षष्ठोऽध्यायः
अथ महापापादिप्रायश्चित्तप्रकरणविधौ
प्रथमं भगवतः यात्रोत्सववर्णनम्
विश्वास-प्रस्तुतिः - १
हारीत उवाच
महोत्सवविधिं कुर्याद्देवस्य परमातमनः १
मूलम् - १
हारीत उवाच
महोत्सवविधिं कुर्याद्देवस्य परमातमनः १
विश्वास-प्रस्तुतिः - २
ग्रामार्चायाः प्रकुर्वीत यथोक्तविधिना नृप
यात्रोत्सवे कृते विष्णोः श्रुतिस्मृत्युक्तमार्गतः २
मूलम् - २
ग्रामार्चायाः प्रकुर्वीत यथोक्तविधिना नृप
यात्रोत्सवे कृते विष्णोः श्रुतिस्मृत्युक्तमार्गतः २
विश्वास-प्रस्तुतिः - ३
अनावृष्ट्यग्निदुर्भिक्षभयं नास्त्यत्र किञ्चन
वारिजं वातजं वाऽग्निसर्पविद्युद्द्विषत्कृतम् ३
मूलम् - ३
अनावृष्ट्यग्निदुर्भिक्षभयं नास्त्यत्र किञ्चन
वारिजं वातजं वाऽग्निसर्पविद्युद्द्विषत्कृतम् ३
विश्वास-प्रस्तुतिः - ४
महारोगग्रहैश्चैवं यद्भयं ग्रामवासिनाम्
कृते महोत्सवे तत्र भयं नास्ति न संशयः ४
मूलम् - ४
महारोगग्रहैश्चैवं यद्भयं ग्रामवासिनाम्
कृते महोत्सवे तत्र भयं नास्ति न संशयः ४
विश्वास-प्रस्तुतिः - ५
तस्य दासा भविष्यन्ति नानाजनपदेश्वराः
सार्वभौमो भवेद्राजा भक्त्या कृत्वा महोत्सवम् ५
मूलम् - ५
तस्य दासा भविष्यन्ति नानाजनपदेश्वराः
सार्वभौमो भवेद्राजा भक्त्या कृत्वा महोत्सवम् ५
विश्वास-प्रस्तुतिः - ६
नवाह्निकं च सप्ताहं पञ्चाहं प्रत्यहं तथा
सम्वत्सरे ऋतौ मासि पक्षेत्कुर्यात्क्रमेण तु ६
मूलम् - ६
नवाह्निकं च सप्ताहं पञ्चाहं प्रत्यहं तथा
सम्वत्सरे ऋतौ मासि पक्षेत्कुर्यात्क्रमेण तु ६
विश्वास-प्रस्तुतिः - ७
तस्मिन्नादौ शुभदिने स्वस्तिवाचनपूर्वकम्
अङ्कुरार्पणमादौ तु गरुत्मत्केतुमुच्छ्रयेत् ७
मूलम् - ७
तस्मिन्नादौ शुभदिने स्वस्तिवाचनपूर्वकम्
अङ्कुरार्पणमादौ तु गरुत्मत्केतुमुच्छ्रयेत् ७
विश्वास-प्रस्तुतिः - ८
याश्च षडित्योषधयः केतुको वेद इत्यपि
अश्वत्थाख्यशमीगर्भशुभामरणिमाहरेत् ८
मूलम् - ८
याश्च षडित्योषधयः केतुको वेद इत्यपि
अश्वत्थाख्यशमीगर्भशुभामरणिमाहरेत् ८
६४७
आभ्यां च प्रत्यृचं तस्मिन्निध्माधानादि पूर्ववत् ९
विश्वास-प्रस्तुतिः - १०
चर्वाज्यैरथमन्नीति उपस्थायार्चयेत्तथा
तदाग्निं संग्रहेत्तावदुत्सवः परिपूर्यते १०
मूलम् - १०
चर्वाज्यैरथमन्नीति उपस्थायार्चयेत्तथा
तदाग्निं संग्रहेत्तावदुत्सवः परिपूर्यते १०
विश्वास-प्रस्तुतिः - ११
दीक्षितः स भवेत्तावदाचार्यो विजितेन्द्रियः
वेदवेदाङ्गविच्छ्रौतस्मार्तकर्मविधानवत् ११
मूलम् - ११
दीक्षितः स भवेत्तावदाचार्यो विजितेन्द्रियः
वेदवेदाङ्गविच्छ्रौतस्मार्तकर्मविधानवत् ११
विश्वास-प्रस्तुतिः - १२
महाभागवतो विप्रस्तान्त्रिकः सर्वकर्मसु
लौकिके वा प्रकुर्वीत मथिताग्निर्न चेद्यदि १२
मूलम् - १२
महाभागवतो विप्रस्तान्त्रिकः सर्वकर्मसु
लौकिके वा प्रकुर्वीत मथिताग्निर्न चेद्यदि १२
विश्वास-प्रस्तुतिः - १३
आभ्यामेव च सूक्ताभ्यामग्नौ देवं यजेद्बुधः
प्रातः स्मार्तविधानेन धौतवस्त्रोर्ध्वपुण्ड्रधृत् १३
मूलम् - १३
आभ्यामेव च सूक्ताभ्यामग्नौ देवं यजेद्बुधः
प्रातः स्मार्तविधानेन धौतवस्त्रोर्ध्वपुण्ड्रधृत् १३
विश्वास-प्रस्तुतिः - १४
ऋत्विग्भिर्ब्राह्मणैर्दान्तैर्यागभूमिं विशेद्गुरुः
देवालयस्य मध्ये तु वेदिं रम्यां प्रकल्पयेत् १४
मूलम् - १४
ऋत्विग्भिर्ब्राह्मणैर्दान्तैर्यागभूमिं विशेद्गुरुः
देवालयस्य मध्ये तु वेदिं रम्यां प्रकल्पयेत् १४
विश्वास-प्रस्तुतिः - १५
अङ्कुरार्पणपात्रैश्च भद्रकुम्भैरलङ्कृताम्
वितानकुसुमाद्युक्तां कृत्वा तत्र सुखासने १५
मूलम् - १५
अङ्कुरार्पणपात्रैश्च भद्रकुम्भैरलङ्कृताम्
वितानकुसुमाद्युक्तां कृत्वा तत्र सुखासने १५
विश्वास-प्रस्तुतिः - १६
महोत्सवार्हं बिम्बं च निवेश्यास्मिन् प्रपूजयेत्
श्रीभूनिलादिसंयुक्तं नित्यैः परिजनैर्वृतम् १६
मूलम् - १६
महोत्सवार्हं बिम्बं च निवेश्यास्मिन् प्रपूजयेत्
श्रीभूनिलादिसंयुक्तं नित्यैः परिजनैर्वृतम् १६
विश्वास-प्रस्तुतिः - १७
मन्त्ररत्नविधानेन पूजयित्वा जगद्गुरुम्
इमे विप्रस्येत्यादिभिस्त्रिभिः सूक्तैश्च पूजयेत् १७
मूलम् - १७
मन्त्ररत्नविधानेन पूजयित्वा जगद्गुरुम्
इमे विप्रस्येत्यादिभिस्त्रिभिः सूक्तैश्च पूजयेत् १७
विश्वास-प्रस्तुतिः - १८
सुरभीणि च पुष्पाणि प्रत्यृचं विनिवेदयेत्
चतुर्दिक्षु च चत्वारो ब्राह्मणा मन्त्रवित्तमाः १८
मूलम् - १८
सुरभीणि च पुष्पाणि प्रत्यृचं विनिवेदयेत्
चतुर्दिक्षु च चत्वारो ब्राह्मणा मन्त्रवित्तमाः १८
विश्वास-प्रस्तुतिः - १९
वाराहं नारसिंहं च वामनं राघवं मनुम्
ईशान्यादिषु चत्वारो विष्णुमन्त्रान्विदिक्षु च १९
मूलम् - १९
वाराहं नारसिंहं च वामनं राघवं मनुम्
ईशान्यादिषु चत्वारो विष्णुमन्त्रान्विदिक्षु च १९
विश्वास-प्रस्तुतिः - २०
वेद्या दक्षिणतः कुण्डं लक्षणाढ्यं च तत्र तु
हुताशनं प्रतिष्ठाप्य इध्माधानानिकं चरेत् २०
मूलम् - २०
वेद्या दक्षिणतः कुण्डं लक्षणाढ्यं च तत्र तु
हुताशनं प्रतिष्ठाप्य इध्माधानानिकं चरेत् २०
विश्वास-प्रस्तुतिः - २१
सर्वैश्च वैष्णवैः सूक्तैश्चरुं तिलविमिश्रितम्
प्रत्यृचं जुहुयाद्वह्नौ मध्वाज्यगुडमिश्रितम् २१
मूलम् - २१
सर्वैश्च वैष्णवैः सूक्तैश्चरुं तिलविमिश्रितम्
प्रत्यृचं जुहुयाद्वह्नौ मध्वाज्यगुडमिश्रितम् २१
विश्वास-प्रस्तुतिः - ६४८
आज्यं श्रीभूमिसूक्ताभ्यां त्वं सोम इति पायसम्
र्
६४८
मूलम् - ६४८
आज्यं श्रीभूमिसूक्ताभ्यां त्वं सोम इति पायसम्
र्
६४८
विश्वास-प्रस्तुतिः - २३
प्रत्येकं जुहुयात्पश्चादष्टोत्तरशतं क्रमात्
वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत् २३
मूलम् - २३
प्रत्येकं जुहुयात्पश्चादष्टोत्तरशतं क्रमात्
वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत् २३
विश्वास-प्रस्तुतिः - २४
सुदध्यन्नं फलयुतं पानकञ्च निवेदयेत्
ताम्बूलञ्च समर्प्याथ ऋत्विजश्चापि पूजयेत् २४
मूलम् - २४
सुदध्यन्नं फलयुतं पानकञ्च निवेदयेत्
ताम्बूलञ्च समर्प्याथ ऋत्विजश्चापि पूजयेत् २४
विश्वास-प्रस्तुतिः - २५
ततः स्यन्दनमानीय पताकाच्छत्रसंयुतम्
श्वेतैः सलक्षणैरूह्ययानमश्वैः प्रकल्पितैः २५
मूलम् - २५
ततः स्यन्दनमानीय पताकाच्छत्रसंयुतम्
श्वेतैः सलक्षणैरूह्ययानमश्वैः प्रकल्पितैः २५
विश्वास-प्रस्तुतिः - २६
वस्त्रपुष्पमणिस्वर्णभूषितं तत्र चित्रितम्
तस्मिन् मृदुतरश्लक्ष्णपर्यङ्कं स्थाप्य देशिकः २६
मूलम् - २६
वस्त्रपुष्पमणिस्वर्णभूषितं तत्र चित्रितम्
तस्मिन् मृदुतरश्लक्ष्णपर्यङ्कं स्थाप्य देशिकः २६
विश्वास-प्रस्तुतिः - २७
तस्मिन्निवेश्य देवेशं देवीभ्यां सहितं हरिम्
अर्च्चयेद्गन्धपुष्पाद्यैर्धूपदीपादिभिस्तथा २७
मूलम् - २७
तस्मिन्निवेश्य देवेशं देवीभ्यां सहितं हरिम्
अर्च्चयेद्गन्धपुष्पाद्यैर्धूपदीपादिभिस्तथा २७
विश्वास-प्रस्तुतिः - २८
रथचक्रेषु वेदांश्च धर्मादीनपि पूजयेत्
आधारशक्तिमाधारे ईषादण्डे पुराणकम् २८
मूलम् - २८
रथचक्रेषु वेदांश्च धर्मादीनपि पूजयेत्
आधारशक्तिमाधारे ईषादण्डे पुराणकम् २८
विश्वास-प्रस्तुतिः - २९
छन्दांसि कूवरे सप्त पर्यङ्के भुजगाधिपम्
हयेषु चतुरो मन्त्रान् योक्त्रेष्वङ्गानि षट् च वै २९
मूलम् - २९
छन्दांसि कूवरे सप्त पर्यङ्के भुजगाधिपम्
हयेषु चतुरो मन्त्रान् योक्त्रेष्वङ्गानि षट् च वै २९
विश्वास-प्रस्तुतिः - ३०
ध्वजे पताकराजानं छत्रेऽनन्तं स्वराणि तु
तालवृन्ते चामरे च अक्षराणि च पूजयेत् ३०
मूलम् - ३०
ध्वजे पताकराजानं छत्रेऽनन्तं स्वराणि तु
तालवृन्ते चामरे च अक्षराणि च पूजयेत् ३०
विश्वास-प्रस्तुतिः - ३१
अभ्यर्च्च्यैवं रथं दिव्यं पश्चात्संपूजयेद्धरिम्
दिक्पालावरणांश्चैव मर्चयेद्दिक्षु सर्वतः ३१
मूलम् - ३१
अभ्यर्च्च्यैवं रथं दिव्यं पश्चात्संपूजयेद्धरिम्
दिक्पालावरणांश्चैव मर्चयेद्दिक्षु सर्वतः ३१
विश्वास-प्रस्तुतिः - ३२
जीमूतस्येति सूक्तेन तत्र पुष्पाञ्जलिं चरेत्
मरुत्वानिन्द्रेति सूक्तेन कृत्वा नीराजनं ततः ३२
मूलम् - ३२
जीमूतस्येति सूक्तेन तत्र पुष्पाञ्जलिं चरेत्
मरुत्वानिन्द्रेति सूक्तेन कृत्वा नीराजनं ततः ३२
विश्वास-प्रस्तुतिः - ३३
वनस्पतीति सूक्तेन वादयेत्पटहादिकम्
गीतैर्नृत्यैश्च वादित्रैः पुण्यस्तोत्रैर्मनोहरैः ३३
मूलम् - ३३
वनस्पतीति सूक्तेन वादयेत्पटहादिकम्
गीतैर्नृत्यैश्च वादित्रैः पुण्यस्तोत्रैर्मनोहरैः ३३
विश्वास-प्रस्तुतिः - ३४
हयैर्गजैः स्यन्दनैश्च परितस्तर्पयेत्प्रभुम्
ऋत्विजः पुरतो वेदानङ्गानि च जपेत्तदा ३४
मूलम् - ३४
हयैर्गजैः स्यन्दनैश्च परितस्तर्पयेत्प्रभुम्
ऋत्विजः पुरतो वेदानङ्गानि च जपेत्तदा ३४
६४९
कुङ्कुमैः कुसुमैर्लाजैर्विकिरन्वै समन्ततः ३५
विश्वास-प्रस्तुतिः - ३६
स्वलङ्कृतेषु विधिषु पर्यटन्सेवयेत्प्रभुम्
गृहद्वारेषु मार्गेषु भक्ष्यैरिक्षुभिरेव च ३६
मूलम् - ३६
स्वलङ्कृतेषु विधिषु पर्यटन्सेवयेत्प्रभुम्
गृहद्वारेषु मार्गेषु भक्ष्यैरिक्षुभिरेव च ३६
विश्वास-प्रस्तुतिः - ३७
कुसुमैर्धूपदीपैश्च ताम्बूलैश्चापि सेवयेत्
एवं निषेव्य देवेशं पुनर्गेहं निवेशयेत् ३७
मूलम् - ३७
कुसुमैर्धूपदीपैश्च ताम्बूलैश्चापि सेवयेत्
एवं निषेव्य देवेशं पुनर्गेहं निवेशयेत् ३७
विश्वास-प्रस्तुतिः - ३८
तमभि प्रगायतेति जपन्सूक्तं निवेशयेत्
प्रसन्नाजमित्यनेन दीपान्नीराजयेत्ततः ३८
मूलम् - ३८
तमभि प्रगायतेति जपन्सूक्तं निवेशयेत्
प्रसन्नाजमित्यनेन दीपान्नीराजयेत्ततः ३८
विश्वास-प्रस्तुतिः - ३९
पीठे निवेश्य देवेशमुपचारान्समर्पयेत्
वयमुपेत्य ध्यायेम आशिषो वाचनं चरेत् ३९
मूलम् - ३९
पीठे निवेश्य देवेशमुपचारान्समर्पयेत्
वयमुपेत्य ध्यायेम आशिषो वाचनं चरेत् ३९
विश्वास-प्रस्तुतिः - ४०
अनेन विधिना कुर्यादुत्सवं प्रतिवासरम्
जपेर्होमैस्तथा दानैर्विप्राणां भोजनैरपि ४०
मूलम् - ४०
अनेन विधिना कुर्यादुत्सवं प्रतिवासरम्
जपेर्होमैस्तथा दानैर्विप्राणां भोजनैरपि ४०
विश्वास-प्रस्तुतिः - ४१
समाप्ते चोत्सवे विष्णोः कुर्यादवभृथं शुभम्
नदीं खातं तडागं वा देवेन सहितो व्रजेत् ४१
मूलम् - ४१
समाप्ते चोत्सवे विष्णोः कुर्यादवभृथं शुभम्
नदीं खातं तडागं वा देवेन सहितो व्रजेत् ४१
विश्वास-प्रस्तुतिः - ४२
स्यन्दनादिषु यानेषु स्थिता नार्यः स्वलङ्कृताः
पुरुषाश्च हरिद्राश्च चूर्णादीन् विकिरन्मिथः ४२
मूलम् - ४२
स्यन्दनादिषु यानेषु स्थिता नार्यः स्वलङ्कृताः
पुरुषाश्च हरिद्राश्च चूर्णादीन् विकिरन्मिथः ४२
विश्वास-प्रस्तुतिः - ४३
कुर्यादवभृथं तत्र विशिष्टैर्ब्राह्मणैः सह
वासुदेवोत्सवे स्नानमश्वमेधफलं लभेत् ४३
मूलम् - ४३
कुर्यादवभृथं तत्र विशिष्टैर्ब्राह्मणैः सह
वासुदेवोत्सवे स्नानमश्वमेधफलं लभेत् ४३
विश्वास-प्रस्तुतिः - ४४
स्नात्वा सन्तर्प्य देवादीन् प्रविश्य हरिमन्दिरम्
यजेतावभृथेष्टिञ्च अस्य वामेति सूक्ततः ४४
मूलम् - ४४
स्नात्वा सन्तर्प्य देवादीन् प्रविश्य हरिमन्दिरम्
यजेतावभृथेष्टिञ्च अस्य वामेति सूक्ततः ४४
विश्वास-प्रस्तुतिः - ४५
चरुमाज्यं तिलैर्वापि अनुवाकैश्च वैष्णवैः
एवं हुत्वावभृथेष्टिं वै वैष्णवान् भोजयेत्ततः ४५
मूलम् - ४५
चरुमाज्यं तिलैर्वापि अनुवाकैश्च वैष्णवैः
एवं हुत्वावभृथेष्टिं वै वैष्णवान् भोजयेत्ततः ४५
विश्वास-प्रस्तुतिः - ४६
गुरुञ्च ऋत्विजश्चैव पूजयेद्भक्तितस्ततः
पिबासोमेत्यध्यायेन कुर्यात्स्वस्त्ययनं हरेः ४६
मूलम् - ४६
गुरुञ्च ऋत्विजश्चैव पूजयेद्भक्तितस्ततः
पिबासोमेत्यध्यायेन कुर्यात्स्वस्त्ययनं हरेः ४६
विश्वास-प्रस्तुतिः - ४७
इच्छन्ति त्वेत्य ध्यानेन प्रत्यृचञ्च द्वयेन च
अष्टोत्तरशतं जुहुयात्कुसुमैरेव वैष्णवः ४७
मूलम् - ४७
इच्छन्ति त्वेत्य ध्यानेन प्रत्यृचञ्च द्वयेन च
अष्टोत्तरशतं जुहुयात्कुसुमैरेव वैष्णवः ४७
विश्वास-प्रस्तुतिः - ६५०
हिरण्यगर्भसूक्तेन तथैवाऽऽज्यं द्विजोत्तमः
र्
६५०
मूलम् - ६५०
हिरण्यगर्भसूक्तेन तथैवाऽऽज्यं द्विजोत्तमः
र्
६५०
विश्वास-प्रस्तुतिः - ४९
होमशेषं समाप्याथ वैष्णवान् भोजयेदपि
सर्वयज्ञसमाप्तौ तु पुष्पयागं समाचरेत् ४९
मूलम् - ४९
होमशेषं समाप्याथ वैष्णवान् भोजयेदपि
सर्वयज्ञसमाप्तौ तु पुष्पयागं समाचरेत् ४९
विश्वास-प्रस्तुतिः - ५०
सर्वं सम्पूर्णतामेति परितुष्टो जनार्दनः
एवं महोत्सवं कुर्यात्प्रत्यब्दं परमात्मनः ५०
मूलम् - ५०
सर्वं सम्पूर्णतामेति परितुष्टो जनार्दनः
एवं महोत्सवं कुर्यात्प्रत्यब्दं परमात्मनः ५०
विश्वास-प्रस्तुतिः - ५१
अथ नित्योत्सवे पूजा होमश्चात्र विधीयते
