सप्तमोऽध्यायः
अथ नानाविधोत्सवविधानवर्णनम्
अम्बरीष उवाच
विश्वास-प्रस्तुतिः - १
भगवन् भवता प्रोक्ता विष्णोराराधनक्रिया
प्रायश्चित्तमकृत्यानामसतां दण्डमेव च १
मूलम् - १
भगवन् भवता प्रोक्ता विष्णोराराधनक्रिया
प्रायश्चित्तमकृत्यानामसतां दण्डमेव च १
विश्वास-प्रस्तुतिः - २
अधुना श्रोतुमिच्छामि शाश्वतीं वृत्तिमुत्तमाम्
इष्टीनाञ्च विधानानि विशेषांश्चोत्सवान् हरेः २
मूलम् - २

विश्वास-प्रस्तुतिः - ३
शृणु राजन् प्रवक्ष्यामि सर्वं निरवशेषतः
इष्टीनाञ्च विधानञ्च हरेत्सवकर्मणाम् ३
मूलम् - ३
शृणु राजन् प्रवक्ष्यामि सर्वं निरवशेषतः
इष्टीनाञ्च विधानञ्च हरेत्सवकर्मणाम् ३
विश्वास-प्रस्तुतिः - ४
नारायणी वासुदेवी गारुडी वैष्णवी तथा
घैय्यूही वैभवी पाद्मी पवित्री पावमानिका ४
मूलम् - ४
नारायणी वासुदेवी गारुडी वैष्णवी तथा
घैय्यूही वैभवी पाद्मी पवित्री पावमानिका ४
विश्वास-प्रस्तुतिः - ५
सौदर्शिनी च सेनेशी आनन्ती च शुभाह्वया
महाभागवतीत्येताः सर्वपापहराः शुभाः ५
मूलम् - ५
सौदर्शिनी च सेनेशी आनन्ती च शुभाह्वया
महाभागवतीत्येताः सर्वपापहराः शुभाः ५
विश्वास-प्रस्तुतिः - ६
प्रायश्चित्तार्थमपि वा भोगार्थं वा समाचरेत्
पूर्वं विघनसे विष्णुः प्रोक्तवान् विघनसा भृगोः ६
मूलम् - ६

विश्वास-प्रस्तुतिः - ७
प्रोक्तं ममेरितं तेन भृगुणा दिव्यमुत्तमम्
गुह्यं तत्सर्ववेदेषु निश्चितं ते ब्रवीम्यहम् ७
मूलम् - ७
प्रोक्तं ममेरितं तेन भृगुणा दिव्यमुत्तमम्
गुह्यं तत्सर्ववेदेषु निश्चितं ते ब्रवीम्यहम् ७
विश्वास-प्रस्तुतिः - ८
अग्निर्वै देवानामव मे विष्णुरीश्वरः
तदन्तरेण वै सर्वा देवता इति ह श्रुतिः ८
मूलम् - ८
अग्निर्वै देवानामव मे विष्णुरीश्वरः
तदन्तरेण वै सर्वा देवता इति ह श्रुतिः ८
विश्वास-प्रस्तुतिः - ६८२
निवसन्ति पुरोडाशमग्नौ वैष्णवमव्ययम्
र्
६८२
मूलम् - ६८२
निवसन्ति पुरोडाशमग्नौ वैष्णवमव्ययम्
र्
६८२
विश्वास-प्रस्तुतिः - १०
अग्नौ यद्धूयते हव्यं विष्णवे परमात्मने
तदग्नौ वैष्णवं प्रोक्तं सर्वदेवोपजीवनम् १०
मूलम् - १०
अग्नौ यद्धूयते हव्यं विष्णवे परमात्मने
तदग्नौ वैष्णवं प्रोक्तं सर्वदेवोपजीवनम् १०
विश्वास-प्रस्तुतिः - ११
एतदेवहि कुर्वन्ति सदा नित्या अपीश्वराः
विमुक्ता अपि भोगार्थमेतमेव मुमुक्षवः ११
मूलम् - ११
एतदेवहि कुर्वन्ति सदा नित्या अपीश्वराः
विमुक्ता अपि भोगार्थमेतमेव मुमुक्षवः ११
विश्वास-प्रस्तुतिः - १२
एतदेव परं प्रीतिः सश्रियः परमात्मनः
एतद्विना न तुष्येत भगवान् पुरुषोत्तमः १२
मूलम् - १२
एतदेव परं प्रीतिः सश्रियः परमात्मनः
एतद्विना न तुष्येत भगवान् पुरुषोत्तमः १२
विश्वास-प्रस्तुतिः - १३
यज्ञार्थमेव संसृष्टमात्मवर्गं चतुर्विधम्
यज्ञार्थात्कर्मणोऽन्यत्तु तदेषां कर्मबन्धनम् १३
मूलम् - १३
यज्ञार्थमेव संसृष्टमात्मवर्गं चतुर्विधम्
यज्ञार्थात्कर्मणोऽन्यत्तु तदेषां कर्मबन्धनम् १३
विश्वास-प्रस्तुतिः - १४
वह्निर्जिह्वा भगवतो वेदा अङ्गाः सदाऽध्वरे
अस्थीनि समिधः प्रोक्ता रोमा दर्भाः प्रकीर्तिताः १४
मूलम् - १४
वह्निर्जिह्वा भगवतो वेदा अङ्गाः सदाऽध्वरे
अस्थीनि समिधः प्रोक्ता रोमा दर्भाः प्रकीर्तिताः १४
विश्वास-प्रस्तुतिः - १५
स्वाहाकारः शिरः प्रोक्तं प्राणा एव हवींषि च
सर्ववेदक्रिया भोगा मन्त्राः पत्न्यः प्रकीर्तिताः १५
मूलम् - १५
स्वाहाकारः शिरः प्रोक्तं प्राणा एव हवींषि च
सर्ववेदक्रिया भोगा मन्त्राः पत्न्यः प्रकीर्तिताः १५
विश्वास-प्रस्तुतिः - १६
एवं यज्ञवपुर्विष्णुर्विदित्वैनं हुताशने
जुहुयाद्वै पुरोडाशं अज्ञात्वैवम्पतेदथ १६
मूलम् - १६
एवं यज्ञवपुर्विष्णुर्विदित्वैनं हुताशने
जुहुयाद्वै पुरोडाशं अज्ञात्वैवम्पतेदथ १६
विश्वास-प्रस्तुतिः - १७
यज्ञो यज्ञपति यज्वा यज्ञाङ्गो यज्ञवाहनः
यज्ञभृद्यद्यकृद्यज्ञी यज्ञभुग्यज्ञसाधनः १७
मूलम् - १७
यज्ञो यज्ञपति यज्वा यज्ञाङ्गो यज्ञवाहनः
यज्ञभृद्यद्यकृद्यज्ञी यज्ञभुग्यज्ञसाधनः १७
विश्वास-प्रस्तुतिः - १८
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च
तस्मादेनं विदित्वैवं यज्ञं यज्ञेन पूजयेत् १८
मूलम् - १८
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च
तस्मादेनं विदित्वैवं यज्ञं यज्ञेन पूजयेत् १८
विश्वास-प्रस्तुतिः - १९
कोऽयं लोकोऽस्त्ययज्ञस्य कथं स्यात्परतः शुचिः
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथा परे १९
मूलम् - १९
कोऽयं लोकोऽस्त्ययज्ञस्य कथं स्यात्परतः शुचिः
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथा परे १९
विश्वास-प्रस्तुतिः - २१
हरेर्भोगतया कुर्यान्न साधनतया क्वचित्
साधनं भगवान् विष्णुः साध्याः स्युर्वैदिकाः क्रियाः २१
मूलम् - २१
हरेर्भोगतया कुर्यान्न साधनतया क्वचित्
साधनं भगवान् विष्णुः साध्याः स्युर्वैदिकाः क्रियाः २१
विश्वास-प्रस्तुतिः - २२
शेषभूतश्च जीवस्य तद्दास्यैकफलाः क्रियाः
श्रुतिस्मृत्युदितं कर्म तद्दास्यं परिकीर्तितम् २२
मूलम् - २२
शेषभूतश्च जीवस्य तद्दास्यैकफलाः क्रियाः
श्रुतिस्मृत्युदितं कर्म तद्दास्यं परिकीर्तितम् २२
विश्वास-प्रस्तुतिः - २३
नैसर्गिकं तथा कुर्यात्तद्दास्यंकं निकीर्तितम्
वैदिकेनैव मार्गेण पूजयेत्परमेश्वरम् २३
मूलम् - २३
नैसर्गिकं तथा कुर्यात्तद्दास्यंकं निकीर्तितम्
वैदिकेनैव मार्गेण पूजयेत्परमेश्वरम् २३
विश्वास-प्रस्तुतिः - २४
अन्यथा नरकं याति कल्पकोटिशतत्रयम्
तस्माच्छ्रुत्युक्तमार्गेण यजेद्विष्णुं हि वैष्णवः २४
मूलम् - २४
अन्यथा नरकं याति कल्पकोटिशतत्रयम्
तस्माच्छ्रुत्युक्तमार्गेण यजेद्विष्णुं हि वैष्णवः २४
विश्वास-प्रस्तुतिः - २५
अर्चायामर्चयेत्पुष्पैरग्नौ च जुहुयाद्धविः
ध्यायेत्तु मनसा वाचा जपेन्मन्त्रान् सुवैदिकान् २५
मूलम् - २५
अर्चायामर्चयेत्पुष्पैरग्नौ च जुहुयाद्धविः
ध्यायेत्तु मनसा वाचा जपेन्मन्त्रान् सुवैदिकान् २५
विश्वास-प्रस्तुतिः - २६
एवं विदित्वा सत्कर्म भोगार्थं परमात्मनः
कुर्वीत परमैकान्ती पत्युः पत्नी यथा प्रिया २६
मूलम् - २६
एवं विदित्वा सत्कर्म भोगार्थं परमात्मनः
कुर्वीत परमैकान्ती पत्युः पत्नी यथा प्रिया २६
विश्वास-प्रस्तुतिः - २७
इदं प्रसङ्गेणोक्तं स्याद्विधानं तद्ब्रवीमि ते
पूर्वपक्षदशम्यान्तु स्नात्वा सम्पूज्य केशवम् २७
मूलम् - २७
इदं प्रसङ्गेणोक्तं स्याद्विधानं तद्ब्रवीमि ते
पूर्वपक्षदशम्यान्तु स्नात्वा सम्पूज्य केशवम् २७
विश्वास-प्रस्तुतिः - २८
स्वस्तिवाचनपूर्वेण कुर्यादत्राङ्कुरार्पणम्
हरिं नारायणेष्ट्यर्थमिति सङ्कल्प्य पूजयेत् २८
मूलम् - २८
स्वस्तिवाचनपूर्वेण कुर्यादत्राङ्कुरार्पणम्
हरिं नारायणेष्ट्यर्थमिति सङ्कल्प्य पूजयेत् २८
विश्वास-प्रस्तुतिः - २९
विष्णुप्रकाशकै राज्यं भूसूक्ताभ्यां शतं ततः
मन्त्रेण चैव वैकुण्ठं पार्षदं हुत्वा समापयेत् २९
मूलम् - २९
विष्णुप्रकाशकै राज्यं भूसूक्ताभ्यां शतं ततः
मन्त्रेण चैव वैकुण्ठं पार्षदं हुत्वा समापयेत् २९
विश्वास-प्रस्तुतिः - ३०
अयुतं तु जपेन्मत्रं होमञ्चाष्टोत्तरं शतम्
शेषं निवेद्य देवाय भुञ्जीयात्स्वयमेव च ३०
मूलम् - ३०
अयुतं तु जपेन्मत्रं होमञ्चाष्टोत्तरं शतम्
शेषं निवेद्य देवाय भुञ्जीयात्स्वयमेव च ३०
विश्वास-प्रस्तुतिः - ३१
ततो मौनी जपेन्मत्रं शयीत पुरतो हरेः
प्रभाते च नदीं गत्वा स्नात्वा सन्तर्प्य देवताः ३१
मूलम् - ३१
ततो मौनी जपेन्मत्रं शयीत पुरतो हरेः
प्रभाते च नदीं गत्वा स्नात्वा सन्तर्प्य देवताः ३१
विश्वास-प्रस्तुतिः - ३२
सन्ध्यामन्वास्य चाऽऽगत्य स्वगेहे समलङ्कृते
वेद्यां संपूज्य देवेशं मन्त्ररत्नविधानतः ३२
मूलम् - ३२
सन्ध्यामन्वास्य चाऽऽगत्य स्वगेहे समलङ्कृते
वेद्यां संपूज्य देवेशं मन्त्ररत्नविधानतः ३२
विश्वास-प्रस्तुतिः - ३३
सप्तावरणसंयुक्तं महिषीभिः समन्वितम्
अभ्यर्च्य गन्धपुष्पाद्यैर्धूपदीपनिवेदनैः ३३
मूलम् - ३३
सप्तावरणसंयुक्तं महिषीभिः समन्वितम्
अभ्यर्च्य गन्धपुष्पाद्यैर्धूपदीपनिवेदनैः ३३
विश्वास-प्रस्तुतिः - ३४
अर्चयित्वा विधानेन कुण्डं दक्षिणभागतः
विस्तरायामनिम्नैश्च हस्तमात्रन्त्रिमेखलम् ३४
मूलम् - ३४
अर्चयित्वा विधानेन कुण्डं दक्षिणभागतः
विस्तरायामनिम्नैश्च हस्तमात्रन्त्रिमेखलम् ३४
विश्वास-प्रस्तुतिः - ३५
तत्र वह्निं प्रतिष्ठाप्य इध्माधानान्तमाचरेत्
ओङ्कारः स्यात्परं ब्रह्म सर्वमन्त्रेषु नायकः ३५
मूलम् - ३५
तत्र वह्निं प्रतिष्ठाप्य इध्माधानान्तमाचरेत्
ओङ्कारः स्यात्परं ब्रह्म सर्वमन्त्रेषु नायकः ३५
६८४
विश्वास-प्रस्तुतिः - ३६
त्र्यक्षरं तत्त्रयाणाञ्च वेदानां बीजमुच्यते
अजायन्त ऋचः पूर्वमकाराद्विष्णुवाचकात् ३६
मूलम् - ३६
त्र्यक्षरं तत्त्रयाणाञ्च वेदानां बीजमुच्यते
अजायन्त ऋचः पूर्वमकाराद्विष्णुवाचकात् ३६
विश्वास-प्रस्तुतिः - ३७
श्रीवाचकादुकारात्तु यजूंषि तदनन्तरम्
अजायन्त तयोः सङ्गात्सामान्यन्यान्यनेकशः ३७
मूलम् - ३७
श्रीवाचकादुकारात्तु यजूंषि तदनन्तरम्
अजायन्त तयोः सङ्गात्सामान्यन्यान्यनेकशः ३७
विश्वास-प्रस्तुतिः - ३८
तयोर्दासो मकारेण प्रोच्यते सर्वदेहिनः
कारणं सर्ववर्णानामकारः प्रोच्यते बुधैः ३८
मूलम् - ३८
तयोर्दासो मकारेण प्रोच्यते सर्वदेहिनः
कारणं सर्ववर्णानामकारः प्रोच्यते बुधैः ३८
विश्वास-प्रस्तुतिः - ३९
अकारो वै च सर्वा वाक् सैषा स्पर्शोष्मभिः सदा
वह्नौ सा व्यज्यमानाऽपि नानारूपा इति श्रुतिः ३९
मूलम् - ३९
अकारो वै च सर्वा वाक् सैषा स्पर्शोष्मभिः सदा
वह्नौ सा व्यज्यमानाऽपि नानारूपा इति श्रुतिः ३९
विश्वास-प्रस्तुतिः - ४०
अकार एव लुप्यन्ति सर्वमन्त्राक्षराणि हि
अकारो वासुदेवः स्यात्तस्मिन् सर्वं प्रतिष्ठितम् ४०
मूलम् - ४०
अकार एव लुप्यन्ति सर्वमन्त्राक्षराणि हि
अकारो वासुदेवः स्यात्तस्मिन् सर्वं प्रतिष्ठितम् ४०
विश्वास-प्रस्तुतिः - ४१
मन्त्रो हि बीजं सर्वत्र क्रिया तच्छक्तिरुच्यते
मन्त्रतन्त्रसमायुक्तो यज्ञ इत्यभिधीयते ४१
मूलम् - ४१
मन्त्रो हि बीजं सर्वत्र क्रिया तच्छक्तिरुच्यते
मन्त्रतन्त्रसमायुक्तो यज्ञ इत्यभिधीयते ४१
विश्वास-प्रस्तुतिः - ४२
मन्त्रः पुमान् क्रिया स्त्री च तदुक्तं मिथुनं स्मृतम्
तस्माद्यजूंषि तन्त्राणि ऋचो मन्त्राणि चाध्वरे ४२
मूलम् - ४२

विश्वास-प्रस्तुतिः - ४३
मन्त्रक्रियाजुष्टमेव मिथुनं यज्ञ उच्यते
मन्त्रतन्त्रांशमेते ऋग्यजुषी यज्ञकर्मणि ४३
मूलम् - ४३
मन्त्रक्रियाजुष्टमेव मिथुनं यज्ञ उच्यते
मन्त्रतन्त्रांशमेते ऋग्यजुषी यज्ञकर्मणि ४३
