम्रानाम्रातकान् फुल्लान्नालिकेरान्सतिन्दुकान् ।
अज्ञातकांस्तथा जीरान् डाडिमान् बीजपूरकान् ॥
पनसाल्लि कुचान्मोचान् खर्जूरानाम्रवेतसान् ।
पारावतांश्च जम्बीरान् निम्बाश्चापि मनोरमान् ॥
बिल्वान्कपित्थजम्बूकान् काष्मरीवदरीस्तथा ।
प्लक्षानुदुम्बरान्वंशान्वकुलान्क्षीरिणस्तथा ॥
भल्लातकानामलकान्हारीतकविभीतकान् ।
इङ्गुदान्करवीरांश्च तिलकांश्च महाफलान् ॥
प्। १०९)
एतानन्यांश्च विविधान्ददर्श नलिनीतटे ।
तथिव चम्पकाशोकान्केतकान्वकुलास्तथा ॥
पारिजातान्कोविदारान्देवदारुतरूंस्तथा ।
ददर्श राघवस्तत्र पम्पातीरसमुत्थितान् ॥
आरण्यकाण्ड माहात्म्यं ये शृण्वन्ति महीतले ।
श्रीराघवप्रसादेन विष्णुलोकविनासिनः ॥
शाल्मलीस्तिन्दुकाशोक शिंशुपांस्तरलांस्तथा ।
इति श्रीममासंहितायां श्रीमदारण्यकाण्डकथाफलवर्णनं नाम
नवमोध्यायः ॥
(श्रीरामश्शरणं मम)
॥ अथ दशमोध्यायः ॥
सतां पुष्करणीं गत्वा पद्मोत्पल झषाकुलाम् ।
रामस्सौमित्रिसहितो विललापाकुलेन्द्रियः ॥
महेश्वरः-
किष्किन्धाकाण्डमाहात्म्यं प्रवक्ष्यामि गिरीन्द्रजे ।
रामो वसन्तमालक्ष्य विललापाकुलेन्द्रियः ॥
अनङ्गबाणाभिहतः काकथा प्राकृते जने ।
प्। ११०)
वसन्तो मलयो वायुः पुष्पाणि सुरभीणि च ॥
ज्योत्स्ना च चन्दनं पक्षी कामो द्योतकराणि वै ।
वै मुख्यं गतफल्यास्तु भ्रमरानशपत्प्रभुः ॥
कोकाग्निभिशीथे विश्लेषं पिकमन्यविवर्धनम् ।
चन्दनं सर्पनिलयं वायुं सर्पाशनं तथा ॥
ज्योत्स्नां कलङ्कसहितां शशाप रघुनन्दनः ।
कामिनां गतिराख्याता सर्वाचारविधायिना ॥
सीताविरहसन्तप्तो रामो दुःखीवदृश्यते ।
विशिष्टचापं श्रीमं दृष्ट्वा वेगेन दुद्रुवे ॥
सुग्रीवो मारुतिं तत्र प्रेषयामास राघवे ।
मारुति प्रेषणं भुत्वा सद्गुरुं लभते नरः ॥
राममारुतिसंवाद श्रवणाद्राज्यमाप्नुयात् ।
कुण्डलं वायुतनये दृष्ट्वा दृश्य रघूद्वहः ॥
प्राशंसत हनूमन्तं राघवोनयलम्पटः ।
उमा-
भवद्रूपस्य रामस्य सुग्रीवे प्रणतिः कथम् ।
वदनिस्संशयं देव देवेश मम वल्लभ ॥
महेश्वरः-
विद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥
प्। १११)
रामदर्शनमात्रेण गतकर्मनिबन्धनः ।
स्वाभिन्नत्वान्नमस्कारत्वे स्वे महिम्नि प्रतिष्ठितः ॥
हरी ऋक्षरजा नाम ब्रह्मणो मानसस्सुतः ।
सत्यलोके महोद्याने सञ्चचार यदृच्छया ॥
सूर्यातपपरिप्लुष्टस्विन्नगात्रः पिपासितः ।
कल्याणसरसिस्नातस्तेनासीत्तरुणी वधूः ॥
दर्शनार्थं पद्मयोने रिन्द्रोगच्छद्यदृच्छया ।
तां दृष्ट्वा कामयद्वज्री ब्रह्मणो विषये प्रभो ॥
पुत्रमुत्पातयामास भविष्यत्कार्यगौरवात् ।
भास्करोऽपि विधिं द्रष्टुमागतः प्रेक्ष्य सुन्दरीम् ॥
रमयामास कामार्तः पुत्रोजज्ञे दिविश्रुतः ।
ज्येष्ठो वालीति विख्यातस्सुग्रीवस्तदनन्तरः ॥
महावम्श प्रसूतानां नमस्कारोपि युज्यते ।
परिभ्रष्टो दशान्तेन दशाभागेन सेव्यते ॥
दशाभागगतो हीने नमस्कारो विधीयते ।
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ॥
इति द्योतयितुं प्रोक्तो लक्ष्मणेन नमस्क्रिया ।
राघवेन्द्रहरीन्द्रस्य सख्यमग्निपुरस्कृतम् ॥
अपांसुलो भवेच्छ्रुत्वा अग्निसाक्षिकृतो यतः ।
सीता कपीन्द्र क्षणदाचराणां राजीव हेमज्वलनोपमानि ॥
प्। ११२)
सुग्रीवराम प्रणय प्रसङ्गे वामानि नेत्राणि सप्तं स्फुरन्ति ।
तस्मिन्क्षणे दक्षिणमायताक्ष्या मयोद्भवायाः परितोननर्त ।
दृष्ट्वा विचित्रं परितापयुक्तं विंशद्भुजं वाक्यमुवाच साध्वी ॥
कालेकाले विचित्राणि दृश्यन्ते क्षणदाचर ।
अशुभानि निमित्तानि तेषां शान्तिं वदामिते ॥
सीता प्रदेया रामाय नमस्कार पुरस्सरम् ।
अन्योन्य दुःखसल्लापं श्रुत्वा दुःखाद्विमुच्यते ॥
विधाबलं दैवबलं ज्ञानं बन्धुबलं तथा ।
सेनाबलं भवेत्तस्य वालिनो बलकीर्तनात् ॥
आत्मश्लाघा च मरणं परनिन्दा च तत्समः ।
विश्वासपातकश्चैव अक्रियस्य वधस्तथा ॥
सुग्रीवदत्तं वीक्ष्यैव सीताया दिव्यभूषणम् ।
लक्ष्मणः-
नाहं जानामि केयूरे नाहं जानामि कुण्डले ॥
नूपुरेत्वभिजानामि नित्यं पादाभिवन्दनात् ।
शाखा मृगेन्द्रवचसारघुनायकोऽपि
कोदण्डरक्तकरमात्तशरं विधाय ।
पादाग्रपीडनवशेन फणिधरेन्द्रमौलि
स्थितान् क्षिति रुहानृजुमेव चक्रे ॥
सप्तभूमिं सप्तगिरिं सप्तसालान्महाबलान् ॥
प्। ११३)
कदम्बो वेगसम्पन्नो भित्वा तूणीरमाविशत् ।
सुग्रीवाश्वासनं चैव वालिनो बलवर्णनम् ॥
गिरीणां भेदनं चैव किष्किन्धागमनं तथा ।
वालिसुग्रीवयोर्युद्धं श्रुत्वा नियमपूर्वकम् ॥
युद्धे विजयमाप्नोति वालिनो विजयो यथा ।
उमा-
वालिसुग्रीवयोर्युद्धे अदृश्यः केन राघवः ॥
संशयं वद मन्नाथ संशयछेदको भवान् ।
महेश्वरः-
असुराश्च सुराश्चापि सम्भूय ब्रह्मणोऽन्तिकम् ।
गत्वा पप्रच्छुरमरा योत्स्यामः केन कर्मणा ॥
मन्थानं मन्दरं कृत्वा योक्त्रं कृत्वा च वासिकिम् ।
मन्थने क्रियतां यत्नो यावत्पीयूषदर्शनम् ॥
इत्थं पद्मभुवा प्रोक्ताः समेत्य असुरास्सुराः ।
ममन्थुः कलशाम्भोधिं पीयूषोत्पत्तिलिप्सया ॥