शिविकायां निवेश्येशं पूजयित्वा विधानतः ५१
मूलम् - ५१
अथ नित्योत्सवे पूजा होमश्चात्र विधीयते
शिविकायां निवेश्येशं पूजयित्वा विधानतः ५१
विश्वास-प्रस्तुतिः - ५२
तत्र चामरवादित्रभृङ्गारैस्तालवृन्तकैः
दीपिकाभिरनेकाभिर्दूर्वाग्रकुसुमाक्षतैः ५२
मूलम् - ५२
तत्र चामरवादित्रभृङ्गारैस्तालवृन्तकैः
दीपिकाभिरनेकाभिर्दूर्वाग्रकुसुमाक्षतैः ५२
विश्वास-प्रस्तुतिः - ५३
फलमोदकहस्ताभिर्नारीभिः समलङ्कृतम्
देवस्याऽऽयतनं रम्यं त्रिः प्रदक्षिणमाचरेत् ५३
मूलम् - ५३
फलमोदकहस्ताभिर्नारीभिः समलङ्कृतम्
देवस्याऽऽयतनं रम्यं त्रिः प्रदक्षिणमाचरेत् ५३
विश्वास-प्रस्तुतिः - ५४
तत्तन् मन्त्रान् जपेद्दिक्षु सर्वासु द्विजपुङ्गवाः
बलिञ्च निक्षिपेतासु देवानुद्दिश्य पूर्वतः ५४
मूलम् - ५४
तत्तन् मन्त्रान् जपेद्दिक्षु सर्वासु द्विजपुङ्गवाः
बलिञ्च निक्षिपेतासु देवानुद्दिश्य पूर्वतः ५४
विश्वास-प्रस्तुतिः - ५५
प्राचीं विश्वजिते सूक्तमग्ने तव अनन्तरम्
याम्ये परे इमां सन्तु मोषुणस्तु तदन्तरम् ५५
मूलम् - ५५
प्राचीं विश्वजिते सूक्तमग्ने तव अनन्तरम्
याम्ये परे इमां सन्तु मोषुणस्तु तदन्तरम् ५५
विश्वास-प्रस्तुतिः - ५६
यच्चिद्धेति प्रतीच्यान्तु विहिहोत्येत्यनन्तरम्
स सोम इति सौम्यान्तु कद्रुद्रायेत्यनन्तरम् ५६
मूलम् - ५६
यच्चिद्धेति प्रतीच्यान्तु विहिहोत्येत्यनन्तरम्
स सोम इति सौम्यान्तु कद्रुद्रायेत्यनन्तरम् ५६
विश्वास-प्रस्तुतिः - ५७
प्रजापतिं तथा चोर्द्ध्वमधश्च पृथिवी क्षिपेत्
एवं दिक्षु बलिं दत्त्वा परिणीय जनार्दनम् ५७
मूलम् - ५७
प्रजापतिं तथा चोर्द्ध्वमधश्च पृथिवी क्षिपेत्
एवं दिक्षु बलिं दत्त्वा परिणीय जनार्दनम् ५७
विश्वास-प्रस्तुतिः - ५८
स्तुतिभिः पुष्कलाभिश्च भवनं सम्प्रवेशयेत्
पीठे निवेश्य देवेशं पूजयित्वा विधानतः ५८
मूलम् - ५८
स्तुतिभिः पुष्कलाभिश्च भवनं सम्प्रवेशयेत्
पीठे निवेश्य देवेशं पूजयित्वा विधानतः ५८
विश्वास-प्रस्तुतिः - ५९
विहिसोतादि सूक्तेन दद्यात्पुष्पाणि शार्ङ्गिणे
नीराजनं ततो दद्यात् ध्रुवसूक्तेन वैष्णवः ५९
मूलम् - ५९
विहिसोतादि सूक्तेन दद्यात्पुष्पाणि शार्ङ्गिणे
नीराजनं ततो दद्यात् ध्रुवसूक्तेन वैष्णवः ५९
विश्वास-प्रस्तुतिः - ६०
शाययित्वा च शय्यायां दद्यात्पुष्पाणि मन्त्रतः
इमं महेति सूक्ताभ्यां पूजयेत् विष्णुमव्ययम् ६०
मूलम् - ६०
शाययित्वा च शय्यायां दद्यात्पुष्पाणि मन्त्रतः
इमं महेति सूक्ताभ्यां पूजयेत् विष्णुमव्ययम् ६०
६५१
विश्वास-प्रस्तुतिः - ६२
एवं नित्योत्सवं कुर्याद्रात्रौ चाहनि सर्वदा
गुरूणामन्त्यदिवसे भगवज्जन्मवासरे ६२
मूलम् - ६२
एवं नित्योत्सवं कुर्याद्रात्रौ चाहनि सर्वदा
गुरूणामन्त्यदिवसे भगवज्जन्मवासरे ६२
विश्वास-प्रस्तुतिः - ६३
कार्तिक्यां श्रावणे वाऽपि कुर्यादिष्टिञ्च वैष्णवीम्
उपोष्य पूर्वदिवसे दीक्षितः सुसमाहितः ६३
मूलम् - ६३
कार्तिक्यां श्रावणे वाऽपि कुर्यादिष्टिञ्च वैष्णवीम्
उपोष्य पूर्वदिवसे दीक्षितः सुसमाहितः ६३
विश्वास-प्रस्तुतिः - ६४
स्वस्तिवाचनपूर्वेण कारयेदङ्कुरार्पणम्
नद्यां स्नात्वा च ऋत्विग्भिश्चतुर्भिर्वेदपारगैः ६४
मूलम् - ६४
स्वस्तिवाचनपूर्वेण कारयेदङ्कुरार्पणम्
नद्यां स्नात्वा च ऋत्विग्भिश्चतुर्भिर्वेदपारगैः ६४
विश्वास-प्रस्तुतिः - ६५
पौरुषेण विधानेन पूजयेत्पुरुषोत्तमम्
गन्धैर्नानाविधैः पुष्पैर्धूपैर्दीपैर्निवेदनैः ६५
मूलम् - ६५
पौरुषेण विधानेन पूजयेत्पुरुषोत्तमम्
गन्धैर्नानाविधैः पुष्पैर्धूपैर्दीपैर्निवेदनैः ६५
विश्वास-प्रस्तुतिः - ६६
फलैश्च भक्ष्यभोज्यैश्च ताम्बूलाद्यैः प्रपूजयेत्
अर्घ्याद्यैरुपचारैस्तु सूक्तान्ते पूजयेद्धरिम् ६६
मूलम् - ६६
फलैश्च भक्ष्यभोज्यैश्च ताम्बूलाद्यैः प्रपूजयेत्
अर्घ्याद्यैरुपचारैस्तु सूक्तान्ते पूजयेद्धरिम् ६६
विश्वास-प्रस्तुतिः - ६७
अध्यायान्ते मण्डलान्ते नैवेद्यैर्विविधैरपि
पूजयित्वा हरिं भक्त्या वैष्णवान् भोजयेत्तथा ६७
मूलम् - ६७
अध्यायान्ते मण्डलान्ते नैवेद्यैर्विविधैरपि
पूजयित्वा हरिं भक्त्या वैष्णवान् भोजयेत्तथा ६७
विश्वास-प्रस्तुतिः - ६८
आज्येन चरुणा वाऽपि तिलैः पद्मैरथापि वा
समिद्भिर्बिल्वपत्रैर्वा होमं कुर्वीत वैष्णवः ६८
मूलम् - ६८
आज्येन चरुणा वाऽपि तिलैः पद्मैरथापि वा
समिद्भिर्बिल्वपत्रैर्वा होमं कुर्वीत वैष्णवः ६८
विश्वास-प्रस्तुतिः - ६९
यज्ञरूपं हरिं ध्यायन्प्रत्यृचं वेदसंहिताम्
होमः समाप्यते यावत्तावद्वै दीक्षितो भवेत् ६९
मूलम् - ६९
यज्ञरूपं हरिं ध्यायन्प्रत्यृचं वेदसंहिताम्
होमः समाप्यते यावत्तावद्वै दीक्षितो भवेत् ६९
विश्वास-प्रस्तुतिः - ७०
जुहुयाद्वै गार्हपत्यो सोऽग्निमभ्यर्च्य भूपते
अग्निरक्षणमप्युक्तं यावदिष्टिः समाप्यते ७०
मूलम् - ७०
जुहुयाद्वै गार्हपत्यो सोऽग्निमभ्यर्च्य भूपते
अग्निरक्षणमप्युक्तं यावदिष्टिः समाप्यते ७०
विश्वास-प्रस्तुतिः - ७१
विशिष्टान् वैष्णवान् विप्रान् भोजयेत्प्रतिवासरम्
ऋत्विजश्च पठेत्तावच्चतुर्मन्त्रान् समाहितः ७१
मूलम् - ७१
विशिष्टान् वैष्णवान् विप्रान् भोजयेत्प्रतिवासरम्
ऋत्विजश्च पठेत्तावच्चतुर्मन्त्रान् समाहितः ७१
विश्वास-प्रस्तुतिः - ७२
यजेदवभृथेष्टिं च पावमान्यैश्च वैष्णवैः
अन्ते संपूजयेद्विप्रान् वासोऽलङ्कारभूषणैः ७२
मूलम् - ७२
यजेदवभृथेष्टिं च पावमान्यैश्च वैष्णवैः
अन्ते संपूजयेद्विप्रान् वासोऽलङ्कारभूषणैः ७२
विश्वास-प्रस्तुतिः - ७३
ऋत्विजश्च गुरुं चैव पूजयेच्च विशेषतः
एवमिष्टिन्तु यः कुर्याद्वैष्णवीं वैष्णवोत्तमः ७३
मूलम् - ७३
ऋत्विजश्च गुरुं चैव पूजयेच्च विशेषतः
एवमिष्टिन्तु यः कुर्याद्वैष्णवीं वैष्णवोत्तमः ७३
विश्वास-प्रस्तुतिः - ७४
क्रतूनां दशकोटीनां फलं प्राप्नोत्यसंशयः
यस्मिन्देशे वैष्णवेष्ट्या पूजितो मधुसूदनः ७४
मूलम् - ७४
क्रतूनां दशकोटीनां फलं प्राप्नोत्यसंशयः
यस्मिन्देशे वैष्णवेष्ट्या पूजितो मधुसूदनः ७४
६५२
विश्वास-प्रस्तुतिः - ७५
दुर्भिक्षरोगाग्निभयं तस्मिन् नास्ति न संशयः
अशक्तः सर्वदेवेन कर्त्तुमिष्टिं च वैष्णवीम् ७५
मूलम् - ७५
दुर्भिक्षरोगाग्निभयं तस्मिन् नास्ति न संशयः
अशक्तः सर्वदेवेन कर्त्तुमिष्टिं च वैष्णवीम् ७५
विश्वास-प्रस्तुतिः - ७६
सर्वैश्च वैष्णवैः सूक्तैर्जुहुयात्प्रत्यृचं हविः
तैरेव पुष्पाञ्जलिं च कुर्यादिष्ट्याः प्रपूर्त्तये ७६
मूलम् - ७६
सर्वैश्च वैष्णवैः सूक्तैर्जुहुयात्प्रत्यृचं हविः
तैरेव पुष्पाञ्जलिं च कुर्यादिष्ट्याः प्रपूर्त्तये ७६
विश्वास-प्रस्तुतिः - ७७
अथवा मूलमन्त्रं तु लक्षं जप्त्वा हुताशने
अयुतं जुहुयात्तद्वत्पुष्पाणि च सनातने ७७
मूलम् - ७७
अथवा मूलमन्त्रं तु लक्षं जप्त्वा हुताशने
अयुतं जुहुयात्तद्वत्पुष्पाणि च सनातने ७७
विश्वास-प्रस्तुतिः - ७८
इष्टिः संपूर्णतां याति सर्ववेदाः सदक्षिणाः
एवमिष्टिं प्रकुर्वीत प्रत्यब्दं वैष्णवोत्तमः ७८
मूलम् - ७८
इष्टिः संपूर्णतां याति सर्ववेदाः सदक्षिणाः
एवमिष्टिं प्रकुर्वीत प्रत्यब्दं वैष्णवोत्तमः ७८
विश्वास-प्रस्तुतिः - ७८
तुष्ट्यर्थं वासुदेवस्य वंशस्योज्जीवनाय च
वृध्यर्थमपि लोकस्य देवतानां हिताय च ७८
मूलम् - ७८
तुष्ट्यर्थं वासुदेवस्य वंशस्योज्जीवनाय च
वृध्यर्थमपि लोकस्य देवतानां हिताय च ७८
विश्वास-प्रस्तुतिः - ७९
पिता वा यदि वा माता भ्राता वाऽन्ये सुहृज्जनाः
यदि पञ्चत्वमापन्नाः कथं कुर्याद्द्विजोत्तमः ७९
मूलम् - ७९
पिता वा यदि वा माता भ्राता वाऽन्ये सुहृज्जनाः
यदि पञ्चत्वमापन्नाः कथं कुर्याद्द्विजोत्तमः ७९
विश्वास-प्रस्तुतिः - ८०
स्नात्वाऽऽचम्य विधानेन कारयेत्पूजनं हरेः
रङ्गबल्यादिभिस्तत्र कुर्यात्सर्वत्र मङ्गलम् ८०
मूलम् - ८०
स्नात्वाऽऽचम्य विधानेन कारयेत्पूजनं हरेः
रङ्गबल्यादिभिस्तत्र कुर्यात्सर्वत्र मङ्गलम् ८०
विश्वास-प्रस्तुतिः - ८१
रोदनं वर्जयित्वैव गोमयेन शुचि स्थलम्
विलिप्य मण्डले तत्र धान्यस्योपर्युलूखलम् ८१
मूलम् - ८१
रोदनं वर्जयित्वैव गोमयेन शुचि स्थलम्
विलिप्य मण्डले तत्र धान्यस्योपर्युलूखलम् ८१
विश्वास-प्रस्तुतिः - ८२
कलशांस्तु चतुर्दिक्षु तण्डुलोपरि निक्षिपेत्
हिरण्यपञ्चगव्यानि पञ्चत्वक्पल्लवान् न्यसेत् ८२
मूलम् - ८२
कलशांस्तु चतुर्दिक्षु तण्डुलोपरि निक्षिपेत्
हिरण्यपञ्चगव्यानि पञ्चत्वक्पल्लवान् न्यसेत् ८२
विश्वास-प्रस्तुतिः - ८३
वाससा तन्तुना वाऽपि वेष्टयेत्त्रिः प्रदक्षिणम्
उलूखले वासुदेवं कलशेषु क्रमेण च ८३
मूलम् - ८३
वाससा तन्तुना वाऽपि वेष्टयेत्त्रिः प्रदक्षिणम्
उलूखले वासुदेवं कलशेषु क्रमेण च ८३
विश्वास-प्रस्तुतिः - ८४
प्रद्युम्न मनिरुद्धञ्च सङ्कर्षणमधोक्षजम्
सम्पूज्य गन्धपुष्पाद्यैर्भक्त्या भक्ष्यं निवेदयेत् ८४
मूलम् - ८४
प्रद्युम्न मनिरुद्धञ्च सङ्कर्षणमधोक्षजम्
सम्पूज्य गन्धपुष्पाद्यैर्भक्त्या भक्ष्यं निवेदयेत् ८४
विश्वास-प्रस्तुतिः - ८५
अभ्यर्च्य मुसलं पुष्पैर्गायत्र्या प्रणवेन च
हरिद्रामवहन्यात्तु परोमात्रेति वै जपन् ८५
मूलम् - ८५
अभ्यर्च्य मुसलं पुष्पैर्गायत्र्या प्रणवेन च
हरिद्रामवहन्यात्तु परोमात्रेति वै जपन् ८५
६५३
पितुः शरीरं विधिवत्स्नापयेत्कलशोदकैः ८६
विश्वास-प्रस्तुतिः - ८७
तिलैश्च पञ्चगव्यैश्च गायत्र्या वैष्णवेन च
उद्वर्त्यसर्वकर्मणेति स्नापयेत्पितरं सुतः ८७
मूलम् - ८७
तिलैश्च पञ्चगव्यैश्च गायत्र्या वैष्णवेन च
उद्वर्त्यसर्वकर्मणेति स्नापयेत्पितरं सुतः ८७
विश्वास-प्रस्तुतिः - ८८
नारायणानुवाकेन चैवं स्नाप्य ततः पितुः
धौतवस्त्रञ्च सम्वेष्ट्य भूषणैर्भूषयेत्ततः ८८
मूलम् - ८८
नारायणानुवाकेन चैवं स्नाप्य ततः पितुः
धौतवस्त्रञ्च सम्वेष्ट्य भूषणैर्भूषयेत्ततः ८८
विश्वास-प्रस्तुतिः - ८९
गन्धमाल्यैरलङ्कृत्य शुचौ देशे कुशोत्तरे
तिलोपरि विधायैनं वस्त्रं हित्वाऽन्यतः सुतम् ८९
मूलम् - ८९
गन्धमाल्यैरलङ्कृत्य शुचौ देशे कुशोत्तरे
तिलोपरि विधायैनं वस्त्रं हित्वाऽन्यतः सुतम् ८९
विश्वास-प्रस्तुतिः - ९०
धारयेदुत्तरीये द्वे यावत्कर्म समाप्यते
हुत्वैवोपासनं तस्य आर्द्रयज्ञीयकाष्ठकैः ९०
मूलम् - ९०
धारयेदुत्तरीये द्वे यावत्कर्म समाप्यते
हुत्वैवोपासनं तस्य आर्द्रयज्ञीयकाष्ठकैः ९०
विश्वास-प्रस्तुतिः - ९१
शिविकां कारयित्वाऽथ वस्त्रमूल्यादिभिः शुभाम्
तस्मिन्निवेश्य तं प्रेतं बाहकान्वरयेत्ततः ९१
मूलम् - ९१
शिविकां कारयित्वाऽथ वस्त्रमूल्यादिभिः शुभाम्
तस्मिन्निवेश्य तं प्रेतं बाहकान्वरयेत्ततः ९१
विश्वास-प्रस्तुतिः - ९२
स्ववर्णवैष्णवानेव पूजयेत् स्वर्णदक्षिणैः
वहेयुस्तेऽपि भक्त्या तं पठन् विष्णुस्तवान् मुदा ९२
मूलम् - ९२
स्ववर्णवैष्णवानेव पूजयेत् स्वर्णदक्षिणैः
वहेयुस्तेऽपि भक्त्या तं पठन् विष्णुस्तवान् मुदा ९२
विश्वास-प्रस्तुतिः - ९३
वादित्रनृत्यगीताद्यैर्व्रजेयुः कीर्तयन् हरिम्
हुताग्निमग्रतः कृत्वा गच्छेयुस्तस्य बान्धवाः ९३
मूलम् - ९३
वादित्रनृत्यगीताद्यैर्व्रजेयुः कीर्तयन् हरिम्
हुताग्निमग्रतः कृत्वा गच्छेयुस्तस्य बान्धवाः ९३
विश्वास-प्रस्तुतिः - ९४
वाहकानामलाभे तु शकटे गोवृषान्विते
निवेश्य शिविकां रम्यां व्रजेयुर्न्नगराद्बहिः ९४
मूलम् - ९४
वाहकानामलाभे तु शकटे गोवृषान्विते
निवेश्य शिविकां रम्यां व्रजेयुर्न्नगराद्बहिः ९४
विश्वास-प्रस्तुतिः - ९५
दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत्
पश्चिमोत्तरपूर्वेषु यथासङ्ख्यं द्विजातयः ९५
मूलम् - ९५
दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत्
पश्चिमोत्तरपूर्वेषु यथासङ्ख्यं द्विजातयः ९५
विश्वास-प्रस्तुतिः - ९६
प्राग्द्वारं सर्ववर्णानां न निषिद्धं कदाचन
गत्वा शुभतरं देशं रम्यं शुभजलान्वितम् ९६
मूलम् - ९६
प्राग्द्वारं सर्ववर्णानां न निषिद्धं कदाचन
गत्वा शुभतरं देशं रम्यं शुभजलान्वितम् ९६
विश्वास-प्रस्तुतिः - ९६
खातयेत्तत्र कुण्डं तु निम्नं हस्तत्रयं तदा
द्वाभ्यान्त्रिभिर्वा विस्तारं चतुरायतमेव च ९६
मूलम् - ९६
खातयेत्तत्र कुण्डं तु निम्नं हस्तत्रयं तदा
द्वाभ्यान्त्रिभिर्वा विस्तारं चतुरायतमेव च ९६
विश्वास-प्रस्तुतिः - ६५४
ततः संमार्जनं कृत्वा गोमयान्वितवारिणा
र्
६५४
मूलम् - ६५४
ततः संमार्जनं कृत्वा गोमयान्वितवारिणा
र्
६५४
विश्वास-प्रस्तुतिः - ९८
आस्तीर्य दक्षिणामेवमेणाजिनमनुत्तमम्
तस्मिन्नास्तीर्य्य दर्भांस्तु विकीर्य च तिलांस्तथा ९८
मूलम् - ९८
आस्तीर्य दक्षिणामेवमेणाजिनमनुत्तमम्
