अष्टमोऽध्यायः
अथ विष्णुपूजाविधिवर्णनम्
विश्वास-प्रस्तुतिः - १
हारीत उवाच
अथ वक्ष्यामि राजेन्द्र विष्णुपूजाविधिं परम् १
मूलम् - १
हारीत उवाच
अथ वक्ष्यामि राजेन्द्र विष्णुपूजाविधिं परम् १
विश्वास-प्रस्तुतिः - २
श्रौतं महर्षिभिः प्रोक्तं वशिष्ठाद्यैः पुरातनैः
वैखानसैश्च भृग्वाद्यैः सनकाद्यैश्च योगिभिः २
मूलम् - २
श्रौतं महर्षिभिः प्रोक्तं वशिष्ठाद्यैः पुरातनैः
वैखानसैश्च भृग्वाद्यैः सनकाद्यैश्च योगिभिः २
विश्वास-प्रस्तुतिः - ३
वैष्णवैर्वैदिकैः पूर्वैर्यद्यदाचरितं पुरा
तत्ते वक्ष्यामि राजेन्द्र महाप्रियतमं हरेः ३
मूलम् - ३
वैष्णवैर्वैदिकैः पूर्वैर्यद्यदाचरितं पुरा
तत्ते वक्ष्यामि राजेन्द्र महाप्रियतमं हरेः ३
विश्वास-प्रस्तुतिः - ४
ब्राह्मे मुहूर्ते उत्थाय सम्यगाचम्य वारिणा
ध्यात्वा हृत्पङ्कजे विष्णुं पूजयेन्मनसैव तु ४
मूलम् - ४
ब्राह्मे मुहूर्ते उत्थाय सम्यगाचम्य वारिणा
ध्यात्वा हृत्पङ्कजे विष्णुं पूजयेन्मनसैव तु ४
७०८
विश्वास-प्रस्तुतिः - ५
तं प्रत्तैवेति सूक्तेन बोधयेत्कमलापतिम्
वनस्पतेति सूक्तेन तूर्यघोषं निनादयेत् ५
मूलम् - ५
तं प्रत्तैवेति सूक्तेन बोधयेत्कमलापतिम्
वनस्पतेति सूक्तेन तूर्यघोषं निनादयेत् ५
विश्वास-प्रस्तुतिः - ७
कृतशौचस्तथाऽऽचान्तो दन्तधावनपूर्वकम्
स्नानं कुर्याद्विधानेन धात्रीश्रीतुलसीयुतम् ७
मूलम् - ७
कृतशौचस्तथाऽऽचान्तो दन्तधावनपूर्वकम्
स्नानं कुर्याद्विधानेन धात्रीश्रीतुलसीयुतम् ७
विश्वास-प्रस्तुतिः - ८
नारायणानुवाकेन कृत्वा तत्राघमर्षणम्
कृतकृत्यः शुचिर्भूत्वा तर्पयित्वा च पूर्ववत् ८
मूलम् - ८
नारायणानुवाकेन कृत्वा तत्राघमर्षणम्
कृतकृत्यः शुचिर्भूत्वा तर्पयित्वा च पूर्ववत् ८
विश्वास-प्रस्तुतिः - ९
धृतोर्ध्वपुण्ड्रदेहश्च पवित्रकर एव च
प्रविश्य मन्दिरं विष्णोः संमार्जन्या विशोधयेत् ९
मूलम् - ९
धृतोर्ध्वपुण्ड्रदेहश्च पवित्रकर एव च
प्रविश्य मन्दिरं विष्णोः संमार्जन्या विशोधयेत् ९
विश्वास-प्रस्तुतिः - १०
आगाव इति सूक्तेन गोमयेनानुलेपयेत्
आनोभद्रेति सूक्तेन रङ्गवल्लिञ्च निक्षिपेत् १०
मूलम् - १०
आगाव इति सूक्तेन गोमयेनानुलेपयेत्
आनोभद्रेति सूक्तेन रङ्गवल्लिञ्च निक्षिपेत् १०
विश्वास-प्रस्तुतिः - ११
ततः कलशमादाय जपन्वै शाकुनीर्ऋचः
गत्वा जलाशयं रम्यं निर्म्मलं शुचि पाण्डुरम् ११
मूलम् - ११
ततः कलशमादाय जपन्वै शाकुनीर्ऋचः
गत्वा जलाशयं रम्यं निर्म्मलं शुचि पाण्डुरम् ११
विश्वास-प्रस्तुतिः - १२
इमं मे गङ्गेति ऋचा जलं भक्त्याऽभिमन्त्रयेत्
आपो अस्मानिति ऋचा कलशं क्षालयेद् द्विजः १२
मूलम् - १२
इमं मे गङ्गेति ऋचा जलं भक्त्याऽभिमन्त्रयेत्
आपो अस्मानिति ऋचा कलशं क्षालयेद् द्विजः १२
विश्वास-प्रस्तुतिः - १३
समुद्र ज्येष्ठमन्त्रेण गृह्णीयात्प्रयतो जलम्
उतस्मेनं वस्तुभिरिति वस्त्रेणाऽऽच्छाद्य वैष्णवः १३
मूलम् - १३
समुद्र ज्येष्ठमन्त्रेण गृह्णीयात्प्रयतो जलम्
उतस्मेनं वस्तुभिरिति वस्त्रेणाऽऽच्छाद्य वैष्णवः १३
विश्वास-प्रस्तुतिः - १४
प्रसम्राजेति सूक्तं वै जपन् सम्प्रविशेद् गृहम्
धान्योपरि तथा कुम्भं न्यसेद्दक्षिणतो हरेः १४
मूलम् - १४
प्रसम्राजेति सूक्तं वै जपन् सम्प्रविशेद् गृहम्
धान्योपरि तथा कुम्भं न्यसेद्दक्षिणतो हरेः १४
विश्वास-प्रस्तुतिः - १५
इमं मे वरुणेत्यृचा मङ्गलद्रव्यसंयुतम्
अञ्जन्ति त्वेति सूक्तेन कुर्य्यात्पुष्पस्य सञ्चयम् १५
मूलम् - १५
इमं मे वरुणेत्यृचा मङ्गलद्रव्यसंयुतम्
अञ्जन्ति त्वेति सूक्तेन कुर्य्यात्पुष्पस्य सञ्चयम् १५
विश्वास-प्रस्तुतिः - १६
वाग्यतः प्रयतो भूत्वा श्रीसूक्तेनैव वैष्णवः
विश्वानि न इति ऋचा दीपं दद्यात्सुदीपितम् १६
मूलम् - १६
वाग्यतः प्रयतो भूत्वा श्रीसूक्तेनैव वैष्णवः
विश्वानि न इति ऋचा दीपं दद्यात्सुदीपितम् १६
विश्वास-प्रस्तुतिः - १७
तत्तत्पात्रेषु सलिलं दत्त्वा गन्धांस्तु निक्षिपेत्
शन्नो देव्या च सलिलं गायत्र्या च कुशांस्तथा १७
मूलम् - १७
तत्तत्पात्रेषु सलिलं दत्त्वा गन्धांस्तु निक्षिपेत्
शन्नो देव्या च सलिलं गायत्र्या च कुशांस्तथा १७
विश्वास-प्रस्तुतिः - १८
आयनेति च पुष्पाणि यवोऽसीति ऋचाऽक्षतान्
गन्धद्वारेति वै गन्धा नौषध्या तिलसर्षपान् १८
मूलम् - १८
आयनेति च पुष्पाणि यवोऽसीति ऋचाऽक्षतान्
गन्धद्वारेति वै गन्धा नौषध्या तिलसर्षपान् १८
विश्वास-प्रस्तुतिः - १९
काण्डात्काण्डेति दूर्वाग्रान् सहिरण्येति रत्नकम्
हिरण्यरूपेति ऋचा हिरण्यं निक्षिपेत्तथा १९
मूलम् - १९
काण्डात्काण्डेति दूर्वाग्रान् सहिरण्येति रत्नकम्
हिरण्यरूपेति ऋचा हिरण्यं निक्षिपेत्तथा १९
विश्वास-प्रस्तुतिः - २०
एवं द्रव्याणि निक्षिप्य तुलस्या च समर्पयेत्
सवितुश्चेत्यादि ऋचा दद्यादर्घ्योदकं हरेः २०
मूलम् - २०
एवं द्रव्याणि निक्षिप्य तुलस्या च समर्पयेत्
सवितुश्चेत्यादि ऋचा दद्यादर्घ्योदकं हरेः २०
विश्वास-प्रस्तुतिः - २१
श्रियेति पादेति ऋचा दद्यात्पादजलं तथा
भद्रन्ते हस्तेत्यनेन हस्तप्रक्षालनं चरेत् २१
मूलम् - २१
श्रियेति पादेति ऋचा दद्यात्पादजलं तथा
भद्रन्ते हस्तेत्यनेन हस्तप्रक्षालनं चरेत् २१
विश्वास-प्रस्तुतिः - २२
वयः सुपर्णति ऋचा मुखसम्मार्जनं तथा
आपो अस्मानिति ऋचा वक्त्रगण्डूषमेव च २२
मूलम् - २२
वयः सुपर्णति ऋचा मुखसम्मार्जनं तथा
आपो अस्मानिति ऋचा वक्त्रगण्डूषमेव च २२
विश्वास-प्रस्तुतिः - २३
हिरण्यदन्तेत्यनेन दन्तकाष्ठं निवेदयेत्
बृहस्पते प्रथमेति जिह्वालेखनमेव च २३
मूलम् - २३
हिरण्यदन्तेत्यनेन दन्तकाष्ठं निवेदयेत्
बृहस्पते प्रथमेति जिह्वालेखनमेव च २३
विश्वास-प्रस्तुतिः - २४
आपयित्वा उ भेषजीरिति गण्डूषमाचरेत्
आपो हि ष्ठा इत्यनेन कुर्य्यादाचमनीयकम् २४
मूलम् - २४
आपयित्वा उ भेषजीरिति गण्डूषमाचरेत्
आपो हि ष्ठा इत्यनेन कुर्य्यादाचमनीयकम् २४
विश्वास-प्रस्तुतिः - २६
तद्धियस्तस्थौ केशवन्ते केशान् वै क्षालयेत्पुनः
श्रिये पृश्न इति ऋचा तद्वर्चोद्वर्तनादिकम् २६
मूलम् - २६
तद्धियस्तस्थौ केशवन्ते केशान् वै क्षालयेत्पुनः
श्रिये पृश्न इति ऋचा तद्वर्चोद्वर्तनादिकम् २६
विश्वास-प्रस्तुतिः - २७
आपोयम्बः प्रथममिति सूक्तेनाभ्यङ्गसूचनम्
कृत्वाऽदः स्नापयेत्सूक्तैर्वैष्णवैर्गन्धवारिणा २७
मूलम् - २७
आपोयम्बः प्रथममिति सूक्तेनाभ्यङ्गसूचनम्
कृत्वाऽदः स्नापयेत्सूक्तैर्वैष्णवैर्गन्धवारिणा २७
विश्वास-प्रस्तुतिः - २८
ततः पञ्चामृतैर्गव्यैः स्नापयेत्तत्प्रकाशकैः
आप्यायस्वेत्यृचा क्षीरं दधिक्राव्णेति वै दधि २८
मूलम् - २८
ततः पञ्चामृतैर्गव्यैः स्नापयेत्तत्प्रकाशकैः
आप्यायस्वेत्यृचा क्षीरं दधिक्राव्णेति वै दधि २८
विश्वास-प्रस्तुतिः - २९
घृतमामिक्षेति घृतं मधुवातेति वै मधु
तत्ते वयं यथा गोभिरित्यृचेक्षुरसं शुभम् २९
मूलम् - २९
घृतमामिक्षेति घृतं मधुवातेति वै मधु
तत्ते वयं यथा गोभिरित्यृचेक्षुरसं शुभम् २९
७१०
विश्वास-प्रस्तुतिः - ३०
एभिः पञ्चामृतैः स्नाप्य चन्दनञ्च निवेदयेत्
श्रीसूक्तपुरुषसूक्ताभ्यां पुनः संस्थापयेद्धरिम् ३०
मूलम् - ३०
एभिः पञ्चामृतैः स्नाप्य चन्दनञ्च निवेदयेत्
श्रीसूक्तपुरुषसूक्ताभ्यां पुनः संस्थापयेद्धरिम् ३०
विश्वास-प्रस्तुतिः - ३१
वनस्पतेति सूक्तेन कुर्य्याद् घोषसमन्वितम्
श्रिये जात इति ऋचा दद्यान्नीराजनं ततः ३१
मूलम् - ३१
वनस्पतेति सूक्तेन कुर्य्याद् घोषसमन्वितम्
श्रिये जात इति ऋचा दद्यान्नीराजनं ततः ३१
विश्वास-प्रस्तुतिः - ३२
युवा सुवासेति ऋचा वस्त्रेणाङ्गं प्रमार्जयेत्
प्रसेनानेति मन्त्रेण वस्त्रं सम्वेष्टयेत्ततः ३२
मूलम् - ३२
युवा सुवासेति ऋचा वस्त्रेणाङ्गं प्रमार्जयेत्
प्रसेनानेति मन्त्रेण वस्त्रं सम्वेष्टयेत्ततः ३२
विश्वास-प्रस्तुतिः - ३३
युवं वस्त्राणीति ऋचा उत्तरीयं तथैव च
सर्वत्राऽऽचमनं दद्याच्छन्नो देवीत्यृचा च तु ३३
मूलम् - ३३
युवं वस्त्राणीति ऋचा उत्तरीयं तथैव च
सर्वत्राऽऽचमनं दद्याच्छन्नो देवीत्यृचा च तु ३३
विश्वास-प्रस्तुतिः - ३४
उपवीतं ततो दद्याद्ब्राह्मणानिति वै ऋचा
ऋतस्य तन्तुवितते दद्यात्कुशपवित्रकम् ३४
मूलम् - ३४
उपवीतं ततो दद्याद्ब्राह्मणानिति वै ऋचा
ऋतस्य तन्तुवितते दद्यात्कुशपवित्रकम् ३४
विश्वास-प्रस्तुतिः - ३५
पश्चादाचमनं दद्याद् भूषणैर्भूषयेद्धरिम्
विश्वजित्सूक्तेन दद्याद्भूषणानि शुभानि वै ३५
मूलम् - ३५
पश्चादाचमनं दद्याद् भूषणैर्भूषयेद्धरिम्
विश्वजित्सूक्तेन दद्याद्भूषणानि शुभानि वै ३५
विश्वास-प्रस्तुतिः - ३६
हिरण्यकेशेति ऋचा केशान् संशोषयेत्तथा
सुपुष्पैः कवरीं दद्याद्विहिसोतेत्यनेन वै ३६
मूलम् - ३६
हिरण्यकेशेति ऋचा केशान् संशोषयेत्तथा
सुपुष्पैः कवरीं दद्याद्विहिसोतेत्यनेन वै ३६
विश्वास-प्रस्तुतिः - ३७
कृपायमिन्द्र ते रथ इत्यृचा तिलकं शुभम्
गन्धञ्च लेपयेद्गात्रे गन्धद्वारेति वै ऋचा ३७
मूलम् - ३७
कृपायमिन्द्र ते रथ इत्यृचा तिलकं शुभम्
गन्धञ्च लेपयेद्गात्रे गन्धद्वारेति वै ऋचा ३७
विश्वास-प्रस्तुतिः - ३८
त्रातारमिन्द्र इत्यृचा पुष्पमालां समर्पयेत्
चक्षुषः पितेति ऋचा चक्षुषो रञ्जनं शुभम् ३८
मूलम् - ३८
त्रातारमिन्द्र इत्यृचा पुष्पमालां समर्पयेत्
चक्षुषः पितेति ऋचा चक्षुषो रञ्जनं शुभम् ३८
विश्वास-प्रस्तुतिः - ३९
सहस्रशीर्षेति ऋचा किरीटं शिरसि क्षिपेत्
ऋक्सामाभ्यामिति श्रोत्रे कुण्डले मा करेऽर्पयेत् ३९
मूलम् - ३९
सहस्रशीर्षेति ऋचा किरीटं शिरसि क्षिपेत्
ऋक्सामाभ्यामिति श्रोत्रे कुण्डले मा करेऽर्पयेत् ३९
विश्वास-प्रस्तुतिः - ४०
दमून्सौ उपस इति केयूरादिविभूषणम्
आश्वेते यस्येति ऋचा हाराणि विमलानि च ४०
मूलम् - ४०
दमून्सौ उपस इति केयूरादिविभूषणम्
आश्वेते यस्येति ऋचा हाराणि विमलानि च ४०
विश्वास-प्रस्तुतिः - ४१
हस्ताभ्यां दशशाखाभ्यामित्यृचा चाङ्गुलीयकम्
अस्य त्रिपूर्णमधुना सूर्य्याके विन्यसेच्छुभे ४१
मूलम् - ४१
हस्ताभ्यां दशशाखाभ्यामित्यृचा चाङ्गुलीयकम्
अस्य त्रिपूर्णमधुना सूर्य्याके विन्यसेच्छुभे ४१
विश्वास-प्रस्तुतिः - ४२
इदन्त्वदुत्तर इति कटिसूत्रं सुरोचिषम्
स्वस्तिदा विशस्पतिरित्यायुधानि समर्पयेत् ४२
मूलम् - ४२
इदन्त्वदुत्तर इति कटिसूत्रं सुरोचिषम्
स्वस्तिदा विशस्पतिरित्यायुधानि समर्पयेत् ४२
विश्वास-प्रस्तुतिः - ४३
द्यौर्नय इन्द्रेति दद्याच्छत्रं सुविमलं तथा
सोमः पवर्ततेत्यृचा चामरं हैममुत्तमम् ४३
मूलम् - ४३
द्यौर्नय इन्द्रेति दद्याच्छत्रं सुविमलं तथा
सोमः पवर्ततेत्यृचा चामरं हैममुत्तमम् ४३
विश्वास-प्रस्तुतिः - ४४
सोमापूषणेत्यृचा तालवृन्तौ सुवर्चसौ
रूपं रूपमिति ऋचा दद्यादादर्शनं शुभम् ४४
मूलम् - ४४
सोमापूषणेत्यृचा तालवृन्तौ सुवर्चसौ
रूपं रूपमिति ऋचा दद्यादादर्शनं शुभम् ४४
विश्वास-प्रस्तुतिः - ४५
इन्द्रमेव धीषणेति ऋचाऽऽसने विनिवेशयेत्
इहैवास्तमेति ऋचा दद्याच्च कुशविष्टरम् ४५
मूलम् - ४५
इन्द्रमेव धीषणेति ऋचाऽऽसने विनिवेशयेत्
इहैवास्तमेति ऋचा दद्याच्च कुशविष्टरम् ४५
विश्वास-प्रस्तुतिः - ४६