विश्वास-प्रस्तुतिः - ४४
उद्गीतं तु भवेत्साम तस्मात्तद्वैष्णवं त्रयम्
ऋग्भिरेव तमुद्दिश्य पुरोडाशं यजेद्बुधः ४४
मूलम् - ४४
उद्गीतं तु भवेत्साम तस्मात्तद्वैष्णवं त्रयम्
ऋग्भिरेव तमुद्दिश्य पुरोडाशं यजेद्बुधः ४४
विश्वास-प्रस्तुतिः - ४५
इन्द्राग्निवरुणादीनि नामान्युक्तानि तत्र तु
ज्ञेयानि विष्णोस्तान्यत्र नान्येषां स्युः कथञ्चन ४५
मूलम् - ४५
इन्द्राग्निवरुणादीनि नामान्युक्तानि तत्र तु
ज्ञेयानि विष्णोस्तान्यत्र नान्येषां स्युः कथञ्चन ४५
विश्वास-प्रस्तुतिः - ४६
अकारे रूढइत्यग्निमिन्द्रत्वं वर ईश्वरे
आत्मनां प्रसवे सूर्यः सौम्यत्वात्साम इत्यतः ४६
मूलम् - ४६
अकारे रूढइत्यग्निमिन्द्रत्वं वर ईश्वरे
आत्मनां प्रसवे सूर्यः सौम्यत्वात्साम इत्यतः ४६
विश्वास-प्रस्तुतिः - ४७
वायुः स्याज्जीवतः प्राणाद्वरुणः सर्वजीवनः
मित्रः स्यात्सर्वमित्रत्वादात्मैकत्वाद् बृहस्पतिः ४७
मूलम् - ४७
वायुः स्याज्जीवतः प्राणाद्वरुणः सर्वजीवनः
मित्रः स्यात्सर्वमित्रत्वादात्मैकत्वाद् बृहस्पतिः ४७
६८५
हिरण्यत्वमिति प्रोक्तं नेति प्राप्यत्वमुच्यते ४८
विश्वास-प्रस्तुतिः - ४९
नित्यसत्वाद्धिरण्यः स्यात्तद्गर्भत्वाद्धिरण्मयः
हिरण्यगर्भ इत्युक्तः सत्वगर्भो जनार्दनः ४९
मूलम् - ४९
नित्यसत्वाद्धिरण्यः स्यात्तद्गर्भत्वाद्धिरण्मयः
हिरण्यगर्भ इत्युक्तः सत्वगर्भो जनार्दनः ४९
विश्वास-प्रस्तुतिः - ५०
हिरण्मयः स भूतेभ्यो ददृशे इति वै श्रुतिः
सर्वान् स त्राति सविता पिता च पितृतत्पिता ५०
मूलम् - ५०
हिरण्मयः स भूतेभ्यो ददृशे इति वै श्रुतिः
सर्वान् स त्राति सविता पिता च पितृतत्पिता ५०
विश्वास-प्रस्तुतिः - ५१
स्वर्भूर्भुव इति प्रोक्तो वेदवेद्येति चोच्यते
यस्य छन्दांसि चाङ्गानि स सुवर्णमिहोच्यते ५१
मूलम् - ५१
स्वर्भूर्भुव इति प्रोक्तो वेदवेद्येति चोच्यते
यस्य छन्दांसि चाङ्गानि स सुवर्णमिहोच्यते ५१
विश्वास-प्रस्तुतिः - ५२
अत्राङ्गं वर्णमित्युक्तं छन्दोमयमुदाहृतम्
गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ५२
मूलम् - ५२
अत्राङ्गं वर्णमित्युक्तं छन्दोमयमुदाहृतम्
गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ५२
विश्वास-प्रस्तुतिः - ५३
त्रिष्टुप् च जगती चैव छन्दांस्येतान्यनुक्रमात्
एतानि यस्य चाङ्गानि स सुपर्ण इहोच्यते ५३
मूलम् - ५३
त्रिष्टुप् च जगती चैव छन्दांस्येतान्यनुक्रमात्
एतानि यस्य चाङ्गानि स सुपर्ण इहोच्यते ५३
विश्वास-प्रस्तुतिः - ५४
यस्माज्जातास्त्रयो वेदा जातवेदाः स उच्यते
पवमानः पावयित्वा शिवः स्यात्सर्वदा शुभात् ५४
मूलम् - ५४
यस्माज्जातास्त्रयो वेदा जातवेदाः स उच्यते
पवमानः पावयित्वा शिवः स्यात्सर्वदा शुभात् ५४
विश्वास-प्रस्तुतिः - ५५
सुजनैः सेव्यते यस्तु अतो वै शम्भुरित्यजः
सव्यान्यस्यैव नामानि वैदिकानि विवेचनात् ५५
मूलम् - ५५
सुजनैः सेव्यते यस्तु अतो वै शम्भुरित्यजः
सव्यान्यस्यैव नामानि वैदिकानि विवेचनात् ५५
विश्वास-प्रस्तुतिः - ५६
पुन्नामानि यानि विष्णोः स्त्री नामानि श्रियस्तथा
परस्य वैदिकाः शब्दाः समाकृष्येतरेष्वपि ५६
मूलम् - ५६
पुन्नामानि यानि विष्णोः स्त्री नामानि श्रियस्तथा
परस्य वैदिकाः शब्दाः समाकृष्येतरेष्वपि ५६
विश्वास-प्रस्तुतिः - ५७
व्यवह्रियन्ते सततं लोकवेदानुसारतः
न तु नारायणादीनि नामान्यन्यस्य कर्हिचित् ५७
मूलम् - ५७
व्यवह्रियन्ते सततं लोकवेदानुसारतः
न तु नारायणादीनि नामान्यन्यस्य कर्हिचित् ५७
विश्वास-प्रस्तुतिः - ५८
एतन्नाम्नां गतिर्विष्णुरेक एव प्रचक्षते
शब्दब्रह्मत्रयी सर्वं वैष्णवं तदिहोच्यते ५८
मूलम् - ५८
एतन्नाम्नां गतिर्विष्णुरेक एव प्रचक्षते
शब्दब्रह्मत्रयी सर्वं वैष्णवं तदिहोच्यते ५८
विश्वास-प्रस्तुतिः - ५९
देवतान्तरशङ्का तु न कर्तव्या हि वैदिकैः
वषट्कृतं यद्वेदेन तदत्यन्तप्रियं हरेः ५९
मूलम् - ५९
देवतान्तरशङ्का तु न कर्तव्या हि वैदिकैः
वषट्कृतं यद्वेदेन तदत्यन्तप्रियं हरेः ५९
विश्वास-प्रस्तुतिः - ६०
समिदाज्यैर्या आहुतीर्थे वेदेनैव जुह्वति
यो मनसा सवर इत्यृचां प्रोक्तः सदाध्वरे ६०
मूलम् - ६०
समिदाज्यैर्या आहुतीर्थे वेदेनैव जुह्वति
यो मनसा सवर इत्यृचां प्रोक्तः सदाध्वरे ६०
६८६
विश्वास-प्रस्तुतिः - ६१
वेदेनैव हरिं तस्माद्यजेत द्विजसत्तमः
प्रसङ्गादेव मुक्तं स्याद्विधानं तद्ब्रवीमि ते ६१
मूलम् - ६१
वेदेनैव हरिं तस्माद्यजेत द्विजसत्तमः
प्रसङ्गादेव मुक्तं स्याद्विधानं तद्ब्रवीमि ते ६१
विश्वास-प्रस्तुतिः - ६२
ऋग्वेदसंहितायान्तु मण्डलानि दश क्रमात्
एकैकमिष्ट्या होतव्यं चरुणा पायसेन वा ६२
मूलम् - ६२
ऋग्वेदसंहितायान्तु मण्डलानि दश क्रमात्
एकैकमिष्ट्या होतव्यं चरुणा पायसेन वा ६२
विश्वास-प्रस्तुतिः - ६३
घृतेन वा तिलैर्वाऽपि बिल्वपत्रैरथापि वा
अग्निमील इति पूर्वं मण्डलं प्रत्यृचं यजेत् ६३
मूलम् - ६३
घृतेन वा तिलैर्वाऽपि बिल्वपत्रैरथापि वा
अग्निमील इति पूर्वं मण्डलं प्रत्यृचं यजेत् ६३
विश्वास-प्रस्तुतिः - ६४
पुष्पाणि च तथा दद्यात्सुगन्धीनि जनार्दने
विष्णुसूक्तैर्हविर्हुत्वा चतुर्मन्त्रैः शतं यजेत् ६४
मूलम् - ६४
पुष्पाणि च तथा दद्यात्सुगन्धीनि जनार्दने
विष्णुसूक्तैर्हविर्हुत्वा चतुर्मन्त्रैः शतं यजेत् ६४
विश्वास-प्रस्तुतिः - ६५
वैष्णवान् भोजयेन्नित्यमग्निञ्चापि सुसंग्रहेत्
उपोषितो दीक्षितश्च यावदिष्टिः समाप्यते ६५
मूलम् - ६५
वैष्णवान् भोजयेन्नित्यमग्निञ्चापि सुसंग्रहेत्
उपोषितो दीक्षितश्च यावदिष्टिः समाप्यते ६५
विश्वास-प्रस्तुतिः - ६६
अन्ते चावभृथेष्टिञ्च पुष्पयागञ्च पूर्ववत्
आचार्य ब्राह्मणांश्चापि दक्षिणाभिः प्रपूजयेत् ६६
मूलम् - ६६
अन्ते चावभृथेष्टिञ्च पुष्पयागञ्च पूर्ववत्
आचार्य ब्राह्मणांश्चापि दक्षिणाभिः प्रपूजयेत् ६६
विश्वास-प्रस्तुतिः - ६७
इमान्नारायणेष्टिञ्च सकृद्वाऽपि यजेत्तु यः
अनधीतवेदश्चेष्टिमयुतं मूलमन्त्रतः ६७
मूलम् - ६७
इमान्नारायणेष्टिञ्च सकृद्वाऽपि यजेत्तु यः
अनधीतवेदश्चेष्टिमयुतं मूलमन्त्रतः ६७
विश्वास-प्रस्तुतिः - ६९
अवाक्यपौरुषं सूक्तमष्टोत्तरशतं चरुम्
हुत्वा चतुर्भिर्मन्त्रैश्च लभेदिष्टिं न संशयः ६९
मूलम् - ६९
अवाक्यपौरुषं सूक्तमष्टोत्तरशतं चरुम्
हुत्वा चतुर्भिर्मन्त्रैश्च लभेदिष्टिं न संशयः ६९
विश्वास-प्रस्तुतिः - ७०
एकादश्यां कृष्णपक्षे समुपोष्य जनार्दनम्
समर्च्चयेद्विधानेन रात्रौ जागरणान्वितः ७०
मूलम् - ७०
एकादश्यां कृष्णपक्षे समुपोष्य जनार्दनम्
समर्च्चयेद्विधानेन रात्रौ जागरणान्वितः ७०
विश्वास-प्रस्तुतिः - ७१
द्वादश्यां प्रातरुत्थाय स्नायान्नद्यां तिलैः सह
द्वादशार्णन मनुना सिञ्चेदष्टोत्तरं शतम् ७१
मूलम् - ७१
द्वादश्यां प्रातरुत्थाय स्नायान्नद्यां तिलैः सह
द्वादशार्णन मनुना सिञ्चेदष्टोत्तरं शतम् ७१
विश्वास-प्रस्तुतिः - ७२
अभिमन्त्र्य जलं पश्चात्तुलसीमिश्रितं पिबेत्
सर्वकर्मस्वभिहित एतदेवाघमर्षणः ७२
मूलम् - ७२
अभिमन्त्र्य जलं पश्चात्तुलसीमिश्रितं पिबेत्
सर्वकर्मस्वभिहित एतदेवाघमर्षणः ७२
६८७
स्नात्वा सन्तर्प्य देवर्षीन् कृतकृत्यः समाहितः ७३
विश्वास-प्रस्तुतिः - ७४
गृहं गत्वाऽर्चयेद्देवं वासुदेवं सनातनम्
द्वादशार्णविधानेन कस्तूरीचन्दनादिभिः ७४
मूलम् - ७४
गृहं गत्वाऽर्चयेद्देवं वासुदेवं सनातनम्
द्वादशार्णविधानेन कस्तूरीचन्दनादिभिः ७४
विश्वास-प्रस्तुतिः - ७५
जातिकेतककुन्दाद्यैः सुकृष्णतुलसीदलैः
सुधाब्धौ शेषपर्यङ्के समासीनं श्रिया सह ७५
मूलम् - ७५
जातिकेतककुन्दाद्यैः सुकृष्णतुलसीदलैः
सुधाब्धौ शेषपर्यङ्के समासीनं श्रिया सह ७५
विश्वास-प्रस्तुतिः - ७६
इन्दीवरदलश्यामं चक्रशङ्खगदाधरम्
सर्वाभरणसम्पन्नं सदायौवनमच्युतम् ७६
मूलम् - ७६
इन्दीवरदलश्यामं चक्रशङ्खगदाधरम्
सर्वाभरणसम्पन्नं सदायौवनमच्युतम् ७६
विश्वास-प्रस्तुतिः - ७७
अनन्तं विहगाधीशं शौनकाद्यैरुपासितम्
त्रिदशेन्द्रैर्विमानस्थैर्ब्रह्मरुद्रादिभिस्तथा ७७
मूलम् - ७७
अनन्तं विहगाधीशं शौनकाद्यैरुपासितम्
त्रिदशेन्द्रैर्विमानस्थैर्ब्रह्मरुद्रादिभिस्तथा ७७
विश्वास-प्रस्तुतिः - ७८
स्तूयमानं हरिं ध्यात्वा अर्चयेत्प्रयतात्मवान्
सर्वमावरणं पश्चादर्च्चयेत्कुसुमादिभिः ७८
मूलम् - ७८
स्तूयमानं हरिं ध्यात्वा अर्चयेत्प्रयतात्मवान्
सर्वमावरणं पश्चादर्च्चयेत्कुसुमादिभिः ७८
विश्वास-प्रस्तुतिः - ७९
प्रथमं महिषीसङ्घं लक्ष्मीभूम्यौ सनीलया
अनन्तरञ्च गरुडधर्मसेनादिभिस्तथा ७९
मूलम् - ७९
प्रथमं महिषीसङ्घं लक्ष्मीभूम्यौ सनीलया
अनन्तरञ्च गरुडधर्मसेनादिभिस्तथा ७९
विश्वास-प्रस्तुतिः - ८०
ऐश्वर्यज्ञानवैराग्याः पूजनीया यथाक्रमम्
सनन्दनश्च सनकः सनत्कुमारः सनातनः ८०
मूलम् - ८०
ऐश्वर्यज्ञानवैराग्याः पूजनीया यथाक्रमम्
सनन्दनश्च सनकः सनत्कुमारः सनातनः ८०
विश्वास-प्रस्तुतिः - ८१
औडुश्च सोमकपिलः पञ्चमो नारदस्तथा
भृगुर्विघनसोऽत्रिश्च मरीचिः कश्यपोऽङ्गिराः ८१
मूलम् - ८१
औडुश्च सोमकपिलः पञ्चमो नारदस्तथा
भृगुर्विघनसोऽत्रिश्च मरीचिः कश्यपोऽङ्गिराः ८१
विश्वास-प्रस्तुतिः - ८२
पुलहः स्वायम्भुवो दाल्भ्यो वशिष्ठाद्यास्ततः क्रमात्
वशिष्ठो वामदेवश्च हारीतश्च पराशरः ८२
मूलम् - ८२
पुलहः स्वायम्भुवो दाल्भ्यो वशिष्ठाद्यास्ततः क्रमात्
वशिष्ठो वामदेवश्च हारीतश्च पराशरः ८२
विश्वास-प्रस्तुतिः - ८३
व्यास शुकश्च प्रह्लादः शौनको जनकस्तथा
मार्कण्डेयो ध्रुवश्चैव पुण्डरीकश्च मारुतः ८३
मूलम् - ८३
व्यास शुकश्च प्रह्लादः शौनको जनकस्तथा
मार्कण्डेयो ध्रुवश्चैव पुण्डरीकश्च मारुतः ८३
विश्वास-प्रस्तुतिः - ८४
रुक्माङ्गदः शिवो ब्रह्मा पूजनीया यथाक्रमम्
तथा लोकेश्वराः पूज्याः शङ्खचक्रादिहेतयः ८४
मूलम् - ८४
रुक्माङ्गदः शिवो ब्रह्मा पूजनीया यथाक्रमम्
तथा लोकेश्वराः पूज्याः शङ्खचक्रादिहेतयः ८४
विश्वास-प्रस्तुतिः - ८५
वेदाश्च साङ्गाः स्मृतयः पुराणं धर्मसंहिताः
राशयो ग्रहनक्षत्राः पूजनीया समं ततः ८५
मूलम् - ८५
वेदाश्च साङ्गाः स्मृतयः पुराणं धर्मसंहिताः
राशयो ग्रहनक्षत्राः पूजनीया समं ततः ८५
विश्वास-प्रस्तुतिः - ६८८
एवं सम्पूज्य देवेशमग्न्याधानादिपूर्वकम्
र्
६८८
मूलम् - ६८८
एवं सम्पूज्य देवेशमग्न्याधानादिपूर्वकम्
र्
६८८
विश्वास-प्रस्तुतिः - ८७
ध्यात्वा वह्नौ वासुदेवं दद्यात्पुष्पाणि तत्र तु
वैष्णवांश्च यजेत्तत्रावभृथं पुष्पयागकम् ८७
मूलम् - ८७
ध्यात्वा वह्नौ वासुदेवं दद्यात्पुष्पाणि तत्र तु