वक्त्रं देवासुराः पुच्छं विचकर्षुररिन्दमाः ।
विषाग्निना दह्यमानान्वीक्ष्य देवो हरिस्सुरान् ॥
उत्तमानाः कर्षयध्वमुत्तमा इतरं परे ।
इत्यूचिवाञ्छार्ङ्गपाणिर्वक्त्रं दैत्या अथाग्रहीत् ॥
पुच्छाकर्षण सक्तानां सुराणां क्लेशशान्तये ।
प्। ११४)
आहूय वालिनं देवो दत्वा वरमनुत्तमम् ॥
प्रतीवर्तिनो भूयादर्धं बलमरिन्द्रम ।
इति दत्वा वरन्देवः काञ्चनं कमलस्रजम् ॥
प्रदाय वानरेन्द्राय ममर्द्धिकलशाम्बुधिम् ।
तया भूषितकर्णस्य बलं प्रज्ञानमेव च ॥
शोभन्ते वर्धते नित्यं काञ्चनां नुजधारणात् ।
उमा-
रामेण निधनं बालेरन्येन परियुध्यतः ॥
अयुक्तञ्छद्मना युद्धं प्रच्छन्न निधनं तथा ।
विहार भरणार्थाय देवकार्यचिकीर्षया ॥
अवतीर्णो हरिरिति श्रूयते बालकाण्डके ।
न तस्य मित्रं न द्वेष्टा लाभालाभे प्रिया प्रिये ॥
कलशाब्धेस्तटे देवं शङ्खचक्रगदाधरम् ।
सम्प्राप्य वेधसादिष्टास्सृजध्वं कामरूपिणः ॥
असंहार्यगुणोपेता न प्रमेय पराक्रमान् ।
वालीरिन्द्रात्समुत्पन्नस्सुग्रीवो भास्करात्ततः ॥
कृपीडयोनेरुत्पन्नो नीलो हरिचमूपतिः ।
मृत्योस्सकाशाद्रुद्रांशादुत्पन्नो हनुमान्कपिः ॥
उमा-
सोमायन्नि-ऋतेर्जातस्सुषेणो वरुणात्मजः ।
प्। ११५)
मृत्योस्सकाशादुत्पन्नाः पञ्चवानरसत्तमाः ॥
इन्द्रात्मजे हरीन्द्रे तु निधनं लोकगतम् ।
महेश्वरः-
लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान्वा हिमं त्यजेत् ॥
रामस्त्यजेन्न प्रतिज्ञां समुद्रो विजलो यदि ।
सुग्रीवाय प्रतिज्ञातं वालिनो निधनं प्रति ॥
श्रीमता सहसम्बन्धो न मे लक्ष्मण रोचते ।
गते तु मानहानिस्स्यादागते तु धनक्षयम् ॥
तस्मात्सुगीव सख्यं तु रोचते मम साम्प्रतम् ।
अदृश्येनैव गन्तव्यमन्यथा शरणं व्रजेत् ॥
मनसा वचसा वापि कायेनापि नमेद्यदि ।
सकृदेव प्रपन्नाय तवास्मीति च याचते ॥
अभयं सर्वभूतेभ्यो ददाम्येतद्ब्रतम्मम ।
अभये वार्थिने दत्ते प्रतिज्ञा परिहीयते ॥
रावणस्य सहायाच्च रावणोपि व्रजेत् माम् ।
रावणस्य वधाभावादवतारफलं न हि ॥
पूर्वापरभवं वीक्ष्य वालेर्निधनमिष्यते ।
अन्यथा रघुनाथस्य यशो हीयेत पार्वति ॥
ताराप्रलापमाकर्ण्य वालिनो निधनं तथा ।
कपीन्द्रसंस्कृतिं श्रुत्वा नारी अविधवा भवेत् ॥
प्। ११६)
दीर्घायुष्यं भवेद्भर्तुः पुत्रिणी सा भविष्यति ।
हनूमत्प्रमुखैर्वीरैर्लक्ष्मणप्रमुखैर्द्विजैः ॥
अभिषेकञ्च ताराया रुमायाः प्राप्तिमुत्तमाम् ।
सुग्रीवस्य सदा श्रुत्वा राज्यलाभं स गच्छति ॥
शृणोति या स्त्री तारायास्सुग्रीवेण समागमम् ।
अछिन्नप्रीतिसंयुक्ता रमते नायकेन सा ॥
उमा-
पुत्रभार्या शिष्यभार्या कनिष्ठभ्रातुरेव च ।
स्नुषा च ज्येष्ठभार्या च मातुलस्य कुटुम्बिनी ॥
मातृकल्मा इति ख्याताः कथन्तारासमागमः ।
स्नुषागमे विधिकृता संसर्गं लोकनिन्दितम् ॥
महेश्वरः-
अयोनिजास्वङ्गनासु गमने नैव किल्विषम् ।
शापात्पुरस्ताद्दोषाय श्वेतकेतोः पुराङ्गना ॥
तारायास्सम्भवं देवि शृणु क्षीराब्धिमन्थने ।
तारलक्ष्मी पशुश्चैव कल्मवृक्षस्तथैव च ॥
अहल्याप्सरसश्चैव समुत्पन्नाहि सुन्द्ररि ।
कराग्रं दक्षिणं वाली सुषेणो वाममग्रहीत् ॥
ममेयमिति निश्चित्य कलिरन्योन्यमुद्वभौ ।
देवैस्सुषेणस्य करे प्रतीति प्रतिपादित ॥
प्। ११७)
सुषेणो दुहितायास्तु स्वयं वरमकल्पयत् ।
ब्राह्मे मुहूर्ते उत्थाय पूर्वपश्चिम वारिधौ ॥
दक्षिणे उत्तरे चैव स्नात्वा नत्वामहे चिरम् ।
विरूपाक्षाभिधं नित्यं कल्पवृक्षप्रसूनकैः ॥
अर्चयेद्यदि तस्येयं भार्या स्याद्वरवर्णिनि ।
एवं कृते वानरेन्द्रनाशे कुस्पन्दितुं पदम् ॥
वाली क्रमेण त्रिर्वारं कृतवानश्रमेण तु ।
इत्थमुढा कपीन्द्रेण तारा सर्वाङ्गसुन्दरी ॥
सुग्रीवमेकदा रात्रौ रूपसादृश्य मोहिता ।
प्रार्थयामास कामार्ता रन्तुं रतिपतिप्रभम् ॥
अहल्या द्रौपदी सीता तारा मन्दोदरी तथा ।
नित्ययौवनसम्पन्नाः पातिव्रत्यसुरान्विताः ॥
रुमाया योनिजाताया गमनं लोकगर्हितम् ।
दिशः प्रस्थापयामास दिदिक्षुर्जनकात्मजाम् ॥
सर्वैः प्रत्यक्षदृष्ट्वात् सिद्धवत्कथनं ब्रुवन् ।
सर्वे लङ्कापुरीं गत्वा ऊषुर्वाली पदानुगाः ॥
शाखाचं क्रमण न्यायात्सर्वत्र परिमार्गितुम् ।
उदयाचलमारभ्य यावस्तमयाचलम् ॥
मार्गित्वाभ्यगमन्वीरा यावत्कैलासपर्वतम् ।
नीलोङ्गदो हनूमांश्च जाम्बवान्नलकेसरी ॥
प्। ११८)
समुद्रतीरमागत्य न शेकुस्स्पन्दितुं पदम् ।
रावणस्य बलं ज्ञात्वा तीरे नदनदीपतेः ॥
रामायण तरोस्कन्धाष्षट्काण्डानि तथोत्तरम् ।
जानकीरघुनाथाख्यौ फलौ नित्यफलप्रदौ ॥
सुग्रीवाद्या हरिवराश्शाखा अन्ये दलास्स्मृताः ।
भरताद्याः प्रसूनानि ब्रध्नं कोसलवंशजौ ॥
प्राचेतसा वर्धितोसौ सेव्यो नित्यं मुमुक्षुभिः ॥
इति श्रीमदुमासंहितायां किष्किन्धाकाण्डफलवर्णनं नाम
दशमोध्यायः ॥
॥ अथ एकादशोध्यायः ॥
महेश्वरः-
ततो रावणनीतायास्सीतायाश्शत्रुकर्शनः ।
इयेष पदमन्वेष्टुं चारणा चरिते पथि ॥