आपस्वन्तरिति ऋचा पाद्यं दद्याच्च भक्तितः
गौरीमिमाय सूक्तेन अर्घ्यं हस्ते निवेदयेत् ४६
मूलम् - ४६
आपस्वन्तरिति ऋचा पाद्यं दद्याच्च भक्तितः
गौरीमिमाय सूक्तेन अर्घ्यं हस्ते निवेदयेत् ४६
विश्वास-प्रस्तुतिः - ४७
नतमंहो न दुरितमित्याचमनं समर्पयेत्
पिवासोममित्यनेन मधुपर्कञ्च प्राशयेत् ४७
मूलम् - ४७
नतमंहो न दुरितमित्याचमनं समर्पयेत्
पिवासोममित्यनेन मधुपर्कञ्च प्राशयेत् ४७
विश्वास-प्रस्तुतिः - ४८
अपस्वग्ने सधिष्टवेति पुनराचमनं चरेत्
अर्चन्तस्त्वाहवामहेत्यक्षतैरर्चयेच्छुभैः ४८
मूलम् - ४८
अपस्वग्ने सधिष्टवेति पुनराचमनं चरेत्
अर्चन्तस्त्वाहवामहेत्यक्षतैरर्चयेच्छुभैः ४८
विश्वास-प्रस्तुतिः - ४९
तण्डुलाः सहरिद्रास्तु अक्षता इति कीर्तिताः
विष्णोर्नुकमिति सूक्तेन धूपं दद्याद्धृतान्वितम् ४९
मूलम् - ४९
तण्डुलाः सहरिद्रास्तु अक्षता इति कीर्तिताः
विष्णोर्नुकमिति सूक्तेन धूपं दद्याद्धृतान्वितम् ४९
विश्वास-प्रस्तुतिः - ५०
भावामितेति सूक्तेन दीपान्नीराजयेच्छुभान्
इदन्ते पात्रमिति भाजनं विन्यसेच्छुभम् ५०
मूलम् - ५०
भावामितेति सूक्तेन दीपान्नीराजयेच्छुभान्
इदन्ते पात्रमिति भाजनं विन्यसेच्छुभम् ५०
विश्वास-प्रस्तुतिः - ५१
अस्मिन् पदे परमिति गवाज्येनाभिपूरयेत्
पितुं नुस्तोषमिति सूक्तेन दद्यादन्नादिकं हविः ५१
मूलम् - ५१
अस्मिन् पदे परमिति गवाज्येनाभिपूरयेत्
पितुं नुस्तोषमिति सूक्तेन दद्यादन्नादिकं हविः ५१
विश्वास-प्रस्तुतिः - ५२
तदस्यानिकमिति ऋचा सहिरण्यं घृतं तथा
तस्मिन् रायवतय इति दद्यादापोशने घृतम् ५२
मूलम् - ५२
तदस्यानिकमिति ऋचा सहिरण्यं घृतं तथा
तस्मिन् रायवतय इति दद्यादापोशने घृतम् ५२
विश्वास-प्रस्तुतिः - ५३
ततः प्राणाद्याहुतयो होतव्याः परमात्मनि
अग्ने विवस्वदुषस इति पञ्चभिश्च यथाक्रमम् ५३
मूलम् - ५३
ततः प्राणाद्याहुतयो होतव्याः परमात्मनि
अग्ने विवस्वदुषस इति पञ्चभिश्च यथाक्रमम् ५३
विश्वास-प्रस्तुतिः - ५४
समुद्रा दूर्मीति सूक्तेन घृतधाराः समाचरेत्
परोमात्रेति सूक्तेन भोजयेत्सश्रियं हरिम् ५४
मूलम् - ५४
समुद्रा दूर्मीति सूक्तेन घृतधाराः समाचरेत्
परोमात्रेति सूक्तेन भोजयेत्सश्रियं हरिम् ५४
विश्वास-प्रस्तुतिः - ७१२
तुभ्यं हिन्वान इत्यनेन वयः सर्वं निवेदयेत्
र्
७१२
मूलम् - ७१२
तुभ्यं हिन्वान इत्यनेन वयः सर्वं निवेदयेत्
र्
७१२
विश्वास-प्रस्तुतिः - ५६
प्रत आश्विनि पवमानेत्यृचा हस्तप्रक्षालनं चरेत्
सरस्वतीं देवयन्त इति तिसृभिर्गण्डूषमेव च ५६
मूलम् - ५६
प्रत आश्विनि पवमानेत्यृचा हस्तप्रक्षालनं चरेत्
सरस्वतीं देवयन्त इति तिसृभिर्गण्डूषमेव च ५६
विश्वास-प्रस्तुतिः - ५७
वृष्टिं दिवीशः तद्धारेति दद्यादाचमनं ततः
शिशुं जिज्ञाग्निनमिति ऋचा मुखहस्तौ च मार्जयेत् ५७
मूलम् - ५७
वृष्टिं दिवीशः तद्धारेति दद्यादाचमनं ततः
शिशुं जिज्ञाग्निनमिति ऋचा मुखहस्तौ च मार्जयेत् ५७
विश्वास-प्रस्तुतिः - ५८
स्वादुः पवस्वेति ऋचा दद्यादाचमनं पुनः
आऽयं गौरिति सूक्ताभ्यां दद्यात्पुष्पाञ्जलिं ततः ५८
मूलम् - ५८
स्वादुः पवस्वेति ऋचा दद्यादाचमनं पुनः
आऽयं गौरिति सूक्ताभ्यां दद्यात्पुष्पाञ्जलिं ततः ५८
विश्वास-प्रस्तुतिः - ५९
दीपन्नीराजयेत्पश्चाद् घृतसूक्तेन वैष्णवः
यत इन्द्रेत्यादि षड्भिर्दिक्षु रक्षां प्रदापयेत् ५९
मूलम् - ५९
दीपन्नीराजयेत्पश्चाद् घृतसूक्तेन वैष्णवः
यत इन्द्रेत्यादि षड्भिर्दिक्षु रक्षां प्रदापयेत् ५९
विश्वास-प्रस्तुतिः - ६०
यज्ञो देवानामिति सूक्तेन उपस्थानजपं चरेत्
तद्विष्णोरिति द्वाभ्यां प्रणमेच्चैव भक्तितः ६०
मूलम् - ६०
यज्ञो देवानामिति सूक्तेन उपस्थानजपं चरेत्
तद्विष्णोरिति द्वाभ्यां प्रणमेच्चैव भक्तितः ६०
विश्वास-प्रस्तुतिः - ६१
गौरीमिमायेति ऋचा दद्यादाचमनन्ततः
सहस्रनामभिः स्तुत्वा पश्चाद्धोमं समाचरेत् ६१
मूलम् - ६१
गौरीमिमायेति ऋचा दद्यादाचमनन्ततः
सहस्रनामभिः स्तुत्वा पश्चाद्धोमं समाचरेत् ६१
विश्वास-प्रस्तुतिः - ६२
प्रातरौपासनं हुत्वा तस्मिन्नग्नौ जनार्दनम्
ध्यात्वा संपूज्य जुहुयाद्वैष्णवैः प्रत्यृचं हविः ६२
मूलम् - ६२
प्रातरौपासनं हुत्वा तस्मिन्नग्नौ जनार्दनम्
ध्यात्वा संपूज्य जुहुयाद्वैष्णवैः प्रत्यृचं हविः ६२
विश्वास-प्रस्तुतिः - ६३
श्रीभूसूक्ताभ्यामपि च हुत्वा घृतयुतं हविः
याभिः सोमो मोदतेत्यनेन मातृभ्यां जुहुयाद्धविः ६३
मूलम् - ६३
श्रीभूसूक्ताभ्यामपि च हुत्वा घृतयुतं हविः
याभिः सोमो मोदतेत्यनेन मातृभ्यां जुहुयाद्धविः ६३
विश्वास-प्रस्तुतिः - ६४
किंस्विद्वनमित्यान्नन्तं जुहुयाद्धविः
सुपर्णं विप्रा इति ऋचा सुपर्णाय महात्मने ६४
मूलम् - ६४
किंस्विद्वनमित्यान्नन्तं जुहुयाद्धविः
सुपर्णं विप्रा इति ऋचा सुपर्णाय महात्मने ६४
विश्वास-प्रस्तुतिः - ६५
चमूष च्छ्येन इति च सेनेशायापि हूयताम्
पवित्रन्त इति द्वाभ्याञ्चक्रायामिततेजसे ६५
मूलम् - ६५
चमूष च्छ्येन इति च सेनेशायापि हूयताम्
पवित्रन्त इति द्वाभ्याञ्चक्रायामिततेजसे ६५
विश्वास-प्रस्तुतिः - ६६
स्वादुषं स इति ऋचा हेतिभ्यो जुहुयाद्धविः
इन्द्रश्रेष्ठानितीन्द्राय अग्निमूर्धेति पावकम् ६६
मूलम् - ६६
स्वादुषं स इति ऋचा हेतिभ्यो जुहुयाद्धविः
इन्द्रश्रेष्ठानितीन्द्राय अग्निमूर्धेति पावकम् ६६
विश्वास-प्रस्तुतिः - ७१३
यमाय सोमेति यमन्नैर्ऋतं मोषुणेत्यृचा
यच्चिद्धितेति वरुणं वायवायाहीति मारुतम्
७१३
मूलम् - ७१३
यमाय सोमेति यमन्नैर्ऋतं मोषुणेत्यृचा
यच्चिद्धितेति वरुणं वायवायाहीति मारुतम्
७१३
विश्वास-प्रस्तुतिः - ६९
त्र्यम्बकऋचा रुद्र मानः प्रजां प्रजापतिम्
यज्ञेनेत्यृचा साध्येभ्यो मरुतो यद्धवेति च ६९
मूलम् - ६९
त्र्यम्बकऋचा रुद्र मानः प्रजां प्रजापतिम्
यज्ञेनेत्यृचा साध्येभ्यो मरुतो यद्धवेति च ६९
विश्वास-प्रस्तुतिः - ६९
योनः सपत्नेति ऋचा वसुरुद्रेभ्य एव च
विश्वेदेवाः स चतसृभिर्ये देवा स ऋचा तथा ६९
मूलम् - ६९
योनः सपत्नेति ऋचा वसुरुद्रेभ्य एव च
विश्वेदेवाः स चतसृभिर्ये देवा स ऋचा तथा ६९
विश्वास-प्रस्तुतिः - ७०
सर्वेभ्यश्चैव देवेभ्यो जुहुयादन्नमुत्तमम्
नासत्याभ्यामिति ऋचा अश्विच्छन्दोभ्य एव च ७०
मूलम् - ७०
सर्वेभ्यश्चैव देवेभ्यो जुहुयादन्नमुत्तमम्
नासत्याभ्यामिति ऋचा अश्विच्छन्दोभ्य एव च ७०
विश्वास-प्रस्तुतिः - ७१
सोमपूषेति ऋचा सूर्य्याचन्द्रमसोस्तथा
संसमिद्युदसूक्तेन वैष्णवेभ्यस्तथापुनः ७१
मूलम् - ७१
सोमपूषेति ऋचा सूर्य्याचन्द्रमसोस्तथा
संसमिद्युदसूक्तेन वैष्णवेभ्यस्तथापुनः ७१
विश्वास-प्रस्तुतिः - ७२
ततः स्विष्टकृतं हुत्वा भुक्तेभ्यश्च बलिं क्षिपेत्
नमो महद्भ्य ऋचा बलिं भुवि विनिक्षिपेत् ७२
मूलम् - ७२
ततः स्विष्टकृतं हुत्वा भुक्तेभ्यश्च बलिं क्षिपेत्
नमो महद्भ्य ऋचा बलिं भुवि विनिक्षिपेत् ७२
विश्वास-प्रस्तुतिः - ७३
आचम्य वारिणा पश्चान्मन्त्रयागं समाचरेत्
एतच्छ्रौतं नृपश्रेष्ठ मुनिभिः सम्प्रकीर्तितम् ७३
मूलम् - ७३
आचम्य वारिणा पश्चान्मन्त्रयागं समाचरेत्
एतच्छ्रौतं नृपश्रेष्ठ मुनिभिः सम्प्रकीर्तितम् ७३
विश्वास-प्रस्तुतिः - ७४
सम्यगुक्तं मया तेऽद्य निश्चितं मतमुत्तमम्
एतत्प्रियतमं विष्णोः स्त्रियो नाथस्य सर्वदा ७४
मूलम् - ७४
सम्यगुक्तं मया तेऽद्य निश्चितं मतमुत्तमम्
एतत्प्रियतमं विष्णोः स्त्रियो नाथस्य सर्वदा ७४
विश्वास-प्रस्तुतिः - ७५
श्रौतेनैव हरिं देवमर्चयन्ति मनीषिणः
श्रौतस्मार्त्तागमैर्विष्णोस्त्रिविधं पूजनं स्मृतम् ७५
मूलम् - ७५
श्रौतेनैव हरिं देवमर्चयन्ति मनीषिणः
श्रौतस्मार्त्तागमैर्विष्णोस्त्रिविधं पूजनं स्मृतम् ७५
विश्वास-प्रस्तुतिः - ७६
एतच्छ्रौतं ततः स्मार्त्तं पौरुषेण च यत्स्मृतम्
मन्त्रैरष्टाक्षराद्यैस्तु तद्दिव्यागममुच्यते ७६
मूलम् - ७६
एतच्छ्रौतं ततः स्मार्त्तं पौरुषेण च यत्स्मृतम्
मन्त्रैरष्टाक्षराद्यैस्तु तद्दिव्यागममुच्यते ७६
विश्वास-प्रस्तुतिः - ७७
श्रौतमेव विशिष्टं स्यात्तेषां नृपवरोत्तम
श्रौतमेव तथा विप्राः प्रकुर्वन्ति जनार्दने ७७
मूलम् - ७७
श्रौतमेव विशिष्टं स्यात्तेषां नृपवरोत्तम
श्रौतमेव तथा विप्राः प्रकुर्वन्ति जनार्दने ७७
विश्वास-प्रस्तुतिः - ७८
यजन्ति केचित्त्रितयन्त्रिसन्ध्यासु च देशिकाः
यजन्ति केचित्त्रितयन्त्रयो वर्णा द्विजोत्तमाः ७८
मूलम् - ७८
यजन्ति केचित्त्रितयन्त्रिसन्ध्यासु च देशिकाः
यजन्ति केचित्त्रितयन्त्रयो वर्णा द्विजोत्तमाः ७८
विश्वास-प्रस्तुतिः - ७९
शुश्रूषा च तथा नामकीर्तनं शूद्रजन्मनः
अपि वा परमेकान्ति बालकृष्णवपुर्हरिम् ७९
मूलम् - ७९
शुश्रूषा च तथा नामकीर्तनं शूद्रजन्मनः
अपि वा परमेकान्ति बालकृष्णवपुर्हरिम् ७९
विश्वास-प्रस्तुतिः - ७१४
स्त्रीणामप्यर्चनीयः स्यात्स्ववर्णस्याऽऽनुरूपतः
र्
७१४
मूलम् - ७१४
स्त्रीणामप्यर्चनीयः स्यात्स्ववर्णस्याऽऽनुरूपतः
र्
७१४
विश्वास-प्रस्तुतिः - ८१
एवमभ्यर्च्चनं विष्णोर्मुनिभिः सम्प्रकीर्तितम्
श्रौतस्मार्तागमोक्ताश्च नित्यनैमित्तिकाः क्रियाः ८१
मूलम् - ८१
एवमभ्यर्च्चनं विष्णोर्मुनिभिः सम्प्रकीर्तितम्
श्रौतस्मार्तागमोक्ताश्च नित्यनैमित्तिकाः क्रियाः ८१
विश्वास-प्रस्तुतिः - ८२
प्रायश्चित्तमकृत्यानां दण्डमप्याततायिनाम्
अधुना सम्प्रवक्ष्यामि वृत्तिमैकान्तिलक्षणाम् ८२
मूलम् - ८२
प्रायश्चित्तमकृत्यानां दण्डमप्याततायिनाम्
अधुना सम्प्रवक्ष्यामि वृत्तिमैकान्तिलक्षणाम् ८२
विश्वास-प्रस्तुतिः - ८३
नारीणामपि कर्तव्या अहन्यहनि शाश्वतीम्
उत्थाय पश्चिमे यामे भर्त्तुः पूर्वमतन्द्रिताः ८३
मूलम् - ८३
नारीणामपि कर्तव्या अहन्यहनि शाश्वतीम्
उत्थाय पश्चिमे यामे भर्त्तुः पूर्वमतन्द्रिताः ८३
विश्वास-प्रस्तुतिः - ८४
कृत्वा शौचं विधानेन दन्तधावनमाचरेत्
कृत्वाऽथ मङ्गलस्नानं धृत्वा शुक्लाम्बरं तथा ८४
मूलम् - ८४
कृत्वा शौचं विधानेन दन्तधावनमाचरेत्
कृत्वाऽथ मङ्गलस्नानं धृत्वा शुक्लाम्बरं तथा ८४
विश्वास-प्रस्तुतिः - ८५
आचम्य धारयेदूर्ध्वपुण्ड्रं शुभ्रं मृदैव तु
चन्दनेनापि कस्तूर्य्याः कुङ्कुमेनापि वाऽसति ८५
मूलम् - ८५
आचम्य धारयेदूर्ध्वपुण्ड्रं शुभ्रं मृदैव तु
चन्दनेनापि कस्तूर्य्याः कुङ्कुमेनापि वाऽसति ८५
विश्वास-प्रस्तुतिः - ८६
जप्त्वा मन्त्रं गुरुं पश्चादभिनन्द्य च वैष्णवान्
नमस्कृत्वा जगन्नाथं जप्त्वा च शरणागतिम् ८६
मूलम् - ८६
जप्त्वा मन्त्रं गुरुं पश्चादभिनन्द्य च वैष्णवान्
नमस्कृत्वा जगन्नाथं जप्त्वा च शरणागतिम् ८६
विश्वास-प्रस्तुतिः - ८७
आत्मानं समलङ्कृत्य चिन्तयेन्मधुसूदनम्
गृहभाण्डादिकं सर्वं वाग्यता नियतेन्द्रियाः ८७
मूलम् - ८७
आत्मानं समलङ्कृत्य चिन्तयेन्मधुसूदनम्
गृहभाण्डादिकं सर्वं वाग्यता नियतेन्द्रियाः ८७
विश्वास-प्रस्तुतिः - ८८
संशोधयेत्प्रतिदिनं यज्ञार्थं परमात्मनः
मार्जयित्वा गृहं पश्चाद्गोमयेनानुलिप्य च ८८
मूलम् - ८८
संशोधयेत्प्रतिदिनं यज्ञार्थं परमात्मनः
मार्जयित्वा गृहं पश्चाद्गोमयेनानुलिप्य च ८८
विश्वास-प्रस्तुतिः - ८९