तस्मिन्नास्तीर्य्य दर्भांस्तु विकीर्य च तिलांस्तथा ९८
विश्वास-प्रस्तुतिः - ९९
तस्मिन्निवेश्य तं देवं घृताक्तं नववस्त्रकम्
ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम् ९९
मूलम् - ९९
तस्मिन्निवेश्य तं देवं घृताक्तं नववस्त्रकम्
ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम् ९९
विश्वास-प्रस्तुतिः - १००
अहतं तद्विजानीयाद्दैवे पित्र्ये च कर्मणि
परिषिच्य चितिं पश्चादापोऽप्यस्मानितीत्यृचा १००
मूलम् - १००
अहतं तद्विजानीयाद्दैवे पित्र्ये च कर्मणि
परिषिच्य चितिं पश्चादापोऽप्यस्मानितीत्यृचा १००
विश्वास-प्रस्तुतिः - १०१
परिस्तीर्य शुभैर्दर्भैरपसव्येन सव्यतः
उरस्यग्निं निधायास्य पात्रासादानमाचरेत् १०१
मूलम् - १०१
परिस्तीर्य शुभैर्दर्भैरपसव्येन सव्यतः
उरस्यग्निं निधायास्य पात्रासादानमाचरेत् १०१
विश्वास-प्रस्तुतिः - १०२
प्रोक्षणं चमसाज्येन चरुमिध्मस्रुवौ तथा
आसाद्योक्तविधानेन इध्माधानान्तमाचरेत् १०२
मूलम् - १०२
प्रोक्षणं चमसाज्येन चरुमिध्मस्रुवौ तथा
आसाद्योक्तविधानेन इध्माधानान्तमाचरेत् १०२
विश्वास-प्रस्तुतिः - १०३
स्वगृह्योक्तविधानेन हुत्वा सर्वमशेषतः
पश्चादाज्ययुतं हव्यं जुहुयादुपवीतवान् १०३
मूलम् - १०३
स्वगृह्योक्तविधानेन हुत्वा सर्वमशेषतः
पश्चादाज्ययुतं हव्यं जुहुयादुपवीतवान् १०३
विश्वास-प्रस्तुतिः - १०४
सोमानमित्योदनेन प्रत्यृचं तत आज्यतः
तं महेन्द्रेति सूक्तेन हुत्वा प्रत्यृचमेव च १०४
मूलम् - १०४
सोमानमित्योदनेन प्रत्यृचं तत आज्यतः
तं महेन्द्रेति सूक्तेन हुत्वा प्रत्यृचमेव च १०४
विश्वास-प्रस्तुतिः - १०५
एष इत्यनुवाकाभ्यां पृषदाज्यं यजेत्ततः
सर्वैश्च वैष्णवैर्मन्त्रैः पृथगष्टोत्तरं शतम् १०५
मूलम् - १०५
एष इत्यनुवाकाभ्यां पृषदाज्यं यजेत्ततः
सर्वैश्च वैष्णवैर्मन्त्रैः पृथगष्टोत्तरं शतम् १०५
विश्वास-प्रस्तुतिः - १०६
तिलैश्च जुहुयात्पादमष्टाविंशतिमेव वा
एकैकामाहुतिं पश्चाद्वैकुण्ठपार्षदं यजेत् १०६
मूलम् - १०६
तिलैश्च जुहुयात्पादमष्टाविंशतिमेव वा
एकैकामाहुतिं पश्चाद्वैकुण्ठपार्षदं यजेत् १०६
विश्वास-प्रस्तुतिः - १०७
ब्रह्ममेध इति प्रोक्तं मुनिभिर्ब्रह्मतत्परैः
महाभागवतानां वै कर्तव्यमिदमुत्तमम् १०७
मूलम् - १०७
ब्रह्ममेध इति प्रोक्तं मुनिभिर्ब्रह्मतत्परैः
महाभागवतानां वै कर्तव्यमिदमुत्तमम् १०७
विश्वास-प्रस्तुतिः - १०८
केशवार्पितसर्वाङ्गं शशिभं मङ्गलाद्वयम्
न वृथा दापयेद्विद्वान्ब्रह्ममेधविधिं विना १०८
मूलम् - १०८
केशवार्पितसर्वाङ्गं शशिभं मङ्गलाद्वयम्
न वृथा दापयेद्विद्वान्ब्रह्ममेधविधिं विना १०८
विश्वास-प्रस्तुतिः - १०९
परमावगतेनापि कर्तव्यं हि द्विजन्मनः
द्रव्यालाभेऽपि होतव्यं यज्ञियैश्च प्रसूनकैः १०९
मूलम् - १०९
परमावगतेनापि कर्तव्यं हि द्विजन्मनः
द्रव्यालाभेऽपि होतव्यं यज्ञियैश्च प्रसूनकैः १०९
६५५
स्वाहाकारं च वेदं च हित्वा पुष्पैर्यजेच्छुभैः ११०
विश्वास-प्रस्तुतिः - १११
तूष्णीमद्भिः परिषिच्य परिस्तीर्य कुशैस्तिलैः
नामभिः केशवाद्यैश्च तथा सङ्कर्षणादिभिः १११
मूलम् - १११
तूष्णीमद्भिः परिषिच्य परिस्तीर्य कुशैस्तिलैः
नामभिः केशवाद्यैश्च तथा सङ्कर्षणादिभिः १११
विश्वास-प्रस्तुतिः - ११२
मत्स्यकूर्म्मादिभिश्चैव वेदार्थोक्तप्रबन्धकैः
नमोऽन्तमेव जुहुयात्स्वाहाकारं विवर्जयेत् ११२
मूलम् - ११२
मत्स्यकूर्म्मादिभिश्चैव वेदार्थोक्तप्रबन्धकैः
नमोऽन्तमेव जुहुयात्स्वाहाकारं विवर्जयेत् ११२
विश्वास-प्रस्तुतिः - ११३
अमन्त्रकं प्रकुर्वीत शूद्रः सर्वमशेषतः
दग्ध्वा शरीरं विधिवद्वैष्णवस्य महात्मनः ११३
मूलम् - ११३
अमन्त्रकं प्रकुर्वीत शूद्रः सर्वमशेषतः
दग्ध्वा शरीरं विधिवद्वैष्णवस्य महात्मनः ११३
विश्वास-प्रस्तुतिः - ११४
यन्मरणं तदवभृथमिति मत्वा विचक्षणः
स्नानार्थं पुण्यसलिलं व्रजेद्भागवतैः सह ११४
मूलम् - ११४
यन्मरणं तदवभृथमिति मत्वा विचक्षणः
स्नानार्थं पुण्यसलिलं व्रजेद्भागवतैः सह ११४
विश्वास-प्रस्तुतिः - ११५
अनुलिप्य घृतं सर्वं गोमयं वा तिलैः सह
दूर्वाग्रैरक्षतैर्लाजैः स्नानं कुर्वीत मङ्गलम् ११५
मूलम् - ११५
अनुलिप्य घृतं सर्वं गोमयं वा तिलैः सह
दूर्वाग्रैरक्षतैर्लाजैः स्नानं कुर्वीत मङ्गलम् ११५
विश्वास-प्रस्तुतिः - ११६
स्वगृह्योक्तविधानेन तस्य पुत्राः स्वरोत्रजाः
पिण्डोदकप्रदानाद्यं सर्वमप्यौर्ध्व देहिकम् ११६
मूलम् - ११६
स्वगृह्योक्तविधानेन तस्य पुत्राः स्वरोत्रजाः
पिण्डोदकप्रदानाद्यं सर्वमप्यौर्ध्व देहिकम् ११६
विश्वास-प्रस्तुतिः - ११७
निर्वर्त्य विधिना धर्मं सामान्येनावशेषतः
विशिष्टं परमं धर्मं नारायणबलिं ततः ११७
मूलम् - ११७
निर्वर्त्य विधिना धर्मं सामान्येनावशेषतः
विशिष्टं परमं धर्मं नारायणबलिं ततः ११७
विश्वास-प्रस्तुतिः - ११८
प्रकुर्याद्वैष्णवैः सार्द्धं यथाशास्त्रमतन्द्रितः
निमन्त्रयेत्तु पूर्वेद्युर्ब्राह्मणान्वैष्णवान्शुभान् ११८
मूलम् - ११८
प्रकुर्याद्वैष्णवैः सार्द्धं यथाशास्त्रमतन्द्रितः
निमन्त्रयेत्तु पूर्वेद्युर्ब्राह्मणान्वैष्णवान्शुभान् ११८
विश्वास-प्रस्तुतिः - ११९
चतुर्विंशतिसंख्याकान् महाभागवतोत्तमः
केशवादीन्समुद्दिश्य चतुर्विंशति वैष्णवान् ११९
मूलम् - ११९
चतुर्विंशतिसंख्याकान् महाभागवतोत्तमः
केशवादीन्समुद्दिश्य चतुर्विंशति वैष्णवान् ११९
विश्वास-प्रस्तुतिः - १२०
रात्रौ निमन्त्र्य सम्पूज्य तैः सार्द्धं विजितेन्द्रियः
प्रातरुत्थाय तैर्गत्वा नदीं पुण्यजलान्विताम् १२०
मूलम् - १२०
रात्रौ निमन्त्र्य सम्पूज्य तैः सार्द्धं विजितेन्द्रियः
प्रातरुत्थाय तैर्गत्वा नदीं पुण्यजलान्विताम् १२०
विश्वास-प्रस्तुतिः - १२१
धात्रीफलानुलिप्ताङ्गो निमज्ज्य विमले जले
जपन् वै वैष्णवान् सूक्तान् स्नानं कुर्वीत वै द्विजः १२१
मूलम् - १२१
धात्रीफलानुलिप्ताङ्गो निमज्ज्य विमले जले
जपन् वै वैष्णवान् सूक्तान् स्नानं कुर्वीत वै द्विजः १२१
विश्वास-प्रस्तुतिः - १२२
वैकुण्ठतर्पणं कुर्यात्कुसुमैः सतिलाक्षतैः
गृहं गत्वाऽर्चयेद्देवं सर्वावरणसंयुतम् १२२
मूलम् - १२२
वैकुण्ठतर्पणं कुर्यात्कुसुमैः सतिलाक्षतैः
गृहं गत्वाऽर्चयेद्देवं सर्वावरणसंयुतम् १२२
विश्वास-प्रस्तुतिः - ६५६
सुगन्धपुष्पैर्विविधैर्गन्धैर्धूपैश्च दीपकैः
र्
६५६
मूलम् - ६५६
सुगन्धपुष्पैर्विविधैर्गन्धैर्धूपैश्च दीपकैः
र्
६५६
विश्वास-प्रस्तुतिः - १२४
अर्चयित्वा विधानेन मूलमन्त्रेण वैष्णवः
पुरतोऽग्निं प्रतिष्ठाप्य इध्माधानं समाचरेत् १२४
मूलम् - १२४
अर्चयित्वा विधानेन मूलमन्त्रेण वैष्णवः
पुरतोऽग्निं प्रतिष्ठाप्य इध्माधानं समाचरेत् १२४
विश्वास-प्रस्तुतिः - १२५
चरुं सशर्कराज्यन्तु जुहुयाद्वह्निमण्डले
प्रत्यृचं वैष्णवैः सूक्तैः केशवाद्यैश्च नामभिः १२५
मूलम् - १२५
चरुं सशर्कराज्यन्तु जुहुयाद्वह्निमण्डले
प्रत्यृचं वैष्णवैः सूक्तैः केशवाद्यैश्च नामभिः १२५
विश्वास-प्रस्तुतिः - १२६
हुत्वाऽथ वैष्णवैर्मन्त्रैः पृथगष्टोत्तरं शतम्
गवाज्येनैव जुहुयाच्चतुर्भिर्वैष्णवोत्तमः १२६
मूलम् - १२६
हुत्वाऽथ वैष्णवैर्मन्त्रैः पृथगष्टोत्तरं शतम्
गवाज्येनैव जुहुयाच्चतुर्भिर्वैष्णवोत्तमः १२६
विश्वास-प्रस्तुतिः - १२७
वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत्
अग्नेरुत्तरभागेन गोमयेनानुलिप्य च १२७
मूलम् - १२७
वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत्
अग्नेरुत्तरभागेन गोमयेनानुलिप्य च १२७
विश्वास-प्रस्तुतिः - १२८
आस्तीर्य दर्भान्प्रागग्रान् चतुर्विंशतिसंख्यया
उदक्प्रावणिकेनैव केशवादिक्रमेण तु १२८
मूलम् - १२८
आस्तीर्य दर्भान्प्रागग्रान् चतुर्विंशतिसंख्यया
उदक्प्रावणिकेनैव केशवादिक्रमेण तु १२८
विश्वास-प्रस्तुतिः - १२९
अभ्यर्च्य गन्धपुष्पाद्यैस्तत्तन्मन्त्रैः पृथक्पृथक्
मध्वाज्यतिलमिश्रेण चरुणा पायसेन वा १२९
मूलम् - १२९
अभ्यर्च्य गन्धपुष्पाद्यैस्तत्तन्मन्त्रैः पृथक्पृथक्
मध्वाज्यतिलमिश्रेण चरुणा पायसेन वा १२९
विश्वास-प्रस्तुतिः - १३०
कुशेषु तेषु दद्यात्तु पिण्डान् तीर्थं विधानतः
स्वाहाकारेण मनसा केशवादीन्क्रमेण वै १३०
मूलम् - १३०
कुशेषु तेषु दद्यात्तु पिण्डान् तीर्थं विधानतः
स्वाहाकारेण मनसा केशवादीन्क्रमेण वै १३०
विश्वास-प्रस्तुतिः - १३१
दत्त्वा पिण्डान् समभ्यर्च्च्य गन्धपुष्पाक्षतोदकैः
नित्यमभ्यर्च्य मुक्तेभ्यो वैष्णवेभ्यस्तथैव च १३१
मूलम् - १३१
दत्त्वा पिण्डान् समभ्यर्च्च्य गन्धपुष्पाक्षतोदकैः
नित्यमभ्यर्च्य मुक्तेभ्यो वैष्णवेभ्यस्तथैव च १३१
विश्वास-प्रस्तुतिः - १३२
दद्यात्पिण्डत्रयं चैव तेषां दक्षिणतः क्रमात्
विष्णोर्नुकेति सूक्तेन उपस्थानजपं तथा १३२
मूलम् - १३२
दद्यात्पिण्डत्रयं चैव तेषां दक्षिणतः क्रमात्
विष्णोर्नुकेति सूक्तेन उपस्थानजपं तथा १३२
विश्वास-प्रस्तुतिः - १३३
प्रदक्षिणं नमस्कारं कृत्वा भक्त्याऽथ वैष्णवः
पिण्डांस्तु सलिले दत्त्वा स्नात्वा संपूज्य केशवम् १३३
मूलम् - १३३
प्रदक्षिणं नमस्कारं कृत्वा भक्त्याऽथ वैष्णवः
पिण्डांस्तु सलिले दत्त्वा स्नात्वा संपूज्य केशवम् १३३
विश्वास-प्रस्तुतिः - १३४
ब्राह्मणान् भोजयेत्पश्चात्पादप्रक्षालनादिभिः
अर्घ्याद्यैर्गन्धपुष्पाद्यैर्वासोऽलङ्कारभूषणैः १३४
मूलम् - १३४
ब्राह्मणान् भोजयेत्पश्चात्पादप्रक्षालनादिभिः
अर्घ्याद्यैर्गन्धपुष्पाद्यैर्वासोऽलङ्कारभूषणैः १३४
विश्वास-प्रस्तुतिः - १३५
केशवादीन् समुद्दिश्य नित्यान् मुक्तांश्च वैष्णवान्
सम्पूज्य विधिवद्भक्त्या महाभागवतोत्तमान् १३५
मूलम् - १३५
केशवादीन् समुद्दिश्य नित्यान् मुक्तांश्च वैष्णवान्
सम्पूज्य विधिवद्भक्त्या महाभागवतोत्तमान् १३५
६५७
सम्भोज्य विप्रानाचान्तान् प्रणिपत्य विसर्जयेत् १३६
विश्वास-प्रस्तुतिः - १३७
हविष्यञ्च सकृद्भुक्त्वा भूमौ दद्यात्कुशोत्तरे
अयं नारायणबलिर्मुनिभिः सम्प्रकीर्तितः १३७
मूलम् - १३७
हविष्यञ्च सकृद्भुक्त्वा भूमौ दद्यात्कुशोत्तरे
अयं नारायणबलिर्मुनिभिः सम्प्रकीर्तितः १३७
विश्वास-प्रस्तुतिः - १३८
स्वर्गस्थानां च सर्वेषां कर्तव्यो वैष्णवोत्तमैः
अलाभेषु तु विप्रेषु वैष्णवेष्वप्यशक्तितः १३८
मूलम् - १३८
स्वर्गस्थानां च सर्वेषां कर्तव्यो वैष्णवोत्तमैः
अलाभेषु तु विप्रेषु वैष्णवेष्वप्यशक्तितः १३८
विश्वास-प्रस्तुतिः - १३९
सर्वं कृत्वा विधानेन जपहोमार्चनादिकम्
केशवादीन् समुद्दिश्य नित्यान् मुक्तांश्च वैष्णवान् १३९
मूलम् - १३९
सर्वं कृत्वा विधानेन जपहोमार्चनादिकम्
केशवादीन् समुद्दिश्य नित्यान् मुक्तांश्च वैष्णवान् १३९
विश्वास-प्रस्तुतिः - १४०
एकं वा भोजयेद्विप्रं महाभागवतोत्तमम्
श्रुतिस्मृत्युदितं धर्मं विशिष्टाद्यः समाचरेत् १४०
मूलम् - १४०
एकं वा भोजयेद्विप्रं महाभागवतोत्तमम्
श्रुतिस्मृत्युदितं धर्मं विशिष्टाद्यः समाचरेत् १४०
विश्वास-प्रस्तुतिः - १४१
वैष्णवं परमं धर्मं महाभागवतोत्तमम्
तस्मिन् सम्पूजिते विप्रे सर्वं सम्पूजितं जगत् १४१
मूलम् - १४१
वैष्णवं परमं धर्मं महाभागवतोत्तमम्
तस्मिन् सम्पूजिते विप्रे सर्वं सम्पूजितं जगत् १४१
विश्वास-प्रस्तुतिः - १४२
तस्माद्भागवतश्रेष्ठमेकं वाऽपि सुपूजयेत्
हरिश्च देवताश्चैव पितरश्च महर्षयः १४२
मूलम् - १४२
तस्माद्भागवतश्रेष्ठमेकं वाऽपि सुपूजयेत्
हरिश्च देवताश्चैव पितरश्च महर्षयः १४२
विश्वास-प्रस्तुतिः - १४३
तस्मिन् सम्पूजिते विप्रे तुष्यन्त्येव न संशयः
अर्चनं मन्त्रपठनं ध्यानं होमश्च वन्दनम् १४३
मूलम् - १४३
तस्मिन् सम्पूजिते विप्रे तुष्यन्त्येव न संशयः
अर्चनं मन्त्रपठनं ध्यानं होमश्च वन्दनम् १४३
विश्वास-प्रस्तुतिः - १४४
प्रसादतीर्थसेवा च नवेज्याकर्म उच्यते
पञ्चसंस्कारसम्पन्नो नवेज्याकर्मकारकः १४४
मूलम् - १४४
प्रसादतीर्थसेवा च नवेज्याकर्म उच्यते
पञ्चसंस्कारसम्पन्नो नवेज्याकर्मकारकः १४४
विश्वास-प्रस्तुतिः - १४५
आकारत्रयसम्पन्नो महाभागवतोत्तमः
श्राद्धानामप्यलाभे तु एकं नारायणं बलिम् १४५
मूलम् - १४५
आकारत्रयसम्पन्नो महाभागवतोत्तमः
श्राद्धानामप्यलाभे तु एकं नारायणं बलिम् १४५
विश्वास-प्रस्तुतिः - १४६
कुर्वीत परया भक्त्या वैकुण्ठपदमाप्नुयात्
नित्यञ्च प्रतिमासञ्च पित्रोः श्राद्धं विधानतः १४६
मूलम् - १४६
कुर्वीत परया भक्त्या वैकुण्ठपदमाप्नुयात्
नित्यञ्च प्रतिमासञ्च पित्रोः श्राद्धं विधानतः १४६
विश्वास-प्रस्तुतिः - १४७
सोदकुम्भं प्रदद्यात्तु यावदिष्ट्यान्तिकं द्विजः