मध्ये समुद्रमुत्पन्ना ह्यन्तराया पृथक् पृथक् ।
तानि सर्वाणि नष्टानि दानमश्रोत्रिये यथा ॥
श्रीरामसेविनां नॄणां न कदाचिद्भयं प्रिये ।
प्। ११९)
श्रीरामस्मरणा देव तरन्ति भवसारान् ॥
रामाङ्कितकरो वार्धिन्तीर्णवाञ्चित्रमेव किम् ।
सुन्दरं प्रथमं श्रुत्वा हनूमद्विक्रमाङ्कितम् ॥
ज्वरापस्मारकुष्ठादि भूतवेतालनाशनम् ।
भुक्त्यन्ते जपतो मदविसायुज्यं भवति ध्रुवम् ॥
पुरा काम्बोजविषये यौवनाश्व इति श्रुतः ।
ब्राह्मणो जटिलो नित्यं शिवपूजापरायणः ॥
उपवासमिषेणैव मोहयामास लौकिकान् ।
शक्तिक्षेत्रं समासाद्य उवास बहुवत्सरम् ॥
अर्चितं कुसुमं चापि पञ्चगव्यफलानि च ।
केनापि नैव भोज्यानि अन्धकूपे विनिक्षिपेत् ॥
षण्मासं तत्फलाशी च क्षीराज्य मधुसेवकः ।
अपस्मारी स जनिता तस्मिन्जन्मनि स द्विजः ॥
एवं गते बहुदिने ब्राह्मणं गाधिवंशजम् ।
प्रणम्य स्वस्य वृत्तान्तं स्वदेहस्थितिमेव च ॥
सोऽपि ध्यात्वोपदिशति सुन्दरं प्रथमं मनुम् ।
सुन्दर प्रथममन्त्रस्य वाल्मीकि ऋषिः अनुष्टुप्छन्दः अञ्जनेयो देवता
॥ ध्यानम् ॥
आञ्जनेयमति पाटलाननं काञ्चनाद्रि कमनीयविग्रहम् ।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥
प्। १२०)
इति ध्यात्वा जपेन्मर्त्यो मारुतेर्मनुमादरात् ।
हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः ॥
कपीन्द्रः पिङ्गलाक्षश्च लङ्काद्वीपभयङ्करः ।
प्रभञ्जनसुतो वीरस्सीताशोकविनाशनः ॥
अक्षहन्ता रामसखो रामकार्यधुरन्धरः ।
महौषधिगिरेर्हारी वानर प्राणदायकः ॥
वारीशतारकश्चैव मैनाकगिरिभञ्जनः ।
निरञ्जनो जितक्रोधः कदलीवनसंवृतः ॥
ऊर्ध्वरेता महासत्वस्सर्वतन्त्र प्रवर्तकः ।
महालिङ्गप्रतिष्ठाता भाष्यकृज्जपतां वरः ॥
शिवध्यानरतो नित्यं शिवपूजां परायणः ।
इत्थमेव जपेन्नित्यमुवास कतिचित्समाः ॥
तेन शान्तिस्समभवदपस्मारश्च सुन्दरि ।
प्रदोषे प्राविशत्लङ्का मोतुर्मानधरो हरिः ॥
लङ्का प्रवेशसमये लङ्कानाम निशाचरी ।
पद्मासनाल्लब्धवरा ताडयामास वानरम् ॥
नारीतिमन्यमानेन ताडिता वामबाहुना ।
विह्वला वीतदशना पपात समरक्षितौ ॥
विह्वलां भगिनीं ज्ञात्वा ब्रह्मलोकं निशाचरी ।
हनूमद्ग्रहणव्यग्रा कर्कटा ताडयत्स्वयम् ॥
प्। १२१)
तां ज्ञात्वा लोकसंहारीं तद्धस्ताद्वक्त्रदण्डकम् ।
गृहीत्वा ताडयामास पपात च ममार च ॥
तस्मिन्क्षणे समायातो ब्रह्मा लोकपितामहः ।
प्रोवाच रामदूतन्तं क्रोधविष्फारितोष्टकम् ॥
ज्ञानित्वं दोषराहित्यमाकल्प परिवर्तनम् ।
दत्वा मदन्तिके बद्धा स्थापिता लोकघातिनी ॥
मामनादृत्य सा चण्डी विषूचिलोक मारिणी ।
इयं लोकहितायैव पवनात्मजताडिता ॥
अनया पीड्यमानानां नराणां मर्तुमिच्छताम् ।
त्वन्नामस्मरणादेव त्वन्मन्त्र पठनादपि ॥
त्वदर्चा पूजनाच्चापि ब्राह्मणानां तु पूजनात् ।
शान्तिनित्यं भवेत्येव इयञ्जीव तु मारुते ॥
इत्युक्त्वा तां समादाय वेधा लोकपितामहः ।
चचार मारुतिर्लङ्कां राक्षसानां कुलेकुले ॥
ददर्श राक्षसांस्तत्र वेदघोष समन्वितान् ।
अग्निहोत्राश्च वेदाश्च राक्षसानां कुले कुले ॥
दया सत्यं च शौचञ्च राक्षसानां न विद्यते ।
दर्भमुष्टिप्रहरणान्ददर्श ब्रह्मराक्षसान् ॥
ददर्शराक्षसेन्द्रस्य ऋ मन्तः पुरं महत् ।
प्रसुप्तं स्त्रिवणन्तत्र यौवतं माजिणं तथा ॥
प्। १२२)
तत्र मन्दोदरीं नाम भार्यामन्तः पुरेश्वरीम् ।
प्रेक्ष्य सीताधिया तत्र वानरत्वं प्रदर्शिवान् ॥
सृक्विण्या जलनिस्रावाद्विधवेयं भविष्यति ।
नैव सीता विशिष्टाङ्गी रावणस्य प्रिया भवेत् ॥
मद्यशालां ददर्शाथ मार्गमायुरकुक्कुटान् ।
अर्धार्ध भक्षितांश्चापि ददर्श स्फुटितान्तथा ॥
उमा-
ब्राह्मणैर्न सुरा पेया गौ प्रान्नद्या पापकारिणी ।
सुरकल्मान्य भक्ष्याणि श्रुतिस्तु न सुरां पिबेत् ॥
आर्द्रकं सगुडं मद्यं सैक्षवं वा दरन्तथा ।
नालिकेराम्बुकांस्ये च रध्ना सम्मिश्रितो गुडः ॥
सर्षपं चैव तक्रेस्यात्ताम्रे गव्यं सुरासममम् ।
ताम्रे गुडरसं चैव सुरया तुलितं बुधैः ॥
सशब्दभक्षणं चापि तर्जन्या दन्तधावनम् ।
मूद्रप्रेक्षित भुक्तिश्च पुष्पिणीमुखसेवनम् ॥
अकालेभ्यञ्जनं चापि शिष्टतैलस्य भक्षणम् ।
पलण्डुञ्च पलाण्डुञ्च पीयूषं गृञ्जनं तथा ॥
कन्दाञ्च रक्तं कन्दां च रक्तशिग्रुन्तथैव च ।
कोशातकीं कम्बलाख्यां स्त्रीभिर्भुक्तावशिष्टकम् ॥
इत्यादि वर्जनीयम् ॥
प्। १२३)
न दोषो मातृकल्पासु परलोकप्रदीपकः ।
महेश्वरः-
शुक्रशापात्पुरादेवि सुरापानं न दुष्यति ।
श्वेतकेतोः पुरा शापात् परदारा न दुष्यति ॥
अशोकवनिकामध्ये शिंशुपामूलमाश्रिताम् ।
ददर्श हनुमांस्तत्र निरानन्दां रुपस्विनीम् ॥
सीतादर्शनमाकर्ण्य वीतशोको भष्यति ।
लक्ष्मीस्तस्य गृहे नित्यमनपाया भविष्यति ॥
पुत्रवृद्धिर्ज्ञानवृद्धिर्धनवृद्धिस्तथैव च ।
गृहारामकलत्राणां नित्यं वृद्धिर्भविष्यति ॥
निशातृतीये मदपूर्णदृष्टिः
सीतां स्मरन्यौवनमन्वितस्सः ।
अनन्तदीपप्रभया प्रकाशयन्
समायया शोकवनस्थलीं ततः ॥
अशोकपर्णे मशक प्रमाणः