रङ्गवल्ल्यादिभिः पश्चादलङ्कृत्य समन्वतः
चतुर्विधानां भाण्डानां क्षालनन्तु समाचरेत् ८९
मूलम् - ८९
रङ्गवल्ल्यादिभिः पश्चादलङ्कृत्य समन्वतः
चतुर्विधानां भाण्डानां क्षालनन्तु समाचरेत् ८९
विश्वास-प्रस्तुतिः - ९०
पाचकानि बहिष्ठानि जलस्याऽऽनयनानि च
स्थापनानि जलार्थं वा चतुर्विधमुदाहृतम् ९०
मूलम् - ९०
पाचकानि बहिष्ठानि जलस्याऽऽनयनानि च
स्थापनानि जलार्थं वा चतुर्विधमुदाहृतम् ९०
विश्वास-प्रस्तुतिः - ९१
पृथक्पृथगुदञ्चानि तेषु तेष्वपि विन्यसेत्
नान्योन्यं सङ्करं कुर्याद्भाण्डानां सर्वकर्मसु ९१
मूलम् - ९१
पृथक्पृथगुदञ्चानि तेषु तेष्वपि विन्यसेत्
नान्योन्यं सङ्करं कुर्याद्भाण्डानां सर्वकर्मसु ९१
विश्वास-प्रस्तुतिः - ९२
तानि तानि स्पृशेत्पाणिं प्रक्षाल्यैव पुनः पुनः
सम्यक्प्रक्षाल्य भाण्डानि दाहयेद्यज्ञियैस्तृणैः ९२
मूलम् - ९२
तानि तानि स्पृशेत्पाणिं प्रक्षाल्यैव पुनः पुनः
सम्यक्प्रक्षाल्य भाण्डानि दाहयेद्यज्ञियैस्तृणैः ९२
७१५
रसभाण्डानि सर्व्वाणि क्षालयेदुष्णवारिणा ९३
विश्वास-प्रस्तुतिः - ९४
चतुर्भिः पञ्चभिर्ध्यात्वा स्रुक्स्रुवौ क्षालयेत्तदा
बहिर्न निष्क्रामयीत पाचकानि गृहान्तिकात् ९४
मूलम् - ९४
चतुर्भिः पञ्चभिर्ध्यात्वा स्रुक्स्रुवौ क्षालयेत्तदा
बहिर्न निष्क्रामयीत पाचकानि गृहान्तिकात् ९४
विश्वास-प्रस्तुतिः - ९५
ताभिरेव तु दद्यात्तु मुञ्जीत हि कथञ्चन
दत्त्वा पात्रान्तरे दद्यात्कांस्येवा मृण्मयेऽपि वा ९५
मूलम् - ९५
ताभिरेव तु दद्यात्तु मुञ्जीत हि कथञ्चन
दत्त्वा पात्रान्तरे दद्यात्कांस्येवा मृण्मयेऽपि वा ९५
विश्वास-प्रस्तुतिः - ९६
पुटे पणमये वाऽपि दद्यादत्र तु वैष्णवे
स्रुवं दारुमयं कांस्यं कुर्व्वीतायोमयं न तु ९६
मूलम् - ९६
पुटे पणमये वाऽपि दद्यादत्र तु वैष्णवे
स्रुवं दारुमयं कांस्यं कुर्व्वीतायोमयं न तु ९६
विश्वास-प्रस्तुतिः - ९७
न दद्यादारनालस्य घटं तस्मिन् महावने
आरनालस्य यत्कुम्भन्त्यजेन्मद्यघटं यथा ९७
मूलम् - ९७
न दद्यादारनालस्य घटं तस्मिन् महावने
आरनालस्य यत्कुम्भन्त्यजेन्मद्यघटं यथा ९७
विश्वास-प्रस्तुतिः - ९८
लशुनं मूलकं शिग्रुं छत्रां कोशातकीफलम्
अलाबुञ्चान्त्रं शाकञ्च करनिर्मथितं दधि ९८
मूलम् - ९८
लशुनं मूलकं शिग्रुं छत्रां कोशातकीफलम्
अलाबुञ्चान्त्रं शाकञ्च करनिर्मथितं दधि ९८
विश्वास-प्रस्तुतिः - ९९
बिम्बं बिड्जञ्च निर्यासं पीलुं श्लेष्मातकं फलम्
आरगधञ्च निर्गुण्डीं कालिङ्गन्नालिकां तथा ९९
मूलम् - ९९
बिम्बं बिड्जञ्च निर्यासं पीलुं श्लेष्मातकं फलम्
आरगधञ्च निर्गुण्डीं कालिङ्गन्नालिकां तथा ९९
विश्वास-प्रस्तुतिः - १००
नालिकेर्याख्यशाकञ्च श्वेतवृन्ताकमेव च
उष्ट्राविमानुषीक्षीरमवत्सानिर्दशाहगोः १००
मूलम् - १००
नालिकेर्याख्यशाकञ्च श्वेतवृन्ताकमेव च
उष्ट्राविमानुषीक्षीरमवत्सानिर्दशाहगोः १००
विश्वास-प्रस्तुतिः - १०१
एतान्यकामतः स्पृष्ट्वा सवासा जलमाविशेत्
मत्या जग्ध्वा व्रतं कुर्यान्मुर्ज जग्ध्वा पतेदधः १०१
मूलम् - १०१
एतान्यकामतः स्पृष्ट्वा सवासा जलमाविशेत्
मत्या जग्ध्वा व्रतं कुर्यान्मुर्ज जग्ध्वा पतेदधः १०१
विश्वास-प्रस्तुतिः - १०२
केशानां रञ्जनार्थं वा न स्पृशेदारनालकम्
चन्दनं घनसारं वा मकरन्दमथापि वा १०२
मूलम् - १०२
केशानां रञ्जनार्थं वा न स्पृशेदारनालकम्
चन्दनं घनसारं वा मकरन्दमथापि वा १०२
विश्वास-प्रस्तुतिः - १०३
माषमुद्गादिचूर्णं वा तक्रं जाम्वीरमेव वा
तिन्तिडञ्च कलायं वा केशरञ्जनमाचरेत् १०३
मूलम् - १०३
माषमुद्गादिचूर्णं वा तक्रं जाम्वीरमेव वा
तिन्तिडञ्च कलायं वा केशरञ्जनमाचरेत् १०३
विश्वास-प्रस्तुतिः - १०४
ऊर्ध्वं मासात्त्यजेत्सर्वं मृद्भाण्डं वैष्णवोत्तमः
न त्यजेल्लोहभाण्डानि तापयेच्च हुताशने १०४
मूलम् - १०४
ऊर्ध्वं मासात्त्यजेत्सर्वं मृद्भाण्डं वैष्णवोत्तमः
न त्यजेल्लोहभाण्डानि तापयेच्च हुताशने १०४
विश्वास-प्रस्तुतिः - १०५
दारूणां सन्त्यजेद्वाऽपि तक्षणं वा समाचरेत्
अश्मनामश्मभिर्ध्यात्वा गोबालैर्घर्षयेत्तथा १०५
मूलम् - १०५
दारूणां सन्त्यजेद्वाऽपि तक्षणं वा समाचरेत्
अश्मनामश्मभिर्ध्यात्वा गोबालैर्घर्षयेत्तथा १०५
७१६
सूतके मृतके वाऽपि शुनादिस्पर्शने तथा
विश्वास-प्रस्तुतिः - १०६
स्पर्शने वाऽप्यभक्ष्याणां सद्य एव परित्यजेत्
एवं संशोध्य भाण्डानि यज्ञार्थं याचयेद्धविः १०६
मूलम् - १०६
स्पर्शने वाऽप्यभक्ष्याणां सद्य एव परित्यजेत्
एवं संशोध्य भाण्डानि यज्ञार्थं याचयेद्धविः १०६
विश्वास-प्रस्तुतिः - १०७
सम्प्रोक्ष्याद्भिः शुचौ देशे धान्यं संशोधयेद्बुधः
अवहन्याच्छुभतरं गायन्ति मधुसूदनम् १०७
मूलम् - १०७
सम्प्रोक्ष्याद्भिः शुचौ देशे धान्यं संशोधयेद्बुधः
अवहन्याच्छुभतरं गायन्ति मधुसूदनम् १०७
विश्वास-प्रस्तुतिः - १०८
संशोध्य तण्डुलान् पश्चादद्भिः संक्षालयेत्त्रिभिः
अम्भस्त्रिवारं वस्त्रेण शोधयित्वा घटान्तरे १०८
मूलम् - १०८
संशोध्य तण्डुलान् पश्चादद्भिः संक्षालयेत्त्रिभिः
अम्भस्त्रिवारं वस्त्रेण शोधयित्वा घटान्तरे १०८
विश्वास-प्रस्तुतिः - १०९
कुशेनैव पवित्रेण तण्डुलान् निर्वपेच्छुभान्
अन्तर्धाय कुशं तत्र मन्त्ररत्नमनुस्मरन् १०९
मूलम् - १०९
कुशेनैव पवित्रेण तण्डुलान् निर्वपेच्छुभान्
अन्तर्धाय कुशं तत्र मन्त्ररत्नमनुस्मरन् १०९
विश्वास-प्रस्तुतिः - ११०
पाचयेत्सपवित्रेण वाग्यतो नियतेन्द्रियः
उपविश्य शुभे कुण्डे वह्निं प्रज्वालयेत्ततः ११०
मूलम् - ११०
पाचयेत्सपवित्रेण वाग्यतो नियतेन्द्रियः
उपविश्य शुभे कुण्डे वह्निं प्रज्वालयेत्ततः ११०
विश्वास-प्रस्तुतिः - १११
अवैष्णवस्य शूद्रस्य पतितस्य तथैव च
पाषण्डस्याप्यशुद्धस्य गृहेष्वग्निं विवर्जयेत् १११
मूलम् - १११
अवैष्णवस्य शूद्रस्य पतितस्य तथैव च
पाषण्डस्याप्यशुद्धस्य गृहेष्वग्निं विवर्जयेत् १११
विश्वास-प्रस्तुतिः - ११२
सम्प्रोक्ष्य मन्त्ररत्नेन वह्निं कुशजलैस्त्रिभिः
यज्ञियैर्विमलैः काष्ठैर्व्यजनेन प्रदीपयेत् ११२
मूलम् - ११२
सम्प्रोक्ष्य मन्त्ररत्नेन वह्निं कुशजलैस्त्रिभिः
यज्ञियैर्विमलैः काष्ठैर्व्यजनेन प्रदीपयेत् ११२
विश्वास-प्रस्तुतिः - ११३
सान्तर्धानमुखेनापि धमयित्वा प्रदीपयेत्
पालाशैर्खादिरैर्बिल्वैर्गोशकृत्पिटकैरपि ११३
मूलम् - ११३
सान्तर्धानमुखेनापि धमयित्वा प्रदीपयेत्
पालाशैर्खादिरैर्बिल्वैर्गोशकृत्पिटकैरपि ११३
विश्वास-प्रस्तुतिः - ११४
अन्यैर्वा यज्ञियैः काष्ठैस्तृणैर्वा यज्ञियैः शुभैः
वर्जयेन्मद्यदिग्धानि तथा वैभीतकानि च ११४
मूलम् - ११४
अन्यैर्वा यज्ञियैः काष्ठैस्तृणैर्वा यज्ञियैः शुभैः
वर्जयेन्मद्यदिग्धानि तथा वैभीतकानि च ११४
विश्वास-प्रस्तुतिः - ११५
आरग्वधानि शिग्रूणि तथा नैर्गुण्डिकानि च
नैपानि च कपित्थानि कार्पासैरण्डकानि च ११५
मूलम् - ११५
आरग्वधानि शिग्रूणि तथा नैर्गुण्डिकानि च
नैपानि च कपित्थानि कार्पासैरण्डकानि च ११५
विश्वास-प्रस्तुतिः - ११६
अमेध्यानि सकीटानि दौर्गन्धानि तथैव च
असद्वाहानि चैत्यानि काकखट्वासनानि च ११६
मूलम् - ११६
अमेध्यानि सकीटानि दौर्गन्धानि तथैव च
असद्वाहानि चैत्यानि काकखट्वासनानि च ११६
विश्वास-प्रस्तुतिः - ११७
देवालयानि यौप्यानि तथोपकरणानि च
महिषोष्ट्रखरादीनां कारीषपीठकानि च ११७
मूलम् - ११७
देवालयानि यौप्यानि तथोपकरणानि च
महिषोष्ट्रखरादीनां कारीषपीठकानि च ११७
७१७
प्रदीप्याग्निं ततोऽन्नाद्यं पच्यान्नियतमानसः ११८
विश्वास-प्रस्तुतिः - ११९
चिन्तयन् परमात्मानं जपन्मन्त्रद्वयं तथा
शुद्धं हृद्यं तथा रुच्यं पश्चादभ्यन्तरं शुभम् ११९
मूलम् - ११९
चिन्तयन् परमात्मानं जपन्मन्त्रद्वयं तथा
शुद्धं हृद्यं तथा रुच्यं पश्चादभ्यन्तरं शुभम् ११९
विश्वास-प्रस्तुतिः - १२०
निषिद्धानि च शाकानि फलमूलानि वर्जयेत्
अतिरूक्षञ्चातिदुष्टमतिरक्तञ्च वर्जयेत् १२०
मूलम् - १२०
निषिद्धानि च शाकानि फलमूलानि वर्जयेत्
अतिरूक्षञ्चातिदुष्टमतिरक्तञ्च वर्जयेत् १२०
विश्वास-प्रस्तुतिः - १२१
भावदुष्टं क्रियादुष्टं कालदुष्टं तथैव च
संसर्गदुष्टमपि च वर्जयेद्यज्ञकर्म्मणि १२१
मूलम् - १२१
भावदुष्टं क्रियादुष्टं कालदुष्टं तथैव च
संसर्गदुष्टमपि च वर्जयेद्यज्ञकर्म्मणि १२१
विश्वास-प्रस्तुतिः - १२२
रूपतो गन्धतो वाऽपि यच्चाभक्ष्यैः समम्भवेत्
भावदुष्टञ्च यत्प्रोक्तं मुनिभिर्धर्म्मपारगैः १२२
मूलम् - १२२
रूपतो गन्धतो वाऽपि यच्चाभक्ष्यैः समम्भवेत्
भावदुष्टञ्च यत्प्रोक्तं मुनिभिर्धर्म्मपारगैः १२२
विश्वास-प्रस्तुतिः - १२३
आरनालञ्च मद्यञ्च करनिर्म्मथितं दधि
हस्तदत्तञ्च लवणं क्षीरं घृतपयांसि च १२३
मूलम् - १२३
आरनालञ्च मद्यञ्च करनिर्म्मथितं दधि
हस्तदत्तञ्च लवणं क्षीरं घृतपयांसि च १२३
विश्वास-प्रस्तुतिः - १२४
हस्तेनोद्धृत्य यत्तोयं पीतं वक्त्रेण बकदा
शब्देन पीतं भुक्तञ्च गव्यं ताम्रेण संयुतम् १२४
मूलम् - १२४
हस्तेनोद्धृत्य यत्तोयं पीतं वक्त्रेण बकदा
शब्देन पीतं भुक्तञ्च गव्यं ताम्रेण संयुतम् १२४
विश्वास-प्रस्तुतिः - १२५
एकादश्यां तु यच्चान्नं यच्चान्नं राहुदर्शने
सूतके मृतके चान्नं शुष्कं पर्युषितं तथा १२५
मूलम् - १२५
एकादश्यां तु यच्चान्नं यच्चान्नं राहुदर्शने
सूतके मृतके चान्नं शुष्कं पर्युषितं तथा १२५
विश्वास-प्रस्तुतिः - १२६
अनिर्दशाहगोःक्षीरं षष्ठ्यां तैलं तथाऽपि च
नदीष्वसमुद्रगासु सिंहकर्कटयोर्जलम् १२६
मूलम् - १२६
अनिर्दशाहगोःक्षीरं षष्ठ्यां तैलं तथाऽपि च
नदीष्वसमुद्रगासु सिंहकर्कटयोर्जलम् १२६
विश्वास-प्रस्तुतिः - १२७
निःशेषजलवाप्यादौ यत्प्रविष्टं नवोदकम्
नातीतपञ्चरात्रं तत्कालदुष्टमिहोच्यते १२७
मूलम् - १२७
निःशेषजलवाप्यादौ यत्प्रविष्टं नवोदकम्
नातीतपञ्चरात्रं तत्कालदुष्टमिहोच्यते १२७
विश्वास-प्रस्तुतिः - १२८
शैवपाषण्डपतितैर्विकर्मस्थैर्निरीश्वरैः
अवैष्णवैर्द्विजैः शूद्रैर्हरिवासरभोक्तृभिः १२८
मूलम् - १२८
शैवपाषण्डपतितैर्विकर्मस्थैर्निरीश्वरैः
अवैष्णवैर्द्विजैः शूद्रैर्हरिवासरभोक्तृभिः १२८
विश्वास-प्रस्तुतिः - १२९
श्वकाकसूकरोष्ट्राद्यैरुदक्यासूतिकादिभिः
पुंश्चलीभिश्च नारीभिर्वृषलीपतिभिस्तथा १२९
मूलम् - १२९
श्वकाकसूकरोष्ट्राद्यैरुदक्यासूतिकादिभिः
पुंश्चलीभिश्च नारीभिर्वृषलीपतिभिस्तथा १२९
विश्वास-प्रस्तुतिः - १३०
दृष्टं स्पृष्टं च दत्तं च भुक्तशेषं तथैव च
अभक्ष्याणां च संयुक्तं संसर्ग दुष्टमुच्यते १३०
मूलम् - १३०
दृष्टं स्पृष्टं च दत्तं च भुक्तशेषं तथैव च
अभक्ष्याणां च संयुक्तं संसर्ग दुष्टमुच्यते १३०
७१८
विश्वास-प्रस्तुतिः - १३१
बिम्बं शिग्रु च कालिङ्गं तिलपिष्टञ्च मूलकम्
कोशातकीमलाबुञ्च तथा कट्फलमेव च १३१
मूलम् - १३१
बिम्बं शिग्रु च कालिङ्गं तिलपिष्टञ्च मूलकम्
कोशातकीमलाबुञ्च तथा कट्फलमेव च १३१
विश्वास-प्रस्तुतिः - १३२
शालिका नालिकेत्यादिजातिदुष्टमिहोच्यते
एवं सर्वाण्यभक्ष्याणि तत्सङ्गान्यपि संत्यजेत् १३२
मूलम् - १३२
शालिका नालिकेत्यादिजातिदुष्टमिहोच्यते
एवं सर्वाण्यभक्ष्याणि तत्सङ्गान्यपि संत्यजेत् १३२