प्रत्यब्दं पार्वणश्राद्धं मातापित्रोर्मृतेऽहनि १४७
मूलम् - १४७
सोदकुम्भं प्रदद्यात्तु यावदिष्ट्यान्तिकं द्विजः
प्रत्यब्दं पार्वणश्राद्धं मातापित्रोर्मृतेऽहनि १४७
विश्वास-प्रस्तुतिः - १४८
अर्चयित्वाऽच्युतं भक्त्या पश्चात्कुर्याद्विधानतः
वैष्णवानेव विप्रांस्तु सर्वकर्मसु योजयेत् १४८
मूलम् - १४८
अर्चयित्वाऽच्युतं भक्त्या पश्चात्कुर्याद्विधानतः
वैष्णवानेव विप्रांस्तु सर्वकर्मसु योजयेत् १४८
६५८
सर्वत्रावैष्णवान्विप्रान्पतितानिव सन्त्यजेत्
विश्वास-प्रस्तुतिः - १४९
शङ्खचक्रविहीनास्तु देवतान्तरपूजकाः
द्वादशीविमुखा विप्राः शैवाश्चावैष्णवाः स्मृताः १४९
मूलम् - १४९
शङ्खचक्रविहीनास्तु देवतान्तरपूजकाः
द्वादशीविमुखा विप्राः शैवाश्चावैष्णवाः स्मृताः १४९
विश्वास-प्रस्तुतिः - १५०
अवैष्णवानां संसर्गात्पूजनाद्वन्दनादपि
यजनाध्यापनात्सद्यो वैष्णवत्वाच्च्युतो भवेत् १५०
मूलम् - १५०
अवैष्णवानां संसर्गात्पूजनाद्वन्दनादपि
यजनाध्यापनात्सद्यो वैष्णवत्वाच्च्युतो भवेत् १५०
विश्वास-प्रस्तुतिः - १५१
श्रुतिस्मृत्युदितं धर्मं नातिक्रम्याऽऽचरेत्सदा
स्वशाखोक्तविधानेन वैकुण्ठार्च्चनपूर्वकम् १५१
मूलम् - १५१
श्रुतिस्मृत्युदितं धर्मं नातिक्रम्याऽऽचरेत्सदा
स्वशाखोक्तविधानेन वैकुण्ठार्च्चनपूर्वकम् १५१
विश्वास-प्रस्तुतिः - १५२
कर्तृत्वफलसङ्गित्वे परित्यज्य समाचरेत्
धर्मस्य कर्ता भोक्ता च परमात्मा सनातनः १५२
मूलम् - १५२
कर्तृत्वफलसङ्गित्वे परित्यज्य समाचरेत्
धर्मस्य कर्ता भोक्ता च परमात्मा सनातनः १५२
विश्वास-प्रस्तुतिः - १५३
अधर्मं मनसा वाचा कर्मणाऽपि त्यजेत्सदा
अकृत्यकरणाद्विप्रः कृत्यस्याकरणादपि १५३
मूलम् - १५३
अधर्मं मनसा वाचा कर्मणाऽपि त्यजेत्सदा
अकृत्यकरणाद्विप्रः कृत्यस्याकरणादपि १५३
विश्वास-प्रस्तुतिः - १५४
अनिग्रहाच्चेन्द्रियाणां सद्यः पतनमृच्छति
अनिशं मनसा यस्तु पापमेवाभिचिंतयेत् १५४
मूलम् - १५४
अनिग्रहाच्चेन्द्रियाणां सद्यः पतनमृच्छति
अनिशं मनसा यस्तु पापमेवाभिचिंतयेत् १५४
विश्वास-प्रस्तुतिः - १५५
कल्पकोटिसहस्राणि निरयं वै स गच्छति
यस्तु वाचा वदेत्पापमसत्यकथनादिकम् १५५
मूलम् - १५५
कल्पकोटिसहस्राणि निरयं वै स गच्छति
यस्तु वाचा वदेत्पापमसत्यकथनादिकम् १५५
विश्वास-प्रस्तुतिः - १५६
कल्पायुतसहस्राणि तिर्यग्योनिषु जायते
यस्त्वघं कुरुते नित्यं चापल्यात्करणादिभिः १५६
मूलम् - १५६
कल्पायुतसहस्राणि तिर्यग्योनिषु जायते
यस्त्वघं कुरुते नित्यं चापल्यात्करणादिभिः १५६
विश्वास-प्रस्तुतिः - १५७
युगकोटिसहस्राणि विष्ठायां जायते क्रिमिः
दान्तः शुचिस्तपस्वी च सत्यवाग्विजितेन्द्रियः १५७
मूलम् - १५७
युगकोटिसहस्राणि विष्ठायां जायते क्रिमिः
दान्तः शुचिस्तपस्वी च सत्यवाग्विजितेन्द्रियः १५७
विश्वास-प्रस्तुतिः - १५८
स सात्त्विकः शमयुतः सुरयोनिषु जायते
यस्त्वर्थकामनिरतः सदा विषयचापलः १५८
मूलम् - १५८
स सात्त्विकः शमयुतः सुरयोनिषु जायते
यस्त्वर्थकामनिरतः सदा विषयचापलः १५८
विश्वास-प्रस्तुतिः - १५९
स राजसो मनुष्येषु भूयो भूयोऽभिजायते
क्रोधी प्रमादवान् दृप्तो नास्तिको विपरीतवाक् १५९
मूलम् - १५९
स राजसो मनुष्येषु भूयो भूयोऽभिजायते
क्रोधी प्रमादवान् दृप्तो नास्तिको विपरीतवाक् १५९
विश्वास-प्रस्तुतिः - १६०
महापापञ्चातिपापं पातकञ्चोपपातकम्
प्रासङ्गिकं नरः कृत्वा नरकान् याति दारुणान् १६०
मूलम् - १६०
महापापञ्चातिपापं पातकञ्चोपपातकम्
प्रासङ्गिकं नरः कृत्वा नरकान् याति दारुणान् १६०
विश्वास-प्रस्तुतिः - १६१
तामिस्र मन्धतामिस्रं महारौरवरौरवौ
सङ्घातः कालसूत्रञ्च पूयशोणितकर्दमम् १६१
मूलम् - १६१
तामिस्र मन्धतामिस्रं महारौरवरौरवौ
सङ्घातः कालसूत्रञ्च पूयशोणितकर्दमम् १६१
विश्वास-प्रस्तुतिः - १६२
कुम्भीपाकं लोहशङ्कुस्तथा विण्मूत्रसागरः
तप्तायसास्त्रयो घोरास्तप्तायसमयं गृहम् १६२
मूलम् - १६२
कुम्भीपाकं लोहशङ्कुस्तथा विण्मूत्रसागरः
तप्तायसास्त्रयो घोरास्तप्तायसमयं गृहम् १६२
विश्वास-प्रस्तुतिः - १६३
शय्या तप्तायसमयी पानकञ्चाग्निसन्निभम्
शूलमुद्गरसङ्घातं काककङ्कोलदंशितम् १६३
मूलम् - १६३
शय्या तप्तायसमयी पानकञ्चाग्निसन्निभम्
शूलमुद्गरसङ्घातं काककङ्कोलदंशितम् १६३
विश्वास-प्रस्तुतिः - १६४
सिंहव्याघ्रमहानागभीकरं सम्प्रतापनम्
क्रिमिराशिमहाज्वालं तथा विण्मूत्रभोजनम् १६४
मूलम् - १६४
सिंहव्याघ्रमहानागभीकरं सम्प्रतापनम्
क्रिमिराशिमहाज्वालं तथा विण्मूत्रभोजनम् १६४
विश्वास-प्रस्तुतिः - १६५
असिपत्रवनं घोरं तपाङ्गारमयी नदी
सञ्जीवनं महाघोरमित्याद्या नरकाः स्मृताः १६५
मूलम् - १६५
असिपत्रवनं घोरं तपाङ्गारमयी नदी
सञ्जीवनं महाघोरमित्याद्या नरकाः स्मृताः १६५
विश्वास-प्रस्तुतिः - १६६
महापातकजैर्घोरैरुपपातकजैरपि
व्रजतीमान्महाघोरान्दुर्वृत्तैरन्वितश्च यः १६६
मूलम् - १६६
महापातकजैर्घोरैरुपपातकजैरपि
व्रजतीमान्महाघोरान्दुर्वृत्तैरन्वितश्च यः १६६
विश्वास-प्रस्तुतिः - १६७
प्रायश्चित्तरपैत्येनो यदकार्यकृतं महत्
कामतस्तु कृतं यत्तु मरणात्सिद्धिमृच्छति १६७
मूलम् - १६७
प्रायश्चित्तरपैत्येनो यदकार्यकृतं महत्
कामतस्तु कृतं यत्तु मरणात्सिद्धिमृच्छति १६७
विश्वास-प्रस्तुतिः - १६८
गुरुदाराभिगमनं तत्संयोगश्च पञ्चमः
संलापात्स्पर्शनाद्वासादेकशय्यासनाशनात् १६८
मूलम् - १६८
गुरुदाराभिगमनं तत्संयोगश्च पञ्चमः
संलापात्स्पर्शनाद्वासादेकशय्यासनाशनात् १६८
विश्वास-प्रस्तुतिः - १६९
सौहार्दाद्वीक्षणाद्दानात्तेनैव समतां व्रजेत्
गुर्वाक्षेपस्त्रयीनिन्दा सुहृदाम्वध एव च १६९
मूलम् - १६९
सौहार्दाद्वीक्षणाद्दानात्तेनैव समतां व्रजेत्
गुर्वाक्षेपस्त्रयीनिन्दा सुहृदाम्वध एव च १६९
विश्वास-प्रस्तुतिः - १७०
ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम्
यागस्थं क्षत्रियं वैश्यं विशिष्टं शूद्रमेव च १७०
मूलम् - १७०
ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम्
यागस्थं क्षत्रियं वैश्यं विशिष्टं शूद्रमेव च १७०
विश्वास-प्रस्तुतिः - १७१
शरणागतं स्वामिनं च पितरं भ्रातरं गुरुम्
पुत्रं तपस्विनं शिष्यं भार्यां तेषां च सर्वतः १७१
मूलम् - १७१
शरणागतं स्वामिनं च पितरं भ्रातरं गुरुम्
पुत्रं तपस्विनं शिष्यं भार्यां तेषां च सर्वतः १७१
विश्वास-प्रस्तुतिः - १७२
अन्तर्वत्नीं स्त्रियो गाश्च तथाऽऽत्रेयीं रजस्वलाः
देवताप्रतिमां साध्वीं बालांश्चैव तपस्विनीम् १७२
मूलम् - १७२
अन्तर्वत्नीं स्त्रियो गाश्च तथाऽऽत्रेयीं रजस्वलाः
देवताप्रतिमां साध्वीं बालांश्चैव तपस्विनीम् १७२
विश्वास-प्रस्तुतिः - ६६०
घातयित्वा समाप्नोति ब्रह्महत्यां न संशयः
र्
६६०
मूलम् - ६६०
घातयित्वा समाप्नोति ब्रह्महत्यां न संशयः
र्
६६०
विश्वास-प्रस्तुतिः - १७४
रजस्वलामुखास्वादः पञ्चयज्ञादिवर्जनम्
अनृतं कूटसाक्षी च महायन्त्रप्रवर्तनम् १७४
मूलम् - १७४
रजस्वलामुखास्वादः पञ्चयज्ञादिवर्जनम्
अनृतं कूटसाक्षी च महायन्त्रप्रवर्तनम् १७४
विश्वास-प्रस्तुतिः - १७५
आकर्षणादि षट्कर्म लाक्षालवणविक्रयः
पाषण्डकल्ककुहकवेदवाह्यविधिक्रिया १७५
मूलम् - १७५
आकर्षणादि षट्कर्म लाक्षालवणविक्रयः
पाषण्डकल्ककुहकवेदवाह्यविधिक्रिया १७५
विश्वास-प्रस्तुतिः - १७६
यक्षराक्षसभूतानामर्चनं वन्दनं तथा
वक्त्रेणैवाम्बुपानञ्च सुरापस्त्रीनिषेवणम् १७६
मूलम् - १७६
यक्षराक्षसभूतानामर्चनं वन्दनं तथा
वक्त्रेणैवाम्बुपानञ्च सुरापस्त्रीनिषेवणम् १७६
विश्वास-प्रस्तुतिः - १७७
गवां निष्पीडनं क्षीरं ताम्रस्थं गव्यमेव च
पात्रान्तरगतं यत्तु नारिकेलफलाम्बु च १७७
मूलम् - १७७
गवां निष्पीडनं क्षीरं ताम्रस्थं गव्यमेव च
पात्रान्तरगतं यत्तु नारिकेलफलाम्बु च १७७
विश्वास-प्रस्तुतिः - १७८
तालहिन्तालमाधूकफलानां रसमेव च
खरोष्ट्रमानुषीक्षीरं सुरापानसमानि वै १७८
मूलम् - १७८
तालहिन्तालमाधूकफलानां रसमेव च
खरोष्ट्रमानुषीक्षीरं सुरापानसमानि वै १७८
विश्वास-प्रस्तुतिः - १७९
मानकूटं तुलाकूटं निक्षेपहरणानि च
भूरत्ननारीहरणं रसान्नस्तेयमेव च १७९
मूलम् - १७९
मानकूटं तुलाकूटं निक्षेपहरणानि च
भूरत्ननारीहरणं रसान्नस्तेयमेव च १७९
विश्वास-प्रस्तुतिः - १८०
गुडकार्पासलवणतिलकान्सामिषाम्बु च
काप्यवस्त्रे च हत्वा च लोहानां हरणं तथा १८०
मूलम् - १८०
गुडकार्पासलवणतिलकान्सामिषाम्बु च
काप्यवस्त्रे च हत्वा च लोहानां हरणं तथा १८०
विश्वास-प्रस्तुतिः - १८१
विषाग्निदाहनं चैव सुवर्णस्तेयसम्मितम्
सखी भार्या कुमारी च सगोत्रा शरणागता १८१
मूलम् - १८१
विषाग्निदाहनं चैव सुवर्णस्तेयसम्मितम्
सखी भार्या कुमारी च सगोत्रा शरणागता १८१
विश्वास-प्रस्तुतिः - १८२
साध्वी प्रव्रजिता राज्ञी निक्षिप्ता च रजस्वला
वर्णोत्तमा तथा शिष्या भार्या भ्रातृपितृव्ययोः १८२
मूलम् - १८२
साध्वी प्रव्रजिता राज्ञी निक्षिप्ता च रजस्वला
वर्णोत्तमा तथा शिष्या भार्या भ्रातृपितृव्ययोः १८२
विश्वास-प्रस्तुतिः - १८३
मातामही पितामही पितुर्मातुश्च सोदराः
अन्या मातृव्यदुहिता मातुलानी पितृष्वसा १८३
मूलम् - १८३
मातामही पितामही पितुर्मातुश्च सोदराः
अन्या मातृव्यदुहिता मातुलानी पितृष्वसा १८३
विश्वास-प्रस्तुतिः - १८४
जननी भगिनी धात्री दुहिताऽऽचार्यभामिनी
स्नुषाऽऽचार्यसुता चैव तत्पत्नी सुमहातपाः १८४
मूलम् - १८४
जननी भगिनी धात्री दुहिताऽऽचार्यभामिनी
स्नुषाऽऽचार्यसुता चैव तत्पत्नी सुमहातपाः १८४
विश्वास-प्रस्तुतिः - १८५
मातुः सपत्नी सार्वभौमी दीक्षिता चैव भामिनी
कपिला महिषी धेनुर्देवताप्रतिमा तथा १८५
मूलम् - १८५
मातुः सपत्नी सार्वभौमी दीक्षिता चैव भामिनी
कपिला महिषी धेनुर्देवताप्रतिमा तथा १८५
६६१
महापातकिनामत्र तत्संयोगिन एव च १८६
विश्वास-प्रस्तुतिः - १८७
प्रायश्चित्तं नास्ति तेषां भृग्वग्निपतनं स्मृतम्
हीनवर्णाभिगमनं गर्भघ्नं भर्तृहिंसनम् १८७
मूलम् - १८७
प्रायश्चित्तं नास्ति तेषां भृग्वग्निपतनं स्मृतम्
हीनवर्णाभिगमनं गर्भघ्नं भर्तृहिंसनम् १८७
विश्वास-प्रस्तुतिः - १८८
विशेषपतनीयानि स्त्रीणां पुंसां च यानि तु
स्त्रीशूद्रविट्क्षत्रवधो गोबालहननं तथा १८८
मूलम् - १८८
विशेषपतनीयानि स्त्रीणां पुंसां च यानि तु
स्त्रीशूद्रविट्क्षत्रवधो गोबालहननं तथा १८८
विश्वास-प्रस्तुतिः - १८९
फलपुष्पद्रुमाणां हि चोषधीनाञ्च हिंसनम्
वापीकूपतडागानां ध्वंसनं ग्रामघातनम् १८९
मूलम् - १८९
फलपुष्पद्रुमाणां हि चोषधीनाञ्च हिंसनम्
वापीकूपतडागानां ध्वंसनं ग्रामघातनम् १८९
विश्वास-प्रस्तुतिः - १९०
अभिचारादिकं कर्म्म सस्यध्वंसनमेव च
उद्यानारामहननं प्रपाविध्वंसनं तथा १९०
मूलम् - १९०
अभिचारादिकं कर्म्म सस्यध्वंसनमेव च
उद्यानारामहननं प्रपाविध्वंसनं तथा १९०
विश्वास-प्रस्तुतिः - १९१
मातापितृसुतत्यागो दारत्यागस्तथैव च
स्वाध्यायाग्निगुरुत्यागस्तथा धर्म्मस्य विक्रयः १९१
मूलम् - १९१
मातापितृसुतत्यागो दारत्यागस्तथैव च
स्वाध्यायाग्निगुरुत्यागस्तथा धर्म्मस्य विक्रयः १९१
विश्वास-प्रस्तुतिः - १९२
कन्याया विक्रयश्चैव स्वाध्यायमद्यविक्रयः
परस्त्रीगमनञ्चैव परद्रव्यापहारणम् १९२
मूलम् - १९२
कन्याया विक्रयश्चैव स्वाध्यायमद्यविक्रयः
परस्त्रीगमनञ्चैव परद्रव्यापहारणम् १९२
विश्वास-प्रस्तुतिः - १९३
तथा पुंसोऽभिगमनं पशूनां गमनं तथा
वृषक्षुद्रपशूनाञ्च पुंस्त्वविध्वंसनं तथा १९३
मूलम् - १९३
तथा पुंसोऽभिगमनं पशूनां गमनं तथा
वृषक्षुद्रपशूनाञ्च पुंस्त्वविध्वंसनं तथा १९३
विश्वास-प्रस्तुतिः - १९४
कन्याया दूषणं चैव गवां योनिनिपीडनम्
मानुषाणां पशूनाञ्च नासाद्यङ्गविभेदनम् १९४
मूलम् - १९४
कन्याया दूषणं चैव गवां योनिनिपीडनम्
मानुषाणां पशूनाञ्च नासाद्यङ्गविभेदनम् १९४
विश्वास-प्रस्तुतिः - १९५
ग्रामान्त्यजस्त्रीगमनं विज्ञेयमनुपातकम्
नित्यनैमित्तिकश्राद्धवर्जनं पशुहिंसनम् १९५
मूलम् - १९५
ग्रामान्त्यजस्त्रीगमनं विज्ञेयमनुपातकम्
नित्यनैमित्तिकश्राद्धवर्जनं पशुहिंसनम् १९५
विश्वास-प्रस्तुतिः - १९६
मृगपक्षिमहासर्पयादसां हननक्रिया
साधारणस्त्रीगमनं पत्न्यास्ये मैथुनं तथा १९६
मूलम् - १९६
मृगपक्षिमहासर्पयादसां हननक्रिया
साधारणस्त्रीगमनं पत्न्यास्ये मैथुनं तथा १९६
विश्वास-प्रस्तुतिः - १९७
पारवित्तं पारदार्यं निन्दितार्थोपजीवनम्
तथैवानाश्रमे वासो देवद्रव्योपजीवनम् १९७
मूलम् - १९७
पारवित्तं पारदार्यं निन्दितार्थोपजीवनम्
तथैवानाश्रमे वासो देवद्रव्योपजीवनम् १९७