सीतान्दुरुक्तां परिभत्स्यमानाम् ।
विरावणं रावण माततायिनं
प्रोवाच साध्वी वृतमार्गदर्शिनी ॥
नत्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा ।
तपः क्षयाद्यशोहावेर्मत्पतेस्सह्यते मया ॥
प्। १२४)
उमा-
सीताया ग्रहणं नित्यं दुरुक्ति कथनं तथा ।
सीता तर्जितवाक्येन संशयो जायते मम ॥
पतिव्रताया निश्वासो वीक्षणं कोपसंयुतम् ।
अभ्रूणां चैव पतनं कुलन्दहति वह्निवत् ॥
चिता धूमाकुलपथा गृध्रमण्डलमण्डिता ।
हतनाथा हतजना श्मशानसदृशी भवेत् ॥
इति शप्तं भूसुतया इयं सा दुःखिनी कथम् ।
महेश्वरः-
रामे विरलदन्तत्वं लक्ष्मणे पादकिङ्किणी ।
सीताया भिन्नरोमाणि तस्मात्क्लेशसहिष्णुता ॥
अत्रेतिहासं वक्ष्यामि शृणु शैलसुते प्रिये ।
पुरा राथन्तरे कल्पे वर्तमाने कलौ युगे ॥
कल्पासुखधार्थाय गते मयि शुचिस्मिते ।
अन्धको नाम दैत्येन्द्रो ब्रह्मदत्तवरो बली ॥
ब्रह्माणं वज्रिणं जित्वा चक्रपाणिमनन्तरम् ।
गोवर्धनं गिरिवरं प्राप्तवाञ्जयकाङ्क्षया ॥
शैलादिना समजनि जन्यमन्योन्यमुल्भणम् ।
त्रिशूलक्षतगात्रेभ्य अन्धका बहवो भवन् ॥
तत्र तत्रापि बहवः अन्धकाकार वर्चयः ।
प्। १२५)
समुत्पन्नास्तु तैः पूर्णं त्रैलोक्यं सचराचरम् ।
पराङ्मुखो भवन्नन्दी शिवस्यान्तः पुरं गतः ॥
त्वद्गृहे शेमुषीं कृत्वा त्वान्ध्यायन् त्रिपुरेश्वरीम् ।
त्वद्रक्षणार्थं निर्दोषो विष्णुर्मायाविनां वरः ॥
अभ्यर्णमागतं ज्ञात्वा अपर्णे सृजकामिनीः ।
देव्यो विसृष्टा देवेशि त्वद्रूपिण्यो वरानने ॥
तास्वेकां परिजग्राह मृडानीशङ्कया किल ।
विनिर्गते विरूपासा विष्णुमायावशादभूत् ॥
पुनरन्यां च साप्येवं पुनरन्या च साप्यभूत् ।
एवं काले बहुगते देवी क्रोधवशङ्गता ॥
नवद्वारान्दुराधर्षान्नित्यपुष्टां करीषिणीम् ।
पीयूषपरिघां दिव्यां दिव्यसंस्कारसंस्कृताम् ॥
स्रष्टाधिष्ठाय नगरी स्रष्टा देव्या महाबलाः ।
नित्या च नित्यक्लिन्ना च भारुण्डा वह्निवासिनी ॥
मदस्रुवाया योगिन्यो वशिन्याद्यद्याश्शुचिस्मिताः ।
तास्सर्वा भक्षयामासुर्दैत्यानन्तकवस्थितान् ॥
नित्यक्लिन्ना च सहसा जठरे राक्षसर्षभम् ।
कल्पं बभार कल्पान्ते जीर्णोभूद्राक्षसर्षभः ॥
तद्वद्देव्या रामदेव्याः प्रतिबिम्बसमुत्थिता ।
नीला वेदवती जाता सा जाता जनकात्मजा ॥
प्। १२६)
लोकसंरक्षणार्थाय सोद्वा तिष्ठति शोभने ।
निर्गते राक्षसेन्द्रे तु राक्षस्यः क्रोधमूर्छिताः ॥
भर्त्सनार्थाय तां सीतां पृथग्वाचमुदीरयन् ।
तृणवद्भासितं तासां गणयामास जानकी ॥
स्वप्नाध्यायमुपाश्रुत्य दुस्वप्नन्नश्यति ध्रुवम् ।
राजा दशरथो नाम रथकुञ्जरवाजिमान् ॥
सीता सम्भाषणं चापि रामलक्ष्मणसंशनम् ।
श्रीराममुद्रादानं च ये शृण्वन्त्यादरेण तु ॥
निर्जित्य शत्रून्सङ्ग्रामे स्थिरं राज्यं व्रजन्ति ते ।
अभिज्ञानं ददामि त्वां येन ज्ञास्यति राघवः ॥
मत्सकाशादनुप्राप्तं चित्रकं गैरिकेण मे ।
पलालञ्चन्दनञ्चापि करटाक्षिनिबर्हणम् ॥
दर्शनं श्वशुरस्यापि मत्काङ्क्षां लक्ष्मणस्य तु ।
प्रविश्य दण्डकारण्यं शरभङ्गनिरीक्षणम् ॥
सुतीक्ष्णे नाभ्यनुज्ञातस्तीर्थाटनधियाभुवः ।
मण्डलं परिचक्राम राघवस्सहसीतया ॥
गङ्गां मन्दाकिनीं चैव चित्रकूटगिरिं तथा ।
सीताकूपं सदाचोष्णं हरिद्रासारमेव च ॥
रेवां गोदावरीं चैव विरूपाक्षं महेश्वरम् ।
श्रीशैलं नारसिंहञ्च अहोवलमनुत्तमम् ॥
प्। १२७)
श्रीवेङ्कटं कालहस्तिं काञ्च्यां हस्तिगिरीश्वरम् ।
कामाक्षीं चूतनिलयां शोणाद्रिं वामनं तथा ॥
श्रीमुष्णं पुण्डरीकं च वैद्यनाथमनुत्तमम् ।
श्वेतारण्यं मयूराख्यं कावेर्या उत्तरे तटे ॥
पीयूषकलशं चैव तथा नागचतुष्टये ।
फेरवाख्यनदीतीरे स्वर्धुनीतीर एव च ॥
शक्तिशोकाश्वकवने सुन्दरी श्रीनिवासके ।
कुम्भघोणे सारनाम्नि शिवलिङ्गं यथाविधि ॥
पञ्चाशतं महालिङ्गं कावेर्याः पुण्यरोधसि ।
महालिङ्गं प्रतिष्ठाप्य पूजयामास राघवः ॥
नारायणगिरिं गत्वा सुब्रह्मण्यमनुत्तमम् ।
कोल्लापुरे महादुर्गा नासिकायां त्र्यम्बकम् ॥
गोदावर्यां रघुपतिस्सिंहस्थे देवमन्त्रिणि ।
स्नात्वा सन्तर्प्य देवान् तत्र श्राद्धमकल्पयत् ॥
स्वयं दशरथस्तत्र भुक्तवाञ्छ्राद्धभोजनम् ।
षष्टिर्वर्णसहस्राणि भागीरथ्यावगाहनम् ॥
सकृद्गोदावरीस्नानं सिह्मस्थे च वृहस्पतौ ।
शक्तिक्षेत्रगतं रामं प्रोवाच भरतानुजः ॥
मदीयं त्रिणतं राम गृह्नीष्व सशरं भवान् ।
लब्ध्वाभिज्ञानमतुलं हत्वा राक्षसपुङ्गवान् ॥
प्। १२८)
दग्ध्वा लङ्कापुरीं तत्र दृष्ट्वा रावणमादरात् ।
वानरेन्द्रैर्मधुवनं भुङ्क्ता राघवमाययौ ॥
दृष्ट्वा देवी मया माता अक्षता नियमस्थिता ।
इति मारुतिवाक्येन प्रीतो रघुपतिर्भृशम् ॥
सर्वस्वभूतं गृह्णीष्व परिष्वङ्गो मया कृतः ।
वरं ददामि पिङ्गाक्ष सर्वकार्यकरो भवान् ॥
त्वन्मन्त्रजापिनां नित्यं त्वन्नामस्मृतिकारिणाम् ।
त्वदर्चापूजकानां च जनानां नियतात्मनाम् ॥
मत्कथोपस्थितिर्यावद्यावत् पर्वतसंस्थितिः ।
यावच्चन्द्रश्च सूर्यश्च तावत्त्वं सुखितो भव ॥