विश्वास-प्रस्तुतिः - १३३
तथैवाभक्ष्यभोक्तृणां हरिवासरभोजिनाम्
लोकायतिकविप्राणां देवतान्तरसेविनाम् १३३
मूलम् - १३३
तथैवाभक्ष्यभोक्तृणां हरिवासरभोजिनाम्
लोकायतिकविप्राणां देवतान्तरसेविनाम् १३३
विश्वास-प्रस्तुतिः - १३५
पक्वान्नाद्यं यथा पक्वं वाग्यतो नियतेन्द्रियः
सम्मार्जयेच्छुभतरं वारिणा वाससैव च १३५
मूलम् - १३५
पक्वान्नाद्यं यथा पक्वं वाग्यतो नियतेन्द्रियः
सम्मार्जयेच्छुभतरं वारिणा वाससैव च १३५
विश्वास-प्रस्तुतिः - १३६
करकैरपिधायाथ चक्रेणैवाङ्गयेत्ततः
गन्धेन वा हरिद्रेण जलेनाप्यथ वा लिखेत् १३६
मूलम् - १३६
करकैरपिधायाथ चक्रेणैवाङ्गयेत्ततः
गन्धेन वा हरिद्रेण जलेनाप्यथ वा लिखेत् १३६
विश्वास-प्रस्तुतिः - १३७
सुदर्शनं पाञ्चजन्यं भाण्डानां यज्ञयोगिनाम्
कुशोत्तरे शुचौ देशे विन्यस्य कुशवारिणा १३७
मूलम् - १३७
सुदर्शनं पाञ्चजन्यं भाण्डानां यज्ञयोगिनाम्
कुशोत्तरे शुचौ देशे विन्यस्य कुशवारिणा १३७
विश्वास-प्रस्तुतिः - ३३८
संप्रोक्ष्य मन्त्ररत्नेन वस्त्रेणाऽऽच्छादयेत्ततः
क्षालयित्वाऽथ देवस्य भाजनानि शुभैर्जलैः ३३८
मूलम् - ३३८
संप्रोक्ष्य मन्त्ररत्नेन वस्त्रेणाऽऽच्छादयेत्ततः
क्षालयित्वाऽथ देवस्य भाजनानि शुभैर्जलैः ३३८
विश्वास-प्रस्तुतिः - १३९
अभिपूर्यं ततो दद्याद्भोजयेच्च विशेषतः
भोजयेदागतान् काले सखिसम्बन्धिबान्धवान् १३९
मूलम् - १३९
अभिपूर्यं ततो दद्याद्भोजयेच्च विशेषतः
भोजयेदागतान् काले सखिसम्बन्धिबान्धवान् १३९
विश्वास-प्रस्तुतिः - १४०
बालान् वृद्धान् भोजयित्वा भर्तारं भोजयेत्ततः
स्वयं हृष्टा ततोऽश्नीयाद्भर्तुर्भुक्तावशेषितम् १४०
मूलम् - १४०
बालान् वृद्धान् भोजयित्वा भर्तारं भोजयेत्ततः
स्वयं हृष्टा ततोऽश्नीयाद्भर्तुर्भुक्तावशेषितम् १४०
विश्वास-प्रस्तुतिः - १४१
पशाचिकानां यक्षाणां शक्तानां लिङ्गधारिणाम्
द्वादशीविमुखानां च संलापादि विवर्जयेत् १४१
मूलम् - १४१
पशाचिकानां यक्षाणां शक्तानां लिङ्गधारिणाम्
द्वादशीविमुखानां च संलापादि विवर्जयेत् १४१
विश्वास-प्रस्तुतिः - १४२
शैवबौद्धस्कान्दशाक्तस्थानानि न विशेत् क्वचित्
वर्जयेत्तत्समीपस्थं जलपुष्पफलादि च १४२
मूलम् - १४२
शैवबौद्धस्कान्दशाक्तस्थानानि न विशेत् क्वचित्
वर्जयेत्तत्समीपस्थं जलपुष्पफलादि च १४२
विश्वास-प्रस्तुतिः - १४३
न निरीक्षेत देवानामुत्सवादि कदाचन
स्तुतिं वाऽप्यन्यदेवानां न कुर्याच्छृणुयान्न च १४३
मूलम् - १४३
न निरीक्षेत देवानामुत्सवादि कदाचन
स्तुतिं वाऽप्यन्यदेवानां न कुर्याच्छृणुयान्न च १४३
७१९
अन्यचिह्नाङ्कितं वस्त्रं भूषणासनभाजनम् १४४
विश्वास-प्रस्तुतिः - १४५
वृक्षं पशुं कूपगृहान् भाण्डं चैव विवर्जयेत्
अन्यालये हरिं दृष्ट्वा देवतान्तरसंसदि १४५
मूलम् - १४५
वृक्षं पशुं कूपगृहान् भाण्डं चैव विवर्जयेत्
अन्यालये हरिं दृष्ट्वा देवतान्तरसंसदि १४५
विश्वास-प्रस्तुतिः - १४६
नार्चयेन्नप्रणमेच्च तीर्थसेवां विवर्जयेत्
अवैष्णवस्य हस्तात्तु दिव्यदेशादुपागतम् १४६
मूलम् - १४६
नार्चयेन्नप्रणमेच्च तीर्थसेवां विवर्जयेत्
अवैष्णवस्य हस्तात्तु दिव्यदेशादुपागतम् १४६
विश्वास-प्रस्तुतिः - १४७
हरेः प्रसादतीर्थाद्यं यत्नेन परिवर्जयेत्
आकारत्रयसन्पन्नो नवेज्याकर्म्मणि स्थितः १४७
मूलम् - १४७
हरेः प्रसादतीर्थाद्यं यत्नेन परिवर्जयेत्
आकारत्रयसन्पन्नो नवेज्याकर्म्मणि स्थितः १४७
विश्वास-प्रस्तुतिः - १४९
अर्चनं मन्त्रपठनं ध्यानं होमश्च वन्दनम्
स्तुतिर्योगः समाधिश्च तथा मन्त्रार्थचिन्तनम् १४९
मूलम् - १४९
अर्चनं मन्त्रपठनं ध्यानं होमश्च वन्दनम्
स्तुतिर्योगः समाधिश्च तथा मन्त्रार्थचिन्तनम् १४९
विश्वास-प्रस्तुतिः - १५०
एवं नवविधा प्रोक्ता चेज्या वैष्णवसत्तमैः
प्राप्यस्य ब्रह्मणो रूपं प्राप्यञ्च प्रत्यगात्मनः १५०
मूलम् - १५०
एवं नवविधा प्रोक्ता चेज्या वैष्णवसत्तमैः
प्राप्यस्य ब्रह्मणो रूपं प्राप्यञ्च प्रत्यगात्मनः १५०
विश्वास-प्रस्तुतिः - १५१
प्राप्त्युपायं फलञ्चैव तथा प्राप्तिविरोधि च
ज्ञातव्यमेतदर्थस्य पञ्चकं मन्त्रवित्तमैः १५१
मूलम् - १५१
प्राप्त्युपायं फलञ्चैव तथा प्राप्तिविरोधि च
ज्ञातव्यमेतदर्थस्य पञ्चकं मन्त्रवित्तमैः १५१
विश्वास-प्रस्तुतिः - १५२
जगतः करणत्वं च तथा स्वामित्वमेव च
श्रीशत्वं सगुरुत्वञ्च ब्रह्मणो रूपमुच्यते १५२
मूलम् - १५२
जगतः करणत्वं च तथा स्वामित्वमेव च
श्रीशत्वं सगुरुत्वञ्च ब्रह्मणो रूपमुच्यते १५२
विश्वास-प्रस्तुतिः - १५३
देहेन्द्रियादिभ्योऽन्यत्वं नित्यत्वादिगुणौघता
श्रीहरेर्दास्य धर्मत्वं स्वरूपं प्रत्यगात्मनः १५३
मूलम् - १५३
देहेन्द्रियादिभ्योऽन्यत्वं नित्यत्वादिगुणौघता
श्रीहरेर्दास्य धर्मत्वं स्वरूपं प्रत्यगात्मनः १५३
विश्वास-प्रस्तुतिः - १५४
उपायाध्यवसायेन त्यक्त्वा कर्मौघमात्मनः
हरेः कृपाबलम्बित्वं प्राप्त्युपायमिहोच्यते १५४
मूलम् - १५४
उपायाध्यवसायेन त्यक्त्वा कर्मौघमात्मनः
हरेः कृपाबलम्बित्वं प्राप्त्युपायमिहोच्यते १५४
विश्वास-प्रस्तुतिः - १५५
सर्वैश्वर्यफलं त्यक्त्वा शब्दादिविषयानपि
दास्यैकसुखसङ्गित्वं विष्णोः फलमिहोच्यते १५५
मूलम् - १५५
सर्वैश्वर्यफलं त्यक्त्वा शब्दादिविषयानपि
दास्यैकसुखसङ्गित्वं विष्णोः फलमिहोच्यते १५५
विश्वास-प्रस्तुतिः - १५६
तज्जनस्यापराधित्वं शब्दादिष्वनुरक्तता
कृत्यस्य च परित्यागो ह्यकृत्यकरणं तथा १५६
मूलम् - १५६
तज्जनस्यापराधित्वं शब्दादिष्वनुरक्तता
कृत्यस्य च परित्यागो ह्यकृत्यकरणं तथा १५६
विश्वास-प्रस्तुतिः - ७२०
द्वादशीविमुखत्वं च विरोधि स्यात् फलस्य हि
र्
७२०
मूलम् - ७२०
द्वादशीविमुखत्वं च विरोधि स्यात् फलस्य हि
र्
७२०
विश्वास-प्रस्तुतिः - १५८
विहितं सकलं कर्म विष्णोराराधनं परम्
निबोध तन्नृपश्रेष्ठ भोगार्थं परमात्मनः १५८
मूलम् - १५८
विहितं सकलं कर्म विष्णोराराधनं परम्
निबोध तन्नृपश्रेष्ठ भोगार्थं परमात्मनः १५८
विश्वास-प्रस्तुतिः - १५९
वृत्त्याख्यस्य तरोरस्य सुदृढं मूलमुच्यते
त्यागेन चैव धर्मय निषिद्धाचरणेन च १५९
मूलम् - १५९
वृत्त्याख्यस्य तरोरस्य सुदृढं मूलमुच्यते
त्यागेन चैव धर्मय निषिद्धाचरणेन च १५९
विश्वास-प्रस्तुतिः - १६०
आज्ञातिक्रमणाद्विज्ञः पतत्येव न संशयः
ज्योतिष्टोमादयः सर्वे यज्ञा वेदेषु कीर्तिताः १६०
मूलम् - १६०
आज्ञातिक्रमणाद्विज्ञः पतत्येव न संशयः
ज्योतिष्टोमादयः सर्वे यज्ञा वेदेषु कीर्तिताः १६०
विश्वास-प्रस्तुतिः - १६१
पुण्यव्रताः पुराणोक्ता दाना नैमित्तिकादिषु
विष्णोर्भोगतया सर्वाः कर्तव्या वैष्णवोत्तमैः १६१
मूलम् - १६१
पुण्यव्रताः पुराणोक्ता दाना नैमित्तिकादिषु
विष्णोर्भोगतया सर्वाः कर्तव्या वैष्णवोत्तमैः १६१
विश्वास-प्रस्तुतिः - १६२
यस्तूपायतया कृत्यं नित्यनैमित्तिकादिकम्
सत्कृत्यं कुरुते विष्णोर्वैष्णवः स उदीरितः १६२
मूलम् - १६२
यस्तूपायतया कृत्यं नित्यनैमित्तिकादिकम्
सत्कृत्यं कुरुते विष्णोर्वैष्णवः स उदीरितः १६२
विश्वास-प्रस्तुतिः - १६३
विष्णोरज्ञतया यस्तु सत्कृत्यं कुरुते बुधः
स एकान्तीति मुनिभिः प्रोच्यते वैष्णवोत्तमः १६३
मूलम् - १६३
विष्णोरज्ञतया यस्तु सत्कृत्यं कुरुते बुधः
स एकान्तीति मुनिभिः प्रोच्यते वैष्णवोत्तमः १६३
विश्वास-प्रस्तुतिः - १६४
यस्तु भोगतया विष्णोः सत्कृत्यं कुरुते सदा
स भवेत्परमैकान्ती महाभागवतोत्तमः १६४
मूलम् - १६४
यस्तु भोगतया विष्णोः सत्कृत्यं कुरुते सदा
स भवेत्परमैकान्ती महाभागवतोत्तमः १६४
विश्वास-प्रस्तुतिः - १६३
वर्जनीयमकृत्यन्तु सर्वेषां करणैस्त्रिभिः
अकामतस्तु यत्प्राप्तं प्रायश्चित्ताद्विनश्यति १६३
मूलम् - १६३
वर्जनीयमकृत्यन्तु सर्वेषां करणैस्त्रिभिः
अकामतस्तु यत्प्राप्तं प्रायश्चित्ताद्विनश्यति १६३
विश्वास-प्रस्तुतिः - १६६
अकृत्यं वैष्णवैः पापबुध्या शास्त्रविरोधितः
एकान्त परमैकान्ति रुच्यभावाच्च सन्त्यजेत् १६६
मूलम् - १६६
अकृत्यं वैष्णवैः पापबुध्या शास्त्रविरोधितः
एकान्त परमैकान्ति रुच्यभावाच्च सन्त्यजेत् १६६
विश्वास-प्रस्तुतिः - १६७
श्रुतिस्मृत्युदितं धर्मं यस्त्यजेद्वैष्णवाधमः
स पाषण्डीति विज्ञेयः सर्वलोकेषु गर्हितः १६७
मूलम् - १६७
श्रुतिस्मृत्युदितं धर्मं यस्त्यजेद्वैष्णवाधमः
स पाषण्डीति विज्ञेयः सर्वलोकेषु गर्हितः १६७
विश्वास-प्रस्तुतिः - १६८
अकृत्यकरणाद्वाऽपि कृत्यस्याकरणादपि
द्वादशीविमुखत्वेन पतत्येव न संशयः १६८
मूलम् - १६८
अकृत्यकरणाद्वाऽपि कृत्यस्याकरणादपि
द्वादशीविमुखत्वेन पतत्येव न संशयः १६८
विश्वास-प्रस्तुतिः - १६९
तस्मात्सर्वप्रयत्नेन सत्कृत्यं सर्वदा चरेत्
आज्ञातिक्रमणाद्विष्णोर्मुक्तोऽपि विनिबध्यते १६९
मूलम् - १६९
तस्मात्सर्वप्रयत्नेन सत्कृत्यं सर्वदा चरेत्
आज्ञातिक्रमणाद्विष्णोर्मुक्तोऽपि विनिबध्यते १६९
७२१
दैवं पैत्रं तथा यज्ञं कुर्यान्नतु परित्यजेत् १७०
विश्वास-प्रस्तुतिः - १७१
त्रिदण्डमवलम्बन्ते यतयो ये महाधियः
तेषामपि हि कर्तव्यं सत्कृत्यमितरेषु किम् १७१
मूलम् - १७१
त्रिदण्डमवलम्बन्ते यतयो ये महाधियः
तेषामपि हि कर्तव्यं सत्कृत्यमितरेषु किम् १७१
विश्वास-प्रस्तुतिः - १७२
ब्रह्म ब्रह्मा ब्राह्मणाश्च त्रितयं ब्राह्ममुच्यते
तस्माद्ब्राह्मेणविधिना परं ब्रह्माणमर्चयेत् १७२
मूलम् - १७२
ब्रह्म ब्रह्मा ब्राह्मणाश्च त्रितयं ब्राह्ममुच्यते
तस्माद्ब्राह्मेणविधिना परं ब्रह्माणमर्चयेत् १७२
विश्वास-प्रस्तुतिः - १७३
समस्तयज्ञभोक्तारमज्ञात्वा विष्णुमव्ययम्
वेदोदितं यः कुरुते स लोकायतिकः स्मृतः १७३
मूलम् - १७३
समस्तयज्ञभोक्तारमज्ञात्वा विष्णुमव्ययम्
वेदोदितं यः कुरुते स लोकायतिकः स्मृतः १७३
विश्वास-प्रस्तुतिः - १७४
यस्तु वेदोदितं धर्मन्त्यक्त्वा विष्णुं समर्चयेत्
स पाषण्डत्वमापन्नो नरकं प्रतिपद्यते १७४
मूलम् - १७४
यस्तु वेदोदितं धर्मन्त्यक्त्वा विष्णुं समर्चयेत्
स पाषण्डत्वमापन्नो नरकं प्रतिपद्यते १७४
विश्वास-प्रस्तुतिः - १७५
वेदाः प्राणा भगवतो वासुदेवस्य सर्वदा
तदुक्तकर्माकुर्वाणः प्राणहर्ता भवेद्धरेः १७५
मूलम् - १७५
वेदाः प्राणा भगवतो वासुदेवस्य सर्वदा
तदुक्तकर्माकुर्वाणः प्राणहर्ता भवेद्धरेः १७५
विश्वास-प्रस्तुतिः - १७६
विष्णोराराधनाद्वेदं विना यस्त्वन्यकर्मणि
प्रयुञ्जीत विमूढात्मा वेदहन्ता न संशयः १७६
मूलम् - १७६
विष्णोराराधनाद्वेदं विना यस्त्वन्यकर्मणि
प्रयुञ्जीत विमूढात्मा वेदहन्ता न संशयः १७६
विश्वास-प्रस्तुतिः - १७७
वत्सं माता लेढि यथा तथा लेढि स मातरम्
श्रुतं विष्णोः प्रियं ज्ञात्वा विष्णुं वेदेन वै यजेत् १७७
मूलम् - १७७
वत्सं माता लेढि यथा तथा लेढि स मातरम्
श्रुतं विष्णोः प्रियं ज्ञात्वा विष्णुं वेदेन वै यजेत् १७७
विश्वास-प्रस्तुतिः - १७८
तस्माद्वेदस्य विष्णोश्च संयोगो यस्तु दृश्यते
स एव परमो धर्मो वैष्णवानां यथा नृप १७८
मूलम् - १७८
तस्माद्वेदस्य विष्णोश्च संयोगो यस्तु दृश्यते
स एव परमो धर्मो वैष्णवानां यथा नृप १७८
विश्वास-प्रस्तुतिः - १७९