वैष्णवांश्च यजेत्तत्रावभृथं पुष्पयागकम् ८७
विश्वास-प्रस्तुतिः - ८८
ब्राह्मणान्भोजयेदन्ते गुरुञ्चापि प्रपूजयेत्
इमाञ्च वासुदेवेष्टिं यः कुर्याद्वैष्णवोत्तमः ८८
मूलम् - ८८
ब्राह्मणान्भोजयेदन्ते गुरुञ्चापि प्रपूजयेत्
इमाञ्च वासुदेवेष्टिं यः कुर्याद्वैष्णवोत्तमः ८८
विश्वास-प्रस्तुतिः - ८९
कुलकोटिं समुद्धृत्य स गच्छेत्परमं पदम्
अथवा वासुदेवस्य मन्त्रेणैव द्विजोत्तमः ८९
मूलम् - ८९
कुलकोटिं समुद्धृत्य स गच्छेत्परमं पदम्
अथवा वासुदेवस्य मन्त्रेणैव द्विजोत्तमः ८९
विश्वास-प्रस्तुतिः - ९०
जुहुयादयुतं वह्नौ वैष्णवैः प्रत्यृचं तथा
पुष्पाणि दत्त्वा देवेशे सम्यगिष्ट्या लभेत्फलम् ९०
मूलम् - ९०
जुहुयादयुतं वह्नौ वैष्णवैः प्रत्यृचं तथा
पुष्पाणि दत्त्वा देवेशे सम्यगिष्ट्या लभेत्फलम् ९०
विश्वास-प्रस्तुतिः - ९१
अथ वक्ष्यामि राजर्षे वैष्णवेष्ट्या विधिं ततः
श्रवणर्क्षे तु पूर्वाह्णे पूर्ववच्च समारभेत् ९१
मूलम् - ९१
अथ वक्ष्यामि राजर्षे वैष्णवेष्ट्या विधिं ततः
श्रवणर्क्षे तु पूर्वाह्णे पूर्ववच्च समारभेत् ९१
विश्वास-प्रस्तुतिः - ९२
उपोष्य पूर्वदिवसे पूजयेज्जागरे हरिम्
प्रभाते पूर्ववत् स्नात्वा तर्पयेज्जगतां पतिम् ९२
मूलम् - ९२
उपोष्य पूर्वदिवसे पूजयेज्जागरे हरिम्
प्रभाते पूर्ववत् स्नात्वा तर्पयेज्जगतां पतिम् ९२
विश्वास-प्रस्तुतिः - ९३
षडक्षरविधानेन परव्योम्नि स्थितं हरिम्
वह्न्यर्क हेमबिम्बाद्यैर्योगपीठसुसंस्थितम् ९३
मूलम् - ९३
षडक्षरविधानेन परव्योम्नि स्थितं हरिम्
वह्न्यर्क हेमबिम्बाद्यैर्योगपीठसुसंस्थितम् ९३
विश्वास-प्रस्तुतिः - ९४
चतुर्भुजं सुन्दराङ्गं सर्वाभरणभूषितम्
चक्रराङ्खगदाशार्ङ्गान् विभ्राणं दोर्भिरायतैः ९४
मूलम् - ९४
चतुर्भुजं सुन्दराङ्गं सर्वाभरणभूषितम्
चक्रराङ्खगदाशार्ङ्गान् विभ्राणं दोर्भिरायतैः ९४
विश्वास-प्रस्तुतिः - ९५
वामाङ्कत्थश्रिया सार्द्धं गन्धपुष्पाक्षतादिभिः
नवेद्यैश्च फलैर्भक्ष्यैर्दिव्यैर्भोज्यैः सुपानकैः ९५
मूलम् - ९५
वामाङ्कत्थश्रिया सार्द्धं गन्धपुष्पाक्षतादिभिः
नवेद्यैश्च फलैर्भक्ष्यैर्दिव्यैर्भोज्यैः सुपानकैः ९५
विश्वास-प्रस्तुतिः - ९६
अर्चयेद्देवदेवेशं सर्वाभरणसंयुतम्
श्रीर्लक्ष्मीः कमला पद्मा सीता सत्या च रुक्मिणी ९६
मूलम् - ९६
अर्चयेद्देवदेवेशं सर्वाभरणसंयुतम्
श्रीर्लक्ष्मीः कमला पद्मा सीता सत्या च रुक्मिणी ९६
विश्वास-प्रस्तुतिः - ९७
सावित्री परितः पूज्या ततस्तुते बलादयः
अनन्ततार्क्ष्यदेवेशसत्यधर्मदमाः शमाः ९७
मूलम् - ९७
सावित्री परितः पूज्या ततस्तुते बलादयः
अनन्ततार्क्ष्यदेवेशसत्यधर्मदमाः शमाः ९७
विश्वास-प्रस्तुतिः - ९८
बुद्धिश्च पूजनीयास्ते दिक्षु सर्वास्वनुक्रमात्
ततो लोकेश्वराः पूज्यास्ततश्चक्रादिहेतयः ९८
मूलम् - ९८
बुद्धिश्च पूजनीयास्ते दिक्षु सर्वास्वनुक्रमात्
ततो लोकेश्वराः पूज्यास्ततश्चक्रादिहेतयः ९८
६८९
चतुर्भिर्वैष्णवैः सूक्तैः प्रत्यृचं जुहुयाच्चरुम् ९९
विश्वास-प्रस्तुतिः - १००
व्यापका मन्त्ररत्नञ्च चतुर्मन्त्रा उदाहृताः
तैरप्यष्टोत्तरशतं पृथक् पृथगतो यजेत् १००
मूलम् - १००
व्यापका मन्त्ररत्नञ्च चतुर्मन्त्रा उदाहृताः
तैरप्यष्टोत्तरशतं पृथक् पृथगतो यजेत् १००
विश्वास-प्रस्तुतिः - १०१
तृतीयमण्डलं पश्चाज्जुहुयात्प्रत्यृचं ततः
तथा पुष्पैश्च सम्पूज्य कुर्यादवभृथं ततः १०१
मूलम् - १०१
तृतीयमण्डलं पश्चाज्जुहुयात्प्रत्यृचं ततः
तथा पुष्पैश्च सम्पूज्य कुर्यादवभृथं ततः १०१
विश्वास-प्रस्तुतिः - १०२
समाप्य पुष्पयोगेन वैष्णवान् भोजयेत्ततः
एवं कर्तुमराक्तश्चेद्वैष्णवीं वैष्णवोत्तमः १०२
मूलम् - १०२
समाप्य पुष्पयोगेन वैष्णवान् भोजयेत्ततः
एवं कर्तुमराक्तश्चेद्वैष्णवीं वैष्णवोत्तमः १०२
विश्वास-प्रस्तुतिः - १०३
वैष्णव्या चैव गायत्र्या पुष्पाञ्जल्ययुतं चरेत्
त्रिसहस्रं चरुं हुत्वा वैष्णवेष्ट्याः फलं लभेत् १०३
मूलम् - १०३
वैष्णव्या चैव गायत्र्या पुष्पाञ्जल्ययुतं चरेत्
त्रिसहस्रं चरुं हुत्वा वैष्णवेष्ट्याः फलं लभेत् १०३
विश्वास-प्रस्तुतिः - १०४
इमां तु वैष्णवीमिष्टिं यः कुर्याद्वैष्णवोत्तमः
त्रिकोटिकुलमुद्धृत्य याति विष्णोः परं पदम् १०४
मूलम् - १०४
इमां तु वैष्णवीमिष्टिं यः कुर्याद्वैष्णवोत्तमः
त्रिकोटिकुलमुद्धृत्य याति विष्णोः परं पदम् १०४
विश्वास-प्रस्तुतिः - १०५
प्रायश्चित्तमिदं कुर्याद्वृत्तिभङ्गेषु वैष्णवः
शान्त्यर्थं देवकार्येषु पापेषु च महत्स्वपि १०५
मूलम् - १०५
प्रायश्चित्तमिदं कुर्याद्वृत्तिभङ्गेषु वैष्णवः
शान्त्यर्थं देवकार्येषु पापेषु च महत्स्वपि १०५
विश्वास-प्रस्तुतिः - १०६
शुक्लपक्षे तु द्वादश्यां सङ्क्रान्तौ ग्रहणेऽपि वा
उपोष्य विधिवद्विष्णुं पूजयित्वा विधानतः १०६
मूलम् - १०६
शुक्लपक्षे तु द्वादश्यां सङ्क्रान्तौ ग्रहणेऽपि वा
उपोष्य विधिवद्विष्णुं पूजयित्वा विधानतः १०६
विश्वास-प्रस्तुतिः - १०७
अभ्यर्चयेद्गन्धपुष्पैः केशवादीन् पृथक्पृथक्
सङ्कर्षणादीनपि च पूजयेत्प्रयतात्मवान् १०७
मूलम् - १०७
अभ्यर्चयेद्गन्धपुष्पैः केशवादीन् पृथक्पृथक्
सङ्कर्षणादीनपि च पूजयेत्प्रयतात्मवान् १०७
विश्वास-प्रस्तुतिः - १०८
तत्तन्मूर्तिं पृथक् ध्यात्वा पृथगेव समर्चयेत्
केशवस्तु सुवर्णाभः श्यामो नारायणोऽव्ययः १०८
मूलम् - १०८
तत्तन्मूर्तिं पृथक् ध्यात्वा पृथगेव समर्चयेत्
केशवस्तु सुवर्णाभः श्यामो नारायणोऽव्ययः १०८
विश्वास-प्रस्तुतिः - १०९
माधवः स्यादुत्पलाभो गोविन्दः शशिसन्निभः
गौरवर्णस्तथा विष्णुः शोणो मधुजिदव्ययः १०९
मूलम् - १०९
माधवः स्यादुत्पलाभो गोविन्दः शशिसन्निभः
गौरवर्णस्तथा विष्णुः शोणो मधुजिदव्ययः १०९
विश्वास-प्रस्तुतिः - ११०
त्रिविक्रमोऽग्निसङ्काशो वामनः स्फटिकप्रभः
श्रीधरस्तु हरिद्राभो हृषीकेशोंऽशुमान् यथा ११०
मूलम् - ११०
त्रिविक्रमोऽग्निसङ्काशो वामनः स्फटिकप्रभः
श्रीधरस्तु हरिद्राभो हृषीकेशोंऽशुमान् यथा ११०
विश्वास-प्रस्तुतिः - १११
पद्मनाभो घनश्यामो हैमो दामोदरः प्रभुः
सङ्कर्षणस्तु मुक्ताभो वासुदेवो घनद्युतिः १११
मूलम् - १११
पद्मनाभो घनश्यामो हैमो दामोदरः प्रभुः
सङ्कर्षणस्तु मुक्ताभो वासुदेवो घनद्युतिः १११
६९०
विश्वास-प्रस्तुतिः - ११२
प्रद्युम्नो रक्तवर्णः स्यादनिरुद्धो यथोत्पलम्
अधोक्षजः शाद्वलाभो रक्ताङ्गः पुरुषोत्तमः ११२
मूलम् - ११२
प्रद्युम्नो रक्तवर्णः स्यादनिरुद्धो यथोत्पलम्
अधोक्षजः शाद्वलाभो रक्ताङ्गः पुरुषोत्तमः ११२
विश्वास-प्रस्तुतिः - ११३
नृसिंहो मणिवर्णः स्यादच्युतोऽर्कसमप्रभः
जनार्दनः कुन्दवर्ण उपेन्द्रो विद्रुमद्युतिः ११३
मूलम् - ११३
नृसिंहो मणिवर्णः स्यादच्युतोऽर्कसमप्रभः
जनार्दनः कुन्दवर्ण उपेन्द्रो विद्रुमद्युतिः ११३
विश्वास-प्रस्तुतिः - ११४
हरिर्वै सूर्यसङ्काशः कृष्णोभिन्नाञ्जनद्युतिः
आयुधानि ब्रुवे चैषां दक्षिणाधः करादितः ११४
मूलम् - ११४
हरिर्वै सूर्यसङ्काशः कृष्णोभिन्नाञ्जनद्युतिः
आयुधानि ब्रुवे चैषां दक्षिणाधः करादितः ११४
विश्वास-प्रस्तुतिः - ११५
पद्मं शङ्खं गदाचक्रं गदां दधाति केशवः
शङ्खं पद्मं गदाचक्रं धत्ते नारायणोऽव्ययः ११५
मूलम् - ११५
पद्मं शङ्खं गदाचक्रं गदां दधाति केशवः
शङ्खं पद्मं गदाचक्रं धत्ते नारायणोऽव्ययः ११५
विश्वास-प्रस्तुतिः - ११६
माधवस्तु गदां चक्रं शङ्खं पद्मं विभर्त्ति च
चक्रं गदां तथा पद्मं शङ्खं गोविन्द एव च ११६
मूलम् - ११६
माधवस्तु गदां चक्रं शङ्खं पद्मं विभर्त्ति च
चक्रं गदां तथा पद्मं शङ्खं गोविन्द एव च ११६
विश्वास-प्रस्तुतिः - ११७
गदां पद्मं गदाशङ्खं चक्रं विष्णुर्विभर्त्ति हि
चक्रं शङ्खं तथा पद्मं गदां च मधुसूदनः ११७
मूलम् - ११७
गदां पद्मं गदाशङ्खं चक्रं विष्णुर्विभर्त्ति हि
चक्रं शङ्खं तथा पद्मं गदां च मधुसूदनः ११७
विश्वास-प्रस्तुतिः - ११८
पद्मं गदां तथा चक्रं शङ्खं चैव त्रिविक्रमः
शङ्खं चक्रं गदापद्मं वामनो विभृयात्तथा ११८
मूलम् - ११८
पद्मं गदां तथा चक्रं शङ्खं चैव त्रिविक्रमः
शङ्खं चक्रं गदापद्मं वामनो विभृयात्तथा ११८
विश्वास-प्रस्तुतिः - ११९
पद्मं चक्रं गदाशङ्खं श्रीधरः श्रीपतिर्दधत्
गदां चक्रं हृषीकेशः पद्मं शङ्खं विभर्त्ति हि ११९
मूलम् - ११९
पद्मं चक्रं गदाशङ्खं श्रीधरः श्रीपतिर्दधत्
गदां चक्रं हृषीकेशः पद्मं शङ्खं विभर्त्ति हि ११९
विश्वास-प्रस्तुतिः - १२०
पद्मनाभस्तथा शङ्खं पद्मं चक्रं गदां धरेत्
पद्मं शङ्खं गदां चक्रं धत्ते दामोदरस्तथा १२०
मूलम् - १२०
पद्मनाभस्तथा शङ्खं पद्मं चक्रं गदां धरेत्
पद्मं शङ्खं गदां चक्रं धत्ते दामोदरस्तथा १२०
विश्वास-प्रस्तुतिः - १२१
सङ्कर्षणो गदां शङ्खं पद्मं चक्रं दधाति हि
वासुदेवो गदां शङ्खं चक्रं पद्मं बिभर्त्ति हि १२१
मूलम् - १२१
सङ्कर्षणो गदां शङ्खं पद्मं चक्रं दधाति हि
वासुदेवो गदां शङ्खं चक्रं पद्मं बिभर्त्ति हि १२१
विश्वास-प्रस्तुतिः - १२२
चक्रं शङ्खं गदां पद्मं प्रद्युम्नो बिभृयात्तथा
अनिरुद्धस्तथा चक्रं गदां शङ्खं च पङ्कजम् १२२
मूलम् - १२२
चक्रं शङ्खं गदां पद्मं प्रद्युम्नो बिभृयात्तथा
अनिरुद्धस्तथा चक्रं गदां शङ्खं च पङ्कजम् १२२
विश्वास-प्रस्तुतिः - १२३
चक्रं पद्मं तथा शङ्खं गदां च पुरुषोत्तमः
पद्मं गदां तथा शङ्खं चक्रं चाधोक्षजो हरिः १२३
मूलम् - १२३
चक्रं पद्मं तथा शङ्खं गदां च पुरुषोत्तमः
पद्मं गदां तथा शङ्खं चक्रं चाधोक्षजो हरिः १२३
विश्वास-प्रस्तुतिः - १२४
चक्रं पद्मं गदां शङ्खं नरसिंहो बिभर्त्ति हि
अच्युतश्च गदां पद्मं चक्रं शङ्खं बिभर्त्ति हि १२४
मूलम् - १२४
चक्रं पद्मं गदां शङ्खं नरसिंहो बिभर्त्ति हि
अच्युतश्च गदां पद्मं चक्रं शङ्खं बिभर्त्ति हि १२४
विश्वास-प्रस्तुतिः - १२५
जनार्दनस्तथा पद्मं शङ्खं चक्रं गदां धरेत्
उपेन्द्रस्तु तथा शङ्खं गदां चक्रं च पङ्कजम् १२५
मूलम् - १२५
जनार्दनस्तथा पद्मं शङ्खं चक्रं गदां धरेत्
उपेन्द्रस्तु तथा शङ्खं गदां चक्रं च पङ्कजम् १२५
विश्वास-प्रस्तुतिः - १२६
हरिस्तु शङ्खं चक्रं च पद्मं चैव गदां धरेत्
शङ्खं गदां पङ्कजं च चक्रं कृष्णो बिभर्त्ति हि १२६
मूलम् - १२६
हरिस्तु शङ्खं चक्रं च पद्मं चैव गदां धरेत्
शङ्खं गदां पङ्कजं च चक्रं कृष्णो बिभर्त्ति हि १२६
विश्वास-प्रस्तुतिः - १२७
एवं चतुर्विंशतिस्तु मूर्तीर्ध्यात्वा समर्चयेत्
तत्तद्बिम्बेषु वा राजन् शालग्रामशिलासु वा १२७
मूलम् - १२७
एवं चतुर्विंशतिस्तु मूर्तीर्ध्यात्वा समर्चयेत्
तत्तद्बिम्बेषु वा राजन् शालग्रामशिलासु वा १२७