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् ।
वाष्पवारिपरिपूर्णलोचनं मारुतिं नमन राक्षसान्तकम् ॥
मोचावने तपस्तप्त्वा सुचिरं ब्रह्मचिन्तकः ।
पश्चाच्चतुर्मुखो भूत्वा सृष्ट्वा लोकान्यथा विधि ॥
त्वल्लोकवासिभिस्साकं मत्स्वरूपमुपेष्यसि ।
इति दत्वा वरं रामो मारुतेः कार्यगौरवात् ॥
प्रस्थानं रोचयामास रावणस्य वधाय वै ।
श्रुत्वा तु पञ्चमं काण्डं हनूमाद्विजयाङ्कितम् ॥
अञ्जनेय प्रसादेन ब्रह्मलोकं स गच्छति ॥
इति श्रीमदुमा संहितायां सुन्दरकाण्डकथा श्रवणफल
महिमानुवर्णनं नामैकादशोध्यायः ॥
श्रीरामश्शरणं मम ॥
अथ द्वादशोध्यायः ॥
महेश्वरः-
युद्धकाण्डस्य माहात्म्यं प्रवक्ष्यामि शुभानने ।
श्रुत्वा हनूमतो वाक्यं यथावदनुभाषितम् ॥
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ।
सीतावृत्तान्तसन्तुष्टो रामो मारुतिमादरात् ॥
अब्रवीन्मम भक्तानामग्रणीर्भव मारुते ।
प्रपत्तिं पञ्चधा प्राप्य देहान्ते मुक्तिमेष्यसि ॥
लाञ्छनञ्चोर्ध्व पुण्ट्रं च मदर्चापूजनं तथा ।
मद्भक्तपूजनं चापि गुरौ भक्तिस्तथैव च ॥
देवालयकृतिञ्चैव मद्भक्तान्नस्य भक्षणम् ।
तुलसी भक्षणं नित्यं सालग्रामोदकाशनम् ॥
रामायणादिपठनं तस्य पूजनमेव च ।
अभक्ष्याणां परित्यागो वैष्णवानां तु सेवनम् ॥
न शूद्रा भगवद्भक्ता विप्रा भागवतास्स्मृताः ।
सर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्दने ॥
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
सर्वपापाद्विमुच्यन्ते त्वामुद्धरिष्यामि संसृतेः ॥
प्। १३०)
अभक्ष्याणि वदाम्यद्य पर्युषितं लशुनं तथा ।
अलाबुग्रन्जनञ्चैव शिग्रुकद्वितयन्तथा ॥
कूश्माण्डद्वितयं चैव अलाबुद्वितयन्तथा ।
कन्दञ्च रक्तकन्दं च बृहतीचैव जात्रकम् ॥
आश्वयुज्यां पटोली च निष्पावं कार्तिते तथा ।
अष्टम्यां नालिकेरञ्च तृतीया भानुवासरे ॥
एकादश्यामहोरात्रं नैव भोजनमाचरेत् ।
विशेषं मम मन्त्राणां प्रवर्तक निवर्तकः ॥
भवान्सर्वयुगे भूयान्मत्कूपा परिपूरितः ।
रामप्रस्थानमाकर्ण्य पातका देहपञ्चजरात् ॥
नश्यन्ति तत्क्षणादेव सिंहस्ता मृगा इव ।
वाहि वातयतः कान्ता तां दृष्ट्वा मामपि स्पृश ॥
इत्यादि श्रवणाद्रामदर्शनाद्गत किल्विषाः ।
रामसन्दर्शनादेव उत्पन्न ब्रह्मवेदनाः ॥
पराभवात्परादन्यान्नहि स्युरिह व वानराः ।
दर्शयन्मानुषीं लीला मरौदीत्कामिव प्रभुः ॥
लङ्कादाहे पुष्पकाग्रे विष्णुपद्यामवस्थिनः ।
रावणः पुनरागम्य मयं दानव सत्तमम् ॥
आहूय विश्वकर्माणं कारयामास पत्तनम् ।
त्रिंशद्योजन विस्तारं चत्वारिंशतमायतम् ॥
प्। १३१)
रौप्य प्राकारसम्पन्नं दुर्वर्ण रचितं तथा ।
अष्टापदमयाश्चापि प्राकारा बहुविस्तृताः ॥
नाना यन्त्रेण सहितां नानाट्टालकशोभिताम् ।
नानागोपुरसङ्कीर्णां नानातोरण मण्डिताम् ॥
जाज्वल्यमान विशिखां कृताकृत गृहान्तराम् ।
अगाधाश्शकुनाकीर्णाः परिघा मीनसेविताः ॥
सङ्क्रमा विपुलास्तत्र उपद्वारिषु भूरिशः ।
द्वारे द्वारे राक्षसानां कोटि कोटि निवेशिताः ॥
अथ हेमसभामध्ये वसन्न्राक्षसपुङ्गवः ।
आहूय मन्त्रिणस्सर्वान्मन्त्रं समुपचक्रमे ॥
सीतायाः पदवीं रामो मार्गमाणो वनालयैः ।
सह सिन्धुपतेस्तीरे मूलन्न छेत्तुमागतः ॥
तत्रोपायञ्च पश्यध्वं येन श्रेयो गमिष्यथ ।
राजानं रक्षसां मध्ये माल्यवान् प्राह पूर्ववित् ॥
शृणु राजन्प्रवक्ष्यामि सर्वेषां शोभनाय वै ।
पुरा देवयुगे शम्भुः कैलासाचरुमूर्धनि ॥
वसत्यपर्णया देवो विश्वेशो विश्वभावनः ।
षङ्कुपादस्समागम्य त्वरायुक्तश्शिवप्रियः ॥
पञ्च सप्ततिवर्षाणां कालोयं समुपस्थितः ।
अनुज्ञां कुरुमत्पीडां दर्शने लोकहेतवे ॥
प्। १३२)
इत्युक्तः पार्वतीनाथः छायासूनुमकल्मषम् ।
मदन्येषां भवेत्पीडा त्वत्पीडासम्भवोऽस्ति वै ॥
पुनर्दण्डं प्रदास्यामि मुद्रां मुष्माकमेव च ।
भवान्सत्यन्न गच्छेत् स्याद्वेलामम्बुधि स त्यजेत् ॥
इत्युक्तो धूर्जटिस्सिद्धवेषेणादिगते जले ।
ममज्ज शनिना दृष्टः पञ्चसप्तति वत्सरान् ॥
सर्वथा रक्ष भगवन् गौरीं गरुडवाहन ।
इति सन्दिश्य भूतेशो रमाकान्तं जगद्गुरुम् ॥
एतस्मिन्नन्तरे दैत्यो वकः कल्पान्तजीवनः ।
लब्ध्वा वरं पद्मयोनेस्सकाशाल्लोकपूजितात् ॥
त्रिलोकविजये यत्नमास्थाय प्रस्थितो गृहात् ।
इन्द्रादीन्प्रथमं जित्वा ब्रह्माणं विष्णुमेव च ॥
शङ्करस्य जयार्थी सः कैलासं समपद्यत ।
प्रमथान्प्रथमं जित्वा भवान्या भवनं बकः ॥
प्राप्य स्त्रीवनमादातुमुपक्रामत वेगतः ।
देवीं गृहीतुकामन्तं दृष्ट्वा चक्रधरो हरिः ॥
देवी स्वरापा असृजद्यौवतं मोहनाय वै ।
तास्सर्वा अपि जग्राह देवी बुध्या बकोसुरः ॥
तास्सर्वा मोहयामासुरसुरं बकनामकम् ।
नात्र देवीति निश्चित्य शर्वाणि ग्रहणोन्मुखः ॥
प्। १३३)
भद्रकाली परिणता सहस्रभुजमण्डिता ।
वीक्षणेनैव संहृत्य त्रैलोक्यं सचराचरम् ॥
वीक्षणे नैव ससृजे शर्वाणी सवमङ्गला ।
बकं विना कृत्स्नलोकमसृजश्च्छङ्कर प्रिया ॥