कश्चित् पुरा नृपश्रेष्ठ काश्यपो ब्राह्मणोत्तमः
शाण्डिल्य इति विख्यातः सर्वशास्त्रविशारदः १७९
मूलम् - १७९
कश्चित् पुरा नृपश्रेष्ठ काश्यपो ब्राह्मणोत्तमः
शाण्डिल्य इति विख्यातः सर्वशास्त्रविशारदः १७९
विश्वास-प्रस्तुतिः - १८०
स तु धर्मप्रसङ्गेन विष्णोराराधनं प्रति
अवैदिकेन विधिना कृतवान् धर्मसंहिताम् १८०
मूलम् - १८०
स तु धर्मप्रसङ्गेन विष्णोराराधनं प्रति
अवैदिकेन विधिना कृतवान् धर्मसंहिताम् १८०
विश्वास-प्रस्तुतिः - १८१
अवलम्ब्य मतं तस्य केचिदत्र महर्षयः
अवैदिकेन मार्गेण पूजयन्ति स्म केशवम् १८१
मूलम् - १८१
अवलम्ब्य मतं तस्य केचिदत्र महर्षयः
अवैदिकेन मार्गेण पूजयन्ति स्म केशवम् १८१
विश्वास-प्रस्तुतिः - १८२
अशास्त्रविहितं धर्मं सर्वे कुर्वन्ति मानवाः
स्वाहास्वधावषट्कारवर्जितं स्यान्महीतलम् १८२
मूलम् - १८२
अशास्त्रविहितं धर्मं सर्वे कुर्वन्ति मानवाः
स्वाहास्वधावषट्कारवर्जितं स्यान्महीतलम् १८२
विश्वास-प्रस्तुतिः - ७२२
ततः क्रुद्धो जगन्नाथः शङ्खचक्रगदाधरः
र्
७२२
मूलम् - ७२२
ततः क्रुद्धो जगन्नाथः शङ्खचक्रगदाधरः
र्
७२२
विश्वास-प्रस्तुतिः - १८४
दुर्बुद्धे मामकं धर्मं परमं वैदिकं महत्
अवैदिकक्रियाजुष्टं प्राग्लभ्यात्कृतवानसि १८४
मूलम् - १८४
दुर्बुद्धे मामकं धर्मं परमं वैदिकं महत्
अवैदिकक्रियाजुष्टं प्राग्लभ्यात्कृतवानसि १८४
विश्वास-प्रस्तुतिः - १८५
यस्मादवैदिकं धर्मं प्रवर्तयसि मां द्विज
तस्मादवैदिकं लोकं निरयं गच्छ दारुणम् १८५
मूलम् - १८५
यस्मादवैदिकं धर्मं प्रवर्तयसि मां द्विज
तस्मादवैदिकं लोकं निरयं गच्छ दारुणम् १८५
विश्वास-प्रस्तुतिः - १८६
तद्वाक्यादेव देवस्य शाण्डिल्योऽभूद्भयाकुलः
स्तुवन् प्राह जगन्नाथं प्रणिपत्य पुनः पुनः १८६
मूलम् - १८६
तद्वाक्यादेव देवस्य शाण्डिल्योऽभूद्भयाकुलः
स्तुवन् प्राह जगन्नाथं प्रणिपत्य पुनः पुनः १८६
विश्वास-प्रस्तुतिः - १८७
त्राहि त्राहीहि लोकेश मां विभो सापराधिनम्
ततः स कृपया विष्णुर्भगवान् भूतभावनः १८७
मूलम् - १८७
त्राहि त्राहीहि लोकेश मां विभो सापराधिनम्
ततः स कृपया विष्णुर्भगवान् भूतभावनः १८७
विश्वास-प्रस्तुतिः - १८८
दिव्यवर्षशतं विप्र भुक्त्वा नरकयातनाम्
उत्पत्स्यसे भृगोवशे जमदाग्निरितीरितः १८८
मूलम् - १८८
दिव्यवर्षशतं विप्र भुक्त्वा नरकयातनाम्
उत्पत्स्यसे भृगोवशे जमदाग्निरितीरितः १८८
विश्वास-प्रस्तुतिः - १८९
तत्राऽऽराध्य पुनमा तु वैदिकेनैव धर्मतः
गच्छ तस्मिन् मुनिश्रेष्ट मम लोकं सुनिर्मलम् १८९
मूलम् - १८९
तत्राऽऽराध्य पुनमा तु वैदिकेनैव धर्मतः
गच्छ तस्मिन् मुनिश्रेष्ट मम लोकं सुनिर्मलम् १८९
विश्वास-प्रस्तुतिः - १९०
इत्युक्त्वा भगवान्विष्णुस्तत्रैवान्तरधीयत
शाण्डिल्यो निरयं प्राप्य पुनरुत्पद्य भूतले १९०
मूलम् - १९०
इत्युक्त्वा भगवान्विष्णुस्तत्रैवान्तरधीयत
शाण्डिल्यो निरयं प्राप्य पुनरुत्पद्य भूतले १९०
विश्वास-प्रस्तुतिः - १९१
वेदोक्तविधिना विष्णुमर्चयित्वा सनातनम्
विशुद्धभावात्सम्प्राप्य तद्धाम परमं हरेः १९१
मूलम् - १९१
वेदोक्तविधिना विष्णुमर्चयित्वा सनातनम्
विशुद्धभावात्सम्प्राप्य तद्धाम परमं हरेः १९१
विश्वास-प्रस्तुतिः - १९२
तस्मादवैदिकं धर्मं दूरतः परिवर्जयेत्
वैदिकेनैव विधिना भक्त्या सम्पूजयेद्धरिम् १९२
मूलम् - १९२
तस्मादवैदिकं धर्मं दूरतः परिवर्जयेत्
वैदिकेनैव विधिना भक्त्या सम्पूजयेद्धरिम् १९२
विश्वास-प्रस्तुतिः - १९३
श्रौतेन विधिना चक्रं धृत्वा वै बाहुमूलयोः
धृतोर्ध्वपुण्ड्रः शुद्धात्मा विधिनैवार्चयेद्धरिम् १९३
मूलम् - १९३
श्रौतेन विधिना चक्रं धृत्वा वै बाहुमूलयोः
धृतोर्ध्वपुण्ड्रः शुद्धात्मा विधिनैवार्चयेद्धरिम् १९३
विश्वास-प्रस्तुतिः - १९४
कर्मणा मनसा वाचा न प्रमाद्येत् सनातनात्
न प्रमाद्येत्परं धर्मात् श्रुतिस्मृत्युक्तगौरवात् १९४
मूलम् - १९४
कर्मणा मनसा वाचा न प्रमाद्येत् सनातनात्
न प्रमाद्येत्परं धर्मात् श्रुतिस्मृत्युक्तगौरवात् १९४
विश्वास-प्रस्तुतिः - १९५
सुशीलन्तु परं धर्मं नारीणां नृपसत्तम
शीलभङ्गेन नारीणां यमलोकः सुदारुणः १९५
मूलम् - १९५
सुशीलन्तु परं धर्मं नारीणां नृपसत्तम
शीलभङ्गेन नारीणां यमलोकः सुदारुणः १९५
७२३
सैव कीर्तिमवाप्नोति मोदते रमया सह १९६
विश्वास-प्रस्तुतिः - १९७
पतिं या नातिचरति मनोवाक्कायकर्मभिः
सा भर्तृलोकमाप्नोति यथैवारुन्धती तथा १९७
मूलम् - १९७
पतिं या नातिचरति मनोवाक्कायकर्मभिः
सा भर्तृलोकमाप्नोति यथैवारुन्धती तथा १९७
विश्वास-प्रस्तुतिः - १९८
आर्ताऽऽर्ते मुदिते हृष्टा प्रोषिते मलिना कृशा
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता १९८
मूलम् - १९८
आर्ताऽऽर्ते मुदिते हृष्टा प्रोषिते मलिना कृशा
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता १९८
विश्वास-प्रस्तुतिः - १९९
या स्त्री मृतं परिष्वज्य दग्धा चेद्धव्यवाहने
सा भर्तृलोकमाप्नोति हरिणा कमला यथा १९९
मूलम् - १९९
या स्त्री मृतं परिष्वज्य दग्धा चेद्धव्यवाहने
सा भर्तृलोकमाप्नोति हरिणा कमला यथा १९९
विश्वास-प्रस्तुतिः - २००
ब्रह्मघ्नं वा सुरापं वा कृतघ्नं वाऽपि मानवम्
यमादाय मृता नारी तं भर्त्तारं पुनाति हि २००
मूलम् - २००
ब्रह्मघ्नं वा सुरापं वा कृतघ्नं वाऽपि मानवम्
यमादाय मृता नारी तं भर्त्तारं पुनाति हि २००
विश्वास-प्रस्तुतिः - २०१
साध्वीनामिह नारीणामग्निप्रपतनादृते
नान्यो धर्मोऽस्ति विज्ञेयो मृते भर्तरि कुत्रचित् २०१
मूलम् - २०१
साध्वीनामिह नारीणामग्निप्रपतनादृते
नान्यो धर्मोऽस्ति विज्ञेयो मृते भर्तरि कुत्रचित् २०१
विश्वास-प्रस्तुतिः - २०२
वैष्णवं पतिमादाय या दग्धा हव्यवाहने
सा वैष्णवपदं याति यत्र गच्छन्ति योगिनः २०२
मूलम् - २०२
वैष्णवं पतिमादाय या दग्धा हव्यवाहने
सा वैष्णवपदं याति यत्र गच्छन्ति योगिनः २०२
विश्वास-प्रस्तुतिः - २०३
मृते भर्तरि या नारी भवेद्यदि रजस्वला
चिताग्निसंग्रहे तावत्स्नात्वा तस्मिन् प्रवेशयेत् २०३
मूलम् - २०३
मृते भर्तरि या नारी भवेद्यदि रजस्वला
चिताग्निसंग्रहे तावत्स्नात्वा तस्मिन् प्रवेशयेत् २०३
विश्वास-प्रस्तुतिः - २०४
गर्भिणी नानुगन्तव्या मृतं भर्त्तारमव्यया
ब्रह्मचर्यव्रतं कुर्याद्यावज्जीवमतन्द्रिता २०४
मूलम् - २०४
गर्भिणी नानुगन्तव्या मृतं भर्त्तारमव्यया
ब्रह्मचर्यव्रतं कुर्याद्यावज्जीवमतन्द्रिता २०४
विश्वास-प्रस्तुतिः - २०५
केशरञ्जनताम्बूलगन्धपुत्र्यादिसेवनम्
भूषितं रङ्गवस्त्रञ्च कांस्यपात्रे च भोजनम् २०५
मूलम् - २०५
केशरञ्जनताम्बूलगन्धपुत्र्यादिसेवनम्
भूषितं रङ्गवस्त्रञ्च कांस्यपात्रे च भोजनम् २०५
विश्वास-प्रस्तुतिः - २०६
द्विवारं भोजनञ्चाक्ष्णोरञ्जनं वर्जयेत्सदा
स्नात्वा शुक्लाम्बरधरा जितक्रोधा जितेन्द्रिया २०६
मूलम् - २०६
द्विवारं भोजनञ्चाक्ष्णोरञ्जनं वर्जयेत्सदा
स्नात्वा शुक्लाम्बरधरा जितक्रोधा जितेन्द्रिया २०६
विश्वास-प्रस्तुतिः - २०७
न कल्क कुहका साध्वी तन्द्रालस्य विवर्जिता
सुनिर्मला शुभाचारा नित्यं सम्पूजयेद्धरिम् २०७
मूलम् - २०७
न कल्क कुहका साध्वी तन्द्रालस्य विवर्जिता
सुनिर्मला शुभाचारा नित्यं सम्पूजयेद्धरिम् २०७
विश्वास-प्रस्तुतिः - २०८
क्षितिशायी भवेद्गात्रौ शुचौ देशे कुशोत्तरे
ध्यानयोगपरा नित्यं सतां सङ्गे व्यवस्थिता २०८
मूलम् - २०८
क्षितिशायी भवेद्गात्रौ शुचौ देशे कुशोत्तरे
ध्यानयोगपरा नित्यं सतां सङ्गे व्यवस्थिता २०८
विश्वास-प्रस्तुतिः - ७२४
तपश्चरणसंयुक्ता यावज्जीवं समाचरेत्
र्
७२४
मूलम् - ७२४
तपश्चरणसंयुक्ता यावज्जीवं समाचरेत्
र्
७२४
विश्वास-प्रस्तुतिः - २१०
सभर्तृका सती वाऽपि पाणिपूरान्नभोजनम्
एकवारं समश्नीयाद्रजसा च परिप्लुता २१०
मूलम् - २१०
सभर्तृका सती वाऽपि पाणिपूरान्नभोजनम्
एकवारं समश्नीयाद्रजसा च परिप्लुता २१०
विश्वास-प्रस्तुतिः - २११
एवं सुनियताहारा सम्यग्व्रतपरायणा
भर्त्रा सह समाप्नोति वैकुण्ठपदमव्ययम् २११
मूलम् - २११
एवं सुनियताहारा सम्यग्व्रतपरायणा
भर्त्रा सह समाप्नोति वैकुण्ठपदमव्ययम् २११
विश्वास-प्रस्तुतिः - २१२
दग्धव्या साऽग्निहोत्रेण भर्त्तुः पूर्वं मृता तु या
स्वांशमग्निं समादाय भर्त्ता पूर्ववदाचरेत् २१२
मूलम् - २१२
दग्धव्या साऽग्निहोत्रेण भर्त्तुः पूर्वं मृता तु या
स्वांशमग्निं समादाय भर्त्ता पूर्ववदाचरेत् २१२
विश्वास-प्रस्तुतिः - २१३
कृत्वा कुशमयीं पत्नी यावज्जीवमतन्द्रितः
जुहुयादग्निहोत्रं तु पञ्चयज्ञादिकं तथा २१३
मूलम् - २१३
कृत्वा कुशमयीं पत्नी यावज्जीवमतन्द्रितः
जुहुयादग्निहोत्रं तु पञ्चयज्ञादिकं तथा २१३
विश्वास-प्रस्तुतिः - २१४
अथ च प्रव्रजेद्विद्वान् कन्यां वाऽपि समुद्वहेत्
प्रव्रज्यामपि कुर्वीत कर्म वेदोदितं महत् २१४
मूलम् - २१४
अथ च प्रव्रजेद्विद्वान् कन्यां वाऽपि समुद्वहेत्
प्रव्रज्यामपि कुर्वीत कर्म वेदोदितं महत् २१४
विश्वास-प्रस्तुतिः - २१५
आत्मन्यग्निं समारोप्य जुहुयादात्मवान् सदा
मनसा वा प्रकुर्वीत नित्यनैमित्तिकक्रियाः २१५
मूलम् - २१५
आत्मन्यग्निं समारोप्य जुहुयादात्मवान् सदा
मनसा वा प्रकुर्वीत नित्यनैमित्तिकक्रियाः २१५
विश्वास-प्रस्तुतिः - २१६
गृहस्थो वा वनस्थो वा यतिर्वाऽपि भवेद्द्विजः
अनाश्रमी न तिष्ठेत यावज्जीवं द्विजोत्तमः २१६
मूलम् - २१६
गृहस्थो वा वनस्थो वा यतिर्वाऽपि भवेद्द्विजः
अनाश्रमी न तिष्ठेत यावज्जीवं द्विजोत्तमः २१६
विश्वास-प्रस्तुतिः - २१७
वर्णाश्रमेषु सर्वेषां पूजनीयो जनार्दनः
न व्यापकेन मन्त्रेण सदैव च महीपते २१७
मूलम् - २१७
वर्णाश्रमेषु सर्वेषां पूजनीयो जनार्दनः
न व्यापकेन मन्त्रेण सदैव च महीपते २१७
विश्वास-प्रस्तुतिः - २१८
व्यापकानां च सर्वेषां ज्यायान् अष्टाक्षरो मनुः
अष्टाक्षरस्य जप्ता तु साक्षान् नारायणः स्वयम् २१८
मूलम् - २१८
व्यापकानां च सर्वेषां ज्यायान् अष्टाक्षरो मनुः
अष्टाक्षरस्य जप्ता तु साक्षान् नारायणः स्वयम् २१८
विश्वास-प्रस्तुतिः - २१९
सन्यासं च समुद्रञ्च सर्षिच्छन्दोऽधिदैवतम्
स-दीक्षा-विधि–स-ध्यानं सार्थं मन्त्रम् उदाहृतम् २१९
मूलम् - २१९
सन्यासं च समुद्रञ्च सर्षिच्छन्दोऽधिदैवतम्
स-दीक्षा-विधि–स-ध्यानं सार्थं मन्त्रम् उदाहृतम् २१९
विश्वास-प्रस्तुतिः - २२०
स्नात्वा शुद्धः प्रसन्नात्मा कृतकृत्यो जनार्दनम्
मनसाऽप्यर्चयित्वा वा जपेन्मन्त्रं सदा बुधः २२०
मूलम् - २२०
स्नात्वा शुद्धः प्रसन्नात्मा कृतकृत्यो जनार्दनम्
मनसाऽप्यर्चयित्वा वा जपेन्मन्त्रं सदा बुधः २२०
विश्वास-प्रस्तुतिः - २२१
दानप्रतिग्रहौ यागं स्वाध्यायं पितृतर्पणम्
पितृक्रियाष्टाक्षरस्य जप्ता कुर्यादतन्द्रितः २२१
मूलम् - २२१
दानप्रतिग्रहौ यागं स्वाध्यायं पितृतर्पणम्
पितृक्रियाष्टाक्षरस्य जप्ता कुर्यादतन्द्रितः २२१
७२५
अष्टाक्षरं जपन्नित्यं पुनाति भुवनत्रयम् २२२
विश्वास-प्रस्तुतिः - २२३
जपेद्भोगतया मन्त्रं सततं वैष्णवोत्तमः
न साधनतया जप्यं कर्तव्यं विष्णुतत्परैः २२३
मूलम् - २२३