विश्वास-प्रस्तुतिः - १२८
गन्धैः पुष्पैश्च ताम्बूलैर्धूपैर्दीपैर्निवेदनैः
फलैश्च भक्ष्यभोज्यैश्च पानीयैः शर्करान्वितैः १२८
मूलम् - १२८
गन्धैः पुष्पैश्च ताम्बूलैर्धूपैर्दीपैर्निवेदनैः
फलैश्च भक्ष्यभोज्यैश्च पानीयैः शर्करान्वितैः १२८
विश्वास-प्रस्तुतिः - १२९
नामभिस्तैश्चतुर्थ्यन्तैर्मूलमन्त्रेण वा यजेत्
देवानावरणीयांश्च पूजयेत्परितः क्रमात् १२९
मूलम् - १२९
नामभिस्तैश्चतुर्थ्यन्तैर्मूलमन्त्रेण वा यजेत्
देवानावरणीयांश्च पूजयेत्परितः क्रमात् १२९
विश्वास-प्रस्तुतिः - १३०
पुरतोऽग्निं प्रतिष्ठाप्य स्वगृह्योक्तविधानतः
मण्डलेन चतुर्थेन प्रत्यृचं जुहुयाच्चरुम् १३०
मूलम् - १३०
पुरतोऽग्निं प्रतिष्ठाप्य स्वगृह्योक्तविधानतः
मण्डलेन चतुर्थेन प्रत्यृचं जुहुयाच्चरुम् १३०
विश्वास-प्रस्तुतिः - १३१
पुष्पैः सम्पूजयेद्भक्त्या कुर्यादवभृथं नरः
इमां वैयूहिकीमिष्टिं सम्यक् प्राहुर्महर्षयः १३१
मूलम् - १३१
पुष्पैः सम्पूजयेद्भक्त्या कुर्यादवभृथं नरः
इमां वैयूहिकीमिष्टिं सम्यक् प्राहुर्महर्षयः १३१
विश्वास-प्रस्तुतिः - १३२
प्रायश्चित्तमिदं प्रोक्तं पातकेषु महत्स्वपि
अनप्स्वपि च बिम्बानां शान्त्यर्थं वा समाचरेत् १३२
मूलम् - १३२
प्रायश्चित्तमिदं प्रोक्तं पातकेषु महत्स्वपि
अनप्स्वपि च बिम्बानां शान्त्यर्थं वा समाचरेत् १३२
विश्वास-प्रस्तुतिः - १३३
प्रायश्चित्तं विशिष्टं स्याद्देयं प्रत्यृचकर्मसु
अनधीतः कथं कुर्याद्वैयूहीं वैष्णवीं द्विजः १३३
मूलम् - १३३
प्रायश्चित्तं विशिष्टं स्याद्देयं प्रत्यृचकर्मसु
अनधीतः कथं कुर्याद्वैयूहीं वैष्णवीं द्विजः १३३
विश्वास-प्रस्तुतिः - १३४
प्रत्येकं शतमष्टौ च मन्त्रैस्तेषां यजेद्बुधः
सर्वत्रावभृथेष्टिञ्च पुष्पयागञ्च वैष्णवः १३४
मूलम् - १३४
प्रत्येकं शतमष्टौ च मन्त्रैस्तेषां यजेद्बुधः
सर्वत्रावभृथेष्टिञ्च पुष्पयागञ्च वैष्णवः १३४
विश्वास-प्रस्तुतिः - १३५
द्वयेन मूलमन्त्रेण कुर्वीत सुसमाहितः
वैष्णवान् भोजयेद्भक्त्या कर्मान्ते सत्वसिद्धये १३५
मूलम् - १३५
द्वयेन मूलमन्त्रेण कुर्वीत सुसमाहितः
वैष्णवान् भोजयेद्भक्त्या कर्मान्ते सत्वसिद्धये १३५
विश्वास-प्रस्तुतिः - १३६
एकं वा भोजयेद्विप्रं महाभागवतोत्तमम्
सर्वं सम्पूर्णतामेति तस्मिन् संपूजिते द्विजे १३६
मूलम् - १३६
एकं वा भोजयेद्विप्रं महाभागवतोत्तमम्
सर्वं सम्पूर्णतामेति तस्मिन् संपूजिते द्विजे १३६
६९२
विश्वास-प्रस्तुतिः - १३७
यः करोति सुभामिष्टिं वैयूहीं वैष्णवोत्तमः
अनन्तस्याच्युतानाञ्च विशिष्टोऽन्यतमो भवेत् १३७
मूलम् - १३७
यः करोति सुभामिष्टिं वैयूहीं वैष्णवोत्तमः
अनन्तस्याच्युतानाञ्च विशिष्टोऽन्यतमो भवेत् १३७
विश्वास-प्रस्तुतिः - १३८
वैभवीमथ वक्ष्यामि सर्वपापप्रणाशिनीम्
पावनीं सर्वलोकानां सर्वकामप्रदां शुभाम् १३८
मूलम् - १३८
वैभवीमथ वक्ष्यामि सर्वपापप्रणाशिनीम्
पावनीं सर्वलोकानां सर्वकामप्रदां शुभाम् १३८
विश्वास-प्रस्तुतिः - १३९
भगवज्जन्मदिवसे वारे सूर्यसुतस्य वा
स्वजन्मर्क्षेऽपि वा कुर्याद्वैभवीं मङ्गलाह्वयाम् १३९
मूलम् - १३९
भगवज्जन्मदिवसे वारे सूर्यसुतस्य वा
स्वजन्मर्क्षेऽपि वा कुर्याद्वैभवीं मङ्गलाह्वयाम् १३९
विश्वास-प्रस्तुतिः - १४०
पूर्वऽह्व्यभ्युदयं कुर्यादङ्कुरार्पणपूर्वकम्
उपोष्य पूजयेद्विष्णुमान्याधानं समाचरेत् १४०
मूलम् - १४०
पूर्वऽह्व्यभ्युदयं कुर्यादङ्कुरार्पणपूर्वकम्
उपोष्य पूजयेद्विष्णुमान्याधानं समाचरेत् १४०
विश्वास-प्रस्तुतिः - १४१
स्नात्वा परेऽह्नि विधिना सन्तर्प्य पितृदेवताः
विशिष्टैर्ब्राह्मणैः सार्द्धमर्चयित्वा जनार्दनम् १४१
मूलम् - १४१
स्नात्वा परेऽह्नि विधिना सन्तर्प्य पितृदेवताः
विशिष्टैर्ब्राह्मणैः सार्द्धमर्चयित्वा जनार्दनम् १४१
विश्वास-प्रस्तुतिः - १४२
मत्स्यं कूर्मं च वाराहं नारसिंहं च वामनम्
श्रीरामं बलभद्रञ्च कृष्णं कक्लिनमव्ययम् १४२
मूलम् - १४२
मत्स्यं कूर्मं च वाराहं नारसिंहं च वामनम्
श्रीरामं बलभद्रञ्च कृष्णं कक्लिनमव्ययम् १४२
विश्वास-प्रस्तुतिः - १४३
हयग्रीवं जगद्योनिं पूजयेद्वैष्णवोत्तमः
नार्चयेद्भार्गवं बुद्धं सर्वत्रापि च कर्मसु १४३
मूलम् - १४३
हयग्रीवं जगद्योनिं पूजयेद्वैष्णवोत्तमः
नार्चयेद्भार्गवं बुद्धं सर्वत्रापि च कर्मसु १४३
विश्वास-प्रस्तुतिः - १४४
कुशग्रन्थिषु बिम्बेषु शालग्रामशिलासु वा
अर्चयेद्गन्धपुष्पाद्यैः प्रागुदक्प्रवणेन च १४४
मूलम् - १४४
कुशग्रन्थिषु बिम्बेषु शालग्रामशिलासु वा
अर्चयेद्गन्धपुष्पाद्यैः प्रागुदक्प्रवणेन च १४४
विश्वास-प्रस्तुतिः - १४५
पृथक्पृथक् च नैवेद्यं विविधं वै समर्पयेत्
मोदकान् पृथुकान् सक्तूनपूपान् पायसांस्तथा १४५
मूलम् - १४५
पृथक्पृथक् च नैवेद्यं विविधं वै समर्पयेत्
मोदकान् पृथुकान् सक्तूनपूपान् पायसांस्तथा १४५
विश्वास-प्रस्तुतिः - १४६
हविष्यमन्नमुद्गान्नं मण्डकान् मधुसंयुतान्
दध्यन्नञ्च गुडान्नञ्च भक्त्या तेभ्यो निवेदयेत् १४६
मूलम् - १४६
हविष्यमन्नमुद्गान्नं मण्डकान् मधुसंयुतान्
दध्यन्नञ्च गुडान्नञ्च भक्त्या तेभ्यो निवेदयेत् १४६
विश्वास-प्रस्तुतिः - १४७
कर्पूरसंयुतं दिव्यं ताम्बूलञ्च निवेदयेत्
इमा विश्वेतिसूक्तेन दद्यान्नीराजनं तथा १४७
मूलम् - १४७
कर्पूरसंयुतं दिव्यं ताम्बूलञ्च निवेदयेत्
इमा विश्वेतिसूक्तेन दद्यान्नीराजनं तथा १४७
विश्वास-प्रस्तुतिः - १४८
सहस्रनामभिः स्तुत्वा भक्त्या च प्रणमेद्बुधः
इध्माधानादिपर्य्यन्तं कृत्वा होमं समाचरेत् १४८
मूलम् - १४८
सहस्रनामभिः स्तुत्वा भक्त्या च प्रणमेद्बुधः
इध्माधानादिपर्य्यन्तं कृत्वा होमं समाचरेत् १४८
विश्वास-प्रस्तुतिः - १४९
सर्वैस्तु वैष्णवैः सूक्तैर्हुत्वा पूर्वं शुभं हविः
पञ्चमं मण्डलं पश्चात्प्रत्यृचं जुहुयाद्द्विजः १४९
मूलम् - १४९
सर्वैस्तु वैष्णवैः सूक्तैर्हुत्वा पूर्वं शुभं हविः
पञ्चमं मण्डलं पश्चात्प्रत्यृचं जुहुयाद्द्विजः १४९
विश्वास-प्रस्तुतिः - १५०
इमान्तु वैभवीमिष्टिं कुर्याद्विष्णुपरायणः
अकृत्वा वैभवीमन्त्रं योऽध्यापयति देशिकः १५०
मूलम् - १५०
इमान्तु वैभवीमिष्टिं कुर्याद्विष्णुपरायणः
अकृत्वा वैभवीमन्त्रं योऽध्यापयति देशिकः १५०
विश्वास-प्रस्तुतिः - १५१
रौरवं नरकं याति यावदाभूतसंप्लवम्
होमं विना स शूद्राणां कुर्यात्सर्वमशेषतः १५१
मूलम् - १५१
रौरवं नरकं याति यावदाभूतसंप्लवम्
होमं विना स शूद्राणां कुर्यात्सर्वमशेषतः १५१
विश्वास-प्रस्तुतिः - १५२
मन्त्रैर्वा जुहुयादाज्यं तत्तन्मूर्तिप्रकाशकैः
पूजयित्वा द्विजवरान् पश्चान्मन्त्रं प्रदापयेत् १५२
मूलम् - १५२
मन्त्रैर्वा जुहुयादाज्यं तत्तन्मूर्तिप्रकाशकैः
पूजयित्वा द्विजवरान् पश्चान्मन्त्रं प्रदापयेत् १५२
विश्वास-प्रस्तुतिः - १५३
अशक्तो यस्तु वेदेन कर्तुमिष्टिं द्विजोत्तमः
तत्तन्मूर्तिमयैर्मन्त्रैः पृथगष्टोत्तरं शतम् १५३
मूलम् - १५३
अशक्तो यस्तु वेदेन कर्तुमिष्टिं द्विजोत्तमः
तत्तन्मूर्तिमयैर्मन्त्रैः पृथगष्टोत्तरं शतम् १५३
विश्वास-प्रस्तुतिः - १५४
हुत्वा चरुं घृतयुतं सम्यगिष्ट्याः फलं लभेत्
वैष्णवत्वाच्युतस्यापि कारयेदिष्टिमुत्तमाम् १५४
मूलम् - १५४
हुत्वा चरुं घृतयुतं सम्यगिष्ट्याः फलं लभेत्
वैष्णवत्वाच्युतस्यापि कारयेदिष्टिमुत्तमाम् १५४
विश्वास-प्रस्तुतिः - १५५
उद्दिश्य वैष्णवान् स्वस्वपितॄनपि च वैष्णवः
यः कुर्याद्वैष्णवीमिष्टिं भक्त्या परमया युतः १५५
मूलम् - १५५
उद्दिश्य वैष्णवान् स्वस्वपितॄनपि च वैष्णवः
यः कुर्याद्वैष्णवीमिष्टिं भक्त्या परमया युतः १५५
विश्वास-प्रस्तुतिः - १५६
वैष्णवत्वं कुलं सर्वं लभेत स न संशयः
अत ऊर्ध्वं प्रवक्ष्यामि आनन्तीमघनाशनीम् १५६
मूलम् - १५६
वैष्णवत्वं कुलं सर्वं लभेत स न संशयः
अत ऊर्ध्वं प्रवक्ष्यामि आनन्तीमघनाशनीम् १५६
विश्वास-प्रस्तुतिः - १५७
पौर्णमास्यां प्रकुर्वीत पूर्वोक्तविधिना नृप
आदानं पूर्ववत्कृत्वा अङ्कुरार्पणपूर्वकम् १५७
मूलम् - १५७
पौर्णमास्यां प्रकुर्वीत पूर्वोक्तविधिना नृप
आदानं पूर्ववत्कृत्वा अङ्कुरार्पणपूर्वकम् १५७
विश्वास-प्रस्तुतिः - १५८
उपोष्याभ्यर्चयेद्देवमनन्तं पुरुषोत्तमम्
सहस्रशीर्षं विश्वेशं सहस्रकरलोचनम् १५८
मूलम् - १५८
उपोष्याभ्यर्चयेद्देवमनन्तं पुरुषोत्तमम्
सहस्रशीर्षं विश्वेशं सहस्रकरलोचनम् १५८
विश्वास-प्रस्तुतिः - १५९
सहस्रचरणं श्रीशं सदैवाश्रितवत्सलम्
पौरुषेण विधानेन पूजयेत्पुरुषोत्तमम् १५९
मूलम् - १५९
सहस्रचरणं श्रीशं सदैवाश्रितवत्सलम्
पौरुषेण विधानेन पूजयेत्पुरुषोत्तमम् १५९
विश्वास-प्रस्तुतिः - १६०
गन्धपुष्पैश्च धूपैश्च दीपैश्चापि निवेदनैः
पूजयित्वा जगन्नाथं पश्चादावरणं यजेत् १६०
मूलम् - १६०
गन्धपुष्पैश्च धूपैश्च दीपैश्चापि निवेदनैः
पूजयित्वा जगन्नाथं पश्चादावरणं यजेत् १६०
विश्वास-प्रस्तुतिः - १६१
पार्श्वयोश्च श्रियं भूमिं नीलाञ्च शुभलोचनाम्
हिरण्यवर्णा हरिणी जातवेदा हिरण्मयी १६१
मूलम् - १६१
पार्श्वयोश्च श्रियं भूमिं नीलाञ्च शुभलोचनाम्
हिरण्यवर्णा हरिणी जातवेदा हिरण्मयी १६१
विश्वास-प्रस्तुतिः - १६२
चन्द्रा सूर्या च दुर्धर्षा गन्धद्वारा महेश्वरी
नित्य पुष्टा सहस्राक्षी महालक्ष्मीः सनातनी १६२
मूलम् - १६२
चन्द्रा सूर्या च दुर्धर्षा गन्धद्वारा महेश्वरी
नित्य पुष्टा सहस्राक्षी महालक्ष्मीः सनातनी १६२
६९४
विश्वास-प्रस्तुतिः - १६३
पूजनीया समस्ताश्च गन्धपुष्पाक्षतादिभिः
संकर्षणस्तथाऽनन्तः शेषो भूधर एव च १६३
मूलम् - १६३
पूजनीया समस्ताश्च गन्धपुष्पाक्षतादिभिः
संकर्षणस्तथाऽनन्तः शेषो भूधर एव च १६३
विश्वास-प्रस्तुतिः - १६४
लक्ष्मणो नागराजश्च बलभद्रो हलायुधः
तच्छक्तयः पूजनीयाः प्रागादिषु यथाक्रमम् १६४
मूलम् - १६४
लक्ष्मणो नागराजश्च बलभद्रो हलायुधः
तच्छक्तयः पूजनीयाः प्रागादिषु यथाक्रमम् १६४
विश्वास-प्रस्तुतिः - १६५
रेवती वारुणी कान्तिरैश्वर्या च इला तथा
भद्रा सुमङ्गला गौरी शक्तयः परिकीर्तिताः १६५
मूलम् - १६५
रेवती वारुणी कान्तिरैश्वर्या च इला तथा
भद्रा सुमङ्गला गौरी शक्तयः परिकीर्तिताः १६५
विश्वास-प्रस्तुतिः - १६६
अस्त्रान् लोकेश्वरान् पूज्य पश्चाद्धोमं समाचरेत्
पश्चात्तु मण्डलं षष्ठं प्रत्यृचं जुहुयाच्चरुम् १६६
मूलम् - १६६
अस्त्रान् लोकेश्वरान् पूज्य पश्चाद्धोमं समाचरेत्
पश्चात्तु मण्डलं षष्ठं प्रत्यृचं जुहुयाच्चरुम् १६६
विश्वास-प्रस्तुतिः - १६७
पुष्पाणि च तथा दत्त्वा कुर्य्यादवभृथादिकम्
अशक्तश्चेन्नृसूक्तेन शतमष्टोत्तरं चरुम् १६७