तद्वज्जनकजा राज लोकानां प्रभवाप्यये ।
शक्ता तस्मादिमां मुञ्च रामं शरणमाब्रज ॥
विभीषणोक्त श्रवणाद्धर्माभ्यां सफलं लभेत् ।
धिक्त्वां पापसमाचारमित्यादि श्रवणेन तु ॥
धर्मत्याग समुद्भूतान्मुच्यते पातकान्नरः ।
क्षणाच्चतुर्भिस्सहितो राक्षसेन्द्रैरकल्मषैः ॥
रामपादं समुद्दिश्य जगामोत्तर रोधसि ।
विभीषणः परिग्राह्य आहोस्विदपरिग्रहः ॥
एतस्मिन्नन्तरे वार्धेरुद्धोषं वीक्ष्य राघवः ।
वरयामास सहसा वारिधिं वेगवत्तरम् ॥
अद्यापि स्तब्धसलिलो दृश्यते दशयोजनम् ।
दृश्यते रामवाक्येन लोके विश्वाससूचकम् ॥
विभीषणपरीक्षाया श्रवणान्मननं भवेत् ।
विभीषणो वा सुग्रीवो यदि वा रावणस्स्वयम् ॥
आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ।
सकृदेव प्रपन्नाय तवास्मीति च याचके ॥
प्। १३४)
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतम्मम ।
प्रवृत्तिर्द्विविधा प्रोक्ता मार्जारी चैव वानरी ॥
ज्ञानाभ्यासवतामो तुर्वानरी भाक्तमेव च ।
पाद्यमङ्गुलिविच्छेद उरो विन्यस्तमक्षरम् ॥
तन्नामकरणं चैव दास्यमेतच्चतुष्टयम् ।
अङ्कितं शङ्खचक्रायै रूर्ध्व पुण्ट्रस्य धारणम् ॥
गुरौ भक्ति समावेशः प्रपन्नानान्तु लक्षणम् ।
अष्टाक्षरं महामन्त्रं सद्गुरुप्रतिपादितम् ॥
ये जपन्ति सदा भक्त्या ते प्रपतमास्मृताः ।
निन्दास्तुती समे एषां समवुद्धिः परा अपि ॥
व्यर्थाहङ्कार राहित्यं प्रपन्नस्य च लक्षणम् ।
पारायणं ये कुर्वन्ति श्रीमद्रामायणस्य तु ॥
पुनर्वसुदिने पूजां प्रपन्नेष्वधिका मता ।
ज्ञानाग्निस्सर्वकर्माणि यथा भस्म करोति वै ॥
तद्वद्भक्त्यग्निना पापं नश्यत्येव न संशयः ।
तस्माद्ग्राह्यो राक्षसेभ्य अभिषिच्य च सर्वथा ॥
सेतुमारब्धवान्रामः अभिषिच्य विभीषणम् ।
पूर्वं वेदवने सेतुर्भग्नस्सङ्गन्ररंहसा ॥
दुर्गादेव्यास्तु नगरे द्वितीयस्सेतुरुच्यते ।
तिमिरिवालिभिस्सत्वैः पीडिता हरिसत्तमाः ॥?
प्। १३५)
तृतीयो रामसेतुस्स्याद्गन्धमादन मस्तरे ।
सर्वलोकशरण्योऽपि रामो मानुषलीलया ॥
शिष्ये दर्भास्तृतभूमौ सरिन्नाथ प्रसादकः ।
रामो नदनदी नाथवाक्याद्दक्षिणसागरे ॥
नलेन कारयामास सेतुं संसारतारकम् ।
कदाचिद्धनुषा सेतुं कदाचिद्द्विशिखेन तु ॥
दार्वादिना कदाचित्तु कल्पे कल्पे व्यवस्थितः ।
द्वौ समुद्रेति वेदोऽपि सेतुषाम तथैव च ॥
अनादि सेतुस्तवनं त्रयीभिरनुगीयते ।
ब्रह्महत्या सुरापानं स्वर्णस्तेयस्तथैव च ॥
गुर्वङ्गनाभिगमनन्तत्संसर्गत्वमेव च ।
दर्शनाद्राम सेतोस्तु सर्वे नश्यन्ति पातकाः ॥
ब्रह्महत्या समानानि प्रवदामि शुचिस्मिते ।
वेदक्रयं ब्रह्मनिन्दा देवताचलनं तथा ॥
ब्रह्महत्यासमाः प्राहू-ऋषयो वेददर्शिनः ।
गणान्नं गणिकान्नं च ब्रह्महत्यासमं स्मृतम् ॥
शूद्रेण प्रेक्षितं भुक्त्वा चण्डाल प्रेक्षितं तथा ।
पुष्पिण्या अभ्यनुज्ञातं ब्रह्महत्या समं विदुः ॥
मणिकाञ्चनमुक्तानां प्रवालहरणं तथा ।
सुवर्णस्तेय सदृशं प्राहुर्वेदविदो जनाः ॥
प्। १३६)
रजस्वलामुखाघ्राणं कारुतीर्थ निषेवणम् ।
सुरापानसमं प्राहुर्वेदान्तपरिनिष्ठिताः ॥
आत्रेयी गमनं चैव यज्ञपत्नी निषेवणम् ।
भ्रातुस्त्रीगमनं चैव गुरुतल्पसमं स्मृतम् ॥
सर्वदोह प्रहाणं ये वञ्छन्ति श्रद्धयान्वितः ।
सेतौ स्नानं धनुष्कोट्यां कुर्वन्त्यघ निवृत्तये ॥
सेतुना सागरं तीर्त्वा अरिष्टाचल मस्तके ।
रामस्सुखं वानराणां स्कन्धावारमकल्पयत् ॥
अगस्त्याद्यास्समागम्य रामं रत्नमये शुभे ।
पीठे निवेश्य चक्रुस्ते विजयायाभिषेचनम् ॥
ऋग्ब्राह्मणोक्तैर्विविधैर्लङ्कायां लक्ष्मणाग्रजः ।
रामाभिषेक श्रवणाद्धनवान्पुत्रवान्भवेत् ॥
पार्थिवो विजयी भूयाच्छ्रुत्वा रामाभिषेचनम् ।
वानरान्राघवः प्राह दाहेन परिपीडितान् ॥
समुद्रतीरे सर्वत्र खन्यतां जलसिद्धये ।
यत्र वानरसञ्चारस्तत्रासन्नमृता इव ॥
रामस्सुवेलशिखरं राकाया मध्यरोहत ।
रामो लङ्कां समुद्वीक्ष्य पताक ध्वजमालिनीम् ॥
चैत्यप्रासादशिखरे दृष्ट्वा राक्षसपुङ्गवम् ।
त्रासनं सर्वभूतानां भ्राजमानं स्वतेजसा ॥
प्। १३७)
त्रासनं सर्वभूतानां विष्णुचक्रगतव्रणम् ।
ऐरावत विषाणाग्रैः किणीकृत भुजान्तरम् ॥
रामश्शरेण चिच्छेद छत्राणामयुतं क्षणात् ।
श्रुत्वा सुग्रीव विजयं त्रैलोक्य विजयं भवेत् ॥
कामक्रोधौ लोभमोहौ मदं मात्सर्यमेव च ।
असूयास्तेन पैशुन्ये डम्भोहङ्कृतिरेव च ॥
कदाहश्च बुभुक्षा च निन्दामौढ्य पराभवौ ।
अलक्ष्मीः कालकर्णी च रागद्वेषाशुभास्तथा ॥
अनाचारश्रुतिद्वेष ब्रह्मद्वेषाशुभास्तथा ।
अज्ञान रूपं राजानं रावणं समुपाश्रिताः ॥
शान्तिः क्षान्तिस्तितिक्षा च अनसूया तथैव च ।
अक्रोधो हिंसनं लाभो दानं विज्ञानमेव च ॥
अडम्भमनसूया च अपैशुन्यं तथैव च ।
श्रद्धा अहिंसनञ्चैव ब्राह्मणानां च पूजनम् ॥
अग्निहोत्रादिधर्माश्च श्रद्धाभक्तिस्तथैव च ।
ज्ञानपक्षास्समाख्याता रामो नन्दमयो यतः ॥
तस्मात्तत्पक्षमुत्सृज्य धर्मरूपो विभीषणः ।