जपेद्भोगतया मन्त्रं सततं वैष्णवोत्तमः
न साधनतया जप्यं कर्तव्यं विष्णुतत्परैः २२३
विश्वास-प्रस्तुतिः - २२४
अष्टोत्तरसहस्रं वा शतमष्टोत्तरन्तु वा
त्रिसन्ध्यासु जपेन्मन्त्रं तदर्थमनुचिन्तयन् २२४
मूलम् - २२४
अष्टोत्तरसहस्रं वा शतमष्टोत्तरन्तु वा
त्रिसन्ध्यासु जपेन्मन्त्रं तदर्थमनुचिन्तयन् २२४
विश्वास-प्रस्तुतिः - २२५
उपोष्य पूर्वदिवसे नद्यां स्नात्वा विधानतः
आचार्यं संश्रयेत्पूर्वं महाभागवतं द्विजः २२५
मूलम् - २२५
उपोष्य पूर्वदिवसे नद्यां स्नात्वा विधानतः
आचार्यं संश्रयेत्पूर्वं महाभागवतं द्विजः २२५
विश्वास-प्रस्तुतिः - २२६
आचार्या विष्णुमभ्यर्च्य पवित्रं चापि पूजयेत्
पुरतो वासुदेवस्य इध्माधानान्तमाचरेत् २२६
मूलम् - २२६
आचार्या विष्णुमभ्यर्च्य पवित्रं चापि पूजयेत्
पुरतो वासुदेवस्य इध्माधानान्तमाचरेत् २२६
विश्वास-प्रस्तुतिः - २२७
प्रजपेहस्य सूक्तेन पवित्रन्तेवतेत्यृचा
पवमानस्य आद्येन ऋग्भिश्चतसृभिः क्रमात् २२७
मूलम् - २२७
प्रजपेहस्य सूक्तेन पवित्रन्तेवतेत्यृचा
पवमानस्य आद्येन ऋग्भिश्चतसृभिः क्रमात् २२७
विश्वास-प्रस्तुतिः - २२८
आज्यं हुत्वा ततश्चक्रं तदग्नौ प्रतपेद्गुरुः
चरणं पवित्रमिति यजुषा तच्चक्रेणाङ्कयेद्भुजम् २२८
मूलम् - २२८
आज्यं हुत्वा ततश्चक्रं तदग्नौ प्रतपेद्गुरुः
चरणं पवित्रमिति यजुषा तच्चक्रेणाङ्कयेद्भुजम् २२८
विश्वास-प्रस्तुतिः - २३०
अग्निर्मन्वेति यजुषा तद्धोमाग्नौ प्रतप्य वै
ततस्तु पार्थिवैर्ऋग्भिर्हुत्वा पुण्ड्राणि धारयेत् २३०
मूलम् - २३०
अग्निर्मन्वेति यजुषा तद्धोमाग्नौ प्रतप्य वै
ततस्तु पार्थिवैर्ऋग्भिर्हुत्वा पुण्ड्राणि धारयेत् २३०
विश्वास-प्रस्तुतिः - २३१
अतो देवेति सूक्तेन विष्णोर्नुक्रमणेन च
पूजयेद्वादशभिर्वै केशवादीननुक्रमात् २३१
मूलम् - २३१
अतो देवेति सूक्तेन विष्णोर्नुक्रमणेन च
पूजयेद्वादशभिर्वै केशवादीननुक्रमात् २३१
विश्वास-प्रस्तुतिः - २३२
कुशग्रन्थिषु संपूज्य जुहुयात्ताभिरेव तु
हुत्वाऽथ चरुणा सम्यक् मृदा शुभ्रेन देशिकः २३२
मूलम् - २३२
कुशग्रन्थिषु संपूज्य जुहुयात्ताभिरेव तु
हुत्वाऽथ चरुणा सम्यक् मृदा शुभ्रेन देशिकः २३२
विश्वास-प्रस्तुतिः - २३३
ललाटादिषु चाङ्गेषु ऋग्भिस्ताभिः क्रमेण वै
नामभिः केशवाद्यैश्च सच्छिद्राण्येव धारयेत् २३३
मूलम् - २३३
ललाटादिषु चाङ्गेषु ऋग्भिस्ताभिः क्रमेण वै
नामभिः केशवाद्यैश्च सच्छिद्राण्येव धारयेत् २३३
विश्वास-प्रस्तुतिः - २३४
श्रिये जात इति ऋचा कुङ्कुमङ्केषु धारयेत्
परोमात्रेति सूक्तेन उपस्थाय जनार्दनम् २३४
मूलम् - २३४
श्रिये जात इति ऋचा कुङ्कुमङ्केषु धारयेत्
परोमात्रेति सूक्तेन उपस्थाय जनार्दनम् २३४
विश्वास-प्रस्तुतिः - २३५
होमशेषं समाप्याथ मूर्त्युद्वापनमाचरेत्
एवं पुण्ड्रक्रियां कृत्वा नाम दद्यात्ततः परम् २३५
मूलम् - २३५
होमशेषं समाप्याथ मूर्त्युद्वापनमाचरेत्
एवं पुण्ड्रक्रियां कृत्वा नाम दद्यात्ततः परम् २३५
७२६
विश्वास-प्रस्तुतिः - २३६
प्रवः पान्तमिति सूक्तेन नाममूर्तिं समर्चयेत्
गवाज्यं प्रत्यृचं हुत्वा नाम दद्याच्च वैष्णवः २३६
मूलम् - २३६
प्रवः पान्तमिति सूक्तेन नाममूर्तिं समर्चयेत्
गवाज्यं प्रत्यृचं हुत्वा नाम दद्याच्च वैष्णवः २३६
विश्वास-प्रस्तुतिः - २३७
अभिप्रियाणीति सूक्तेनोपस्थाय जनार्दनम्
प्रदक्षिण नमस्कारौ कृत्वा शेषं समाचरेत् २३७
मूलम् - २३७
अभिप्रियाणीति सूक्तेनोपस्थाय जनार्दनम्
प्रदक्षिण नमस्कारौ कृत्वा शेषं समाचरेत् २३७
विश्वास-प्रस्तुतिः - २३८
मन्त्रदीक्षा विधानन्तु श्रौतं मुनिभिरीरितम्
नवाहिता भवेद्दीक्षा न पृथक्त्वेन वक्ष्यते २३८
मूलम् - २३८
मन्त्रदीक्षा विधानन्तु श्रौतं मुनिभिरीरितम्
नवाहिता भवेद्दीक्षा न पृथक्त्वेन वक्ष्यते २३८
विश्वास-प्रस्तुतिः - २३९
अदीक्षितो भवेद्यस्तु मन्त्रं वैष्णवमुत्तमम्
अर्चनं वाऽपि कुरुते न संसिद्धिमवाप्नुयात् २३९
मूलम् - २३९
अदीक्षितो भवेद्यस्तु मन्त्रं वैष्णवमुत्तमम्
अर्चनं वाऽपि कुरुते न संसिद्धिमवाप्नुयात् २३९
विश्वास-प्रस्तुतिः - २४०
नादीक्षितः प्रकुर्वीत विष्णोराराधनक्रियाम्
श्रौतं वा यदि वा स्मार्त्तं दिव्यागममथापि वा २४०
मूलम् - २४०
नादीक्षितः प्रकुर्वीत विष्णोराराधनक्रियाम्
श्रौतं वा यदि वा स्मार्त्तं दिव्यागममथापि वा २४०
विश्वास-प्रस्तुतिः - २४१
तस्मादुक्तप्रकारेण दीक्षितो हरिमर्च्चयेत्
पूर्वेन्ह्न्युपोष्य गुरुणा नद्यां स्नात्वा कृतक्रियः २४१
मूलम् - २४१
तस्मादुक्तप्रकारेण दीक्षितो हरिमर्च्चयेत्
पूर्वेन्ह्न्युपोष्य गुरुणा नद्यां स्नात्वा कृतक्रियः २४१
विश्वास-प्रस्तुतिः - २४२
आचार्यः पूजयेद्विष्णुं गन्धपुष्पाक्षतादिभिः
ईशान्यादि चतुर्दिक्षु संस्थाप्य कलशान् शुभान् २४२
मूलम् - २४२
आचार्यः पूजयेद्विष्णुं गन्धपुष्पाक्षतादिभिः
ईशान्यादि चतुर्दिक्षु संस्थाप्य कलशान् शुभान् २४२
विश्वास-प्रस्तुतिः - २४३
तेषु गव्यानि निक्षिप्य चतुर्मूर्तीन् समर्चयेत्
वाराहं नारसिंहञ्च वामनं कृष्णमेव च २४३
मूलम् - २४३
तेषु गव्यानि निक्षिप्य चतुर्मूर्तीन् समर्चयेत्
वाराहं नारसिंहञ्च वामनं कृष्णमेव च २४३
विश्वास-प्रस्तुतिः - २४४
तद्विष्णोरिति च द्वाभ्यां वाराहं पूजयेत्ततः
प्रतद्विष्णु इति ऋचा नारसिंहमनामयम् २४४
मूलम् - २४४
तद्विष्णोरिति च द्वाभ्यां वाराहं पूजयेत्ततः
प्रतद्विष्णु इति ऋचा नारसिंहमनामयम् २४४
विश्वास-प्रस्तुतिः - २४५
न ते विष्णोरित्यनेन वामनं पूजयेत्तथा
वषट्तेविष्णव इति कृष्णं संपूजयेत् द्विजः २४५
मूलम् - २४५
न ते विष्णोरित्यनेन वामनं पूजयेत्तथा
वषट्तेविष्णव इति कृष्णं संपूजयेत् द्विजः २४५
विश्वास-प्रस्तुतिः - २४६
प्रतिष्ठाप्य ततो वह्निमिध्माधानान्तमाचरेत्
चतुर्भिर्वैष्णवैः सूक्तैः पायसं मधुमिश्रितम् २४६
मूलम् - २४६
प्रतिष्ठाप्य ततो वह्निमिध्माधानान्तमाचरेत्
चतुर्भिर्वैष्णवैः सूक्तैः पायसं मधुमिश्रितम् २४६
विश्वास-प्रस्तुतिः - २४७
हुत्वाऽऽज्यं जुहुयात्पश्चाच्छ्रीसूक्तेन समाहितः
अग्निमील इत्यनुवाकेन सावित्र्या वैष्णवेन च २४७
मूलम् - २४७
हुत्वाऽऽज्यं जुहुयात्पश्चाच्छ्रीसूक्तेन समाहितः
अग्निमील इत्यनुवाकेन सावित्र्या वैष्णवेन च २४७
७२७
हुत्वा वेदसमाप्तिञ्च जुहुयाद्देशिकोत्तमः २४८
विश्वास-प्रस्तुतिः - २४९
ततो भद्रासने शिष्यमुपविश्याभिषेचयेत्
चतुर्भिर्वैष्णवैर्मन्त्रैः सूक्तैस्तत्कलशोदकैः २४९
मूलम् - २४९
ततो भद्रासने शिष्यमुपविश्याभिषेचयेत्
चतुर्भिर्वैष्णवैर्मन्त्रैः सूक्तैस्तत्कलशोदकैः २४९
विश्वास-प्रस्तुतिः - २५०
ऋत्विग्भिर्ब्राह्मणैः शिष्यमभिषिच्याऽथ देशिकः
कौपीनं कटिसूतञ्च तथा वस्त्रञ्च धारयेत् २५०
मूलम् - २५०
ऋत्विग्भिर्ब्राह्मणैः शिष्यमभिषिच्याऽथ देशिकः
कौपीनं कटिसूतञ्च तथा वस्त्रञ्च धारयेत् २५०
विश्वास-प्रस्तुतिः - २५१
ऊर्ध्वपुण्ड्राणि पद्माक्ष तुलसीमालिकेऽपि च
कुशोत्तरे समासीनमाचान्तं विनयान्वितम् २५१
मूलम् - २५१
ऊर्ध्वपुण्ड्राणि पद्माक्ष तुलसीमालिकेऽपि च
कुशोत्तरे समासीनमाचान्तं विनयान्वितम् २५१
विश्वास-प्रस्तुतिः - २५२
अध्यापयेद्वैष्णवानि सूक्तानि विमलानि च
ध्यापकान् वैष्णवान् मन्त्रानन्यांश्चापि विधानतः २५२
मूलम् - २५२
अध्यापयेद्वैष्णवानि सूक्तानि विमलानि च
ध्यापकान् वैष्णवान् मन्त्रानन्यांश्चापि विधानतः २५२
विश्वास-प्रस्तुतिः - २५३
तदर्थन्यासमुद्रादि सर्पिश्छन्दोऽधिदैवतम्
तस्मिन्निवेश्य सद्वृत्तौ शासयेच्छासनाच्छ्रुतेः २५३
मूलम् - २५३
तदर्थन्यासमुद्रादि सर्पिश्छन्दोऽधिदैवतम्
तस्मिन्निवेश्य सद्वृत्तौ शासयेच्छासनाच्छ्रुतेः २५३
विश्वास-प्रस्तुतिः - २५४
शासितो गुरुणा शिष्यः सद्वृत्तौ सत्पथे स्थितः
अर्चयेत्परमैकान्त्य सिद्धये हरिमव्ययम् २५४
मूलम् - २५४
शासितो गुरुणा शिष्यः सद्वृत्तौ सत्पथे स्थितः
अर्चयेत्परमैकान्त्य सिद्धये हरिमव्ययम् २५४
विश्वास-प्रस्तुतिः - २५५
आचार्यात्समनु प्राप्तं विग्रहं सुमनोहरम्
लब्ध्वाऽथ विधिना विष्णोः पूजयेत्तदनुज्ञया २५५
मूलम् - २५५
आचार्यात्समनु प्राप्तं विग्रहं सुमनोहरम्
लब्ध्वाऽथ विधिना विष्णोः पूजयेत्तदनुज्ञया २५५
विश्वास-प्रस्तुतिः - २५६
पूर्वऽह्नि पूर्ववत्पूज्यः श्रौतेनैवोपचारकैः
ताभिरेव च हुत्वाऽथ ऋग्भिराज्यं तथाक्रमात् २५६
मूलम् - २५६
पूर्वऽह्नि पूर्ववत्पूज्यः श्रौतेनैवोपचारकैः
ताभिरेव च हुत्वाऽथ ऋग्भिराज्यं तथाक्रमात् २५६
विश्वास-प्रस्तुतिः - २५७
शय्यासूक्तान्तमाज्येन हुत्वाऽग्निं वैष्णवोत्तमः
अध्यापयित्त्वा तान् मन्त्रान् वैदिकान् वैदिकोत्तमः २५७
मूलम् - २५७
शय्यासूक्तान्तमाज्येन हुत्वाऽग्निं वैष्णवोत्तमः
अध्यापयित्त्वा तान् मन्त्रान् वैदिकान् वैदिकोत्तमः २५७
विश्वास-प्रस्तुतिः - २५८
पूजाविधानं त्रिविधं तस्मै होमान्तमाविशेत्
स्नानतर्पणहोमार्चा जप्याद्या विविधाः क्रियाः २५८
मूलम् - २५८
पूजाविधानं त्रिविधं तस्मै होमान्तमाविशेत्
स्नानतर्पणहोमार्चा जप्याद्या विविधाः क्रियाः २५८
विश्वास-प्रस्तुतिः - २५९
वैशिष्येण गुरोर्ज्ञात्त्वा शक्त्या सर्वं समाचरेत्
परमापद्गतो वाऽपि न भुञ्जीत हरेर्दिने २५९
मूलम् - २५९
वैशिष्येण गुरोर्ज्ञात्त्वा शक्त्या सर्वं समाचरेत्
परमापद्गतो वाऽपि न भुञ्जीत हरेर्दिने २५९
विश्वास-प्रस्तुतिः - २६०
न तिर्यग्धारयेत्पुण्ड्रन्नान्यं देवं प्रपूजयेत्
वैष्णवः पुरुषो यस्तु शिव ब्रह्मादिदैवतान् २६०
मूलम् - २६०
न तिर्यग्धारयेत्पुण्ड्रन्नान्यं देवं प्रपूजयेत्
वैष्णवः पुरुषो यस्तु शिव ब्रह्मादिदैवतान् २६०
विश्वास-प्रस्तुतिः - ७२८
प्रणमेतार्चयेद्वाऽपि विष्ठायां जायते क्रिमिः
र्
७२८
मूलम् - ७२८
प्रणमेतार्चयेद्वाऽपि विष्ठायां जायते क्रिमिः
र्
७२८
विश्वास-प्रस्तुतिः - २६२
पूजनाद्वन्दनाद्वाऽपि वैष्णवो यात्यधोगतिम्
शुद्धसत्वमयो विष्णुः पूजनीयो जगत्पतिः २६२
मूलम् - २६२
पूजनाद्वन्दनाद्वाऽपि वैष्णवो यात्यधोगतिम्
शुद्धसत्वमयो विष्णुः पूजनीयो जगत्पतिः २६२
विश्वास-प्रस्तुतिः - २६३
अनर्चनीया रुद्राद्याः विष्णोरावरणं विना
यस्तु स्वात्मेश्वरं विष्णुमतीत्यान्यं यजेत हि २६३
मूलम् - २६३
अनर्चनीया रुद्राद्याः विष्णोरावरणं विना
यस्तु स्वात्मेश्वरं विष्णुमतीत्यान्यं यजेत हि २६३
विश्वास-प्रस्तुतिः - २६४
स्वात्मेश्वराय हरये च्यवते नात्रसंशयः
यज्ञाध्ययनकाले तु नमस्यानि वषट्कृता २६४
मूलम् - २६४
स्वात्मेश्वराय हरये च्यवते नात्रसंशयः
यज्ञाध्ययनकाले तु नमस्यानि वषट्कृता २६४
विश्वास-प्रस्तुतिः - २६५
तानि वै यज्ञियान्यत्र यज्ञो वै विष्णुरव्ययः
तस्यैवाऽवरणं प्रोक्तं यज्ञाध्ययनकर्मसु २६५
मूलम् - २६५
तानि वै यज्ञियान्यत्र यज्ञो वै विष्णुरव्ययः
तस्यैवाऽवरणं प्रोक्तं यज्ञाध्ययनकर्मसु २६५
विश्वास-प्रस्तुतिः - २६६
स्तुवन्ति वेदास्तस्यात्र गुणरूपविभूतयः
तस्मादावरणं हित्वा ये यजन्ति परान् सुरान् २६६
मूलम् - २६६
स्तुवन्ति वेदास्तस्यात्र गुणरूपविभूतयः
तस्मादावरणं हित्वा ये यजन्ति परान् सुरान् २६६