विश्वास-प्रस्तुतिः - १९८
पयोदधितिलानाञ्च विक्रयं लवणक्रयम्
शाकमूलफलस्तेयमतिवद्धृ्युपजीवनम् १९८
मूलम् - १९८
पयोदधितिलानाञ्च विक्रयं लवणक्रयम्
शाकमूलफलस्तेयमतिवद्धृ्युपजीवनम् १९८
विश्वास-प्रस्तुतिः - ६६२
निमन्त्रितातिक्रमणं दुष्प्रतिग्रहमेव च
र्
६६२
मूलम् - ६६२
निमन्त्रितातिक्रमणं दुष्प्रतिग्रहमेव च
र्
६६२
विश्वास-प्रस्तुतिः - २००
वृथैवाऽऽत्मपरित्यागः संग्रामेषु पलायिता
दुर्भाजनं दुरालापं स्वधर्म्मस्य च कीर्तनम् २००
मूलम् - २००
वृथैवाऽऽत्मपरित्यागः संग्रामेषु पलायिता
दुर्भाजनं दुरालापं स्वधर्म्मस्य च कीर्तनम् २००
विश्वास-प्रस्तुतिः - २०१
परेषां दोषवचनं परदारनिरीक्षणम्
नास्तिक्यं व्रतलोपश्च स्वाश्रमाचारवर्जनम् २०१
मूलम् - २०१
परेषां दोषवचनं परदारनिरीक्षणम्
नास्तिक्यं व्रतलोपश्च स्वाश्रमाचारवर्जनम् २०१
विश्वास-प्रस्तुतिः - २०२
असच्छास्त्राभिगमनं व्यसनान्यात्मविक्रयः
व्रात्यतात्मार्थवचनमेकैकमुपपातकम् २०२
मूलम् - २०२
असच्छास्त्राभिगमनं व्यसनान्यात्मविक्रयः
व्रात्यतात्मार्थवचनमेकैकमुपपातकम् २०२
विश्वास-प्रस्तुतिः - २०३
इन्धनार्थं द्रुमच्छेदः क्रिमिकीटादिहिंसनम्
भावदुष्टं कालदुष्टं क्रियादुष्टं च भक्षणम् २०३
मूलम् - २०३
इन्धनार्थं द्रुमच्छेदः क्रिमिकीटादिहिंसनम्
भावदुष्टं कालदुष्टं क्रियादुष्टं च भक्षणम् २०३
विश्वास-प्रस्तुतिः - २०४
मृच्चर्मतृणकाष्ठाम्बुस्तेयमत्यशनं तथा
अनृतं विषयचापल्यं दिवास्वप्नमसत्कथा २०४
मूलम् - २०४
मृच्चर्मतृणकाष्ठाम्बुस्तेयमत्यशनं तथा
अनृतं विषयचापल्यं दिवास्वप्नमसत्कथा २०४
विश्वास-प्रस्तुतिः - २०५
तच्छ्रावणं परान्नं च दिवामैथुनमेव च
रजस्वलां सूतिकां च परस्त्रीमभिदर्शनम् २०५
मूलम् - २०५
तच्छ्रावणं परान्नं च दिवामैथुनमेव च
रजस्वलां सूतिकां च परस्त्रीमभिदर्शनम् २०५
विश्वास-प्रस्तुतिः - २०६
उपवासदिने श्राद्धे दिवा पर्वणि मैथुनम्
शूद्र्येष्यं हीनसख्यमुच्छिष्टस्पर्शनादिकम् २०६
मूलम् - २०६
उपवासदिने श्राद्धे दिवा पर्वणि मैथुनम्
शूद्र्येष्यं हीनसख्यमुच्छिष्टस्पर्शनादिकम् २०६
विश्वास-प्रस्तुतिः - २०७
इत्यादयो ये च दोषाः प्रकीर्णाः परिकीर्तिताः
महापापं पातकञ्च अनुपातकमेव च २०७
मूलम् - २०७
इत्यादयो ये च दोषाः प्रकीर्णाः परिकीर्तिताः
महापापं पातकञ्च अनुपातकमेव च २०७
विश्वास-प्रस्तुतिः - २०८
उपपापं प्रकीर्णञ्च पञ्चधा तत्र कीर्तितम्
महापातकतुल्यानि पापान्युक्तानि यानि तु २०८
मूलम् - २०८
उपपापं प्रकीर्णञ्च पञ्चधा तत्र कीर्तितम्
महापातकतुल्यानि पापान्युक्तानि यानि तु २०८
विश्वास-प्रस्तुतिः - २०९
तानि पातकसंज्ञानि तन्न्यूनमनुपातकम्
उपपापं ततो न्यूनं ततो हीनं प्रकीर्णकम् २०९
मूलम् - २०९
तानि पातकसंज्ञानि तन्न्यूनमनुपातकम्
उपपापं ततो न्यूनं ततो हीनं प्रकीर्णकम् २०९
विश्वास-प्रस्तुतिः - २१०
संसर्गस्तु तथा तेषां प्रसङ्गात्सम्प्रकीर्तितम्
क्रमेण वक्ष्यते तेषां प्रायश्चित्तं विशुद्धये २१०
मूलम् - २१०
संसर्गस्तु तथा तेषां प्रसङ्गात्सम्प्रकीर्तितम्
क्रमेण वक्ष्यते तेषां प्रायश्चित्तं विशुद्धये २१०
विश्वास-प्रस्तुतिः - २११
यो येन सम्वसेत्तेषां तस्यैव व्रतमाचरेत्
संसर्गिणस्तु संसर्गस्तत्संसर्गस्तथैव च २११
मूलम् - २११
यो येन सम्वसेत्तेषां तस्यैव व्रतमाचरेत्
संसर्गिणस्तु संसर्गस्तत्संसर्गस्तथैव च २११
विश्वास-प्रस्तुतिः - २१२
चतुर्थस्य न दोषस्तु पतत्येषु यथाक्रमम्
प्रकीर्णकादिदोषाणां प्रासङ्गिकमविद्यते २१२
मूलम् - २१२
चतुर्थस्य न दोषस्तु पतत्येषु यथाक्रमम्
प्रकीर्णकादिदोषाणां प्रासङ्गिकमविद्यते २१२
विश्वास-प्रस्तुतिः - २१३
स्वल्पत्वात्पतनाभावात्तत्संसर्गान्न दुष्यति
स्नानाच्च शुद्धिर्दोषस्य संसर्गात्पतितं विना २१३
मूलम् - २१३
स्वल्पत्वात्पतनाभावात्तत्संसर्गान्न दुष्यति
स्नानाच्च शुद्धिर्दोषस्य संसर्गात्पतितं विना २१३
विश्वास-प्रस्तुतिः - २१४
सावित्र्या वाऽपि शुध्येत कर्तुरेव व्रतक्रिया
कृते पापे यस्य पुंसः पश्चात्तापोऽनुजायते २१४
मूलम् - २१४
सावित्र्या वाऽपि शुध्येत कर्तुरेव व्रतक्रिया
कृते पापे यस्य पुंसः पश्चात्तापोऽनुजायते २१४
विश्वास-प्रस्तुतिः - २१५
प्रायश्चित्तन्तु तस्यैव कर्तव्यं नेतरस्य तु
जातानुतापस्य भवेत्प्रायश्चित्तं यथोदितम् २१५
मूलम् - २१५
प्रायश्चित्तन्तु तस्यैव कर्तव्यं नेतरस्य तु
जातानुतापस्य भवेत्प्रायश्चित्तं यथोदितम् २१५
विश्वास-प्रस्तुतिः - २१६
नानुतापस्य पुंसस्तु प्रायश्चित्तं न विद्यते
नाश्वमेधफलेनापि नानुतापी विशुद्ध्यते २१६
मूलम् - २१६
नानुतापस्य पुंसस्तु प्रायश्चित्तं न विद्यते
नाश्वमेधफलेनापि नानुतापी विशुद्ध्यते २१६
विश्वास-प्रस्तुतिः - २१७
तस्माज्जातानुतापस्य प्रायश्चित्तं विशुद्ध्यते
चरेदकामतः कृत्वा पतनीयं महत्पुमान् २१७
मूलम् - २१७
तस्माज्जातानुतापस्य प्रायश्चित्तं विशुद्ध्यते
चरेदकामतः कृत्वा पतनीयं महत्पुमान् २१७
विश्वास-प्रस्तुतिः - २१८
न कामतश्चरेद्धर्मं भृग्वग्निपतनं विना
यः कामतो महापापं नरः कुर्यात्कथञ्चन २१८
मूलम् - २१८
न कामतश्चरेद्धर्मं भृग्वग्निपतनं विना
यः कामतो महापापं नरः कुर्यात्कथञ्चन २१८
विश्वास-प्रस्तुतिः - २१९
न तस्य शुद्धिर्निर्दिष्टा भृग्वग्निपतनं विना
इत्युक्तं ब्रह्मणा पूर्वं मनुना च महर्षिभिः २१९
मूलम् - २१९
न तस्य शुद्धिर्निर्दिष्टा भृग्वग्निपतनं विना
इत्युक्तं ब्रह्मणा पूर्वं मनुना च महर्षिभिः २१९
विश्वास-प्रस्तुतिः - २२०
पातकेषु च सर्वत्र कामतो द्विगुणं व्रतम्
कामतः पतनीयेषु मरणाच्छुद्धिमृच्छति २२०
मूलम् - २२०
पातकेषु च सर्वत्र कामतो द्विगुणं व्रतम्
कामतः पतनीयेषु मरणाच्छुद्धिमृच्छति २२०
विश्वास-प्रस्तुतिः - २२१
हयमेधाय नः शुद्धिः सर्वभौमस्य भूपतेः
कामतस्त्वनुपापेषु लोके न व्यवहार्यता २२१
मूलम् - २२१
हयमेधाय नः शुद्धिः सर्वभौमस्य भूपतेः
कामतस्त्वनुपापेषु लोके न व्यवहार्यता २२१
विश्वास-प्रस्तुतिः - २२२
महत्सु चातिपापेषु प्रदीप्तज्वलनं विशेत्
प्रायश्चित्तैरपैत्येनो यदकामकृतं भवेत् २२२
मूलम् - २२२
महत्सु चातिपापेषु प्रदीप्तज्वलनं विशेत्
प्रायश्चित्तैरपैत्येनो यदकामकृतं भवेत् २२२
विश्वास-प्रस्तुतिः - २२३
कामतो व्यवहारस्तु वचनादिह जायते
इति योगेश्वरेणोक्तमुपपापेषु तत्र तत् २२३
मूलम् - २२३
कामतो व्यवहारस्तु वचनादिह जायते
इति योगेश्वरेणोक्तमुपपापेषु तत्र तत् २२३
विश्वास-प्रस्तुतिः - २२४
तस्मादकामतः पापं प्रायश्चित्तेन शुध्यति
तेषां क्रमेण वक्ष्यामि प्रायश्चित्तं विशुद्धये २२४
मूलम् - २२४
तस्मादकामतः पापं प्रायश्चित्तेन शुध्यति
तेषां क्रमेण वक्ष्यामि प्रायश्चित्तं विशुद्धये २२४
६६४
विश्वास-प्रस्तुतिः - २२५
शिरः कपालध्वजवान्भिक्षाशी कर्म वेदयन्
ब्रह्महा द्वादशाब्दानि पुण्यतीर्थे समाविशेत् २२५
मूलम् - २२५
शिरः कपालध्वजवान्भिक्षाशी कर्म वेदयन्
ब्रह्महा द्वादशाब्दानि पुण्यतीर्थे समाविशेत् २२५
विश्वास-प्रस्तुतिः - २२६
प्रयागे सेतुबन्धादिपुण्यक्षेत्रेषु पापकृत्
तत्र वर्षादि विज्ञाप्य स्वस्वकल्पमशेषतः २२६
मूलम् - २२६
प्रयागे सेतुबन्धादिपुण्यक्षेत्रेषु पापकृत्
तत्र वर्षादि विज्ञाप्य स्वस्वकल्पमशेषतः २२६
विश्वास-प्रस्तुतिः - २२७
तत्रस्थैर्ब्राह्मणैरेवानुज्ञातो व्रतमाचरेत्
चत्वारो ब्राह्मणाः शिष्टाः पर्षदित्यभिधीयते २२७
मूलम् - २२७
तत्रस्थैर्ब्राह्मणैरेवानुज्ञातो व्रतमाचरेत्
चत्वारो ब्राह्मणाः शिष्टाः पर्षदित्यभिधीयते २२७
विश्वास-प्रस्तुतिः - २२८
तैरुक्तमाचरेद्धर्ममेको वाऽध्यात्मवित्तमः
जटी वल्कलवासाश्च बहिरेव समाविशन् २२८
मूलम् - २२८
तैरुक्तमाचरेद्धर्ममेको वाऽध्यात्मवित्तमः
जटी वल्कलवासाश्च बहिरेव समाविशन् २२८
विश्वास-प्रस्तुतिः - २२९
स्नानं त्रिषवणं कुर्वन् क्षितिशायी जितेन्द्रियः
एकभुक्तेन नक्तेन फलैरनशनेन च २२९
मूलम् - २२९
स्नानं त्रिषवणं कुर्वन् क्षितिशायी जितेन्द्रियः
एकभुक्तेन नक्तेन फलैरनशनेन च २२९
विश्वास-प्रस्तुतिः - २३०
समापयेत्कर्मफलं यथाकालं यथाबलम्
राममिन्दीवरश्यामं पौलस्त्यघ्नमकल्मषम् २३०
मूलम् - २३०
समापयेत्कर्मफलं यथाकालं यथाबलम्
राममिन्दीवरश्यामं पौलस्त्यघ्नमकल्मषम् २३०
विश्वास-प्रस्तुतिः - २३१
ध्यात्वा षडक्षरं मन्त्रं नित्यं तावदहर्निशम्
एवं द्वादशवर्षाणि पुण्यतीर्थे समाचरन् २३१
मूलम् - २३१
ध्यात्वा षडक्षरं मन्त्रं नित्यं तावदहर्निशम्
एवं द्वादशवर्षाणि पुण्यतीर्थे समाचरन् २३१
विश्वास-प्रस्तुतिः - २३२
मुच्यते ब्रह्महत्यायास्तपसा वीतकल्मषः
चरितव्रत आयाते यवसं गोषु दापयेत् २३२
मूलम् - २३२
मुच्यते ब्रह्महत्यायास्तपसा वीतकल्मषः
चरितव्रत आयाते यवसं गोषु दापयेत् २३२
विश्वास-प्रस्तुतिः - २३३
तैस्तस्य च सुसंस्काराः कर्तव्या बान्धवैर्जनैः
विप्रमुख्याय गां दत्वा ब्राह्मणान्भोजयेत्ततः २३३
मूलम् - २३३
तैस्तस्य च सुसंस्काराः कर्तव्या बान्धवैर्जनैः
विप्रमुख्याय गां दत्वा ब्राह्मणान्भोजयेत्ततः २३३
विश्वास-प्रस्तुतिः - २३४
प्रारम्भव्रतमध्ये तु यदि पञ्चत्वमाप्नुयात्
विशुद्धिस्तस्य विज्ञेया शुभाङ्गतिमवाप्नुयात् २३४
मूलम् - २३४
प्रारम्भव्रतमध्ये तु यदि पञ्चत्वमाप्नुयात्
विशुद्धिस्तस्य विज्ञेया शुभाङ्गतिमवाप्नुयात् २३४
विश्वास-प्रस्तुतिः - २३५
असंस्कृतस्तु गोषु स्यात्पुनरेव व्रतं चरेत्
अशक्तस्तु व्रते दद्याद्गोसहस्रं द्विजन्मनाम् २३५
मूलम् - २३५
असंस्कृतस्तु गोषु स्यात्पुनरेव व्रतं चरेत्
अशक्तस्तु व्रते दद्याद्गोसहस्रं द्विजन्मनाम् २३५
विश्वास-प्रस्तुतिः - २३६
पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिमवाप्नुयात्
ब्रह्महत्यासमेष्वेवं कामतो व्रतमाचरेत् २३६
मूलम् - २३६
पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिमवाप्नुयात्
ब्रह्महत्यासमेष्वेवं कामतो व्रतमाचरेत् २३६
विश्वास-प्रस्तुतिः - २३७
अकामतश्चरेद्धर्मं पापं मनसि चोच्यते
आज्ञापयिताऽनुमन्ताऽनुग्राहकस्तथैव च २३७
मूलम् - २३७
अकामतश्चरेद्धर्मं पापं मनसि चोच्यते
आज्ञापयिताऽनुमन्ताऽनुग्राहकस्तथैव च २३७
विश्वास-प्रस्तुतिः - २३८
उपेक्षिताऽशक्तिमांश्चेत्पादोनं व्रतमाचरेत्
कामतस्तु चरेत्पूर्णं तत्रापि द्विगुणं गुरौ २३८
मूलम् - २३८
उपेक्षिताऽशक्तिमांश्चेत्पादोनं व्रतमाचरेत्
कामतस्तु चरेत्पूर्णं तत्रापि द्विगुणं गुरौ २३८
विश्वास-प्रस्तुतिः - २३९
अन्तर्वत्न्यां तथाऽऽत्रेय्यां तथैव व्रतमाचरेत्
आचार्ये च वनस्थेन मातापित्रोर्गुरौ तथा २३९
मूलम् - २३९
अन्तर्वत्न्यां तथाऽऽत्रेय्यां तथैव व्रतमाचरेत्
आचार्ये च वनस्थेन मातापित्रोर्गुरौ तथा २३९
विश्वास-प्रस्तुतिः - २४०
तपस्विनि ब्रह्मविदि द्विगुणं व्रतमाचरेत्
यावत्स्वक्षत्त्रियं वैश्यं विशिष्टं शूद्रमेव च २४०
मूलम् - २४०
तपस्विनि ब्रह्मविदि द्विगुणं व्रतमाचरेत्
यावत्स्वक्षत्त्रियं वैश्यं विशिष्टं शूद्रमेव च २४०
विश्वास-प्रस्तुतिः - २४१
कपिलां गर्भिणीङ्गाञ्च हत्वा पूर्णव्रतं चरेत्
अकामतस्तु तेष्वर्धं मुनिभिः सम्प्रकीर्तितम् २४१
मूलम् - २४१
कपिलां गर्भिणीङ्गाञ्च हत्वा पूर्णव्रतं चरेत्
अकामतस्तु तेष्वर्धं मुनिभिः सम्प्रकीर्तितम् २४१
विश्वास-प्रस्तुतिः - २४२
विधेः प्राथमिकादस्माद्द्वितीये द्विगुणं चरेत्
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः २४२
मूलम् - २४२
विधेः प्राथमिकादस्माद्द्वितीये द्विगुणं चरेत्
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः २४२
विश्वास-प्रस्तुतिः - २४३
चतुर्णामाश्रमाणाञ्च शौचवत्साधनं चरेत्
प्रायश्चित्तान्तरं मध्ये केचिदिच्छन्ति सूरयः २४३
मूलम् - २४३
चतुर्णामाश्रमाणाञ्च शौचवत्साधनं चरेत्
प्रायश्चित्तान्तरं मध्ये केचिदिच्छन्ति सूरयः २४३
विश्वास-प्रस्तुतिः - २४४
गोब्राह्मणपरित्राणमश्वमेधावभृथं तथा
इयं विशुद्धिरुदिता प्रहृत्या कामतो द्विजान् २४४
मूलम् - २४४
गोब्राह्मणपरित्राणमश्वमेधावभृथं तथा
इयं विशुद्धिरुदिता प्रहृत्या कामतो द्विजान् २४४
विश्वास-प्रस्तुतिः - २४५
अग्निप्रपतनं केचिदिच्छन्ति मुनिसत्तमाः
लोमभ्यः स्वाहेत्यादि मन्त्रैर्हुत्वा पृथक्पृथक् २४५
मूलम् - २४५
अग्निप्रपतनं केचिदिच्छन्ति मुनिसत्तमाः
लोमभ्यः स्वाहेत्यादि मन्त्रैर्हुत्वा पृथक्पृथक् २४५
विश्वास-प्रस्तुतिः - २४६
अवाक्शिराः प्रविश्याग्नौ दग्धः शुद्धो भवेन्नरः