परब्रह्ममयं राममाश्रित्य सुखमाप्तवान् ॥
अग्निहोत्राश्च वेदाश्च राक्षसानां गृहे गृहे ।
दया सत्यं च शौचं च राक्षसानां न विद्यते ॥
प्। १३८)
वैज्ञानिनां हरीणां च मोहिना रक्षसामपि ।
प्रथमादिषु तिथिषु प्रवृत्तो जन्य उत्तमः ॥
पक्षे द्वे ब्रह्मणा सृष्टे धर्माधर्म मये शुभे ।
सुराणां धर्मपक्षस्स्यादधर्मोह्यासुरो मतः ॥
अधर्मस्य क्षयो यत्र तदाकृतयुगो भवेत् ।
भवेद्धर्मस्स्य नाशश्चेत्तदा तिष्यः प्रवर्तते ॥
नागब्रह्मास्त्रयोर्बन्धमनुभूतम्महात्मनोः ।
वरदानं मानयन्तौ पद्मयोनेर्जगद्गुरोः ॥
धूम्राक्षाद्या निशिचरा अधर्म प्रतिबिम्बकाः ।
हनूमत्प्रमुखैर्वीरैर्वृषरूपैर्निषूदिताः ॥
रामसायकनिर्भिन्ना राक्षसाः पापवर्जिताः ।
ये हता लक्ष्मणेनैव सायुज्यं प्राप्यदुर्लभम् ॥
मोदन्ते शङ्खचक्रेण शार्ङ्गेण गदयोज्वलाः ।
भक्त्या केचिद्गतास्स्वर्गं केचिद्द्वेषेण कुत्रचित् ॥
मैत्रेण स्वामिभावेन सम्बन्धात्कर्मयोगतः ।
ज्ञानेन तपसा चैव हननाद्विष्णुहस्ततः ॥
अधिकारवतां मुक्तिस्तावन्नास्त्येव कुत्रचित् ।
कुम्भकर्णस्य निधनं श्रुत्वा सद्गुरुवक्त्रतः ॥
कुम्भीपाकगतान् सर्वानुत्तारयति पूर्विकान् ।
रावणेर्निधनं श्रुत्वा लक्ष्मणात्प्रीतिपूर्वकम् ॥
प्। १३९)
स्वर्गस्थाः पितरस्सर्वे विष्णुमन्दिरगामिनः ।
दशशीर्षाश्शतशिरास्सहस्त्रायुतमौलिनः ॥
तावद्धस्ताद्धता मौला रामेण रणमूर्धनि ।
रथानां दशकोटि स्याद्गजानां कोटि षोडश ॥
कोटि कोटि पदातीनां गन्धर्वाणां त्रयोदश ।
राक्षसा रामनिहता क्षणार्धेन रणक्षितौ ॥
विष्णुलोके विराजन्ते शङ्खचक्राङ्किता क्षणात् ।
शङ्खं कपालं करकञ्च पाणौ
धृत्वारिदण्डञ्च पिनाकमाद्यम् ।
एकं चतुः पञ्चकशीर्षयुक्त
मौलं बलं हतवान्सक्षणेन ॥
गगनं गगनाकारं सागरस्सागरोपमः ॥
रामरावणयोर्युद्धं रामरावणयोरिव ।
प्रधानं राक्षसेन्द्रस्य राघवेन्द्रस्य चोभयोः ॥
श्रुत्वा नरः पाप बृन्दान्मुच्यते जन्मकोटिभिः ।
आदित्य हृदयं नित्यं जपेत्प्रेक्ष्य दिवाकरम् ॥
त्रिः प्रकारं शरीरान्ते शिवमन्दिरगो भवेत् ।
छिन्नानि दशशीर्षाणि कुण्डलाद्यानि संयुगे ॥
एकोत्तरशतं वारं सहस्रोत्तरतो दश ।
तानि तान्य भवस्य वेधसो वरगौरवात् ॥
प्। १४०)
ब्र्ह्मास्त्रं योजयामास मातलेर्वाक्यगौरवात् ।
विभेद हृदयन्तस्य पपात च ममार च ॥
छिन्नानां पुनरुत्पत्तिर्ब्रह्मणो वरदानिका ।
हृदयस्य विभेदेन मरणं ब्रह्मनिर्मितम् ॥
अभेद्यकवचं धत्ते रावणो हृदयस्य तु ।
नप्तारं ब्रह्मणो रामो हत्वा लोकस्य गुप्तये ॥
सेतौ तीर्थं धनुष्कोट्यां कृतवान्पापशान्तये ।
विभीषणाद्यास्सु हृदो हतामित्रं रघूत्तमम् ।
विधिवत्पूजयामासुः पाद्यार्घ्यासन वन्दनैः ॥
रावणान्तकमावृत्य बृन्दारकगणा दिवि ।
तत्र मौलौ रघुवरं दशशीर्षरिपुं रणे ॥
ववर्षुः पुष्पवर्षाणि सान्तानिक समुद्भवैः ।
निधाय बाहुं त्रिणतस्य कोट्या
मायोधनोद्भूतरजोक्षिताङ्गम् ।
जटाञ्चितं फुल्लमुखारविन्दं
पश्यन्ति रामं कृतपुण्यपुञ्जाः ॥
मित्रैस्समेतं हतशत्रुसागरं
कृपाकरं श्यामलदेहकान्तम् ।
कोदण्डदीक्षागुरुमादरेण
भजन्ति ये धन्यतमा धरण्याम् ॥
प्। १४१)
जटाधरं फुल्लमनोज्ञहासं सौमित्रिणा सेवितवाम भागम् ।
शरासनं बाणवरं च हस्ते विभ्रामाद्यं गुरुमानतोऽस्मि ॥
प्रशान्तपीडाबहुला निर्मला अभवन्दिशः ।
नागकन्या नागलोकमप्सरास्स्वर्गमन्दिरम् ॥
तुम्बुरर्वृषनिकटं नारदस्सञ्चरिष्णुताम् ।
हाहा हूहू मुखास्सर्वे कुबेर भवनं गताः ॥
गार्हपत्यं गतो वह्निर्वरुणो गान्मणीवतम् ।
वायुर्वायुगृहं सोमस्स्वस्थानं प्रत्यपद्यत ॥
भानुस्वाभानोर्विस्तरं हयानां विश्रमं तथा ।
ज्योतिषाञ्चैव सञ्चारो मध्याह्ने विश्रमो भवेत् ॥
श्रुत्वा वानरसत्कारं सीतावासिमरेः पुरे ।
अछिन्नमोदसंयुक्तम्मोदन्ते दिवि देववत् ॥
पुष्पकाग्रं समारुह्य सीतया सहराघवः ।
वानरै राक्षसैस्तस्मार्दुक्कुरान् प्रप्यपद्यत ॥
अत्रपूर्वं महादेवः प्रसादमकरोद्विभुः ।
सन्ध्यानटः पुराकल्पे मयसम्यगभिष्टुनः ॥
वानरान्तारयामास पिनाकेन कपालं भृत् ।
वानरान्तारयामास पिनाकप्रभवे क्वचित् ॥
पूर्णे चतुर्दशे वर्षे पञ्चम्यां रघुनन्दनं ।
भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् ॥
प्। १४२)
इत्यादि श्रवणान्नॄणां यावत्पट्टाभिषेचनम् ।
सर्वकार्याणि सिध्यन्ति पापराशिः प्रणश्यति ॥
पुत्रवृद्धिर्धान्यवृद्धिर्धनवृद्धिस्तथैव च ।
आन्तं रामायणं विन्दत्येव न संशयः ॥
साकेतनगरं राम भद्रो भद्रासने स्थितः ।
ऋषिभिस्सर्वतत्वज्ञैर्भातृभिर्मन्त्रिभिस्तथा ॥
पौरैस्सामन्तराजन्यै राक्षसैर्वानरैस्तथा ।
अभिषिक्तश्रिया जुष्टः श्वेतछत्र विराजितः ॥
अनर्घमुक्ताभरणस्तप्तहाटकमण्डितः ।
पीताम्बरधरस्स्रग्वी दिव्यगन्धेन चर्चितः ॥
अङ्गदी कुण्डलीरामः सीतया सेवितस्सदा ।
प्रभञ्जनसुतस्तस्य अपादान प्रवर्तकः ॥
न्यायेन कारयामास राज्यस्य परिपालनम् ।
प्रातः काले समुत्थाय सरखां कृतमज्जनः ॥