मूलम् - १६७
पुष्पाणि च तथा दत्त्वा कुर्य्यादवभृथादिकम्
अशक्तश्चेन्नृसूक्तेन शतमष्टोत्तरं चरुम् १६७
विश्वास-प्रस्तुतिः - १६८
इष्ट्वै वेष्ट्याः फलं सम्यगाप्नोत्येव न संशयः
आनन्तीयामिमामिष्टिं वैकुण्ठपदमाप्नुयात् १६८
मूलम् - १६८
इष्ट्वै वेष्ट्याः फलं सम्यगाप्नोत्येव न संशयः
आनन्तीयामिमामिष्टिं वैकुण्ठपदमाप्नुयात् १६८
विश्वास-प्रस्तुतिः - १६९
न दास्यमीशस्य भवेद्यस्य दास्यं नृणामसत्
तत्र कुर्यादिमामिष्टिं दास्यैकफलसिद्धये १६९
मूलम् - १६९
न दास्यमीशस्य भवेद्यस्य दास्यं नृणामसत्
तत्र कुर्यादिमामिष्टिं दास्यैकफलसिद्धये १६९
विश्वास-प्रस्तुतिः - १७०
अधुना वैनतेयेष्टिं वक्ष्यामि नृपसत्तम
पञ्चम्यां भानुवारे वा कस्मिंश्चिच्छुभवासरे १७०
मूलम् - १७०
अधुना वैनतेयेष्टिं वक्ष्यामि नृपसत्तम
पञ्चम्यां भानुवारे वा कस्मिंश्चिच्छुभवासरे १७०
विश्वास-प्रस्तुतिः - १७१
उपोष्य पूर्ववत्सर्वं कुर्य्यादभ्युदयादिकम्
स्नात्वाऽर्चयित्वा देवेशं गन्धपुष्पाक्षतादिभिः १७१
मूलम् - १७१
उपोष्य पूर्ववत्सर्वं कुर्य्यादभ्युदयादिकम्
स्नात्वाऽर्चयित्वा देवेशं गन्धपुष्पाक्षतादिभिः १७१
विश्वास-प्रस्तुतिः - १७२
लक्ष्म्या सह समासीनं वैकुण्ठभवने शुभे
सर्वमन्त्रमये दिव्ये वाङ्मये परमासने १७२
मूलम् - १७२
लक्ष्म्या सह समासीनं वैकुण्ठभवने शुभे
सर्वमन्त्रमये दिव्ये वाङ्मये परमासने १७२
विश्वास-प्रस्तुतिः - १७३
मन्त्रस्वरै रक्षरैश्च साङ्गैर्वेदैः समन्वितः
तारेण सह सावित्र्या संस्तीर्ण शुभवर्च्चसि १७३
मूलम् - १७३
मन्त्रस्वरै रक्षरैश्च साङ्गैर्वेदैः समन्वितः
तारेण सह सावित्र्या संस्तीर्ण शुभवर्च्चसि १७३
विश्वास-प्रस्तुतिः - १७४
चतुर्भुजमुदाराङ्गं कन्दर्पशतसन्निभम्
युवानं पद्मपत्राक्षं चक्रशङ्खगदाङ्गिनम् १७४
मूलम् - १७४
चतुर्भुजमुदाराङ्गं कन्दर्पशतसन्निभम्
युवानं पद्मपत्राक्षं चक्रशङ्खगदाङ्गिनम् १७४
६९५
श्रियं देवीं नित्यपुष्टां सुभगाञ्च सुलक्षणाम् १७५
विश्वास-प्रस्तुतिः - १७६
ऐरावतीं वेदवतीं सुकेशीञ्च सुमङ्गलाम्
अर्चयेत्परितो देवीः सुरूपा नित्ययौवनाः १७६
मूलम् - १७६
ऐरावतीं वेदवतीं सुकेशीञ्च सुमङ्गलाम्
अर्चयेत्परितो देवीः सुरूपा नित्ययौवनाः १७६
विश्वास-प्रस्तुतिः - १७७
ततः समर्चयेत्तार्क्ष्यं गरुडं विनतासुतम्
सुपर्णञ्च चतुर्दिक्षु विदिक्षु शक्तयस्तथा १७७
मूलम् - १७७

विश्वास-प्रस्तुतिः - १७८
श्रुतिस्मृतीतिहासाश्च पुराणानीति शक्तयः
अस्त्रादीनीश्वरान् पश्चादर्चयेत् कुसुमाक्षतैः १७८
मूलम् - १७८
श्रुतिस्मृतीतिहासाश्च पुराणानीति शक्तयः
अस्त्रादीनीश्वरान् पश्चादर्चयेत् कुसुमाक्षतैः १७८
विश्वास-प्रस्तुतिः - १७९
धूपं दीपञ्च नैवेद्यं ताम्बूलञ्च समर्चयेत्
अयं हि ते चार्थीति दद्यान्नीराजनं शुभम् १७९
मूलम् - १७९
धूपं दीपञ्च नैवेद्यं ताम्बूलञ्च समर्चयेत्
अयं हि ते चार्थीति दद्यान्नीराजनं शुभम् १७९
विश्वास-प्रस्तुतिः - १८०
प्रदक्षिणं नमस्कारं कृत्वा होमं समाचरेत्
वशिष्ठेन च संदृष्टं सप्तमं मण्डलं धुनेत् १८०
मूलम् - १८०
प्रदक्षिणं नमस्कारं कृत्वा होमं समाचरेत्
वशिष्ठेन च संदृष्टं सप्तमं मण्डलं धुनेत् १८०
विश्वास-प्रस्तुतिः - १८१
पुष्पाणि च ततो दत्त्वा कुर्य्यादवभृथादिकम्
रदयानादिभङ्गे च वाहनध्वंसने तथा १८१
मूलम् - १८१
पुष्पाणि च ततो दत्त्वा कुर्य्यादवभृथादिकम्
रदयानादिभङ्गे च वाहनध्वंसने तथा १८१
विश्वास-प्रस्तुतिः - १८२
अवैदिकक्रियाजुष्टे कुर्यादिष्टिमिमां शुभाम्
अरिष्टे चोपपातेषु शान्त्यर्थमपि वा यजेत् १८२
मूलम् - १८२
अवैदिकक्रियाजुष्टे कुर्यादिष्टिमिमां शुभाम्
अरिष्टे चोपपातेषु शान्त्यर्थमपि वा यजेत् १८२
विश्वास-प्रस्तुतिः - १८३
इष्ट्याऽनया पूजितेशे रोगसर्पाग्निभिः शमेत्
वैनतेयसमो भूत्वा भवेदनुचरो हरेः १८३
मूलम् - १८३
इष्ट्याऽनया पूजितेशे रोगसर्पाग्निभिः शमेत्
वैनतेयसमो भूत्वा भवेदनुचरो हरेः १८३
विश्वास-प्रस्तुतिः - १८४
वैष्वक्सेनीं ततो वक्ष्ये सर्वपापप्रणाशिनीम्
उपोष्यैकादशीं शुद्धां पूर्व्ववत् पूजयेद्धरिम् १८४
मूलम् - १८४
वैष्वक्सेनीं ततो वक्ष्ये सर्वपापप्रणाशिनीम्
उपोष्यैकादशीं शुद्धां पूर्व्ववत् पूजयेद्धरिम् १८४
विश्वास-प्रस्तुतिः - १८५
तद्विष्णोरितिमन्त्राभ्यामुपचारैः समर्चयेत्
विष्वक्सेनञ्च सेनेशं सेनान् पञ्च चमूपतिम् १८५
मूलम् - १८५
तद्विष्णोरितिमन्त्राभ्यामुपचारैः समर्चयेत्
विष्वक्सेनञ्च सेनेशं सेनान् पञ्च चमूपतिम् १८५
विश्वास-प्रस्तुतिः - १८६
त्रयीं सूत्रवतीं सौम्यां सावित्रीं चार्चयेद्द्विजः
अस्त्रान् दीपांश्च सम्पूज्य होमं पश्चात् समाचरेत् १८६
मूलम् - १८६
त्रयीं सूत्रवतीं सौम्यां सावित्रीं चार्चयेद्द्विजः
अस्त्रान् दीपांश्च सम्पूज्य होमं पश्चात् समाचरेत् १८६
विश्वास-प्रस्तुतिः - ६९६
पायसेनाथ पुष्पाणि दद्यात्प्रयतमानसः
र्
६९६
मूलम् - ६९६
पायसेनाथ पुष्पाणि दद्यात्प्रयतमानसः
र्
६९६
विश्वास-प्रस्तुतिः - १८९
ब्राह्मणान् भोजयेच्छक्त्या दक्षिणाभिश्च तोषयेत्
अशक्तो यस्तु वेदेन कर्तुमिष्टिञ्च वैष्णवः १८९
मूलम् - १८९
ब्राह्मणान् भोजयेच्छक्त्या दक्षिणाभिश्च तोषयेत्
अशक्तो यस्तु वेदेन कर्तुमिष्टिञ्च वैष्णवः १८९
विश्वास-प्रस्तुतिः - १९०
तद्विष्णोरिति मन्त्राभ्यां सहस्रं जुहुयाच्चरुम्
कृत्वा पुष्पाञ्जलिञ्चापि सम्यगिष्टिं लभेन्नरः १९०
मूलम् - १९०
तद्विष्णोरिति मन्त्राभ्यां सहस्रं जुहुयाच्चरुम्
कृत्वा पुष्पाञ्जलिञ्चापि सम्यगिष्टिं लभेन्नरः १९०
विश्वास-प्रस्तुतिः - १९१
वैष्वक्सेनीमिमां हुत्वा विष्वक्सेनसमो भवेत्
प्रभूतधनधान्याढ्यमैश्वर्यं चैव विन्दति १९१
मूलम् - १९१
वैष्वक्सेनीमिमां हुत्वा विष्वक्सेनसमो भवेत्
प्रभूतधनधान्याढ्यमैश्वर्यं चैव विन्दति १९१
विश्वास-प्रस्तुतिः - १९२
यक्षराक्षसभूतानां तामसानां दिवौकसाम्
अभ्यर्चने तद्दोषस्य विशुद्ध्यर्थमिदं यजेत् १९२
मूलम् - १९२
यक्षराक्षसभूतानां तामसानां दिवौकसाम्
अभ्यर्चने तद्दोषस्य विशुद्ध्यर्थमिदं यजेत् १९२
विश्वास-प्रस्तुतिः - १९३
सौदर्शनीं प्रवक्ष्यामि सर्वपापप्रणाशिनीम्
व्यतीपाते वैधृतौ वा समुपोष्यार्चयेद्धरिम् १९३
मूलम् - १९३
सौदर्शनीं प्रवक्ष्यामि सर्वपापप्रणाशिनीम्
व्यतीपाते वैधृतौ वा समुपोष्यार्चयेद्धरिम् १९३
विश्वास-प्रस्तुतिः - १९४
अखण्डबिल्वपत्रैर्वा कोमलौस्तुलसीदलैः
अर्चयित्वा हृषीकेशं गन्धपुष्पाक्षतादिभिः १९४
मूलम् - १९४
अखण्डबिल्वपत्रैर्वा कोमलौस्तुलसीदलैः
अर्चयित्वा हृषीकेशं गन्धपुष्पाक्षतादिभिः १९४
विश्वास-प्रस्तुतिः - १९५
पश्चात्समर्चनीयाः स्युः श्रीभूनीलादिमातरः
सुदर्शनसहस्रारं पवित्रं ब्रह्मणस्पतिम् १९५
मूलम् - १९५
पश्चात्समर्चनीयाः स्युः श्रीभूनीलादिमातरः
सुदर्शनसहस्रारं पवित्रं ब्रह्मणस्पतिम् १९५
विश्वास-प्रस्तुतिः - १९६
सहस्रार्कं शतोद्यामं लोकद्वारं हिरण्मयम्
अभ्यर्च्चयेत्क्रमाद्दिक्षु तथा शक्तीः समर्चयेत् १९६
मूलम् - १९६
सहस्रार्कं शतोद्यामं लोकद्वारं हिरण्मयम्
अभ्यर्च्चयेत्क्रमाद्दिक्षु तथा शक्तीः समर्चयेत् १९६
विश्वास-प्रस्तुतिः - १९७
अनिष्टध्वंसिनी माया लज्जा पुष्टिः सरस्वती
प्रकृतीर्जगदाधारा कामधुक् चाष्टशक्तयः १९७
मूलम् - १९७
अनिष्टध्वंसिनी माया लज्जा पुष्टिः सरस्वती
प्रकृतीर्जगदाधारा कामधुक् चाष्टशक्तयः १९७
विश्वास-प्रस्तुतिः - १९८
तथा ताश्चैव लोकेशाः पूज्या दिक्षु यथाक्रमात्
अभ्यर्च्य गन्धपुष्पाद्यैर्नैवेद्यैर्विविधैरपि १९८
मूलम् - १९८
तथा ताश्चैव लोकेशाः पूज्या दिक्षु यथाक्रमात्
अभ्यर्च्य गन्धपुष्पाद्यैर्नैवेद्यैर्विविधैरपि १९८
विश्वास-प्रस्तुतिः - १९९
ऋग्वेदोक्तस्य सूक्तेन ततो नीराजनं हरेः
नवमं मण्डलं पश्चाद्धोतव्यं चरुणा नृप १९९
मूलम् - १९९
ऋग्वेदोक्तस्य सूक्तेन ततो नीराजनं हरेः
नवमं मण्डलं पश्चाद्धोतव्यं चरुणा नृप १९९
विश्वास-प्रस्तुतिः - २००
आज्येन वा तिलैर्वाऽपि बिल्वैर्वाऽपि सरोरुहैः
हुत्वा पुष्पाञ्जलिं दत्त्वा कुर्यादवभृथादिकम् २००
मूलम् - २००
आज्येन वा तिलैर्वाऽपि बिल्वैर्वाऽपि सरोरुहैः
हुत्वा पुष्पाञ्जलिं दत्त्वा कुर्यादवभृथादिकम् २००
६९७
उद्वाह्य वैष्णवीं कन्यां याचित्वा वैष्णवीं तथा २०१
विश्वास-प्रस्तुतिः - २०२
हुत्वा वा वैष्णवेनैव तथैवाऽऽदित्यभुज्यपि
अन्यलिङ्गधृतौ चापि कुर्यादिष्टिमिमां द्विजः २०२
मूलम् - २०२
हुत्वा वा वैष्णवेनैव तथैवाऽऽदित्यभुज्यपि
अन्यलिङ्गधृतौ चापि कुर्यादिष्टिमिमां द्विजः २०२
विश्वास-प्रस्तुतिः - २०३
सौदर्शनेन मन्त्रेण सहस्रं जुहुयाच्चरुम्
पुष्पाणि दत्त्वा साहस्रं सम्यगिष्ट्याः फलं लभेत् २०३
मूलम् - २०३
सौदर्शनेन मन्त्रेण सहस्रं जुहुयाच्चरुम्
पुष्पाणि दत्त्वा साहस्रं सम्यगिष्ट्याः फलं लभेत् २०३
विश्वास-प्रस्तुतिः - २०४
अथ भागवतीमिष्टिं प्रवक्ष्यामि नृपोत्तम
उपोष्यैकादशीं शुद्धां द्वादश्यां पूर्ववद्धरिम् २०४
मूलम् - २०४
अथ भागवतीमिष्टिं प्रवक्ष्यामि नृपोत्तम
उपोष्यैकादशीं शुद्धां द्वादश्यां पूर्ववद्धरिम् २०४
विश्वास-प्रस्तुतिः - २०५
अर्चयित्वा विधानेन गन्धपुष्पाक्षतादिभिः
पौरुषेण तु सूक्तेन श्रीमदष्टाक्षरेण वा २०५
मूलम् - २०५
अर्चयित्वा विधानेन गन्धपुष्पाक्षतादिभिः
पौरुषेण तु सूक्तेन श्रीमदष्टाक्षरेण वा २०५
विश्वास-प्रस्तुतिः - २०६
अर्चयेज्जगतामीशं सर्वाभरणसंयुतम्
ततो भागवतान् सर्वानर्चयेत्परितो द्विजः २०६
मूलम् - २०६
अर्चयेज्जगतामीशं सर्वाभरणसंयुतम्
ततो भागवतान् सर्वानर्चयेत्परितो द्विजः २०६
विश्वास-प्रस्तुतिः - २०७
पुष्पैर्वा तुलसीपत्रैः सलिलै रक्षतैरपि
प्रह्लादं नारदञ्चैव पुण्डरीकं विभीषणम् २०७
मूलम् - २०७
पुष्पैर्वा तुलसीपत्रैः सलिलै रक्षतैरपि
प्रह्लादं नारदञ्चैव पुण्डरीकं विभीषणम् २०७
विश्वास-प्रस्तुतिः - २०८
रुक्माङ्गदं तत्सुतञ्च हनूमन्तं शिवं भृगुम्
वशिष्ठं वामदेवञ्च व्यासं शौनकमेव च २०८
मूलम् - २०८
रुक्माङ्गदं तत्सुतञ्च हनूमन्तं शिवं भृगुम्
वशिष्ठं वामदेवञ्च व्यासं शौनकमेव च २०८
विश्वास-प्रस्तुतिः - २०९
मार्कण्डेयं चाम्बरीषं दत्तात्रेयं पराशरम्
रुक्मदाल्भ्यौ कश्यपञ्च हारीतञ्चात्रिमेव च २०९
मूलम् - २०९
मार्कण्डेयं चाम्बरीषं दत्तात्रेयं पराशरम्
रुक्मदाल्भ्यौ कश्यपञ्च हारीतञ्चात्रिमेव च २०९
विश्वास-प्रस्तुतिः - २१०
भरद्वाजं बलिं भीष्ममुद्धवाक्रूरपुष्करान्
गुहं सूतञ्च वाल्मीकं स्वायम्भुवमनुं ध्रुवम् २१०
मूलम् - २१०