अकामतः सुरां पीत्वा मद्यं वाऽपि द्विजोत्तमः २४६
मूलम् - २४६
अवाक्शिराः प्रविश्याग्नौ दग्धः शुद्धो भवेन्नरः
अकामतः सुरां पीत्वा मद्यं वाऽपि द्विजोत्तमः २४६
विश्वास-प्रस्तुतिः - २४७
पूर्ववद्द्वादशाब्दानि चरेद्व्रतमचिह्नितम्
जपित्वा दशसाहस्रं त्रिसन्ध्यासु निरन्तरम् २४७
मूलम् - २४७
पूर्ववद्द्वादशाब्दानि चरेद्व्रतमचिह्नितम्
जपित्वा दशसाहस्रं त्रिसन्ध्यासु निरन्तरम् २४७
विश्वास-प्रस्तुतिः - २४८
द्वादशाब्दं मनुं जप्त्वा ततः शुद्धो भवेन्नरः
यानि कानि च पापानि सुरापानसमानि तु २४८
मूलम् - २४८
द्वादशाब्दं मनुं जप्त्वा ततः शुद्धो भवेन्नरः
यानि कानि च पापानि सुरापानसमानि तु २४८
विश्वास-प्रस्तुतिः - २४९
अकामतश्चरेदर्धं कामतः पूर्णमाचरेत्
सर्वत्र पातनीयेषु चरित्वा व्रतमुक्तवत् २४९
मूलम् - २४९
अकामतश्चरेदर्धं कामतः पूर्णमाचरेत्
सर्वत्र पातनीयेषु चरित्वा व्रतमुक्तवत् २४९
विश्वास-प्रस्तुतिः - २५०
पुनः संस्कारमर्हन्ति त्रयश्चैते द्विजातयः
अज्ञानात्तु सुरां पीत्वा रेतोविण्मूत्रमेव च २५०
मूलम् - २५०
पुनः संस्कारमर्हन्ति त्रयश्चैते द्विजातयः
अज्ञानात्तु सुरां पीत्वा रेतोविण्मूत्रमेव च २५०
६६६
विश्वास-प्रस्तुतिः - २५१
मानुषीक्षीरपानेन पुनः संस्कारमर्हति
इत्युक्तं मनुना पूर्वमन्यैश्चापि महर्षिभिः २५१
मूलम् - २५१
मानुषीक्षीरपानेन पुनः संस्कारमर्हति
इत्युक्तं मनुना पूर्वमन्यैश्चापि महर्षिभिः २५१
विश्वास-प्रस्तुतिः - २५२
करञ्जं लशुनं शिग्रु मूलकं ग्रामसूकरम्
छत्राकं कुक्कुटाण्डञ्च कालं पिण्याकं लशुनं तथा २५२
मूलम् - २५२
करञ्जं लशुनं शिग्रु मूलकं ग्रामसूकरम्
छत्राकं कुक्कुटाण्डञ्च कालं पिण्याकं लशुनं तथा २५२
विश्वास-प्रस्तुतिः - २५३
गृध्रमुष्ट्रं नृमांसं च खरं तत्तक्रमेव च
माहिषं माकरं मांससंवृक्षं वानरमेव च २५३
मूलम् - २५३
गृध्रमुष्ट्रं नृमांसं च खरं तत्तक्रमेव च
माहिषं माकरं मांससंवृक्षं वानरमेव च २५३
विश्वास-प्रस्तुतिः - २५४
निष्पीडितञ्च गोक्षीरमारनालं च मूषकम्
मार्जारं श्वेदवृन्ताकं कुम्भीनिम्बदलं तथा २५४
मूलम् - २५४
निष्पीडितञ्च गोक्षीरमारनालं च मूषकम्
मार्जारं श्वेदवृन्ताकं कुम्भीनिम्बदलं तथा २५४
विश्वास-प्रस्तुतिः - २५५
क्रव्यादञ्च तथा भेकं शृगालं व्याघ्रमेव च
एवमादिनिषिद्धांस्तु भक्षयित्वा तु कामतः २५५
मूलम् - २५५
क्रव्यादञ्च तथा भेकं शृगालं व्याघ्रमेव च
एवमादिनिषिद्धांस्तु भक्षयित्वा तु कामतः २५५
विश्वास-प्रस्तुतिः - २५६
चरेद्व्रतं तथा प्रर्णं पादोनम्पादकामतः
नारिकेलरसं पीत्वा वायुना ताडितं द्विजः २५६
मूलम् - २५६
चरेद्व्रतं तथा प्रर्णं पादोनम्पादकामतः
नारिकेलरसं पीत्वा वायुना ताडितं द्विजः २५६
विश्वास-प्रस्तुतिः - २५७
दग्ध्वा तालपलाशम्वा करनिर्मथितं दधि
ताम्रपात्रगतं गव्यं क्षीरं च लवणान्वितम् २५७
मूलम् - २५७
दग्ध्वा तालपलाशम्वा करनिर्मथितं दधि
ताम्रपात्रगतं गव्यं क्षीरं च लवणान्वितम् २५७
विश्वास-प्रस्तुतिः - २५८
कराग्रेणैव यद्दत्तं घृतं लवणमम्बु च
सूतकान्नञ्च शूद्रान्नं कदर्याद्यन्नमेव च २५८
मूलम् - २५८
कराग्रेणैव यद्दत्तं घृतं लवणमम्बु च
सूतकान्नञ्च शूद्रान्नं कदर्याद्यन्नमेव च २५८
विश्वास-प्रस्तुतिः - २५९
श्वस्पृष्टं सूतिकादृष्टमुदक्यादृष्टमेव च
पाषण्डभण्डचण्डालवृषलीपतिवीक्षितम् २५९
मूलम् - २५९
श्वस्पृष्टं सूतिकादृष्टमुदक्यादृष्टमेव च
पाषण्डभण्डचण्डालवृषलीपतिवीक्षितम् २५९
विश्वास-प्रस्तुतिः - २६०
दत्त्वावशिष्टं यक्षाणां भूतानां रक्षसां तथा
उद्धृत्य वामहस्तेन वक्त्रेणैव पिबेदपः २६०
मूलम् - २६०
दत्त्वावशिष्टं यक्षाणां भूतानां रक्षसां तथा
उद्धृत्य वामहस्तेन वक्त्रेणैव पिबेदपः २६०
विश्वास-प्रस्तुतिः - २६१
यच्चान्नमाघैकोद्दिष्टमुच्छिष्टमगुरोरपि
हरेरनर्पितं भुक्त्वा न भुक्त्वा देवतार्पितम् २६१
मूलम् - २६१
यच्चान्नमाघैकोद्दिष्टमुच्छिष्टमगुरोरपि
हरेरनर्पितं भुक्त्वा न भुक्त्वा देवतार्पितम् २६१
विश्वास-प्रस्तुतिः - २६२
कामतस्तु चरेद्धर्मञ्चरेद्वेदमकामतः
अकामतः सकृज्जग्ध्वा चरेच्चान्द्रायणव्रतम् २६२
मूलम् - २६२
कामतस्तु चरेद्धर्मञ्चरेद्वेदमकामतः
अकामतः सकृज्जग्ध्वा चरेच्चान्द्रायणव्रतम् २६२
विश्वास-प्रस्तुतिः - २६३
म्लेच्छचण्डालपतितपाषण्डानामकामतः
उदक्यासह भुक्त्वा च चरेद्धर्मव्रतं द्विजः २६३
मूलम् - २६३
म्लेच्छचण्डालपतितपाषण्डानामकामतः
उदक्यासह भुक्त्वा च चरेद्धर्मव्रतं द्विजः २६३
विश्वास-प्रस्तुतिः - २६४
चण्डालकूपभाण्डस्थं मद्यभाण्डस्थमेव च
पीत्वा समाचरेत्पापं कामतोऽर्द्धं समाचरेत् २६४
मूलम् - २६४
चण्डालकूपभाण्डस्थं मद्यभाण्डस्थमेव च
पीत्वा समाचरेत्पापं कामतोऽर्द्धं समाचरेत् २६४
विश्वास-प्रस्तुतिः - २६५
मद्यगन्धं समाघ्राय कामतो व्रतमाचरेत्
अकामतस्तु निष्ठीव्य चरेदाचमनं द्विजः २६५
मूलम् - २६५
मद्यगन्धं समाघ्राय कामतो व्रतमाचरेत्
अकामतस्तु निष्ठीव्य चरेदाचमनं द्विजः २६५
विश्वास-प्रस्तुतिः - २६६
अभिमन्त्र्य जलं प्राश्य सावित्र्या च समन्वितम्
वृथा मांसाशनं चैव भावदुष्टादि भक्षणे २६६
मूलम् - २६६
अभिमन्त्र्य जलं प्राश्य सावित्र्या च समन्वितम्
वृथा मांसाशनं चैव भावदुष्टादि भक्षणे २६६
विश्वास-प्रस्तुतिः - २६७
चरेत्सान्तपनं कृच्छ्रं चान्द्रायणमथापि वा
कामतस्तु चरेत्पादमभ्यासे पूर्णमाचरेत् २६७
मूलम् - २६७
चरेत्सान्तपनं कृच्छ्रं चान्द्रायणमथापि वा
कामतस्तु चरेत्पादमभ्यासे पूर्णमाचरेत् २६७
विश्वास-प्रस्तुतिः - २६८
कामतस्तु सुरां पीत्वा सततं चाग्निसन्निभम्
गोमूत्रमम्बु वा पीत्वा मरणाच्छुद्धिमृच्छति २६८
मूलम् - २६८
कामतस्तु सुरां पीत्वा सततं चाग्निसन्निभम्
गोमूत्रमम्बु वा पीत्वा मरणाच्छुद्धिमृच्छति २६८
विश्वास-प्रस्तुतिः - २६९
सुरायाः प्रतिषेधस्तु द्विजानामेव कीर्तितः
विशिष्टस्यापि शूद्रस्य केचिदिच्छन्ति सूरयः २६९
मूलम् - २६९
सुरायाः प्रतिषेधस्तु द्विजानामेव कीर्तितः
विशिष्टस्यापि शूद्रस्य केचिदिच्छन्ति सूरयः २६९
विश्वास-प्रस्तुतिः - २७०
अनृतं मद्यमांसञ्च परस्त्रीस्वापहारणम्
विशिष्टस्यापि शूद्रस्य पातित्यं मनुरब्रवीत् २७०
मूलम् - २७०
अनृतं मद्यमांसञ्च परस्त्रीस्वापहारणम्
विशिष्टस्यापि शूद्रस्य पातित्यं मनुरब्रवीत् २७०
विश्वास-प्रस्तुतिः - २७१
सुरा वै मलमन्नादेः पापाद्वै मलमुच्यते
तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् २७१
मूलम् - २७१
सुरा वै मलमन्नादेः पापाद्वै मलमुच्यते
तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् २७१
विश्वास-प्रस्तुतिः - ६६८
अग्निवर्णां सुरां पीत्वा सुरायास्तु द्विजातयः
र्
६६८
मूलम् - ६६८
अग्निवर्णां सुरां पीत्वा सुरायास्तु द्विजातयः
र्
६६८
विश्वास-प्रस्तुतिः - २७३
राजन्यवैश्यौ तु मद्यं पीत्वा चरेतां व्रतमेव च
शूद्रस्त्वर्थञ्चरेत्तद्वद् ब्राह्मणो मरणाच्छुचिः २७३
मूलम् - २७३
राजन्यवैश्यौ तु मद्यं पीत्वा चरेतां व्रतमेव च
शूद्रस्त्वर्थञ्चरेत्तद्वद् ब्राह्मणो मरणाच्छुचिः २७३
विश्वास-प्रस्तुतिः - २७४
यक्षरक्षः पिशाचान्न मद्यं मांसं सुरासमम्
नात्तव्यमेव विप्रेण भुक्त्वा तु ज्वलनं विशेत् २७४
मूलम् - २७४
यक्षरक्षः पिशाचान्न मद्यं मांसं सुरासमम्
नात्तव्यमेव विप्रेण भुक्त्वा तु ज्वलनं विशेत् २७४
विश्वास-प्रस्तुतिः - २७५
मद्यं वाऽपि सुरां वाऽपि यः पिबेद्ब्राह्मणाधमः
अग्निवर्णन्तु गोमूत्रं पिबेदञ्जलिपञ्चकम् २७५
मूलम् - २७५
मद्यं वाऽपि सुरां वाऽपि यः पिबेद्ब्राह्मणाधमः
अग्निवर्णन्तु गोमूत्रं पिबेदञ्जलिपञ्चकम् २७५
विश्वास-प्रस्तुतिः - २७६
मरणाच्छुद्धिमाप्नोति जीवेद्यदि विशुध्यति
मद्यस्य प्रतिषिध्यर्थं घृतं क्षीरमथाम्बु वा २७६
मूलम् - २७६
मरणाच्छुद्धिमाप्नोति जीवेद्यदि विशुध्यति
मद्यस्य प्रतिषिध्यर्थं घृतं क्षीरमथाम्बु वा २७६
विश्वास-प्रस्तुतिः - २७७
प्राशयित्वाऽग्निवर्णन्तु तद्वत्तां शुद्धिमाप्नुयात्
दत्त्वा सुवर्णं विप्राय गाञ्च दत्त्वा विशुध्यति २७७
मूलम् - २७७
प्राशयित्वाऽग्निवर्णन्तु तद्वत्तां शुद्धिमाप्नुयात्
दत्त्वा सुवर्णं विप्राय गाञ्च दत्त्वा विशुध्यति २७७
विश्वास-प्रस्तुतिः - २७८
क्षत्त्रविट्शूद्रजातीनां सुवर्ण तु यथाक्रमम्
पादोनमर्द्धं पादं वा चरेद् व्रतं यथोक्तवत् २७८
मूलम् - २७८
क्षत्त्रविट्शूद्रजातीनां सुवर्ण तु यथाक्रमम्
पादोनमर्द्धं पादं वा चरेद् व्रतं यथोक्तवत् २७८
विश्वास-प्रस्तुतिः - २७९
समेष्वर्धं प्रकुर्वीत कामतः पूर्णमाचरेत्
कामतः स्वर्णहारी तु राज्ञे मुसलमर्पयेत् २७९
मूलम् - २७९
समेष्वर्धं प्रकुर्वीत कामतः पूर्णमाचरेत्
कामतः स्वर्णहारी तु राज्ञे मुसलमर्पयेत् २७९
विश्वास-प्रस्तुतिः - २८०
स्वकर्म ख्यापयंश्चैव हतो मुक्तोऽपि वा शुचिः
राज्ञा यदि विमुक्तः स्यात्पूर्ववद्व्रतमाचरेत् २८०
मूलम् - २८०
स्वकर्म ख्यापयंश्चैव हतो मुक्तोऽपि वा शुचिः
राज्ञा यदि विमुक्तः स्यात्पूर्ववद्व्रतमाचरेत् २८०
विश्वास-प्रस्तुतिः - २८१
आत्मतुल्यसुवर्णं वा दद्याद्विप्रस्य तुष्टिकृत्
तत्समव्यतिरिक्तेषु पादमेव चरेद् व्रतम् २८१
मूलम् - २८१
आत्मतुल्यसुवर्णं वा दद्याद्विप्रस्य तुष्टिकृत्
तत्समव्यतिरिक्तेषु पादमेव चरेद् व्रतम् २८१
विश्वास-प्रस्तुतिः - २८२
चान्द्रायणं पराकं वा कुर्यादल्पेषु सर्वशः
द्रव्यप्रत्यर्पणं कर्तुस्तन्मूल्यद्रव्यमेव वा २८२
मूलम् - २८२
चान्द्रायणं पराकं वा कुर्यादल्पेषु सर्वशः
द्रव्यप्रत्यर्पणं कर्तुस्तन्मूल्यद्रव्यमेव वा २८२
विश्वास-प्रस्तुतिः - २८३
व्रतं समाचरेत्कृत्वा यथा परिषदीरितम्
बलाच्छौर्य्येण वा स्नेहाद्व्यवहारादिनाऽपि वा २८३
मूलम् - २८३
व्रतं समाचरेत्कृत्वा यथा परिषदीरितम्
बलाच्छौर्य्येण वा स्नेहाद्व्यवहारादिनाऽपि वा २८३
विश्वास-प्रस्तुतिः - २८४
समाहरति यद्द्रव्यं तत्सर्वं स्तेयमुच्यते
देशं कालं वयः शक्तिं पापञ्चावेक्ष्य सर्वतः २८४
मूलम् - २८४
समाहरति यद्द्रव्यं तत्सर्वं स्तेयमुच्यते
देशं कालं वयः शक्तिं पापञ्चावेक्ष्य सर्वतः २८४
६६९
भगिनीं मातरं पुत्रीं स्नुषामाचार्ययोषितम् २८५
विश्वास-प्रस्तुतिः - २८६
अकामतः सकृद्गत्वा चरेत्पूर्णव्रतं नरः
पश्चिमाभिमुखां गङ्गां कालिन्द्या सह सङ्गताम् २८६
मूलम् - २८६
अकामतः सकृद्गत्वा चरेत्पूर्णव्रतं नरः
पश्चिमाभिमुखां गङ्गां कालिन्द्या सह सङ्गताम् २८६
विश्वास-प्रस्तुतिः - २८७
प्लक्षप्रस्रवणं पुण्यं द्वारकां सेतुमेव वा
चन्द्रपुष्करणीं वाऽपि वेणी सागरसङ्गमम् २८७
मूलम् - २८७
प्लक्षप्रस्रवणं पुण्यं द्वारकां सेतुमेव वा
चन्द्रपुष्करणीं वाऽपि वेणी सागरसङ्गमम् २८७
विश्वास-प्रस्तुतिः - २८८
गोदावर्याः शवर्या वा गत्वा तत्राऽऽचरेद्व्रतम्
पूर्ववत् द्वादशाब्दानि चरेद् व्रतमनुत्तमम् २८८
मूलम् - २८८
गोदावर्याः शवर्या वा गत्वा तत्राऽऽचरेद्व्रतम्
पूर्ववत् द्वादशाब्दानि चरेद् व्रतमनुत्तमम् २८८
विश्वास-प्रस्तुतिः - २८९
कृष्णाय नम इत्येष मन्त्रः सर्वाघनाशनः
इममेव जपन्मन्त्रं ध्यात्वा हृदि सनातनम् २८९
मूलम् - २८९
कृष्णाय नम इत्येष मन्त्रः सर्वाघनाशनः
इममेव जपन्मन्त्रं ध्यात्वा हृदि सनातनम् २८९
विश्वास-प्रस्तुतिः - २९०
त्रिसन्ध्यास्वयुतं भक्त्या नित्यं द्वादशवत्सरम्
चान्द्रायणैः पराकैर्वा कृच्छ्रैर्वा शमयेत्समाः २९०
मूलम् - २९०
त्रिसन्ध्यास्वयुतं भक्त्या नित्यं द्वादशवत्सरम्
चान्द्रायणैः पराकैर्वा कृच्छ्रैर्वा शमयेत्समाः २९०
विश्वास-प्रस्तुतिः - २९१
जीवे क्षीणेऽथवा पुण्यकामी मण्डपपाटलैः
निवसित्वा बहिर्ग्रामात् क्षितिशायी जितेन्द्रियः २९१
मूलम् - २९१
जीवे क्षीणेऽथवा पुण्यकामी मण्डपपाटलैः
निवसित्वा बहिर्ग्रामात् क्षितिशायी जितेन्द्रियः २९१
विश्वास-प्रस्तुतिः - २९२
मनः सन्तापकरणमुद्वहेच्छोकमन्ततः
सदा कृष्णं हरिं ध्यायन् जपन्मन्त्रमनुत्तमम् २९२
मूलम् - २९२
मनः सन्तापकरणमुद्वहेच्छोकमन्ततः
सदा कृष्णं हरिं ध्यायन् जपन्मन्त्रमनुत्तमम् २९२
विश्वास-प्रस्तुतिः - २९३
द्वादशाब्दाद्विमुच्येत पापादस्मात्तपो बलात्
भगिन्यादिषु योषित्सु यो गच्छेत्कामतो नरः २९३
मूलम् - २९३
द्वादशाब्दाद्विमुच्येत पापादस्मात्तपो बलात्
भगिन्यादिषु योषित्सु यो गच्छेत्कामतो नरः २९३
विश्वास-प्रस्तुतिः - २९४
प्रतप्तासमतोयेन समाश्लिष्य हुताशने
शयित्वा सुमहद्वह्नौ दग्धः शुद्धिमवाप्नुयात् २९४
मूलम् - २९४