विश्वास-प्रस्तुतिः - २६७
ते यान्ति निरयं घोरं कल्पकोटिशतानि वै
रुद्रः काली गणेशश्च कूष्माण्डा भैरवादयः २६७
मूलम् - २६७
ते यान्ति निरयं घोरं कल्पकोटिशतानि वै
रुद्रः काली गणेशश्च कूष्माण्डा भैरवादयः २६७
विश्वास-प्रस्तुतिः - २६८
मद्यमांसाशिनश्चान्ये तामसाः परिकीर्तिताः
शुद्धानामपि देवानां या स्वतन्त्राऽर्च्चनक्रिया २६८
मूलम् - २६८
मद्यमांसाशिनश्चान्ये तामसाः परिकीर्तिताः
शुद्धानामपि देवानां या स्वतन्त्राऽर्च्चनक्रिया २६८
विश्वास-प्रस्तुतिः - २६९
सा दुर्गतिं नयत्येव वैष्णवं वीतकल्मषम्
अर्चयित्वा जगन्नाथं वैष्णवः पुरुषोत्तमम् २६९
मूलम् - २६९
सा दुर्गतिं नयत्येव वैष्णवं वीतकल्मषम्
अर्चयित्वा जगन्नाथं वैष्णवः पुरुषोत्तमम् २६९
विश्वास-प्रस्तुतिः - २७०
तदावरणरूपेण यजेद्देवान् समन्ततः
अन्यथा नरकं याति यावदाभूतसंप्लवम् २७०
मूलम् - २७०
तदावरणरूपेण यजेद्देवान् समन्ततः
अन्यथा नरकं याति यावदाभूतसंप्लवम् २७०
विश्वास-प्रस्तुतिः - २७१
वासुदेवं जगन्नाथमर्चयित्वैव मानवः
प्राप्नोति महदैश्वर्यं ब्रह्मेन्द्रत्वादिकं क्षणात् २७१
मूलम् - २७१
वासुदेवं जगन्नाथमर्चयित्वैव मानवः
प्राप्नोति महदैश्वर्यं ब्रह्मेन्द्रत्वादिकं क्षणात् २७१
विश्वास-प्रस्तुतिः - २७२
मनसाऽपि जलेनापि जगन्नाथं जनार्दनम्
सम्प्राप्नोत्यमलां सिद्धिं जगत्सर्वं समञ्चितम् २७२
मूलम् - २७२
मनसाऽपि जलेनापि जगन्नाथं जनार्दनम्
सम्प्राप्नोत्यमलां सिद्धिं जगत्सर्वं समञ्चितम् २७२
विश्वास-प्रस्तुतिः - २७३
हृषीकेशं त्रयीनाथं लक्ष्मीशं सर्वदं हरिम्
तं विना पुण्डरीकाक्षं कोऽर्चयेदितरान् सुरान् २७३
मूलम् - २७३
हृषीकेशं त्रयीनाथं लक्ष्मीशं सर्वदं हरिम्
तं विना पुण्डरीकाक्षं कोऽर्चयेदितरान् सुरान् २७३
७२९
स्वपतिं नृपतिं हित्वा यथा स्त्री पुरुषाधमम् २७४
विश्वास-प्रस्तुतिः - २७५
विष्णोर्निवेदितं हव्यं देवेभ्यो जुहुयात्तथा
पितृभ्यश्चैव तद्दद्यात्सर्वमानन्त्यमश्नुते २७५
मूलम् - २७५
विष्णोर्निवेदितं हव्यं देवेभ्यो जुहुयात्तथा
पितृभ्यश्चैव तद्दद्यात्सर्वमानन्त्यमश्नुते २७५
विश्वास-प्रस्तुतिः - २७६
निर्माल्यमितरेषां तु यदन्नाद्यं दिवौकसाम्
उपभुज्य नरो याति ब्रह्महत्यां न संशयः २७६
मूलम् - २७६
निर्माल्यमितरेषां तु यदन्नाद्यं दिवौकसाम्
उपभुज्य नरो याति ब्रह्महत्यां न संशयः २७६
विश्वास-प्रस्तुतिः - २७७
नैवेद्य भोजनं विष्णोस्तत्पादाम्बु निषेवणम्
तुलसी खादनं नृणां पापिनामपिमुक्तिदम् २७७
मूलम् - २७७
नैवेद्य भोजनं विष्णोस्तत्पादाम्बु निषेवणम्
तुलसी खादनं नृणां पापिनामपिमुक्तिदम् २७७
विश्वास-प्रस्तुतिः - २७८
एकादश्युपवासश्च शङ्खचक्रादिधारणम्
तुलस्या पूजनं विष्णोस्त्रितयं वैष्णवं स्मृतम् २७८
मूलम् - २७८
एकादश्युपवासश्च शङ्खचक्रादिधारणम्
तुलस्या पूजनं विष्णोस्त्रितयं वैष्णवं स्मृतम् २७८
विश्वास-प्रस्तुतिः - २७९
अवैष्णवः स्याद्यो विप्रो बहुशास्त्रश्रुतोऽपि वा
सजीवन्नेव चण्डालो मृतः श्वानोऽभिजायते २७९
मूलम् - २७९
अवैष्णवः स्याद्यो विप्रो बहुशास्त्रश्रुतोऽपि वा
सजीवन्नेव चण्डालो मृतः श्वानोऽभिजायते २७९
विश्वास-प्रस्तुतिः - २८०
क्रतुसाहस्रिणं वाऽपि लोके विप्रमवैष्णवम्
चण्डालमिव नेक्षेत वर्जयेत्सर्वकर्मसु २८०
मूलम् - २८०
क्रतुसाहस्रिणं वाऽपि लोके विप्रमवैष्णवम्
चण्डालमिव नेक्षेत वर्जयेत्सर्वकर्मसु २८०
विश्वास-प्रस्तुतिः - २८१
भगवद्भक्तिदीप्ताग्निदग्धदुर्जातिकल्मषः
चण्डालोऽपि बुधैः श्लाध्यो न तु पूज्यो ह्यवैष्णवः २८१
मूलम् - २८१
भगवद्भक्तिदीप्ताग्निदग्धदुर्जातिकल्मषः
चण्डालोऽपि बुधैः श्लाध्यो न तु पूज्यो ह्यवैष्णवः २८१
विश्वास-प्रस्तुतिः - २८२
शङ्खचक्रोर्ध्वपुण्ड्रादिरहितं ब्राह्मणाधमम्
पूजयिष्यति यः श्राद्धे सर्वकर्मास्य निष्फलम् २८२
मूलम् - २८२
शङ्खचक्रोर्ध्वपुण्ड्रादिरहितं ब्राह्मणाधमम्
पूजयिष्यति यः श्राद्धे सर्वकर्मास्य निष्फलम् २८२
विश्वास-प्रस्तुतिः - २८३
तिर्यक्पुण्ड्रधरं विप्रं यः श्राद्धे भोजयिष्यति
पितरस्तस्य यान्त्येव कालसूत्रं सुदारुणम् २८३
मूलम् - २८३
तिर्यक्पुण्ड्रधरं विप्रं यः श्राद्धे भोजयिष्यति
पितरस्तस्य यान्त्येव कालसूत्रं सुदारुणम् २८३
विश्वास-प्रस्तुतिः - २८४
ऊर्ध्वपुण्ड्रधरं विप्रं चक्राङ्कितभुजं तथा
पूजयिष्यति यः श्राद्धे गया श्राद्धायुतं लभेत् २८४
मूलम् - २८४
ऊर्ध्वपुण्ड्रधरं विप्रं चक्राङ्कितभुजं तथा
पूजयिष्यति यः श्राद्धे गया श्राद्धायुतं लभेत् २८४
विश्वास-प्रस्तुतिः - २८५
शङ्खचक्रोर्ध्वपुण्ड्राद्यैरन्वितं वैष्णवं द्विजम्
भक्त्या सम्पूजयेद्यस्तु दैवे पित्र्ये च कर्मणि २८५
मूलम् - २८५
शङ्खचक्रोर्ध्वपुण्ड्राद्यैरन्वितं वैष्णवं द्विजम्
भक्त्या सम्पूजयेद्यस्तु दैवे पित्र्ये च कर्मणि २८५
विश्वास-प्रस्तुतिः - २८६
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
यास्यन्ति पितरतस्य विष्णुलोकं सुनिर्मलम् २८६
मूलम् - २८६
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
यास्यन्ति पितरतस्य विष्णुलोकं सुनिर्मलम् २८६
विश्वास-प्रस्तुतिः - ७३०
ऊर्ध्वपुण्ड्रधरं विप्रं तप्तचक्रङ्कितांसकम्
र्
७३०
मूलम् - ७३०
ऊर्ध्वपुण्ड्रधरं विप्रं तप्तचक्रङ्कितांसकम्
र्
७३०
विश्वास-प्रस्तुतिः - २८८
तप्तचक्रेण विधिना बाहुमूलेन लाञ्छितः
पुनाति सकलं लोकं नारायण इवाघभित् २८८
मूलम् - २८८
तप्तचक्रेण विधिना बाहुमूलेन लाञ्छितः
पुनाति सकलं लोकं नारायण इवाघभित् २८८
विश्वास-प्रस्तुतिः - २८९
अविद्यो वा सविद्यो वा शङ्खचक्रोर्ध्वपुण्ड्रधृत्
ब्राह्मणः सर्वलोकेषु पूज्यमानो हरिर्यथा २८९
मूलम् - २८९
अविद्यो वा सविद्यो वा शङ्खचक्रोर्ध्वपुण्ड्रधृत्
ब्राह्मणः सर्वलोकेषु पूज्यमानो हरिर्यथा २८९
विश्वास-प्रस्तुतिः - २९०
दुराशी वा दुराचारी शङ्खचक्रोर्ध्वपुण्ड्रधृत्
नृणां हन्ति समस्ताघं तमः सूर्योदये यथा २९०
मूलम् - २९०
दुराशी वा दुराचारी शङ्खचक्रोर्ध्वपुण्ड्रधृत्
नृणां हन्ति समस्ताघं तमः सूर्योदये यथा २९०
विश्वास-प्रस्तुतिः - २९१
चक्राङ्कितस्य विप्रस्य पादप्रक्षालितं जलम्
पुनाति सकलं लोकं यथा त्रिपथगानदी २९१
मूलम् - २९१
चक्राङ्कितस्य विप्रस्य पादप्रक्षालितं जलम्
पुनाति सकलं लोकं यथा त्रिपथगानदी २९१
विश्वास-प्रस्तुतिः - २९२
तिस्रः कोट्यर्द्ध कोटी च तीर्थानि भुवनत्रये
चक्राङ्कितस्य विप्रस्य पादे तिष्ठन्त्यसंशयः २९२
मूलम् - २९२
तिस्रः कोट्यर्द्ध कोटी च तीर्थानि भुवनत्रये
चक्राङ्कितस्य विप्रस्य पादे तिष्ठन्त्यसंशयः २९२
विश्वास-प्रस्तुतिः - २९३
चक्राङ्कितस्य विप्रस्य पादप्रक्षालितं जलम्
पीत्वा पातकसाहस्रैर्मुच्यन्ते नात्र संशयः २९३
मूलम् - २९३
चक्राङ्कितस्य विप्रस्य पादप्रक्षालितं जलम्
पीत्वा पातकसाहस्रैर्मुच्यन्ते नात्र संशयः २९३
विश्वास-प्रस्तुतिः - २९४
श्राद्धे दाने व्रते यज्ञे विवाहे चोपनायने
चक्राङ्कितं विप्रमेव पूजयेदितरान्न तु २९४
मूलम् - २९४
श्राद्धे दाने व्रते यज्ञे विवाहे चोपनायने
चक्राङ्कितं विप्रमेव पूजयेदितरान्न तु २९४
विश्वास-प्रस्तुतिः - २९५
विष्णुचक्राङ्कितो विप्रो भुञ्जानोऽपि यतस्ततः
न लिप्यते स पापेन तमसैव प्रभाकरः २९५
मूलम् - २९५
विष्णुचक्राङ्कितो विप्रो भुञ्जानोऽपि यतस्ततः
न लिप्यते स पापेन तमसैव प्रभाकरः २९५
विश्वास-प्रस्तुतिः - २९६
चक्राङ्कित भुजो विप्रः पङ्क्तिं मध्ये तु भुञ्जते
पुनाति सकलां पङ्क्तिं गङ्गे वोत्तरवाहिनी २९६
मूलम् - २९६
चक्राङ्कित भुजो विप्रः पङ्क्तिं मध्ये तु भुञ्जते
पुनाति सकलां पङ्क्तिं गङ्गे वोत्तरवाहिनी २९६
विश्वास-प्रस्तुतिः - २९७
चक्राङ्कित भुजं विप्रं यो भूम्यामभिवादयेत्
ललाटे पांशु संख्यानि विष्णुलोके महीयते २९७
मूलम् - २९७
चक्राङ्कित भुजं विप्रं यो भूम्यामभिवादयेत्
ललाटे पांशु संख्यानि विष्णुलोके महीयते २९७
विश्वास-प्रस्तुतिः - २९८
ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रो वा वैष्णवः पुमान्
अर्चयित्वेतरान् देवान् निरयं यान्त्यसंशयम् २९८
मूलम् - २९८
ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रो वा वैष्णवः पुमान्
अर्चयित्वेतरान् देवान् निरयं यान्त्यसंशयम् २९८
विश्वास-प्रस्तुतिः - २९९
विष्णोरावरणं हित्वा पूजयित्वेतरान् सुरान्
वैष्णवः पुरुषो याति कालसूत्रमधोमुखः २९९
मूलम् - २९९
विष्णोरावरणं हित्वा पूजयित्वेतरान् सुरान्
वैष्णवः पुरुषो याति कालसूत्रमधोमुखः २९९
७३१
मन्वादि धर्मशास्त्रोक्तं प्रायश्चित्तं स्माचरेत् ३००
विश्वास-प्रस्तुतिः - ३०१
प्रायश्चित्तविशेषं तु पश्चात्कुर्वीत वैष्णवः
वैयासिकीं वैष्णवीं च पवित्रीञ्च समाचरेत् ३०१
मूलम् - ३०१
प्रायश्चित्तविशेषं तु पश्चात्कुर्वीत वैष्णवः
वैयासिकीं वैष्णवीं च पवित्रीञ्च समाचरेत् ३०१
विश्वास-प्रस्तुतिः - ३०२
वैष्णवानान्तु विप्राणां पश्चात्पादजलं पिबेत्
वृत्तौ न परिपूर्णोऽथ कर्मस्वधिकृतो भवेत् ३०२
मूलम् - ३०२
वैष्णवानान्तु विप्राणां पश्चात्पादजलं पिबेत्
वृत्तौ न परिपूर्णोऽथ कर्मस्वधिकृतो भवेत् ३०२
विश्वास-प्रस्तुतिः - ३०३
मन्त्ररत्नार्थविच्छान्त नवेज्याकर्मसंयुतः
द्वादशी नियतो विप्रः स एव पुरुषोत्तमः ३०३
मूलम् - ३०३
मन्त्ररत्नार्थविच्छान्त नवेज्याकर्मसंयुतः
द्वादशी नियतो विप्रः स एव पुरुषोत्तमः ३०३
विश्वास-प्रस्तुतिः - ३०४
किमत्र बहुनोक्तेन सारं वक्ष्यामि ते नृप
एकादश्युपवासश्च शङ्खचक्रादिधारणम् ३०४
मूलम् - ३०४
किमत्र बहुनोक्तेन सारं वक्ष्यामि ते नृप
एकादश्युपवासश्च शङ्खचक्रादिधारणम् ३०४
विश्वास-प्रस्तुतिः - ३०५
तदीयानां पूजनञ्च वैष्णवं त्रितयं स्मृतम्
पुण्याद्विष्णुदिनादन्यन्नोपोष्यं वैष्णवैः सदा ३०५
मूलम् - ३०५
तदीयानां पूजनञ्च वैष्णवं त्रितयं स्मृतम्
पुण्याद्विष्णुदिनादन्यन्नोपोष्यं वैष्णवैः सदा ३०५
विश्वास-प्रस्तुतिः - ३०६
तथा भागवतादन्यो नार्चनीयो हि कुत्रचित्
भगवन्तमनुद्दिश्य न दद्या न यजेत् क्वचित् ३०६
मूलम् - ३०६
तथा भागवतादन्यो नार्चनीयो हि कुत्रचित्
भगवन्तमनुद्दिश्य न दद्या न यजेत् क्वचित् ३०६
विश्वास-प्रस्तुतिः - ३०७
नावैष्णवान्नं भुञ्जीत दद्यान्ना वैष्णवाय च
नार्चयेदितरान् देवान्न तिर्यग्धारयेत्तथा ३०७
मूलम् - ३०७
नावैष्णवान्नं भुञ्जीत दद्यान्ना वैष्णवाय च
नार्चयेदितरान् देवान्न तिर्यग्धारयेत्तथा ३०७
विश्वास-प्रस्तुतिः - ३०८
एकादश्यान्न भुञ्जीत वसेन्नावैष्णवैः सह
अष्टाक्षरस्य जप्तारं शङ्खचक्रधरं द्विजः ३०८
मूलम् - ३०८
एकादश्यान्न भुञ्जीत वसेन्नावैष्णवैः सह
अष्टाक्षरस्य जप्तारं शङ्खचक्रधरं द्विजः ३०८
विश्वास-प्रस्तुतिः - ३०९
अवमत्य विमूढात्मा सद्यश्चण्डालतां व्रजेत्
वैष्णवं ब्राह्मणं गाञ्च तुलसी द्वादशीं तथा ३०९
मूलम् - ३०९
अवमत्य विमूढात्मा सद्यश्चण्डालतां व्रजेत्
वैष्णवं ब्राह्मणं गाञ्च तुलसी द्वादशीं तथा ३०९
विश्वास-प्रस्तुतिः - ३१०
अनर्चयित्वा मूढात्मा निरयं दुर्गतिं व्रजेत्