भरद्वाजं बलिं भीष्ममुद्धवाक्रूरपुष्करान्
गुहं सूतञ्च वाल्मीकं स्वायम्भुवमनुं ध्रुवम् २१०
विश्वास-प्रस्तुतिः - २११
वैणञ्च रोमशञ्चैव मातंगं शबरीं तथा
सनन्दनञ्च सनकं विघनञ्च सनातनम् २११
मूलम् - २११
वैणञ्च रोमशञ्चैव मातंगं शबरीं तथा
सनन्दनञ्च सनकं विघनञ्च सनातनम् २११
विश्वास-प्रस्तुतिः - २१२
वोटुं पञ्चशिखञ्चैव गजेन्द्रञ्च जटायुषम्
सुशीलां त्रिजटां गौरीं शुभां सन्ध्यावलिं तथा २१२
मूलम् - २१२
वोटुं पञ्चशिखञ्चैव गजेन्द्रञ्च जटायुषम्
सुशीलां त्रिजटां गौरीं शुभां सन्ध्यावलिं तथा २१२
विश्वास-प्रस्तुतिः - २१३
अनसूयां द्रौपदीञ्च यशोदां देवकीं तथा
सुभद्राञ्चैव गोपीश्च शुभा नन्दव्रजे स्थिताः २१३
मूलम् - २१३
अनसूयां द्रौपदीञ्च यशोदां देवकीं तथा
सुभद्राञ्चैव गोपीश्च शुभा नन्दव्रजे स्थिताः २१३
विश्वास-प्रस्तुतिः - ६९८
नन्दं च वसुदेवञ्च दिलीपं दशरथं तथा
र्
६९८
मूलम् - ६९८
नन्दं च वसुदेवञ्च दिलीपं दशरथं तथा
र्
६९८
विश्वास-प्रस्तुतिः - २१५
अर्चयेद्गन्धपुष्पाद्यैर्धूपैर्दीपैर्निवेदनैः
ताम्बूलैर्भक्ष्यभोज्यैश्च दीपैर्नीराजनैरपि २१५
मूलम् - २१५
अर्चयेद्गन्धपुष्पाद्यैर्धूपैर्दीपैर्निवेदनैः
ताम्बूलैर्भक्ष्यभोज्यैश्च दीपैर्नीराजनैरपि २१५
विश्वास-प्रस्तुतिः - २१६
अहं भुवेति सूक्तेन दद्यान्नीराजनं हरेः
पश्चाद्धोमं प्रकुर्वीत अग्न्याधानादिपूर्ववत् २१६
मूलम् - २१६
अहं भुवेति सूक्तेन दद्यान्नीराजनं हरेः
पश्चाद्धोमं प्रकुर्वीत अग्न्याधानादिपूर्ववत् २१६
विश्वास-प्रस्तुतिः - २१७
दशमं मण्डलं सर्वं प्रत्यृचं जुहुयाद्धविः
तिलमिश्रेण साज्येन चरुणा गोघृतेन वा २१७
मूलम् - २१७
दशमं मण्डलं सर्वं प्रत्यृचं जुहुयाद्धविः
तिलमिश्रेण साज्येन चरुणा गोघृतेन वा २१७
विश्वास-प्रस्तुतिः - २१८
सर्वैश्च वैष्णवैः सूक्तैश्चतुर्भिश्चाष्टोत्तरं शतम्
नामभिश्च चतुर्थ्यन्तैस्तान् सर्वान् वैष्णवान्यजेत् २१८
मूलम् - २१८
सर्वैश्च वैष्णवैः सूक्तैश्चतुर्भिश्चाष्टोत्तरं शतम्
नामभिश्च चतुर्थ्यन्तैस्तान् सर्वान् वैष्णवान्यजेत् २१८
विश्वास-प्रस्तुतिः - २१९
पुष्पैरिष्ट्वा चावभृथं प्रसूनेष्टिञ्च कारयेत्
होमं कर्तुमशक्तश्चेद्वेदेन नृपनन्दन २१९
मूलम् - २१९
पुष्पैरिष्ट्वा चावभृथं प्रसूनेष्टिञ्च कारयेत्
होमं कर्तुमशक्तश्चेद्वेदेन नृपनन्दन २१९
विश्वास-प्रस्तुतिः - २२०
चतुर्भिर्वैष्णवैर्मन्त्रैः साहस्रं वा पृथक्पृथक्
इमां भागवतीमिष्टिं यः कुर्याद्वैष्णवोत्तमः २२०
मूलम् - २२०
चतुर्भिर्वैष्णवैर्मन्त्रैः साहस्रं वा पृथक्पृथक्
इमां भागवतीमिष्टिं यः कुर्याद्वैष्णवोत्तमः २२०
विश्वास-प्रस्तुतिः - २२१
अनन्तगरुडादीनामयमन्यतमो भवेत्
पावमानैर्यदा ऋग्भिरिज्यते मधुसूदनः २२१
मूलम् - २२१
अनन्तगरुडादीनामयमन्यतमो भवेत्
पावमानैर्यदा ऋग्भिरिज्यते मधुसूदनः २२१
विश्वास-प्रस्तुतिः - २२२
तत्त्वावमानी मुनिभिः प्रोच्यते मधुसूदनः
यदा तु द्वादशी शुक्ला भृगुवासरसंयुता २२२
मूलम् - २२२
तत्त्वावमानी मुनिभिः प्रोच्यते मधुसूदनः
यदा तु द्वादशी शुक्ला भृगुवासरसंयुता २२२
विश्वास-प्रस्तुतिः - २२३
तस्यामेव प्रकुर्वीत पाद्मीमिष्टिं द्विजोत्तमः
महाप्रीतिकरं विष्णोः सद्योमुक्तिप्रदायकम् २२३
मूलम् - २२३
तस्यामेव प्रकुर्वीत पाद्मीमिष्टिं द्विजोत्तमः
महाप्रीतिकरं विष्णोः सद्योमुक्तिप्रदायकम् २२३
विश्वास-प्रस्तुतिः - २२४
तस्यां कृतायामिष्ट्यां तु लक्ष्मीभर्त्ता जनार्दनः
प्रत्यक्षो हि भवेत्तत्र सर्वकामफलप्रदः २२४
मूलम् - २२४
तस्यां कृतायामिष्ट्यां तु लक्ष्मीभर्त्ता जनार्दनः
प्रत्यक्षो हि भवेत्तत्र सर्वकामफलप्रदः २२४
विश्वास-प्रस्तुतिः - २२५
श्रीधरं पूजयेत्तत्र तन्मन्त्रेणैव वैष्णवः
सुवर्णमण्डपे दिव्ये नानारत्नप्रदीपिते २२५
मूलम् - २२५
श्रीधरं पूजयेत्तत्र तन्मन्त्रेणैव वैष्णवः
सुवर्णमण्डपे दिव्ये नानारत्नप्रदीपिते २२५
विश्वास-प्रस्तुतिः - २२६
उदयादित्यसङ्काशे हिरण्ये पङ्कजे शुभे
लक्ष्म्या सह समासीनं कोटिशीतांशुसन्निभम् २२६
मूलम् - २२६
उदयादित्यसङ्काशे हिरण्ये पङ्कजे शुभे
लक्ष्म्या सह समासीनं कोटिशीतांशुसन्निभम् २२६
६९९
पीताम्बरधरं विष्णुं वनमालाविराजितम् २२७
विश्वास-प्रस्तुतिः - २२८
अर्चयेज्जगतामीशं सर्वाभरणभूषितम्
पद्मां पद्मलयां लक्ष्मीं कमलां पद्मसम्भवाम् २२८
मूलम् - २२८
अर्चयेज्जगतामीशं सर्वाभरणभूषितम्
पद्मां पद्मलयां लक्ष्मीं कमलां पद्मसम्भवाम् २२८
विश्वास-प्रस्तुतिः - २२९
पद्ममाल्यां पद्महस्तां पद्मनाभीं सनातनीम्
प्रागादिषु तथा दिक्षु पूजयेत् कुसुमादिभिः २२९
मूलम् - २२९
पद्ममाल्यां पद्महस्तां पद्मनाभीं सनातनीम्
प्रागादिषु तथा दिक्षु पूजयेत् कुसुमादिभिः २२९
विश्वास-प्रस्तुतिः - २३०
अस्त्रादीनीश्वरान्पूज्य नमस्कुर्वीत भक्तितः
ततो नीराजनं दत्त्वा श्रीसूक्तेन तु वैष्णवः २३०
मूलम् - २३०
अस्त्रादीनीश्वरान्पूज्य नमस्कुर्वीत भक्तितः
ततो नीराजनं दत्त्वा श्रीसूक्तेन तु वैष्णवः २३०
विश्वास-प्रस्तुतिः - २३१
पुरतो जुहुयादग्नौ पायसं घृतमिश्रितम्
तन्मंत्रैणैव साहस्रं सूक्ताभ्यां सकृदेव हि २३१
मूलम् - २३१
पुरतो जुहुयादग्नौ पायसं घृतमिश्रितम्
तन्मंत्रैणैव साहस्रं सूक्ताभ्यां सकृदेव हि २३१
विश्वास-प्रस्तुतिः - २३२
हुत्वा मन्त्रेण साहस्रं दद्यात्पुष्पाणि शार्ङ्गिणे
वैष्णवं विप्रमिथुनं पूजयेद्भोजयेत्तथा २३२
मूलम् - २३२
हुत्वा मन्त्रेण साहस्रं दद्यात्पुष्पाणि शार्ङ्गिणे
वैष्णवं विप्रमिथुनं पूजयेद्भोजयेत्तथा २३२
विश्वास-प्रस्तुतिः - २३३
इमां पाद्मीं शुभामिष्टिं यः कुर्याद्वैष्णवोत्तमः
प्रभूतधनधान्याढ्यो महाश्रियमवाप्नुयात् २३३
मूलम् - २३३
इमां पाद्मीं शुभामिष्टिं यः कुर्याद्वैष्णवोत्तमः
प्रभूतधनधान्याढ्यो महाश्रियमवाप्नुयात् २३३
विश्वास-प्रस्तुतिः - २३४
सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति
लक्ष्म्यायुक्तो जगन्नाथः प्रत्यक्षः समभूद्धरिः २३४
मूलम् - २३४
सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति
लक्ष्म्यायुक्तो जगन्नाथः प्रत्यक्षः समभूद्धरिः २३४
विश्वास-प्रस्तुतिः - २३५
ददाति सकलान् कामानिह लोके परत्र च
पुण्यैः पवित्रदैवत्यैरिज्यते यत्र केशवः २३५
मूलम् - २३५
ददाति सकलान् कामानिह लोके परत्र च
पुण्यैः पवित्रदैवत्यैरिज्यते यत्र केशवः २३५
विश्वास-प्रस्तुतिः - २३६
तां पवित्रेष्टिमित्याहुः सर्वपापप्रणाशिनीम्
यत्ते पवित्रमित्यादि ऋग्भिर्यत्र यजेद्द्विजः २३६
मूलम् - २३६
तां पवित्रेष्टिमित्याहुः सर्वपापप्रणाशिनीम्
यत्ते पवित्रमित्यादि ऋग्भिर्यत्र यजेद्द्विजः २३६
विश्वास-प्रस्तुतिः - २३७
प्रायश्चित्तार्थं सहसा शान्त्यर्थं वा समाचरेत्
एवं विधानमिष्टीनां सम्यगुक्तं महर्षिभिः २३७
मूलम् - २३७
प्रायश्चित्तार्थं सहसा शान्त्यर्थं वा समाचरेत्
एवं विधानमिष्टीनां सम्यगुक्तं महर्षिभिः २३७
विश्वास-प्रस्तुतिः - २३८
वैदिकेनैव विधिना यथाशक्त्या समाचरेत्
अवैदिकक्रियाजुष्टं प्रयत्नेन विवर्जयेत् २३८
मूलम् - २३८
वैदिकेनैव विधिना यथाशक्त्या समाचरेत्
अवैदिकक्रियाजुष्टं प्रयत्नेन विवर्जयेत् २३८
विश्वास-प्रस्तुतिः - २३९
क्षीराब्धौ शेषपर्यङ्के बुध्यमाने सनातने
अत्रोत्सवं प्रकुर्वीत पञ्चरात्रं निरन्तरम् २३९
मूलम् - २३९
क्षीराब्धौ शेषपर्यङ्के बुध्यमाने सनातने
अत्रोत्सवं प्रकुर्वीत पञ्चरात्रं निरन्तरम् २३९
विश्वास-प्रस्तुतिः - ७००
नद्याश्च पुष्करिण्या वा तीरे रम्यतले शुचौ
र्
७००
मूलम् - ७००
नद्याश्च पुष्करिण्या वा तीरे रम्यतले शुचौ
र्
७००
विश्वास-प्रस्तुतिः - २४१
बितानपुष्पमालादि पताकाध्वजशोभितम्
अङ्कुरार्पणपूर्वेण यज्ञवेदिञ्च कल्पयेत् २४१
मूलम् - २४१
बितानपुष्पमालादि पताकाध्वजशोभितम्
अङ्कुरार्पणपूर्वेण यज्ञवेदिञ्च कल्पयेत् २४१
विश्वास-प्रस्तुतिः - २४२
ऋत्विग्भिः साद्धमाचार्यो दीक्षितो मङ्गलस्वनैः
रथमारोप्य देवेशं छत्रचामरसंयुतम् २४२
मूलम् - २४२
ऋत्विग्भिः साद्धमाचार्यो दीक्षितो मङ्गलस्वनैः
रथमारोप्य देवेशं छत्रचामरसंयुतम् २४२
विश्वास-प्रस्तुतिः - २४३
पठन्वैशाकुनान् मन्त्रान् यज्ञशालां प्रवेशयेत्
स्वस्तिवाचनपूर्वेण कुर्यात्कौतुकबन्धनम् २४३
मूलम् - २४३
पठन्वैशाकुनान् मन्त्रान् यज्ञशालां प्रवेशयेत्
स्वस्तिवाचनपूर्वेण कुर्यात्कौतुकबन्धनम् २४३
विश्वास-प्रस्तुतिः - २४४
पूर्णकुम्भान् शस्ययुतान् पालिकाः परितः क्षिपेत्
अभ्यर्च्य गन्धपुष्पाद्यैः पश्चादावरणं यजेत् २४४
मूलम् - २४४
पूर्णकुम्भान् शस्ययुतान् पालिकाः परितः क्षिपेत्
अभ्यर्च्य गन्धपुष्पाद्यैः पश्चादावरणं यजेत् २४४
विश्वास-प्रस्तुतिः - २४५
वासुदेवमनन्तञ्च सत्यं यज्ञं तथाऽच्युतम्
महेन्द्रं श्रीपतिं विश्वं पूर्णकुम्भेषु पूजयेत् २४५
मूलम् - २४५
वासुदेवमनन्तञ्च सत्यं यज्ञं तथाऽच्युतम्
महेन्द्रं श्रीपतिं विश्वं पूर्णकुम्भेषु पूजयेत् २४५
विश्वास-प्रस्तुतिः - २४६
पालिकाः सद्दिगीशांश्च दीपिकास्वथ हेतयः
तोरणेषु च चण्डाद्याः पूजनीया यथाक्रमम् २४६
मूलम् - २४६
पालिकाः सद्दिगीशांश्च दीपिकास्वथ हेतयः
तोरणेषु च चण्डाद्याः पूजनीया यथाक्रमम् २४६
विश्वास-प्रस्तुतिः - २४७
वेद्याश्च दक्षिणे भागे कुण्डं कुर्यात्सलक्षणम्
निक्षिप्याग्निं विधानेन इध्माधानान्तमाचरेत् २४७
मूलम् - २४७
वेद्याश्च दक्षिणे भागे कुण्डं कुर्यात्सलक्षणम्
निक्षिप्याग्निं विधानेन इध्माधानान्तमाचरेत् २४७
विश्वास-प्रस्तुतिः - २४८
आचार्योपासाग्नौ वा लौकिके वा नृपोत्तम
आधानं पूर्ववत् कृत्वा पश्चात्कर्म समाचरेत् २४८
मूलम् - २४८
आचार्योपासाग्नौ वा लौकिके वा नृपोत्तम
आधानं पूर्ववत् कृत्वा पश्चात्कर्म समाचरेत् २४८
विश्वास-प्रस्तुतिः - २४९
प्रातः स्नात्वा विधानेन पूजयित्वा सनातनम्
प्रत्यृच्चं पावमानीभिर्जुहुयात्पायसं शुभम् २४९
मूलम् - २४९
प्रातः स्नात्वा विधानेन पूजयित्वा सनातनम्
प्रत्यृच्चं पावमानीभिर्जुहुयात्पायसं शुभम् २४९
विश्वास-प्रस्तुतिः - २५०
वैष्णवैरनुवाकैश्च मन्त्रैः शक्त्या पृथक्पृथक्
चतुर्भिर्व्यापकैश्चान्यै प्रत्येकं जुहुयाद्धृतम् २५०
मूलम् - २५०
वैष्णवैरनुवाकैश्च मन्त्रैः शक्त्या पृथक्पृथक्
चतुर्भिर्व्यापकैश्चान्यै प्रत्येकं जुहुयाद्धृतम् २५०
विश्वास-प्रस्तुतिः - २५१
वैकुण्ठं पार्षदं हुत्वा होमशेषं समाचरेत्
ताभिरेव च पुष्पाणि दद्याच्च जगताम्पतेः २५१
मूलम् - २५१
वैकुण्ठं पार्षदं हुत्वा होमशेषं समाचरेत्
ताभिरेव च पुष्पाणि दद्याच्च जगताम्पतेः २५१