प्रतप्तासमतोयेन समाश्लिष्य हुताशने
शयित्वा सुमहद्वह्नौ दग्धः शुद्धिमवाप्नुयात् २९४
विश्वास-प्रस्तुतिः - २९५
एतासु मतिदुष्टासु कामतो बहुशो व्रजेत्
एवमग्निं विशेद्धीमान् पापं विज्ञाप्य पर्षदि २९५
मूलम् - २९५
एतासु मतिदुष्टासु कामतो बहुशो व्रजेत्
एवमग्निं विशेद्धीमान् पापं विज्ञाप्य पर्षदि २९५
विश्वास-प्रस्तुतिः - २९६
अकामतः सकृद् गत्वा चरेद्धर्मव्रतं नरः
अभ्यासे तु चरेत्पूर्णं कामतः सकृदेव च २९६
मूलम् - २९६
अकामतः सकृद् गत्वा चरेद्धर्मव्रतं नरः
अभ्यासे तु चरेत्पूर्णं कामतः सकृदेव च २९६
विश्वास-प्रस्तुतिः - २९७
कामतोऽभ्यासविषये तत्रापि मरणान्तिकम्
समेष्वर्थं प्रकुर्वीत सकृदेव ह्यकामतः २९७
मूलम् - २९७
कामतोऽभ्यासविषये तत्रापि मरणान्तिकम्
समेष्वर्थं प्रकुर्वीत सकृदेव ह्यकामतः २९७
विश्वास-प्रस्तुतिः - ६७०
कामतस्तु चरेत्पूर्णमभ्यासे मरणान्तिकम्
र्
६७०
मूलम् - ६७०
कामतस्तु चरेत्पूर्णमभ्यासे मरणान्तिकम्
र्
६७०
विश्वास-प्रस्तुतिः - २९९
अन्यास्वपि च नारीषु सकृद्गत्वाऽप्यकामतः
पादमेवाऽऽचरेद्विद्वानभ्यासे त्वर्थमाचरेत् २९९
मूलम् - २९९
अन्यास्वपि च नारीषु सकृद्गत्वाऽप्यकामतः
पादमेवाऽऽचरेद्विद्वानभ्यासे त्वर्थमाचरेत् २९९
विश्वास-प्रस्तुतिः - ३०१
चान्द्रायणं पराकं वा प्राजापत्यमथापि वा
उदक्यां सूतिकां गत्वा चरेत्सान्तपनं व्रतम् ३०१
मूलम् - ३०१
चान्द्रायणं पराकं वा प्राजापत्यमथापि वा
उदक्यां सूतिकां गत्वा चरेत्सान्तपनं व्रतम् ३०१
विश्वास-प्रस्तुतिः - ३०२
चान्द्रायणं तथाऽन्यासु कामतो द्विगुणं चरेत्
अष्टम्याञ्च चतुर्दश्यां दिवा पर्वणि मैथुनम् ३०२
मूलम् - ३०२
चान्द्रायणं तथाऽन्यासु कामतो द्विगुणं चरेत्
अष्टम्याञ्च चतुर्दश्यां दिवा पर्वणि मैथुनम् ३०२
विश्वास-प्रस्तुतिः - ३०३
कृत्वा सचैलं स्नात्वा च वारुणीभिश्च मार्जयेत्
चण्डालीं पुंश्चलीं म्लेच्छां पाषण्डीं पतितामपि ३०३
मूलम् - ३०३
कृत्वा सचैलं स्नात्वा च वारुणीभिश्च मार्जयेत्
चण्डालीं पुंश्चलीं म्लेच्छां पाषण्डीं पतितामपि ३०३
विश्वास-प्रस्तुतिः - ३०४
रजकीं बुरुडीं व्याधां सर्वा ग्रामान्त्यजाः स्त्रियः
अकामतः सकृद्गत्वा चरेच्चान्द्रायणव्रतम् ३०४
मूलम् - ३०४
रजकीं बुरुडीं व्याधां सर्वा ग्रामान्त्यजाः स्त्रियः
अकामतः सकृद्गत्वा चरेच्चान्द्रायणव्रतम् ३०४
विश्वास-प्रस्तुतिः - ३०५
अभ्यासे तु व्रतं पूर्णन्ताभिश्च सह भोजने
कामतस्तु सकृद्गत्वा भुक्त्वा त्वर्थव्रतं चरेत् ३०५
मूलम् - ३०५
अभ्यासे तु व्रतं पूर्णन्ताभिश्च सह भोजने
कामतस्तु सकृद्गत्वा भुक्त्वा त्वर्थव्रतं चरेत् ३०५
विश्वास-प्रस्तुतिः - ३०६
तत्र भूयश्चरेत्पूर्णमभ्यासे मरणान्तिकम्
यो येन सम्वसेदेषान्तत्पापं सोऽपि तत्समः ३०६
मूलम् - ३०६
तत्र भूयश्चरेत्पूर्णमभ्यासे मरणान्तिकम्
यो येन सम्वसेदेषान्तत्पापं सोऽपि तत्समः ३०६
विश्वास-प्रस्तुतिः - ३०७
संलापस्पर्शनादेव शय्याशनासनादिभिः
तद्वदेवाऽऽचरेत्सर्वं व्रतं द्वादशवार्षिकम् ३०७
मूलम् - ३०७
संलापस्पर्शनादेव शय्याशनासनादिभिः
तद्वदेवाऽऽचरेत्सर्वं व्रतं द्वादशवार्षिकम् ३०७
विश्वास-प्रस्तुतिः - ३०८
अकामतश्चरेद्धर्मं षण्मासात्पादमाचरेत्
मासत्रये द्विवर्षं स्यान्मासमात्रे तु वत्सरम् ३०८
मूलम् - ३०८
अकामतश्चरेद्धर्मं षण्मासात्पादमाचरेत्
मासत्रये द्विवर्षं स्यान्मासमात्रे तु वत्सरम् ३०८
विश्वास-प्रस्तुतिः - ३०९
कामतो द्विगुणं तत्र चरेदब्दादिकं व्रतम्
ऊर्द्धन्तु वत्सरात्पूर्णं द्वैगुण्याद्यमतः क्रमात् ३०९
मूलम् - ३०९
कामतो द्विगुणं तत्र चरेदब्दादिकं व्रतम्
ऊर्द्धन्तु वत्सरात्पूर्णं द्वैगुण्याद्यमतः क्रमात् ३०९
विश्वास-प्रस्तुतिः - ३१०
कामतो वत्सरादूर्ध्वं द्विगुणव्रतमाचरेत्
ऊर्ध्वं द्विवर्षात्तस्यापि मरणान्तिकमुच्यते ३१०
मूलम् - ३१०
कामतो वत्सरादूर्ध्वं द्विगुणव्रतमाचरेत्
ऊर्ध्वं द्विवर्षात्तस्यापि मरणान्तिकमुच्यते ३१०
विश्वास-प्रस्तुतिः - ३११
यजनाध्यापनाद्दानात्पानाच्च सह भोजनात्
सद्य एव पतत्यस्मिन् पतितेन सहाऽऽचरन् ३११
मूलम् - ३११
यजनाध्यापनाद्दानात्पानाच्च सह भोजनात्
सद्य एव पतत्यस्मिन् पतितेन सहाऽऽचरन् ३११
विश्वास-प्रस्तुतिः - ३१२
तत्राप्यकामतस्त्वर्थं कामतः पूर्णमाचरेत्
षण्मासे वत्सरेऽप्यत्र द्विगुणं त्रिगुणं स्मृतम् ३१२
मूलम् - ३१२
तत्राप्यकामतस्त्वर्थं कामतः पूर्णमाचरेत्
षण्मासे वत्सरेऽप्यत्र द्विगुणं त्रिगुणं स्मृतम् ३१२
विश्वास-प्रस्तुतिः - ३१३
ऊर्ध्वे तु निष्कृतिर्न स्याद् भृग्वग्निपतनं विना
द्वितीयस्य तृतीयस्य नेष्यते मरणान्तिकम् ३१३
मूलम् - ३१३
ऊर्ध्वे तु निष्कृतिर्न स्याद् भृग्वग्निपतनं विना
द्वितीयस्य तृतीयस्य नेष्यते मरणान्तिकम् ३१३
विश्वास-प्रस्तुतिः - २१४
अर्द्धं पादं समुद्दिष्टं कामतो द्विगुणं तथा
ब्रह्मकूर्चोपवासेन चतुर्थस्य विनिष्कृतिः २१४
मूलम् - २१४
अर्द्धं पादं समुद्दिष्टं कामतो द्विगुणं तथा
ब्रह्मकूर्चोपवासेन चतुर्थस्य विनिष्कृतिः २१४
विश्वास-प्रस्तुतिः - ३१५
पञ्चमस्य न दोषः स्यादिति धर्मविदो विदुः
अन्येषामपि संसर्गात्प्रायश्चित्तं प्रकल्पयेत् ३१५
मूलम् - ३१५
पञ्चमस्य न दोषः स्यादिति धर्मविदो विदुः
अन्येषामपि संसर्गात्प्रायश्चित्तं प्रकल्पयेत् ३१५
विश्वास-प्रस्तुतिः - ३१६
पतनीयेषु नारीणां मरणान्तिकमुच्यते
अकामतश्चरेद्धर्मव्रतं पृथु यथोदितम् ३१६
मूलम् - ३१६
पतनीयेषु नारीणां मरणान्तिकमुच्यते
अकामतश्चरेद्धर्मव्रतं पृथु यथोदितम् ३१६
विश्वास-प्रस्तुतिः - ३१७
व्यभिचारे तु सर्वत्र कामतो मरणाच्छुचिः
अकामतश्चरेत्पूर्णं प्रातिलोम्यं गता सती ३१७
मूलम् - ३१७
व्यभिचारे तु सर्वत्र कामतो मरणाच्छुचिः
अकामतश्चरेत्पूर्णं प्रातिलोम्यं गता सती ३१७
विश्वास-प्रस्तुतिः - ३१८
अर्द्धमेवाऽऽनुलोम्येषु तथैव भ्रूणहादिषु
यतिश्च ब्रह्मचारी च गत्वा स्त्रियमकामतः ३१८
मूलम् - ३१८
अर्द्धमेवाऽऽनुलोम्येषु तथैव भ्रूणहादिषु
यतिश्च ब्रह्मचारी च गत्वा स्त्रियमकामतः ३१८
विश्वास-प्रस्तुतिः - ३१९
गुरुतल्पगमुद्दिष्टं पूर्णमर्थं समाचरेत्
नामतो ब्रह्मचारी तु पूर्णमेवाऽऽचरेद्व्रतम् ३१९
मूलम् - ३१९
गुरुतल्पगमुद्दिष्टं पूर्णमर्थं समाचरेत्
नामतो ब्रह्मचारी तु पूर्णमेवाऽऽचरेद्व्रतम् ३१९
विश्वास-प्रस्तुतिः - ३२०
यतेस्तु मरणाच्छुद्धिः शिश्नः स्यात्कृन्तनेन वा
तयोस्तु रेतः स्खलने कृच्छ्रं चान्द्रायणं चरेत् ३२०
मूलम् - ३२०
यतेस्तु मरणाच्छुद्धिः शिश्नः स्यात्कृन्तनेन वा
तयोस्तु रेतः स्खलने कृच्छ्रं चान्द्रायणं चरेत् ३२०
विश्वास-प्रस्तुतिः - ३२१
जप्त्वा सहस्रं गायत्र्या गृहस्थः शुद्धिमाप्नुयात्
द्विसहस्रं वनस्थस्तु जपेद्रेतो निपातने ३२१
मूलम् - ३२१
जप्त्वा सहस्रं गायत्र्या गृहस्थः शुद्धिमाप्नुयात्
द्विसहस्रं वनस्थस्तु जपेद्रेतो निपातने ३२१
विश्वास-प्रस्तुतिः - ३२२
तत्रापि कामतस्तेषां द्विगुणत्रिगुणादिकम्
परिव्राजनकामस्तु नयनोत्पाटनं तथा ३२२
मूलम् - ३२२
तत्रापि कामतस्तेषां द्विगुणत्रिगुणादिकम्
परिव्राजनकामस्तु नयनोत्पाटनं तथा ३२२
विश्वास-प्रस्तुतिः - ३२३
एवं समाचरेद्रीमान् प्रायश्चित्तमतन्द्रितः
प्रायश्चित्तमकुर्वाणः पापेषु निरतः सदा ३२३
मूलम् - ३२३
एवं समाचरेद्रीमान् प्रायश्चित्तमतन्द्रितः
प्रायश्चित्तमकुर्वाणः पापेषु निरतः सदा ३२३
६७२
विश्वास-प्रस्तुतिः - ३२४
कल्पायुतशतं गत्वा नरकं प्रतिपद्यते
धृत्वा गोचर्ममात्रन्तु सममेकं निरन्तरम् ३२४
मूलम् - ३२४
कल्पायुतशतं गत्वा नरकं प्रतिपद्यते
धृत्वा गोचर्ममात्रन्तु सममेकं निरन्तरम् ३२४
विश्वास-प्रस्तुतिः - ३२५
पञ्चगव्यं पिबन् गोघ्नो गुरुगामी विशुध्यति
गोमूत्रेणैव च स्नात्वा पीत्वा चाऽऽचम्य वारिभिः ३२५
मूलम् - ३२५
पञ्चगव्यं पिबन् गोघ्नो गुरुगामी विशुध्यति
गोमूत्रेणैव च स्नात्वा पीत्वा चाऽऽचम्य वारिभिः ३२५
विश्वास-प्रस्तुतिः - ३२६
विष्णोः सहस्रनामानि जपेन्नित्यं समाहितः
शयीत गोव्रजे रात्रौ गवां हितमनुस्मरन् ३२६
मूलम् - ३२६
विष्णोः सहस्रनामानि जपेन्नित्यं समाहितः
शयीत गोव्रजे रात्रौ गवां हितमनुस्मरन् ३२६
विश्वास-प्रस्तुतिः - ३२७
व्याघ्रादिभिर्गृहीतां गां पङ्के निपतितां तथा
च चरेदथवा प्राणान्तदर्थं वै परित्यजेत् ३२७
मूलम् - ३२७
व्याघ्रादिभिर्गृहीतां गां पङ्के निपतितां तथा
च चरेदथवा प्राणान्तदर्थं वै परित्यजेत् ३२७
विश्वास-प्रस्तुतिः - ३२८
तेनैव हि विशुद्धः स्यादसम्पूर्णव्रतोऽपि वा
व्रतान्ते गोप्रदो भूत्वा ततः शुद्धिमवाप्नुयात् ३२८
मूलम् - ३२८
तेनैव हि विशुद्धः स्यादसम्पूर्णव्रतोऽपि वा
व्रतान्ते गोप्रदो भूत्वा ततः शुद्धिमवाप्नुयात् ३२८
विश्वास-प्रस्तुतिः - ३२९
गोस्वामिने च गां दत्त्वा पश्चादेवं व्रतं चरेत्
दद्यात्त्रिरात्रमुपोष्य वृषमेकञ्च गा दश ३२९
मूलम् - ३२९
गोस्वामिने च गां दत्त्वा पश्चादेवं व्रतं चरेत्
दद्यात्त्रिरात्रमुपोष्य वृषमेकञ्च गा दश ३२९
विश्वास-प्रस्तुतिः - ३३०
योक्त्रे च गृहदाहाद्यैर्बन्धनैर्वा हता यदि
मतिपूर्वेण गां हत्वा चरेत्त्रैवार्षिकं व्रतम् ३३०
मूलम् - ३३०
योक्त्रे च गृहदाहाद्यैर्बन्धनैर्वा हता यदि
मतिपूर्वेण गां हत्वा चरेत्त्रैवार्षिकं व्रतम् ३३०
विश्वास-प्रस्तुतिः - ३३१
द्विवर्षं पूर्ववद्वाऽपि चर्मणाऽऽर्द्रेण वाससा
कपिलां गर्भिणीं वाऽपि वृषं हत्वा च कामतः ३३१
मूलम् - ३३१
द्विवर्षं पूर्ववद्वाऽपि चर्मणाऽऽर्द्रेण वाससा
कपिलां गर्भिणीं वाऽपि वृषं हत्वा च कामतः ३३१
विश्वास-प्रस्तुतिः - ३३२
व्रतं द्वादशवर्षाणि चरेद् ब्रह्मव्रतोदितम्
आचार्यदेवविप्राणां हत्वा च द्विगुणं चरेत् ३३२
मूलम् - ३३२
व्रतं द्वादशवर्षाणि चरेद् ब्रह्मव्रतोदितम्
आचार्यदेवविप्राणां हत्वा च द्विगुणं चरेत् ३३२
विश्वास-प्रस्तुतिः - ३३३
होमधेनुं प्रसूताञ्च दाने च समलङ्कृताम्
उपभुक्तां वृषेणापि ताञ्च द्वादशवार्षिकम् ३३३
मूलम् - ३३३
होमधेनुं प्रसूताञ्च दाने च समलङ्कृताम्
उपभुक्तां वृषेणापि ताञ्च द्वादशवार्षिकम् ३३३
विश्वास-प्रस्तुतिः - ३३४
निष्पीडनं वाऽपि तेषु दोषेष्वल्पमतन्द्रितः
शरणागतबालस्त्रीघातुकैः सम्वसेन्न तु ३३४
मूलम् - ३३४
निष्पीडनं वाऽपि तेषु दोषेष्वल्पमतन्द्रितः
शरणागतबालस्त्रीघातुकैः सम्वसेन्न तु ३३४
विश्वास-प्रस्तुतिः - ३३५
चीर्णव्रतानपि चरन्कृतघ्नानपि सर्वदा
अग्निदाङ्गरदां चण्डीं भर्तृघ्नीं लोकघातिनीम् ३३५
मूलम् - ३३५
चीर्णव्रतानपि चरन्कृतघ्नानपि सर्वदा
अग्निदाङ्गरदां चण्डीं भर्तृघ्नीं लोकघातिनीम् ३३५
विश्वास-प्रस्तुतिः - ३३६
हिंस्रयंस्तु विधानस्त्रीं हत्वा पापं न गच्छति
गुरुं वा बालवृद्धान्वा श्रोत्रियं वा बहुश्रुतम् ३३६
मूलम् - ३३६
हिंस्रयंस्तु विधानस्त्रीं हत्वा पापं न गच्छति
गुरुं वा बालवृद्धान्वा श्रोत्रियं वा बहुश्रुतम् ३३६
विश्वास-प्रस्तुतिः - ३३७
आततायिनमायान्तं हन्यादेवाविचारयन्
नाऽऽततायिवधे दोषो हन्तुर्भवति कश्चन ३३७
मूलम् - ३३७
आततायिनमायान्तं हन्यादेवाविचारयन्
नाऽऽततायिवधे दोषो हन्तुर्भवति कश्चन ३३७
विश्वास-प्रस्तुतिः - ३३८
प्रख्यातदोषः कुर्वीत परित्यक्तं यथोदितम्
अनभिख्यातदोषस्तु रहस्यव्रतमाचरेत् ३३८
मूलम् - ३३८
प्रख्यातदोषः कुर्वीत परित्यक्तं यथोदितम्
अनभिख्यातदोषस्तु रहस्यव्रतमाचरेत् ३३८
विश्वास-प्रस्तुतिः - ३३९
कण्ठमात्रजले स्थित्वा राममन्त्रं समाहितः
जपेद्वा दशसाहस्रं ब्रह्महा शुद्धिमाप्नुयात् ३३९
मूलम् - ३३९
कण्ठमात्रजले स्थित्वा राममन्त्रं समाहितः
जपेद्वा दशसाहस्रं ब्रह्महा शुद्धिमाप्नुयात् ३३९
विश्वास-प्रस्तुतिः - ३४०
सुरापः स्वर्णहारी तु जपेदष्टाक्षरं तथा
लक्षं जप्त्वा कृष्णमन्त्रं मुच्यते गुरुतल्पगात् ३४०
मूलम् - ३४०
सुरापः स्वर्णहारी तु जपेदष्टाक्षरं तथा
लक्षं जप्त्वा कृष्णमन्त्रं मुच्यते गुरुतल्पगात् ३४०
विश्वास-प्रस्तुतिः - ३४१
उपोष्यान्तजले स्थित्वा वासुदेवमनुं शुभम्
जपेद्द्वादशसाहस्रं गोघ्नः प्रयतमानसः ३४१
मूलम् - ३४१
उपोष्यान्तजले स्थित्वा वासुदेवमनुं शुभम्
जपेद्द्वादशसाहस्रं गोघ्नः प्रयतमानसः ३४१
विश्वास-प्रस्तुतिः - ३४२
असंख्यानि च पापानि अनुक्तान्यपि यानि च
चित्तस्थो भगवान्कृष्णः सर्वं हरति तत्क्षणात् ३४२
मूलम् - ३४२
असंख्यानि च पापानि अनुक्तान्यपि यानि च
चित्तस्थो भगवान्कृष्णः सर्वं हरति तत्क्षणात् ३४२
विश्वास-प्रस्तुतिः - ३४३
एकादश्युपवासस्य फलं प्राप्नोति मानवः