भस्मावकुण्ठितो रामो लसत्फालोर्ध्वपुण्ट्रकः ।
दर्पणादीन्समुद्वीक्ष्य सन्ध्याकर्म समाप्य च ॥
श्रीरङ्गशायिनं देवं समभ्यर्च्य यथाविधि ।
शङ्खकालहनिर्घोषैर्भेरीपटहनिस्स्वनैः ॥
पुरस्कृत्य ययौ रामो मन्दिरं सरयूतयत् ।
तूष्टवराघवस्याग्रे सूतमागधवन्दिनः ॥
प्। १४३)
अयोध्याधिपती रामो दशकन्धरखण्डनः ।
सर्वतन्त्रप्रतिष्ठाता सर्वाचार प्रवर्तकः ॥
इति काहलनादेन सर्वानानन्दयन् प्रभुः ।
नित्यं चचार भगवान् योगिध्ययो महेश्वरः ॥
हुत्वा वैतानिकानग्नीन्सुवर्णं कोटिसङ्ख्यकम् ।
पौष्ठौहीनां सहस्रञ्च नित्यदानं प्रकीर्तितम् ॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥
अनेककोटिलिङ्गानि शैवानां विधिपूर्वकम् ।
प्रतिष्ठां कृतवान्रामो लोकसन्तानहेतवे ॥
राघवेणाभ्यनुज्ञातं राजन्यकमनिन्दितम् ।
उषित्वा वत्सरं सर्वे राक्षसा वानरास्तथा ।
अनुज्ञाता राघवेण * * प्राप्तो विभीषणः ॥
मध्याह्ने विष्णुपूजार्थं कावेर्या मध्यतो हरिम् ।
निधाय विधिवत्स्नानं नित्यं सर्वं समाप्य ॥
तस्मिन्क्षणे परिणतं विमानं प्रणवाकृति ॥
विमानं प्रणवाकारं वेदशृङ्गं म * द्भुतम् ।
श्रीरङ्गशायी भगवान् प्रणतार्थ प्रकाशकः ॥
प्। १४४)
रङ्गं रङ्गमिति ब्रूयात्क्षुध प्रस्स्खलादिषु ।
तस्य दोषाः प्रणस्यन्ति आयुर्वृद्धिर्भविष्यति ॥
देशान्तरगतो वापि द्वीपान्तरगतोऽपि वा ।
श्रीरङ्गाभिमुखो भूत्वा प्रणिपत्य न सीदति ॥
रङ्गमुद्धर्तुकामस्य रावणावरजस्य च ।
आपातालं प्रविष्टस्य तोलते नाभवब्दलम् ॥
विभीषण महाप्राज्ञ मा विषादं कुरु प्रभो ।
सह्यजानूपदेशोयं वैकुण्ठादधिकं प्रियम् ॥
रमणीयोयमतुलो नद्योर्मध्ये विभीषण ।
कावेर्या विमले कच्छ यथा वैकुण्ठमन्दिरे ॥
इच्छामि वस्तुमत्रैव सर्वेषां मोक्षदस्सुखम् ।
श्रीरङ्गदर्शनात्सर्वे क्रिमीकीटपतङ्गमाः ॥
मनुजास्तिर्यगाश्चापि मोक्षगा रावणानुज ।
इक्ष्वाकुणा प्रार्थितोस्मि पुरा वैकुण्ठमन्दिरात् ॥
अयोध्यामवसं पूर्वं राघवैः परिसेवितः ।
त्वयापि सेवितो नित्यं वसाम्याकल्पमत्रवै ॥
लङ्कास्थो राक्षसश्रेष्ठ राकाया मासि माधवे ।
सह्यजाया जले स्नात्वा श्रीरङ्गनिलयं हरिम् ॥
वैशाख्यामाम्रफलकं पयोपेतन्निवेदयेत् ।
तेन वत्सरपूजायाः फलं प्राप्नु हि राक्षस ॥
विभीषणो राक्षसेन्द्रो वैशाख्यां रङ्गमन्दिरे ।
पूजयत्यनिशं देवि संवत्सरफलाप्तये ॥
रङ्गधाम्ने राक्षसेन्द्रो मन्दिरं विश्वकर्मणा ।
कारयामास विधिवत्सप्तप्राकारशोभितम् ॥
चन्द्रपुष्करणीतीरे श्रीदेवीं श्रीतरोरधः ।
सम्पूज्य हरिणादिष्टो लङ्कां प्राप्य विभीषणः ॥
स्नात्वा कवेरजातोये दृष्ट्वा श्रीरङ्गशायिनम् ।
मोक्षलक्ष्मी परिणता मुक्तास्युरमरा इव ॥
न्यायेन कारयामास राज्यस्य परिपालनम् ।
प्रछन्ना सञ्चरन्त्येव मानुषा इव राक्षसाः ॥
काले वर्षति पर्जन्यः काले सस्यानि * * * ।
राष्ट्रानि च सुपुष्टानि खनिभिश्शोभितानि वै ॥
दुर्भिक्षावगृहैर्मुक्ता दस्युपीडाविवर्जिताः ।
शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा ॥
स याति ब्रह्मणस्स्थानं ब्रह्मणा पूज्यते सदा ।
यः कर्णाञ्जलि सम्पुटैरहरहः सम्यक् पिबन्त्यादरात् ॥
वाल्मीकेर्वदनारविन्दगलितं रामायणाख्यं मधु ।
जन्मव्याधिजराविपत्तिमरणैरत्यन्तसोपद्रवं ॥
प्। १४६)
संसारं सविहाय गच्छाति पुमान्विष्णोः पदं शाश्वतम् ।
सकृद्रामायणं श्रुत्वा पुत्रबान्धनवाभवेत् ॥
स्त्रियो रजस्वलाः श्रुत्वा पुत्रान्सूयुरनुत्तमान् ।
रामायणं वदेद्यस्तु तस्य देहे रमापतिः ॥
वाचि ब्रह्मा महेशोहं हृदये निवसाम्यहम् ।
तस्याक्षीणि रविश्चन्दरोमकूपेष्ठ देवताः ॥
वक्ता प्राङ्मुख आसीत श्रोताचोत्तरदिङ्मुखाः ।
मारुतिं पुरतस्स्थाप्य पूजयेत्प्रत्यहं द्विजः ॥
यथाशक्ति द्विजान्भोज्य भक्ष्यं व्यञ्जनसंयुतम् ।
ताम्बूलदानं सर्वेषां श्रोतृणां परिकल्पयेत् ॥
नत्वा नत्वा द्विजान्राजा शृणुयाद्विप्रवाक्यतः ।
अस्य श्रीरामायण महामन्त्रस्य वाल्मीकि ऋषिः । अनुष्टुप्छन्दः । श्रीरामो
देवता । हं बीजम् । सः शक्तिः । बुद्धिर्बीजम् । जीवश्शक्तिः । इला बीजम् ।
पिङ्गलाशक्तिः । सुषुम्नानाडिमध्यवर्ती सरस्वती कीलकम् । श्रीरामचन्द्र
प्रसादसिध्यर्थे जपे विनियोगः । ॐ धर्मात्मन्नं गुष्ठाभ्यान्नमः ।
सत्यसन्धश्च तर्जनीभ्यां नमः । रामो मध्यमाभ्यां नमः । दाशरथिः
अनामिकाभ्यां नमः । पौरुषेचाप्रतिद्वन्द्वः कनिष्ठिकाभ्यां नमः ।
शरैनं जहि रावणिं करतलकरपृष्ठाभ्यां नमः । एवं
हृदयादिन्यासः ।
प्। १४७)
ध्यानम्
सहस्रा * * सङ्काशं सर्वशत्रुनिबर्हणम् ।
रामं शक्तिमयं ध्यायेद्राघवं रामसायकम् ॥
धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि ।
पौरुषेचाप्रति द्वन्द्वः शरैनञ्जहिरावणिम् ॥
दशकृत्वो जपेन्मन्त्रं पश्चाद्रामायणं चरेत् ।
रामचन्द्रप्रसासेन * * * * * * * * *
श्रीरामश्शरणं मम हरिः ओम्
(ग्रन्थाक्षरालङ्कृत तालपत्रकोशं दृष्ट्वा लिखितमिदम् अडैयार्लैब्ररीतः नटराजशर्मणा ॥)