विश्वास-प्रस्तुतिः - २५२
उद्बोधयित्वा शयने देवदेवं जनार्दनम्
पश्चात्सर्वमिदं कुर्यादुत्सवार्थं द्विजोत्तमः २५२
मूलम् - २५२
उद्बोधयित्वा शयने देवदेवं जनार्दनम्
पश्चात्सर्वमिदं कुर्यादुत्सवार्थं द्विजोत्तमः २५२
७०१
पुष्पमण्डपचिह्नादि समास्तीर्णसमन्विताम् २५३
विश्वास-प्रस्तुतिः - २५४
सुतोरणवितानाढ्यां पताकाध्वजशोभिताम्
तस्मिन् कनकपर्यङ्के निवेश्य कमलापतिम् २५४
मूलम् - २५४
सुतोरणवितानाढ्यां पताकाध्वजशोभिताम्
तस्मिन् कनकपर्यङ्के निवेश्य कमलापतिम् २५४
विश्वास-प्रस्तुतिः - २५५
अर्चयित्वा विधानेन लक्ष्म्या सार्द्धं सनातनम्
पुष्पाञ्जलिशतं तत्र मन्त्ररत्नेन कारयेत् २५५
मूलम् - २५५
अर्चयित्वा विधानेन लक्ष्म्या सार्द्धं सनातनम्
पुष्पाञ्जलिशतं तत्र मन्त्ररत्नेन कारयेत् २५५
विश्वास-प्रस्तुतिः - २५६
श्रीपौरुषाभ्यां सूक्ताभ्यां दद्यात्पुष्पाञ्जलिं ततः
परितः शक्तयः पूज्यास्तथाऽऽवरणदेवताः २५६
मूलम् - २५६
श्रीपौरुषाभ्यां सूक्ताभ्यां दद्यात्पुष्पाञ्जलिं ततः
परितः शक्तयः पूज्यास्तथाऽऽवरणदेवताः २५६
विश्वास-प्रस्तुतिः - २५७
दीपैर्नीराजनं कृत्वा बलिं दद्यात्समन्ततः
नौभिः समन्ताद्बहुभिर्गीतवादित्रसंयुतम् २५७
मूलम् - २५७
दीपैर्नीराजनं कृत्वा बलिं दद्यात्समन्ततः
नौभिः समन्ताद्बहुभिर्गीतवादित्रसंयुतम् २५७
विश्वास-प्रस्तुतिः - २५८
दीपिकाभिरनेकाभिस्तोत्ररपि मनोरमैः
प्लावयन्तो ऊगन्नाथं तत्र तत्र जलाशये २५८
मूलम् - २५८
दीपिकाभिरनेकाभिस्तोत्ररपि मनोरमैः
प्लावयन्तो ऊगन्नाथं तत्र तत्र जलाशये २५८
विश्वास-प्रस्तुतिः - २५९
फलैर्भक्षैश्च ताम्बूलैः कलशैर्दधिमिश्रितैः
कुङ्कुमैः कुसुमैर्लाजैर्विकिरन्तः परस्परम् २५९
मूलम् - २५९
फलैर्भक्षैश्च ताम्बूलैः कलशैर्दधिमिश्रितैः
कुङ्कुमैः कुसुमैर्लाजैर्विकिरन्तः परस्परम् २५९
विश्वास-प्रस्तुतिः - २६०
गानैर्वेदैः पुराणैश्च सेवेत निशि केशवम्
ऋत्विजो वारुणान् सूक्तान् जपेयुस्तत्र भक्तितः २६०
मूलम् - २६०
गानैर्वेदैः पुराणैश्च सेवेत निशि केशवम्
ऋत्विजो वारुणान् सूक्तान् जपेयुस्तत्र भक्तितः २६०
विश्वास-प्रस्तुतिः - २६१
जपेच्च भगवन्मन्त्रान् शान्तिपाठञ्चरेत्तथा
एवं संसेव्य बहुधा रात्रावस्मिन् जलाशये २६१
मूलम् - २६१
जपेच्च भगवन्मन्त्रान् शान्तिपाठञ्चरेत्तथा
एवं संसेव्य बहुधा रात्रावस्मिन् जलाशये २६१
विश्वास-प्रस्तुतिः - २६२
प्रदेवत्रेति सूक्तेन यज्ञशालां प्रवेशयेत्
तत्र नीराजनं दत्त्वा कुर्यादर्घ्यादिपूजनम् २६२
मूलम् - २६२
प्रदेवत्रेति सूक्तेन यज्ञशालां प्रवेशयेत्
तत्र नीराजनं दत्त्वा कुर्यादर्घ्यादिपूजनम् २६२
विश्वास-प्रस्तुतिः - २६४
स्नात्वा पूर्ववदभ्यर्च्य हुत्वा पुष्पाञ्जलिं तथा
आशिषोवाचनं कृत्वा भोजयेद्ब्राह्मणान्शुभान् २६४
मूलम् - २६४
स्नात्वा पूर्ववदभ्यर्च्य हुत्वा पुष्पाञ्जलिं तथा
आशिषोवाचनं कृत्वा भोजयेद्ब्राह्मणान्शुभान् २६४
विश्वास-प्रस्तुतिः - २६५
शाययित्वाऽथ देवेशं भुञ्जीयाद्वाग्यतः स्वयम्
एवं प्रतिदिनं कुर्यादुत्सवं पञ्चवासरम् २६५
मूलम् - २६५
शाययित्वाऽथ देवेशं भुञ्जीयाद्वाग्यतः स्वयम्
एवं प्रतिदिनं कुर्यादुत्सवं पञ्चवासरम् २६५
विश्वास-प्रस्तुतिः - २६६
अन्ते चावभृथेष्टिं च पुष्पयागञ्च कारयेत्
आचार्य मृत्विजो विप्रान्पूजयेद्दक्षिणादिभिः २६६
मूलम् - २६६
अन्ते चावभृथेष्टिं च पुष्पयागञ्च कारयेत्
आचार्य मृत्विजो विप्रान्पूजयेद्दक्षिणादिभिः २६६
७०२
विश्वास-प्रस्तुतिः - २६७
एवं क्षीराब्धियजनं प्रत्यब्दं कारयेन्नृप
स्वसम्यगर्थवृद्ध्यर्थं भोगाय कमलापतेः २६७
मूलम् - २६७
एवं क्षीराब्धियजनं प्रत्यब्दं कारयेन्नृप
स्वसम्यगर्थवृद्ध्यर्थं भोगाय कमलापतेः २६७
विश्वास-प्रस्तुतिः - २६८
सर्वधर्मविवृद्ध्यर्थं क्षीराब्धियजनं चरेत्
तत्र दुर्भिक्षरोगाग्निपापबाधा न सन्ति हि २६८
मूलम् - २६८
सर्वधर्मविवृद्ध्यर्थं क्षीराब्धियजनं चरेत्
तत्र दुर्भिक्षरोगाग्निपापबाधा न सन्ति हि २६८
विश्वास-प्रस्तुतिः - २६९
गावः पूर्णदुघा नित्यं बहुलस्य फलाधरा
पुष्पिताः फलिता वृक्षा नार्यो भर्तृपरायणाः २६९
मूलम् - २६९
गावः पूर्णदुघा नित्यं बहुलस्य फलाधरा
पुष्पिताः फलिता वृक्षा नार्यो भर्तृपरायणाः २६९
विश्वास-प्रस्तुतिः - २७०
आयुष्मन्तश्च शिशवो जायते भक्तिरच्युते
यः करोति विधानेन यजनं जलशायिनः २७०
मूलम् - २७०
आयुष्मन्तश्च शिशवो जायते भक्तिरच्युते
यः करोति विधानेन यजनं जलशायिनः २७०
विश्वास-प्रस्तुतिः - २७१
क्रतुकोटिफलं तत्र प्राप्नोत्येव न संशयः
यस्त्विदं शृणुयान्नित्यं क्षीराब्धियजनं हरेः २७१
मूलम् - २७१
क्रतुकोटिफलं तत्र प्राप्नोत्येव न संशयः
यस्त्विदं शृणुयान्नित्यं क्षीराब्धियजनं हरेः २७१
विश्वास-प्रस्तुतिः - २७२
सर्वान् कामानवाप्नोति विष्णुलोकश्च विन्दति
पुष्पिते तु रसाले तु तत्राप्युत्सवमात्मनः २७२
मूलम् - २७२
सर्वान् कामानवाप्नोति विष्णुलोकश्च विन्दति
पुष्पिते तु रसाले तु तत्राप्युत्सवमात्मनः २७२
विश्वास-प्रस्तुतिः - २७३
त्रिवासरं प्रकुर्वीत दोलानाम महोत्सवम्
उपोषितः संयतात्मा दीक्षितो माधवं हरिम् २७३
मूलम् - २७३
त्रिवासरं प्रकुर्वीत दोलानाम महोत्सवम्
उपोषितः संयतात्मा दीक्षितो माधवं हरिम् २७३
विश्वास-प्रस्तुतिः - २७४
छत्रचामरवादित्रैः पताकैः शिविकां शुभाम्
आरोप्यालङ्कृतं विष्णुं स्वयञ्च समलङ्कृतः २७४
मूलम् - २७४
छत्रचामरवादित्रैः पताकैः शिविकां शुभाम्
आरोप्यालङ्कृतं विष्णुं स्वयञ्च समलङ्कृतः २७४
विश्वास-प्रस्तुतिः - २७५
हरिद्रां विकिरन्तो वै गायन्तः परमेश्वरम्
गच्छेयुराद्रुमं प्रातर्नरनारीजनैः सह २७५
मूलम् - २७५
हरिद्रां विकिरन्तो वै गायन्तः परमेश्वरम्
गच्छेयुराद्रुमं प्रातर्नरनारीजनैः सह २७५
विश्वास-प्रस्तुतिः - २७६
तत्राऽऽम्रवृक्षच्छायायां वेद्यंसम्पूजयेद्धरिम्
चूतपुष्पैः सुगन्धीभिर्माधवीभिश्च यूथिकैः २७६
मूलम् - २७६
तत्राऽऽम्रवृक्षच्छायायां वेद्यंसम्पूजयेद्धरिम्
चूतपुष्पैः सुगन्धीभिर्माधवीभिश्च यूथिकैः २७६
विश्वास-प्रस्तुतिः - १७७
मरीचिमिश्रं दध्यन्नं मोदकञ्च समर्पयेत्
शष्कुल्यादीनि भक्ष्याणि पानकञ्च निवेदयेत् १७७
मूलम् - १७७
मरीचिमिश्रं दध्यन्नं मोदकञ्च समर्पयेत्
शष्कुल्यादीनि भक्ष्याणि पानकञ्च निवेदयेत् १७७
विश्वास-प्रस्तुतिः - २७८
सकर्पूरञ्च ताम्बूलं पूगीफलसमन्वितम्
सर्वमावरणं पूज्यं होमं पश्चात्समाचरेत् २७८
मूलम् - २७८
सकर्पूरञ्च ताम्बूलं पूगीफलसमन्वितम्
सर्वमावरणं पूज्यं होमं पश्चात्समाचरेत् २७८
७०३
माधवेनैव मनुना शर्करासंयुतान् तिलान् २७९
विश्वास-प्रस्तुतिः - २८०
सहस्रं जुहुयाद्वह्नौ भक्त्या वैष्णवसत्तमः
वैकुण्ठं पार्षदं हुत्वा होमशेषं समापयेत् २८०
मूलम् - २८०
सहस्रं जुहुयाद्वह्नौ भक्त्या वैष्णवसत्तमः
वैकुण्ठं पार्षदं हुत्वा होमशेषं समापयेत् २८०
विश्वास-प्रस्तुतिः - २८१
प्रत्यृचं पावमानीभिर्दद्यात्पुष्पाञ्जलिं हरेः
अथ दोलां शुभाकारां बद्धास्मिन् समलङ्कृताम् २८१
मूलम् - २८१
प्रत्यृचं पावमानीभिर्दद्यात्पुष्पाञ्जलिं हरेः
अथ दोलां शुभाकारां बद्धास्मिन् समलङ्कृताम् २८१
विश्वास-प्रस्तुतिः - २८२
वज्रवैदूर्यमाणिक्यमुक्ताविद्रुमभूषिताम्
तस्यां निवेश्य देवेशं लक्ष्म्या सार्द्धं प्रपूजयेत् २८२
मूलम् - २८२
वज्रवैदूर्यमाणिक्यमुक्ताविद्रुमभूषिताम्
तस्यां निवेश्य देवेशं लक्ष्म्या सार्द्धं प्रपूजयेत् २८२
विश्वास-प्रस्तुतिः - २८३
गन्धैः पुष्पैर्धूपदीपैः फलैर्भक्ष्यैर्निवेदनैः
कुसुमाक्षतदूर्वाग्रतिलसर्पिर्मधूदकम् २८३
मूलम् - २८३

विश्वास-प्रस्तुतिः - २८४
सर्षपाणि च निक्षिप्य अष्टाङ्गार्घ्यं निवेदयेत्
पादेषु चतुरो वेदान् मन्त्राण्योक्तेषु चास्तरे २८४
मूलम् - २८४
सर्षपाणि च निक्षिप्य अष्टाङ्गार्घ्यं निवेदयेत्
पादेषु चतुरो वेदान् मन्त्राण्योक्तेषु चास्तरे २८४
विश्वास-प्रस्तुतिः - २८५
नागराजञ्च दोलायां पीठे सर्वस्वरैरपि
व्यजनैर्वैनतेयञ्च सावित्रीं चामरे तथा २८५
मूलम् - २८५
नागराजञ्च दोलायां पीठे सर्वस्वरैरपि
व्यजनैर्वैनतेयञ्च सावित्रीं चामरे तथा २८५
विश्वास-प्रस्तुतिः - २८६
द्विनिशामर्चयेद्दिक्षु ऊर्ध्वं ब्रह्म बृहस्पतिः
अधस्ताच्चण्डिकां रुद्रं क्षेत्रपालविनायकौ २८६
मूलम् - २८६
द्विनिशामर्चयेद्दिक्षु ऊर्ध्वं ब्रह्म बृहस्पतिः
अधस्ताच्चण्डिकां रुद्रं क्षेत्रपालविनायकौ २८६
विश्वास-प्रस्तुतिः - २८७
विताने चन्द्रसूर्यौ च नक्षत्राणि ग्रहांस्तथा
वेदाश्च सेतिहासांश्च पुराणं देवता गणाः २८७
मूलम् - २८७
विताने चन्द्रसूर्यौ च नक्षत्राणि ग्रहांस्तथा
वेदाश्च सेतिहासांश्च पुराणं देवता गणाः २८७
विश्वास-प्रस्तुतिः - २८८
भूधराः सागराः सर्वे पूजनीयाः समन्ततः
एवं सम्पूज्य दोलायां लक्ष्म्या सह जनार्दनम् २८८
मूलम् - २८८
भूधराः सागराः सर्वे पूजनीयाः समन्ततः
एवं सम्पूज्य दोलायां लक्ष्म्या सह जनार्दनम् २८८
विश्वास-प्रस्तुतिः - २८९
दोलयेच्च ततो दोलां चतुर्वेदैश्चतुर्दिनम्
सूक्तैश्च ब्रह्मणोऽपत्यैः सामगानैः प्रबन्धकैः २८९
मूलम् - २८९
दोलयेच्च ततो दोलां चतुर्वेदैश्चतुर्दिनम्
सूक्तैश्च ब्रह्मणोऽपत्यैः सामगानैः प्रबन्धकैः २८९
विश्वास-प्रस्तुतिः - २९०
नामभिः कीर्तयन् देवमेव मन्दं प्रदोलयेत्
स्त्रियं स्वलङ्कृताः सर्वा गायन्त्यो विभुमच्युतम् २९०
मूलम् - २९०
नामभिः कीर्तयन् देवमेव मन्दं प्रदोलयेत्
स्त्रियं स्वलङ्कृताः सर्वा गायन्त्यो विभुमच्युतम् २९०
विश्वास-प्रस्तुतिः - २९१
चरितं रघुनाथस्य कृष्णस्य चरितं तथा
दोलयेयुर्मुदा भक्त्या दोलायां परमेश्वरम् २९१
मूलम् - २९१
चरितं रघुनाथस्य कृष्णस्य चरितं तथा
दोलयेयुर्मुदा भक्त्या दोलायां परमेश्वरम् २९१
विश्वास-प्रस्तुतिः - ७०४
दोलाया दर्शनं विष्णोर्महापातकनाशनम्
र्
७०४
मूलम् - ७०४
दोलाया दर्शनं विष्णोर्महापातकनाशनम्
र्
७०४
विश्वास-प्रस्तुतिः - २८३
देवाः सर्वे विमानस्था दोलायामर्चितं हरिम्
दर्शयन्ति ततः पुण्यं दोलानामोत्सवं हरेः २८३
मूलम् - २८३
देवाः सर्वे विमानस्था दोलायामर्चितं हरिम्
दर्शयन्ति ततः पुण्यं दोलानामोत्सवं हरेः २८३
विश्वास-प्रस्तुतिः - २९४
भक्त्या नीराजनं दद्यात् श्रीसूक्तेनैव वैष्णवः
ब्राह्मणान् भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत् २९४
मूलम् - २९४
भक्त्या नीराजनं दद्यात् श्रीसूक्तेनैव वैष्णवः
ब्राह्मणान् भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत् २९४
विश्वास-प्रस्तुतिः - २९५