विष्णोः प्रधानतनवो विप्रा गावश्च वैष्णवाः ३१०
मूलम् - ३१०
अनर्चयित्वा मूढात्मा निरयं दुर्गतिं व्रजेत्
विष्णोः प्रधानतनवो विप्रा गावश्च वैष्णवाः ३१०
विश्वास-प्रस्तुतिः - ३११
शक्त्या संपूज्य तानेव याति विष्णोः परं पदम्
एकादश्युपवासश्च द्वादश्यां विप्रपूजनं ३११
मूलम् - ३११
शक्त्या संपूज्य तानेव याति विष्णोः परं पदम्
एकादश्युपवासश्च द्वादश्यां विप्रपूजनं ३११
विश्वास-प्रस्तुतिः - ३१२
नित्यमामलकस्नानं पापिनामपि मुक्तिदम्
पक्षे पक्षे हरि दिने चक्राङ्कितभुजे नृप ३१२
मूलम् - ३१२
नित्यमामलकस्नानं पापिनामपि मुक्तिदम्
पक्षे पक्षे हरि दिने चक्राङ्कितभुजे नृप ३१२
विश्वास-प्रस्तुतिः - ७३२
संपूज्यमाने विप्रेन्द्रे हरिस्तेषां प्रसीदति
र्
७३२
मूलम् - ७३२
संपूज्यमाने विप्रेन्द्रे हरिस्तेषां प्रसीदति
र्
७३२
विश्वास-प्रस्तुतिः - ३१४
तद्वत्सम्पूजयेद्गावं तुलसीं वाऽपि वैष्णवः
अग्निहोत्रन्तु जुहुयात्सायं प्रातर्द्विजोत्तमः ३१४
मूलम् - ३१४
तद्वत्सम्पूजयेद्गावं तुलसीं वाऽपि वैष्णवः
अग्निहोत्रन्तु जुहुयात्सायं प्रातर्द्विजोत्तमः ३१४
विश्वास-प्रस्तुतिः - ३१५
पञ्चयज्ञांश्च कुर्वीत वैष्णवान् विष्णुमर्चयेत्
तदर्पितं वै भुञ्जीत पिबेत्तत्पादवारि वै ३१५
मूलम् - ३१५
पञ्चयज्ञांश्च कुर्वीत वैष्णवान् विष्णुमर्चयेत्
तदर्पितं वै भुञ्जीत पिबेत्तत्पादवारि वै ३१५
विश्वास-प्रस्तुतिः - ३१६
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि
पूजयेद्वैष्णवं विप्रं द्वादश्यामपि वैष्णवः ३१६
मूलम् - ३१६
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि
पूजयेद्वैष्णवं विप्रं द्वादश्यामपि वैष्णवः ३१६
विश्वास-प्रस्तुतिः - ३१७
विष्णोः प्रसाद तुलसीं तीर्थं वाऽपि द्विजोत्तमः
उपवासदिने वाऽपि प्राशयेदविचारयन् ३१७
मूलम् - ३१७
विष्णोः प्रसाद तुलसीं तीर्थं वाऽपि द्विजोत्तमः
उपवासदिने वाऽपि प्राशयेदविचारयन् ३१७
विश्वास-प्रस्तुतिः - ३१९
न प्राशयेद्विमूढात्मा रौरवं नरकं व्रजेत्
हर्य्यर्पितन्तु यच्चान्नं तीर्थं वा पितृकर्मणि ३१९
मूलम् - ३१९
न प्राशयेद्विमूढात्मा रौरवं नरकं व्रजेत्
हर्य्यर्पितन्तु यच्चान्नं तीर्थं वा पितृकर्मणि ३१९
विश्वास-प्रस्तुतिः - ३२०
दद्यात्पितॄणां यद्भक्ष्यं गयाश्राद्धायुतं लभेत्
हरेर्निवेदितं भक्त्या यो दद्याच्छ्राद्धकर्मणि ३२०
मूलम् - ३२०
दद्यात्पितॄणां यद्भक्ष्यं गयाश्राद्धायुतं लभेत्
हरेर्निवेदितं भक्त्या यो दद्याच्छ्राद्धकर्मणि ३२०
विश्वास-प्रस्तुतिः - ३२१
पितरस्तस्य यान्त्येव तद्विष्णोः परमं पदम्
तीर्थं वा तुलसीपत्रं यो दद्यात्पितृदैवतम् ३२१
मूलम् - ३२१
पितरस्तस्य यान्त्येव तद्विष्णोः परमं पदम्
तीर्थं वा तुलसीपत्रं यो दद्यात्पितृदैवतम् ३२१
विश्वास-प्रस्तुतिः - ३२२
आकल्पकोटि पितरः परितृप्ता न संशयः
यः श्राद्धकाले मूढात्मा पितृणाञ्च दिवोकसाम् ३२२
मूलम् - ३२२
आकल्पकोटि पितरः परितृप्ता न संशयः
यः श्राद्धकाले मूढात्मा पितृणाञ्च दिवोकसाम् ३२२
विश्वास-प्रस्तुतिः - ३२३
न ददाति हरेर्भुक्तं तस्य वै नारकी गतिः
हर्यर्पितन्तु यच्चान्नं यच्च पादोदकं हरेः ३२३
मूलम् - ३२३
न ददाति हरेर्भुक्तं तस्य वै नारकी गतिः
हर्यर्पितन्तु यच्चान्नं यच्च पादोदकं हरेः ३२३
विश्वास-प्रस्तुतिः - ३२४
सर्व यज्ञमयं विष्णुं मत्वा देवं जनार्दनम्
आमन्त्र्य वैष्णवान् विप्रान् कुर्याच्छ्राद्धमतन्द्रितः ३२४
मूलम् - ३२४
सर्व यज्ञमयं विष्णुं मत्वा देवं जनार्दनम्
आमन्त्र्य वैष्णवान् विप्रान् कुर्याच्छ्राद्धमतन्द्रितः ३२४
विश्वास-प्रस्तुतिः - ३२५
प्रत्यब्दं पार्वणश्राद्धं कुर्यात्पित्रोर्मृतेऽहनि
अन्यथा वैष्णवो याति ब्रह्महत्यां न संशयः ३२५
मूलम् - ३२५
प्रत्यब्दं पार्वणश्राद्धं कुर्यात्पित्रोर्मृतेऽहनि
अन्यथा वैष्णवो याति ब्रह्महत्यां न संशयः ३२५
७३३
विश्वास-प्रस्तुतिः - ३२७
कुर्यात् श्राद्धं विधानेन विष्णोराज्ञामनुस्मरन् ३२६
न कुर्यात् यो विधानेन पितृयज्ञं नराधमः ३२७
मूलम् - ३२७
कुर्यात् श्राद्धं विधानेन विष्णोराज्ञामनुस्मरन् ३२६
न कुर्यात् यो विधानेन पितृयज्ञं नराधमः ३२७
विश्वास-प्रस्तुतिः - ३२८
आज्ञातिक्रमणाद्विष्णोः पतत्येव न संशयः
शङ्खचक्रोर्ध्वपुण्ड्रादिचिह्नैः प्रियतमैर्हरेः ३२८
मूलम् - ३२८
आज्ञातिक्रमणाद्विष्णोः पतत्येव न संशयः
शङ्खचक्रोर्ध्वपुण्ड्रादिचिह्नैः प्रियतमैर्हरेः ३२८
विश्वास-प्रस्तुतिः - ३२९
अन्वितान् ब्राह्मणानेव पूजयेत्सर्वकर्मसु
अश्राद्धिनोऽप्ययज्ञस्य कर्मत्यागिन एव च ३२९
मूलम् - ३२९
अन्वितान् ब्राह्मणानेव पूजयेत्सर्वकर्मसु
अश्राद्धिनोऽप्ययज्ञस्य कर्मत्यागिन एव च ३२९
विश्वास-प्रस्तुतिः - ३३०
वेदस्याप्यनधीतस्य संसर्गं दूरतस्त्यजेत्
पित्रोः श्राद्धं प्रकुर्वीत नैकादश्यां द्विजोत्तमः ३३०
मूलम् - ३३०
वेदस्याप्यनधीतस्य संसर्गं दूरतस्त्यजेत्
पित्रोः श्राद्धं प्रकुर्वीत नैकादश्यां द्विजोत्तमः ३३०
विश्वास-प्रस्तुतिः - ३३१
द्वादश्यान्तत्प्रकुर्वीत नोपवास दिने क्वचित्
विष्णोर्जन्मदिने वाऽपि गुरूणाञ्च मृतेऽहनि ३३१
मूलम् - ३३१
द्वादश्यान्तत्प्रकुर्वीत नोपवास दिने क्वचित्
विष्णोर्जन्मदिने वाऽपि गुरूणाञ्च मृतेऽहनि ३३१
विश्वास-प्रस्तुतिः - ३३२
वैष्णवेष्टिं प्रकुर्व्वीत वेदिकं वैष्णवोत्तमः
अगम्यागमनं हिंसामभक्ष्याणाञ्च भक्षणम् ३३२
मूलम् - ३३२
वैष्णवेष्टिं प्रकुर्व्वीत वेदिकं वैष्णवोत्तमः
अगम्यागमनं हिंसामभक्ष्याणाञ्च भक्षणम् ३३२
विश्वास-प्रस्तुतिः - ३३३
असत्य कथनं स्तेयं मनसाऽपि विवर्जयेत्
तप्तचक्राङ्कनं विष्णोरेकादश्यामुपोषणम् ३३३
मूलम् - ३३३
असत्य कथनं स्तेयं मनसाऽपि विवर्जयेत्
तप्तचक्राङ्कनं विष्णोरेकादश्यामुपोषणम् ३३३
विश्वास-प्रस्तुतिः - ३३४
नित्यमामलकस्रानं देवतान्तरवर्जनम्
ध्यानं मन्त्रं जपो होमस्तुलस्याः पूजनं हरेः ३३४
मूलम् - ३३४
नित्यमामलकस्रानं देवतान्तरवर्जनम्
ध्यानं मन्त्रं जपो होमस्तुलस्याः पूजनं हरेः ३३४
विश्वास-प्रस्तुतिः - ३३५
प्रसादस्तीर्थसेवा च तदीयानाञ्च पूजनम्
उपायान्तर सन्त्यागस्तथा मन्त्रार्थचिन्तनम् ३३५
मूलम् - ३३५
प्रसादस्तीर्थसेवा च तदीयानाञ्च पूजनम्
उपायान्तर सन्त्यागस्तथा मन्त्रार्थचिन्तनम् ३३५
विश्वास-प्रस्तुतिः - ३३६
श्रवणं कीर्तनं सेवा सत्कृत्यकरणं तथा
असत्कृत्य परित्यागो विषयान्तरवर्जनम् ३३६
मूलम् - ३३६
श्रवणं कीर्तनं सेवा सत्कृत्यकरणं तथा
असत्कृत्य परित्यागो विषयान्तरवर्जनम् ३३६
विश्वास-प्रस्तुतिः - ३३७
दानं दमस्तपः शौचमार्जवं क्षान्तिरेव च
आनृशंस्यं सतां सङ्गः पारमैकान्त्यहेतवः ३३७
मूलम् - ३३७
दानं दमस्तपः शौचमार्जवं क्षान्तिरेव च
आनृशंस्यं सतां सङ्गः पारमैकान्त्यहेतवः ३३७
विश्वास-प्रस्तुतिः - ३३८
वैष्णवः परमैकान्ती नेतरो वैष्णवः स्मृतः
नावैष्णवो व्रजेन्मुक्तिं बहुशास्त्रश्रुतोऽपि वा ३३८
मूलम् - ३३८
वैष्णवः परमैकान्ती नेतरो वैष्णवः स्मृतः
नावैष्णवो व्रजेन्मुक्तिं बहुशास्त्रश्रुतोऽपि वा ३३८
विश्वास-प्रस्तुतिः - ७३४
वैष्णवो वर्णवाह्योऽपि याति विष्णोः परं पदम्
र्
७३४
मूलम् - ७३४
वैष्णवो वर्णवाह्योऽपि याति विष्णोः परं पदम्
र्
७३४
विश्वास-प्रस्तुतिः - ३४०
वैशिष्ट्यं वैष्णवं धर्मशास्त्रं वेदोपबृंहितम्
विष्वक्सेनाय धात्रे च सम्प्रोक्तं परमात्मना ३४०
मूलम् - ३४०
वैशिष्ट्यं वैष्णवं धर्मशास्त्रं वेदोपबृंहितम्
विष्वक्सेनाय धात्रे च सम्प्रोक्तं परमात्मना ३४०
विश्वास-प्रस्तुतिः - ३४१
विष्वक्सेनाय सम्प्रोक्तमेतद्विघनसे पुरा
भृगोः प्रोक्तं विघनसा भृगुणा च महर्षिणा ३४१
मूलम् - ३४१
विष्वक्सेनाय सम्प्रोक्तमेतद्विघनसे पुरा
भृगोः प्रोक्तं विघनसा भृगुणा च महर्षिणा ३४१
विश्वास-प्रस्तुतिः - ३४२
भृगुणा च मनोः प्रोक्तं मनुना च ममेरितम्
मनुस्तु धर्मशास्त्रन्तु सामान्येनोक्तवान् स्वयम् ३४२
मूलम् - ३४२
भृगुणा च मनोः प्रोक्तं मनुना च ममेरितम्
मनुस्तु धर्मशास्त्रन्तु सामान्येनोक्तवान् स्वयम् ३४२
विश्वास-प्रस्तुतिः - ३४३
तदेव हि मया राजन् वैशिष्येण तवेरितम्
विशिष्टं परमं धर्मशास्त्रं वैष्णवमुत्तमम् ३४३
मूलम् - ३४३
तदेव हि मया राजन् वैशिष्येण तवेरितम्
विशिष्टं परमं धर्मशास्त्रं वैष्णवमुत्तमम् ३४३
विश्वास-प्रस्तुतिः - ३४४
य इदं शृणुयाद्भक्त्या कथयेद्वा समाहितः
पारमैकान्त्य संसिद्धिं प्राप्नोत्येव न संशयः ३४४
मूलम् - ३४४
य इदं शृणुयाद्भक्त्या कथयेद्वा समाहितः
पारमैकान्त्य संसिद्धिं प्राप्नोत्येव न संशयः ३४४
विश्वास-प्रस्तुतिः - ३४५
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम्
यस्त्विदं श्रुणुयाद्भक्त्या नित्यं विष्णोश्च सन्निधौ ३४५
मूलम् - ३४५
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम्
यस्त्विदं श्रुणुयाद्भक्त्या नित्यं विष्णोश्च सन्निधौ ३४५
विश्वास-प्रस्तुतिः - ३४६
अश्वमेधसहस्रस्य फलं प्राप्नोत्यसंशयः
हारीतमेतच्छास्त्रन्तु परमां धर्म्मसंहिताम् ३४६
मूलम् - ३४६
अश्वमेधसहस्रस्य फलं प्राप्नोत्यसंशयः
हारीतमेतच्छास्त्रन्तु परमां धर्म्मसंहिताम् ३४६
विश्वास-प्रस्तुतिः - ३४६
आलोक्य पूजयन् विष्णुं पारमैकान्त्यमश्नुते
एतच्छ्रुत्वाम्बरीषस्तु हारीतोक्तिं नृपोत्तमः ३४६
मूलम् - ३४६
आलोक्य पूजयन् विष्णुं पारमैकान्त्यमश्नुते
एतच्छ्रुत्वाम्बरीषस्तु हारीतोक्तिं नृपोत्तमः ३४६
विश्वास-प्रस्तुतिः - ३४७
ववन्दे परया भक्त्या तमृषिं वैष्णवोत्तमः
त्वमेव परमोधर्म्मस्त्वमेव परमं तपः ३४७
मूलम् - ३४७
ववन्दे परया भक्त्या तमृषिं वैष्णवोत्तमः
त्वमेव परमोधर्म्मस्त्वमेव परमं तपः ३४७
विश्वास-प्रस्तुतिः - ३४७
त्वदङ्घ्रियुगलं प्राप्य सर्वसिद्धिमवाप्नुयाम्
महामुनिमिति स्तुत्वा राजर्षिः स महातपाः ३४७
मूलम् - ३४७
त्वदङ्घ्रियुगलं प्राप्य सर्वसिद्धिमवाप्नुयाम्
महामुनिमिति स्तुत्वा राजर्षिः स महातपाः ३४७
विश्वास-प्रस्तुतिः - ३४८
प्राप्तवान् परमैकान्त्यं तत्प्रसादात्सुसिद्धिदम्
वैशिष्ट्यं पारमैकान्त्यमेतच्छास्त्रं ममाव्ययम् ३४८
मूलम् - ३४८
प्राप्तवान् परमैकान्त्यं तत्प्रसादात्सुसिद्धिदम्
वैशिष्ट्यं पारमैकान्त्यमेतच्छास्त्रं ममाव्ययम् ३४८
विश्वास-प्रस्तुतिः - ३४९
भारद्वाजादयः सर्वे नृपाश्च जनकादयः
योगिनः सनकाद्याश्च नारदाद्याः सुरर्षयः ३४९
मूलम् - ३४९
भारद्वाजादयः सर्वे नृपाश्च जनकादयः
योगिनः सनकाद्याश्च नारदाद्याः सुरर्षयः ३४९
७३५
एतच्छास्त्रानुसारेण पूजयामासुरच्युतम् ३५०
विश्वास-प्रस्तुतिः - ३५१
परमं वैदिकं शास्त्रमेतद्वैष्णवमुत्तमम्
ज्ञात्वैव परमैकान्ती पूजयेद्विष्णुमीश्वरम् ३५१
मूलम् - ३५१
परमं वैदिकं शास्त्रमेतद्वैष्णवमुत्तमम्
ज्ञात्वैव परमैकान्ती पूजयेद्विष्णुमीश्वरम् ३५१
᐀ेफेरेनचेख्
स्मउतस्ि अनदअरबहअ
विश्वास-प्रस्तुतिः - ७३६
ण वेलभ ीीण्ज्ञेलहख्ि न्अगण १९८१।ण पपभ ९९४ फफभ
र्
७३६
मूलम् - ७३६
ण वेलभ ीीण्ज्ञेलहख्ि न्अगण १९८१।ण पपभ ९९४ फफभ
र्
७३६