एवं त्रिवासरं कुर्यादुत्सवं वैष्णवोत्तमः
प्रद्युम्नमेवं कुर्वीत तत्तत्काले तु वैष्णवः २९५
मूलम् - २९५
एवं त्रिवासरं कुर्यादुत्सवं वैष्णवोत्तमः
प्रद्युम्नमेवं कुर्वीत तत्तत्काले तु वैष्णवः २९५
विश्वास-प्रस्तुतिः - २९६
श्रौतेनैव च मार्गेण जपहोमपुरःसरम्
उत्सवं वासुदेवस्य यथाशक्त्या समाचरेत् २९६
मूलम् - २९६
श्रौतेनैव च मार्गेण जपहोमपुरःसरम्
उत्सवं वासुदेवस्य यथाशक्त्या समाचरेत् २९६
विश्वास-प्रस्तुतिः - २९७
यत्र यत्रोत्सवं विष्णोः कर्त्तुमिच्छति वैष्णवः
होमं कुर्यात्तत्र मन्त्रैस्तथाविष्णुप्रकाशकैः २९७
मूलम् - २९७
यत्र यत्रोत्सवं विष्णोः कर्त्तुमिच्छति वैष्णवः
होमं कुर्यात्तत्र मन्त्रैस्तथाविष्णुप्रकाशकैः २९७
विश्वास-प्रस्तुतिः - २९८
अतो देवेतिसूक्तेन तथाविष्णोर्नुकेन च
परोमात्रेति सूक्ताभ्यां पौरुषेण च वैष्णवः २९८
मूलम् - २९८
अतो देवेतिसूक्तेन तथाविष्णोर्नुकेन च
परोमात्रेति सूक्ताभ्यां पौरुषेण च वैष्णवः २९८
विश्वास-प्रस्तुतिः - २९९
नारायणानुवाकेन श्रीसूक्तेनापि वैष्णवः
प्रत्यृचं जुहुयाद्वह्नौ चरुणा पायसेन वा २९९
मूलम् - २९९
नारायणानुवाकेन श्रीसूक्तेनापि वैष्णवः
प्रत्यृचं जुहुयाद्वह्नौ चरुणा पायसेन वा २९९
विश्वास-प्रस्तुतिः - ३००
चतुर्भिर्वैष्णवैर्मन्त्रैः पृथगष्टोत्तरं शतम्
आज्यहोमं प्रकुर्वीत गायत्र्या विष्णुसंज्ञया ३००
मूलम् - ३००
चतुर्भिर्वैष्णवैर्मन्त्रैः पृथगष्टोत्तरं शतम्
आज्यहोमं प्रकुर्वीत गायत्र्या विष्णुसंज्ञया ३००
विश्वास-प्रस्तुतिः - ३०१
वैकुण्ठपार्षदं हुत्वा शेषं पूर्ववदाचरेत्
अनादिष्टेषु सर्वेषु कुर्यादेवं विधानतः ३०१
मूलम् - ३०१
वैकुण्ठपार्षदं हुत्वा शेषं पूर्ववदाचरेत्
अनादिष्टेषु सर्वेषु कुर्यादेवं विधानतः ३०१
विश्वास-प्रस्तुतिः - ३०२
ब्राह्मणान् भोजयेद्विप्रान् सर्वं सम्पूर्णतां व्रजेत्
अथवा मन्त्ररत्नेन सहस्रं प्रतिवासरम् ३०२
मूलम् - ३०२
ब्राह्मणान् भोजयेद्विप्रान् सर्वं सम्पूर्णतां व्रजेत्
अथवा मन्त्ररत्नेन सहस्रं प्रतिवासरम् ३०२
विश्वास-प्रस्तुतिः - ३०३
हुत्वा पुष्पाणि दत्त्वा च शेषं पूर्ववदाचरेत्
होमं विना न कर्तव्यमुत्सवं परमात्मनः ३०३
मूलम् - ३०३
हुत्वा पुष्पाणि दत्त्वा च शेषं पूर्ववदाचरेत्
होमं विना न कर्तव्यमुत्सवं परमात्मनः ३०३
विश्वास-प्रस्तुतिः - ३०४
जपहोमविहीनन्तु न गृह्णाति जनार्दनः
तस्माच्छ्रौतं प्रवक्ष्यामि विष्णोराराधनं नृप ३०४
मूलम् - ३०४
जपहोमविहीनन्तु न गृह्णाति जनार्दनः
तस्माच्छ्रौतं प्रवक्ष्यामि विष्णोराराधनं नृप ३०४
७०५
आदर्शात्सप्तरात्रन्तु पूजयेत्प्रभुमव्ययम् ३०५
विश्वास-प्रस्तुतिः - ३०६
स्नात्वा नद्यां विधानेन कृतकृत्यः समाहितः
गृहीत्वा जलकुम्भन्तु वारुणान् प्रवरान् व्रजेत् ३०६
मूलम् - ३०६
स्नात्वा नद्यां विधानेन कृतकृत्यः समाहितः
गृहीत्वा जलकुम्भन्तु वारुणान् प्रवरान् व्रजेत् ३०६
विश्वास-प्रस्तुतिः - ३०७
पञ्चत्वक्पल्लवान् पुष्पाण्यभिमन्त्र्य विनिक्षिपेत्
सौरभेयीं तथा मुद्रां दर्शयित्वा च पूजयेत् ३०७
मूलम् - ३०७
पञ्चत्वक्पल्लवान् पुष्पाण्यभिमन्त्र्य विनिक्षिपेत्
सौरभेयीं तथा मुद्रां दर्शयित्वा च पूजयेत् ३०७
विश्वास-प्रस्तुतिः - ३०८
त्रिवारं वैष्णवैर्मन्त्रैः शङ्खेनैवाभिषेचयेत्
पूजयित्वा विधानेन गन्धपुष्पाक्षतादिभिः ३०८
मूलम् - ३०८
त्रिवारं वैष्णवैर्मन्त्रैः शङ्खेनैवाभिषेचयेत्
पूजयित्वा विधानेन गन्धपुष्पाक्षतादिभिः ३०८
विश्वास-प्रस्तुतिः - ३०९
अपूपान् पायसं शक्तून् कृसरञ्च निवेदयेत्
मन्त्रैरष्टोत्तरशतं दत्त्वा पुष्पाणि चक्रिणः ३०९
मूलम् - ३०९
अपूपान् पायसं शक्तून् कृसरञ्च निवेदयेत्
मन्त्रैरष्टोत्तरशतं दत्त्वा पुष्पाणि चक्रिणः ३०९
विश्वास-प्रस्तुतिः - ३१०
पश्चाद्धोमं प्रकुर्वीत साज्येन चरुणा ततः
कस्य वा नैतिसूक्तेन वैष्णवैरपि वैष्णवः ३१०
मूलम् - ३१०
पश्चाद्धोमं प्रकुर्वीत साज्येन चरुणा ततः
कस्य वा नैतिसूक्तेन वैष्णवैरपि वैष्णवः ३१०
विश्वास-प्रस्तुतिः - ३११
हुत्वा तु मन्त्ररत्नेन घृतमष्टोत्तरं शतम्
वैकुण्ठं पार्षदं हुत्वा वैष्णवान् भोजयेत्ततः ३११
मूलम् - ३११
हुत्वा तु मन्त्ररत्नेन घृतमष्टोत्तरं शतम्
वैकुण्ठं पार्षदं हुत्वा वैष्णवान् भोजयेत्ततः ३११
विश्वास-प्रस्तुतिः - ३१२
सकृद्भोजनसंयुक्तः क्षितिशायी भवेन्निशि
सायाह्नेऽपि समभ्यर्च्य जातीपुष्पैः सुगन्धिभिः ३१२
मूलम् - ३१२
सकृद्भोजनसंयुक्तः क्षितिशायी भवेन्निशि
सायाह्नेऽपि समभ्यर्च्य जातीपुष्पैः सुगन्धिभिः ३१२
विश्वास-प्रस्तुतिः - ३१३
बहुभिर्दीपदण्डैश्च सेवेरन् पुरवासिनः
एवं महोत्सवं कृत्वा धनधान्ययुतो भवेत् ३१३
मूलम् - ३१३
बहुभिर्दीपदण्डैश्च सेवेरन् पुरवासिनः
एवं महोत्सवं कृत्वा धनधान्ययुतो भवेत् ३१३
विश्वास-प्रस्तुतिः - ३१४
तत्तत्कालोचितं विष्णोरुत्सवं परमात्मनः
द्रव्यहीनोऽपि कुर्वीत पत्रपुष्पैः फलादिभिः ३१४
मूलम् - ३१४
तत्तत्कालोचितं विष्णोरुत्सवं परमात्मनः
द्रव्यहीनोऽपि कुर्वीत पत्रपुष्पैः फलादिभिः ३१४
विश्वास-प्रस्तुतिः - ३१५
समिद्भिर्बिल्वपत्रैर्वा होमं कुर्वीत वैष्णवः
सन्तर्पयेच्च विप्रांस्तु कोमलैस्तुलसीदलैः ३१५
मूलम् - ३१५
समिद्भिर्बिल्वपत्रैर्वा होमं कुर्वीत वैष्णवः
सन्तर्पयेच्च विप्रांस्तु कोमलैस्तुलसीदलैः ३१५
विश्वास-प्रस्तुतिः - ३१६
भक्त्या वै देवदेवेशः परितुष्टो भवेद्ध्रुवम्
आस्तिक्यः श्रद्दधानश्च वियुक्तमदमत्सरः ३१६
मूलम् - ३१६
भक्त्या वै देवदेवेशः परितुष्टो भवेद्ध्रुवम्
आस्तिक्यः श्रद्दधानश्च वियुक्तमदमत्सरः ३१६
विश्वास-प्रस्तुतिः - ३१७
पूजयित्वा जगन्नाथं यावज्जीवमतन्द्रितः
इह भुक्त्वा मनोरम्यान् भोगान् सर्वान् यथेप्सितान् ३१७
मूलम् - ३१७
पूजयित्वा जगन्नाथं यावज्जीवमतन्द्रितः
इह भुक्त्वा मनोरम्यान् भोगान् सर्वान् यथेप्सितान् ३१७
विश्वास-प्रस्तुतिः - ७०६
सुखेन देहमुत्सृज्य जीर्णत्वचमिवोरगः
र्
७०६
मूलम् - ७०६
सुखेन देहमुत्सृज्य जीर्णत्वचमिवोरगः
र्
७०६
विश्वास-प्रस्तुतिः - ३१९
सारूप्यमीश्वरस्याऽऽशु गत्वा तु स्वजनैः सह
दिव्यं विमानमारुह्य वैकुण्ठं नाम भास्करम् ३१९
मूलम् - ३१९
सारूप्यमीश्वरस्याऽऽशु गत्वा तु स्वजनैः सह
दिव्यं विमानमारुह्य वैकुण्ठं नाम भास्करम् ३१९
विश्वास-प्रस्तुतिः - ३२०
दिव्याप्सरोगणैर्युक्तो दिव्यभूषणभूषितः
स्तूयमानः सुरगणैर्गीयमानश्च किन्नरैः ३२०
मूलम् - ३२०
दिव्याप्सरोगणैर्युक्तो दिव्यभूषणभूषितः
स्तूयमानः सुरगणैर्गीयमानश्च किन्नरैः ३२०
विश्वास-प्रस्तुतिः - ३२१
ब्रह्मलोकमतिक्रम्य गत्वा ब्रह्माण्डमण्डपम्
विष्णुचक्रेण वै भित्वा सर्वानावरणान् घनान् ३२१
मूलम् - ३२१
ब्रह्मलोकमतिक्रम्य गत्वा ब्रह्माण्डमण्डपम्
विष्णुचक्रेण वै भित्वा सर्वानावरणान् घनान् ३२१
विश्वास-प्रस्तुतिः - ३२२
अतीत्य वीरजामाशु सर्ववेदस्रवां नदीम्
अभ्युद्गच्छद्भिरव्यग्रैः पूज्यमानः सुरोत्तमैः ३२२
मूलम् - ३२२
अतीत्य वीरजामाशु सर्ववेदस्रवां नदीम्
अभ्युद्गच्छद्भिरव्यग्रैः पूज्यमानः सुरोत्तमैः ३२२
विश्वास-प्रस्तुतिः - ३२३
सम्प्राप्य परमं धाम योगिगम्यं सनातनम्
यद्गत्वा न निवर्तन्ते तद्धाम परमं हरेः ३२३
मूलम् - ३२३
सम्प्राप्य परमं धाम योगिगम्यं सनातनम्
यद्गत्वा न निवर्तन्ते तद्धाम परमं हरेः ३२३
विश्वास-प्रस्तुतिः - ३२४
तद्विष्णोः परमं धाम सदा पश्यन्ति योगिनः
शीतांशुकोटिसङ्काशैः सर्वैश्च भवनैर्युतम् ३२४
मूलम् - ३२४
तद्विष्णोः परमं धाम सदा पश्यन्ति योगिनः
शीतांशुकोटिसङ्काशैः सर्वैश्च भवनैर्युतम् ३२४
विश्वास-प्रस्तुतिः - ३२५
आरूढयौवनैर्दित्र्यैः पुंभिः स्त्रीभिश्च सङ्कुलम्
सर्वलक्षणसम्पन्नैर्दिव्यभूषणभूषितैः ३२५
मूलम् - ३२५
आरूढयौवनैर्दित्र्यैः पुंभिः स्त्रीभिश्च सङ्कुलम्
सर्वलक्षणसम्पन्नैर्दिव्यभूषणभूषितैः ३२५
विश्वास-प्रस्तुतिः - ३२६
अक्षरं परमं व्योम यस्मिन्देवा अधिष्ठिताः
इरावती धेनुमती व्यस्तभ्नासूयवासिनी ३२६
मूलम् - ३२६
अक्षरं परमं व्योम यस्मिन्देवा अधिष्ठिताः
इरावती धेनुमती व्यस्तभ्नासूयवासिनी ३२६
विश्वास-प्रस्तुतिः - ३२७
यत्र गावो भूरिशृङ्गाः साऽयोध्या देवपूजिता
अनन्तव्यूहलोकैश्च तथा तुल्यशुभावहैः ३२७
मूलम् - ३२७
यत्र गावो भूरिशृङ्गाः साऽयोध्या देवपूजिता
अनन्तव्यूहलोकैश्च तथा तुल्यशुभावहैः ३२७
विश्वास-प्रस्तुतिः - ३२८
सर्ववेदमयं तत्र मण्डपं सुमनोहरम्
सहस्रस्थूणसदसि ध्रुवे रम्योत्तरे शुभे ३२८
मूलम् - ३२८
सर्ववेदमयं तत्र मण्डपं सुमनोहरम्
सहस्रस्थूणसदसि ध्रुवे रम्योत्तरे शुभे ३२८
विश्वास-प्रस्तुतिः - ३२९
तस्मिन् मनोरमे पीठे धर्माद्यैः सूरिभिर्वृते
सहाऽऽसीनं कमलया दृष्ट्वा देवं सनातनम् ३२९
मूलम् - ३२९
तस्मिन् मनोरमे पीठे धर्माद्यैः सूरिभिर्वृते
सहाऽऽसीनं कमलया दृष्ट्वा देवं सनातनम् ३२९
विश्वास-प्रस्तुतिः - ३३०
स्तुतिभिः पुष्कलाभिश्च प्रणम्य च पुनः पुनः
प्रहर्षपुलको भूत्वा तेन चाऽऽलिङ्गितः क्रमात् ३३०
मूलम् - ३३०
स्तुतिभिः पुष्कलाभिश्च प्रणम्य च पुनः पुनः
प्रहर्षपुलको भूत्वा तेन चाऽऽलिङ्गितः क्रमात् ३३०
७०७
अनन्तविहगेशाद्यैरर्चितः सवदैवतैः ३३१
विश्वास-प्रस्तुतिः - ३३२
तेषामन्यतमो भूत्वा मोदते तत्र देववत्
एषु केषु च लोकेषु तिष्ठते कमलापतिः ३३२
मूलम् - ३३२
तेषामन्यतमो भूत्वा मोदते तत्र देववत्
एषु केषु च लोकेषु तिष्ठते कमलापतिः ३३२
विश्वास-प्रस्तुतिः - ३३३
तेषु तेष्वपि देवस्य नित्यदासो भवेत्सदा
दासवत्पुत्रवत्तस्य मित्रवद् बन्धुवत्सदा ३३३
मूलम् - ३३३
तेषु तेष्वपि देवस्य नित्यदासो भवेत्सदा
दासवत्पुत्रवत्तस्य मित्रवद् बन्धुवत्सदा ३३३
विश्वास-प्रस्तुतिः - ३३४
अश्नुते सकलान्कामान्सह तेन विपश्चिता
इमान्लोकान् कामभोगः कामरूप्यनुसञ्चरन् ३३४
मूलम् - ३३४
अश्नुते सकलान्कामान्सह तेन विपश्चिता
इमान्लोकान् कामभोगः कामरूप्यनुसञ्चरन् ३३४
विश्वास-प्रस्तुतिः - ३३५
सर्वदा दूरविध्वस्तदुःखावेशलवांशकः
गुणानुभवजप्रीत्या कुर्याद्दानमशेषतः ३३५
मूलम् - ३३५
सर्वदा दूरविध्वस्तदुःखावेशलवांशकः
गुणानुभवजप्रीत्या कुर्याद्दानमशेषतः ३३५
विश्वास-प्रस्तुतिः - ३३६
इवमेव परं मोक्षं विदुः परमयोगिनः
काङ्क्षन्ति परमं दासा मुक्तमेकं महर्षयः ३३६
मूलम् - ३३६
इवमेव परं मोक्षं विदुः परमयोगिनः
काङ्क्षन्ति परमं दासा मुक्तमेकं महर्षयः ३३६
विश्वास-प्रस्तुतिः - ३३७
हरेर्दास्यैकपरमां भक्तिमालम्ब्य मानवः
इहैव मुक्तो राजर्षे सर्वकर्मनिबन्धनः ३३७
मूलम् - ३३७