आषाढादिचतुर्मासे कृते भुक्त्वा जितेन्द्रियः ३४३
मूलम् - ३४३
एकादश्युपवासस्य फलं प्राप्नोति मानवः
आषाढादिचतुर्मासे कृते भुक्त्वा जितेन्द्रियः ३४३
विश्वास-प्रस्तुतिः - ३४४
दुग्धाब्धौ शेषपर्यङ्के शयानं कमलापतिम्
ध्यात्वा समर्चयेन्नित्यं महद्भिर्मुच्यते ह्यघैः ३४४
मूलम् - ३४४
दुग्धाब्धौ शेषपर्यङ्के शयानं कमलापतिम्
ध्यात्वा समर्चयेन्नित्यं महद्भिर्मुच्यते ह्यघैः ३४४
विश्वास-प्रस्तुतिः - ३४५
अथ महापापादिप्रायश्चित्तप्रकरणवर्णनम्
रजस्वलां सूतिकाञ्च चण्डालं पतितं तथा ३४५
मूलम् - ३४५
अथ महापापादिप्रायश्चित्तप्रकरणवर्णनम्
रजस्वलां सूतिकाञ्च चण्डालं पतितं तथा ३४५
विश्वास-प्रस्तुतिः - ३४६
पाषण्डिनं विकर्मस्थं शैवं स्पृष्ट्वाऽप्यकामतः
गोमयेनानुलिप्ताङ्गः सवासा जलमाविशेत् ३४६
मूलम् - ३४६
पाषण्डिनं विकर्मस्थं शैवं स्पृष्ट्वाऽप्यकामतः
गोमयेनानुलिप्ताङ्गः सवासा जलमाविशेत् ३४६
विश्वास-प्रस्तुतिः - ३४७
गायत्र्यष्टशतं जप्त्वा घृतं प्राश्य विशुध्यति
स्पृष्ट्वा तु कामतः स्नात्वा चरेत्सान्तपनं व्रतम् ३४७
मूलम् - ३४७
गायत्र्यष्टशतं जप्त्वा घृतं प्राश्य विशुध्यति
स्पृष्ट्वा तु कामतः स्नात्वा चरेत्सान्तपनं व्रतम् ३४७
विश्वास-प्रस्तुतिः - ३४८
श्वपचं पतितं स्पृष्ट्वा गोपालव्यजनादृतम्
विड्वराहं शुनङ्काकं गर्दभं यूपमेव च ३४८
मूलम् - ३४८
श्वपचं पतितं स्पृष्ट्वा गोपालव्यजनादृतम्
विड्वराहं शुनङ्काकं गर्दभं यूपमेव च ३४८
विश्वास-प्रस्तुतिः - ६७४
मद्यं मासं तथैवोष्ट्रं विण्मूत्रं दशमेव च
र्
६७४
मूलम् - ६७४
मद्यं मासं तथैवोष्ट्रं विण्मूत्रं दशमेव च
र्
६७४
विश्वास-प्रस्तुतिः - ३५०
करञ्जं लशुनञ्चानुगच्छति स्वस्य शुद्धये
सचैलमेकवाह्यापः सावित्रीं त्रिशतं जपेत् ३५०
मूलम् - ३५०
करञ्जं लशुनञ्चानुगच्छति स्वस्य शुद्धये
सचैलमेकवाह्यापः सावित्रीं त्रिशतं जपेत् ३५०
विश्वास-प्रस्तुतिः - ३५१
ऊर्ध्वमाचमनं प्रोक्तं धर्मविद्भिरकल्मषैः
उच्छिष्टकेशभस्मास्थिकपालं मलमेव च ३५१
मूलम् - ३५१
ऊर्ध्वमाचमनं प्रोक्तं धर्मविद्भिरकल्मषैः
उच्छिष्टकेशभस्मास्थिकपालं मलमेव च ३५१
विश्वास-प्रस्तुतिः - ३५२
स्नानार्द्रधरणीञ्चैव स्पृष्ट्वा स्नानं समाचरेत्
प्रक्षाल्य पादौ संक्रम्य तथैवाऽऽचम्य वारिणा ३५२
मूलम् - ३५२
स्नानार्द्रधरणीञ्चैव स्पृष्ट्वा स्नानं समाचरेत्
प्रक्षाल्य पादौ संक्रम्य तथैवाऽऽचम्य वारिणा ३५२
विश्वास-प्रस्तुतिः - ३५३
मन्त्रसन्मार्जितजलं स्पृष्ट्वा ताञ्च विशुध्यति
विशिष्टानाञ्च विप्राणां शुरूणां व्रतशालिनाम् ३५३
मूलम् - ३५३
मन्त्रसन्मार्जितजलं स्पृष्ट्वा ताञ्च विशुध्यति
विशिष्टानाञ्च विप्राणां शुरूणां व्रतशालिनाम् ३५३
विश्वास-प्रस्तुतिः - ३५४
विनीततराणामुच्छिष्टं स्पृष्ट्वा स्नानं समाचरेत्
शैवानां पतितानाञ्च वाह्यानान्त्यक्तकर्मणाम् ३५४
मूलम् - ३५४
विनीततराणामुच्छिष्टं स्पृष्ट्वा स्नानं समाचरेत्
शैवानां पतितानाञ्च वाह्यानान्त्यक्तकर्मणाम् ३५४
विश्वास-प्रस्तुतिः - ३५५
उच्छिष्टस्पर्शनं कृत्वा चरेच्चान्द्रायणं व्रतम्
उच्छिष्टेन स्वयं चान्द्यमुच्छिष्टं यद्यकामतः ३५५
मूलम् - ३५५
उच्छिष्टस्पर्शनं कृत्वा चरेच्चान्द्रायणं व्रतम्
उच्छिष्टेन स्वयं चान्द्यमुच्छिष्टं यद्यकामतः ३५५
विश्वास-प्रस्तुतिः - ३५६
स्पृष्ट्वा सचैलं स्नात्वा च सावित्र्यष्टशतं जपेत्
कामतश्चाऽऽचरेत्कृच्छ्रं ब्रह्मकूर्च्चं द्विजोत्तमः ३५६
मूलम् - ३५६
स्पृष्ट्वा सचैलं स्नात्वा च सावित्र्यष्टशतं जपेत्
कामतश्चाऽऽचरेत्कृच्छ्रं ब्रह्मकूर्च्चं द्विजोत्तमः ३५६
विश्वास-प्रस्तुतिः - ३५७
राजानञ्च विशं शूद्रं चरेच्चान्द्रायणं द्विजः
तौ च स्नात्वा चरेत्कृच्छ्रं गां वा दद्यात्पयस्विनीम् ३५७
मूलम् - ३५७
राजानञ्च विशं शूद्रं चरेच्चान्द्रायणं द्विजः
तौ च स्नात्वा चरेत्कृच्छ्रं गां वा दद्यात्पयस्विनीम् ३५७
विश्वास-प्रस्तुतिः - ३५८
उच्छिष्टिनं स्पृशन् शूद्रमुच्छिष्टं श्वानमेव वा
सवासा जलमाप्लुत्य चरेत्सान्तपनव्रतम् ३५८
मूलम् - ३५८
उच्छिष्टिनं स्पृशन् शूद्रमुच्छिष्टं श्वानमेव वा
सवासा जलमाप्लुत्य चरेत्सान्तपनव्रतम् ३५८
विश्वास-प्रस्तुतिः - ३५९
तत्रापि कामतः स्पृष्टा पराकद्वयमाचरेत्
पञ्चगव्यं पिबेच्छूद्रः स्नात्वा नद्यां विधानतः ३५९
मूलम् - ३५९
तत्रापि कामतः स्पृष्टा पराकद्वयमाचरेत्
पञ्चगव्यं पिबेच्छूद्रः स्नात्वा नद्यां विधानतः ३५९
विश्वास-प्रस्तुतिः - ३६०
चण्डालं पतितं मद्यं सूतिकाञ्च रजस्वलाम्
उच्छिष्टेन तु संस्पृष्टः पराकत्रयमाचरेत् ३६०
मूलम् - ३६०
चण्डालं पतितं मद्यं सूतिकाञ्च रजस्वलाम्
उच्छिष्टेन तु संस्पृष्टः पराकत्रयमाचरेत् ३६०
विश्वास-प्रस्तुतिः - ३६१
उच्छिष्टेन चिरं कालमुषित्वा स्नानमाचरेत्
उच्छिष्टाशौचमरणे चरेदब्दं द्विजातयः ३६१
मूलम् - ३६१
उच्छिष्टेन चिरं कालमुषित्वा स्नानमाचरेत्
उच्छिष्टाशौचमरणे चरेदब्दं द्विजातयः ३६१
विश्वास-प्रस्तुतिः - ३६२
रजस्वला सूतिका वा पञ्चत्वं यदि चेद्गता
पञ्चगव्यैः स्नापयित्वा पावमान्यैर्द्विजोत्तमाः ३६२
मूलम् - ३६२
रजस्वला सूतिका वा पञ्चत्वं यदि चेद्गता
पञ्चगव्यैः स्नापयित्वा पावमान्यैर्द्विजोत्तमाः ३६२
विश्वास-प्रस्तुतिः - ३६३
प्रत्यृचं कलशैः स्नाप्य सपवित्रैर्जलैः शुभैः
शुभ्रवस्त्रेण सम्वेष्ट्य दाहं कुर्याद्विधानतः ३६३
मूलम् - ३६३
प्रत्यृचं कलशैः स्नाप्य सपवित्रैर्जलैः शुभैः
शुभ्रवस्त्रेण सम्वेष्ट्य दाहं कुर्याद्विधानतः ३६३
विश्वास-प्रस्तुतिः - ३६४
चण्डालात् ब्राह्मणात्सर्पात्क्रव्यादादुदकादिभिः
हतानामपि कुर्व्वीत पूर्ववद्द्विजपुङ्गवः ३६४
मूलम् - ३६४
चण्डालात् ब्राह्मणात्सर्पात्क्रव्यादादुदकादिभिः
हतानामपि कुर्व्वीत पूर्ववद्द्विजपुङ्गवः ३६४
विश्वास-प्रस्तुतिः - ३६५
तत्रापि कामतः कुर्यात् षडब्दं तस्य बान्धवाः
विषाद्यैर्घनशस्त्राद्यैरात्मानं यदि घातयेत् ३६५
मूलम् - ३६५
तत्रापि कामतः कुर्यात् षडब्दं तस्य बान्धवाः
विषाद्यैर्घनशस्त्राद्यैरात्मानं यदि घातयेत् ३६५
विश्वास-प्रस्तुतिः - ३६६
गोशतं विप्रमुख्येभ्यो दद्यादेकं वृषं तथा
नारायणबलिं कृत्वा सर्वमप्यौर्ध्वदेहिकम् ३६६
मूलम् - ३६६
गोशतं विप्रमुख्येभ्यो दद्यादेकं वृषं तथा
नारायणबलिं कृत्वा सर्वमप्यौर्ध्वदेहिकम् ३६६
विश्वास-प्रस्तुतिः - ३६७
रजस्वला तु या नारी स्पृष्ट्वा चान्यां रजस्वलाम्
चण्डालं पतितं वाऽपि शुनं गर्दभमेव च ३६७
मूलम् - ३६७
रजस्वला तु या नारी स्पृष्ट्वा चान्यां रजस्वलाम्
चण्डालं पतितं वाऽपि शुनं गर्दभमेव च ३६७
विश्वास-प्रस्तुतिः - ३६८
तावत्तिष्ठेन्निराहारा चरेत्सान्तपनं व्रतम्
स्पृष्ट्वाऽप्यकामतः स्नात्वा पञ्चगव्यैः शुभैर्जलैः ३६८
मूलम् - ३६८
तावत्तिष्ठेन्निराहारा चरेत्सान्तपनं व्रतम्
स्पृष्ट्वाऽप्यकामतः स्नात्वा पञ्चगव्यैः शुभैर्जलैः ३६८
विश्वास-प्रस्तुतिः - ३६९
चातुर्वर्णस्य गेहेषु चण्डालः पतितोऽपि वा
अन्तर्वत्नी भवेत्सा चेत्कथं स्यात्तत्र निष्कृतिः ३६९
मूलम् - ३६९
चातुर्वर्णस्य गेहेषु चण्डालः पतितोऽपि वा
अन्तर्वत्नी भवेत्सा चेत्कथं स्यात्तत्र निष्कृतिः ३६९
विश्वास-प्रस्तुतिः - ३७०
तद्गृहन्तु परित्यक्त्वा दग्ध्वा वाऽन्यत्र संस्थितः
संसर्गोक्तप्रकारेण प्रायश्चित्तं समाचरेत् ३७०
मूलम् - ३७०
तद्गृहन्तु परित्यक्त्वा दग्ध्वा वाऽन्यत्र संस्थितः
संसर्गोक्तप्रकारेण प्रायश्चित्तं समाचरेत् ३७०
विश्वास-प्रस्तुतिः - ३७१
पृथक्पृथक्प्रकुर्वीरन् सर्व गृहनिवासिनः
दाराः पुत्राश्च सुहृदः प्रायश्चित्तं यथोदितम् ३७१
मूलम् - ३७१
पृथक्पृथक्प्रकुर्वीरन् सर्व गृहनिवासिनः
दाराः पुत्राश्च सुहृदः प्रायश्चित्तं यथोदितम् ३७१
विश्वास-प्रस्तुतिः - ३७२
सभर्तृकाणां नारीणां वपनन्तु विवर्जयेत्
सर्वान् केशान् समुद्धृत्य च्छेदयेदङुलित्रयम् ३७२
मूलम् - ३७२
सभर्तृकाणां नारीणां वपनन्तु विवर्जयेत्
सर्वान् केशान् समुद्धृत्य च्छेदयेदङुलित्रयम् ३७२
विश्वास-प्रस्तुतिः - ३७३
केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत्
प्रायश्चित्ते तु सम्पूर्ण कृत्वा सान्तपनं व्रतम् ३७३
मूलम् - ३७३
केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत्
प्रायश्चित्ते तु सम्पूर्ण कृत्वा सान्तपनं व्रतम् ३७३
विश्वास-प्रस्तुतिः - ३७४
ब्रह्मकूर्चोपवासं वा विशुध्यन्ति तदेनसः
अर्वाक्सम्वत्सरार्धात्तु गृहदाहं न चोदितम् ३७४
मूलम् - ३७४
ब्रह्मकूर्चोपवासं वा विशुध्यन्ति तदेनसः
अर्वाक्सम्वत्सरार्धात्तु गृहदाहं न चोदितम् ३७४
६७६
विश्वास-प्रस्तुतिः - ३७५
यद्गृहे पातकोत्पत्तिस्तत्र यत्नेन दाहयेत्
त्यजेद्वा संनिकृष्टाच्च शुद्धिञ्चैवाऽऽत्मनस्ततः ३७५
मूलम् - ३७५
यद्गृहे पातकोत्पत्तिस्तत्र यत्नेन दाहयेत्
त्यजेद्वा संनिकृष्टाच्च शुद्धिञ्चैवाऽऽत्मनस्ततः ३७५
विश्वास-प्रस्तुतिः - ३७६
सन्बन्धाच्चैव संसर्गात्तुल्यमेव नृणामघम्
तस्मात्संसर्गसम्बधान्पतितेषु विवर्जयेत् ३७६
मूलम् - ३७६
सन्बन्धाच्चैव संसर्गात्तुल्यमेव नृणामघम्
तस्मात्संसर्गसम्बधान्पतितेषु विवर्जयेत् ३७६
विश्वास-प्रस्तुतिः - ३७७
चण्डालपतितादीनां तोयं यस्तु पिवेन्नरः
पराकं कामतः कुर्याद्ब्रह्मकूर्च्चमकामतः ३७७
मूलम् - ३७७
चण्डालपतितादीनां तोयं यस्तु पिवेन्नरः
पराकं कामतः कुर्याद्ब्रह्मकूर्च्चमकामतः ३७७
विश्वास-प्रस्तुतिः - ३७८
अभ्यासे तु षडब्दं स्याच्चान्द्रायणमकामतः
चण्डालानां तडागे वा नदीनां तीर्थ एव वा ३७८
मूलम् - ३७८
अभ्यासे तु षडब्दं स्याच्चान्द्रायणमकामतः
चण्डालानां तडागे वा नदीनां तीर्थ एव वा ३७८
विश्वास-प्रस्तुतिः - ३७९
स्नात्वा पीत्वा जलं विप्रः प्राजापत्यमकामतः
कामतस्तु पराकं वा चान्द्रायणमथाऽपि वा ३७९
मूलम् - ३७९
स्नात्वा पीत्वा जलं विप्रः प्राजापत्यमकामतः
कामतस्तु पराकं वा चान्द्रायणमथाऽपि वा ३७९
विश्वास-प्रस्तुतिः - ३८०
अभ्यासे तु व्रतं पूर्णं षडब्दं स्यादकामतः
सर्वेषां प्रतिलोमानां पीत्वा सन्तापनं चरेत् ३८०
मूलम् - ३८०
अभ्यासे तु व्रतं पूर्णं षडब्दं स्यादकामतः
सर्वेषां प्रतिलोमानां पीत्वा सन्तापनं चरेत् ३८०
विश्वास-प्रस्तुतिः - ३८१
चान्द्रायणं पराकं वा त्र्यब्दं वाऽपि यथाक्रमम्
भोजने गमनेऽप्येवं प्रायश्चित्तं समाचरेत् ३८१
मूलम् - ३८१
चान्द्रायणं पराकं वा त्र्यब्दं वाऽपि यथाक्रमम्
भोजने गमनेऽप्येवं प्रायश्चित्तं समाचरेत् ३८१
विश्वास-प्रस्तुतिः - ३८२
चाण्डालपतितादीनां गृहेष्वन्नमपि द्विजः
भुक्त्वाऽब्दमाचरेत्कृच्छ्रं चान्द्रायणमकामतः ३८२
मूलम् - ३८२
चाण्डालपतितादीनां गृहेष्वन्नमपि द्विजः
भुक्त्वाऽब्दमाचरेत्कृच्छ्रं चान्द्रायणमकामतः ३८२
विश्वास-प्रस्तुतिः - ३८३
चण्डालवाटिकायान्तु सुप्त्वा भुक्त्वाऽप्यकामतः
चरेत्सान्तपनं कृच्छ्रं चान्द्रायणमथाऽपि वा ३८३
मूलम् - ३८३
चण्डालवाटिकायान्तु सुप्त्वा भुक्त्वाऽप्यकामतः
चरेत्सान्तपनं कृच्छ्रं चान्द्रायणमथाऽपि वा ३८३
विश्वास-प्रस्तुतिः - ३८४
चण्डालवाटिकायान्तु मृतस्याब्दं विशोधनम्
स्नापनं पञ्चगव्यैश्च पावमान्यैः शुभैर्जलैः ३८४
मूलम् - ३८४
चण्डालवाटिकायान्तु मृतस्याब्दं विशोधनम्
स्नापनं पञ्चगव्यैश्च पावमान्यैः शुभैर्जलैः ३८४
विश्वास-प्रस्तुतिः - ३८५
शूद्रान्नं सूतिकान्नं वा शुना स्पृष्टञ्च कामतः
भुक्त्वा चान्द्रायणं कृच्छ्रं पराकं वा समाचरेत् ३८५
मूलम् - ३८५
शूद्रान्नं सूतिकान्नं वा शुना स्पृष्टञ्च कामतः
भुक्त्वा चान्द्रायणं कृच्छ्रं पराकं वा समाचरेत् ३८५
विश्वास-प्रस्तुतिः - ३८६
चण्डालः पतितो वाऽपि यस्मिन् गेहे समाचरेत्
त्यक्त्वा मृण्मयभाण्डानि गोभिः संक्रामयेत् त्रयम् ३८६
मूलम् - ३८६
चण्डालः पतितो वाऽपि यस्मिन् गेहे समाचरेत्
त्यक्त्वा मृण्मयभाण्डानि गोभिः संक्रामयेत् त्रयम् ३८६
६७७
षण्मासात्तु तथा मासं गवां वृन्दं निवेशयेत् ३८७
विश्वास-प्रस्तुतिः - ३८८
ऊर्ध्वन्तु दहनं प्रोक्तं लाङ्गुलेन च खातनम्
ब्रह्मकूर्च्चं तथा कृच्छ्रं चान्द्रायणमथापि वा ३८८
मूलम् - ३८८
ऊर्ध्वन्तु दहनं प्रोक्तं लाङ्गुलेन च खातनम्
ब्रह्मकूर्च्चं तथा कृच्छ्रं चान्द्रायणमथापि वा ३८८
विश्वास-प्रस्तुतिः - ३८९
अतिकृच्छ्रं पराकञ्च त्र्यब्दं वाऽपि समाचरेत्
षडब्दमूर्ध्वं षण्मासात्प्रायश्चित्तं समाचरेत् ३८९
मूलम् - ३८९
अतिकृच्छ्रं पराकञ्च त्र्यब्दं वाऽपि समाचरेत्
षडब्दमूर्ध्वं षण्मासात्प्रायश्चित्तं समाचरेत् ३८९
विश्वास-प्रस्तुतिः - ३९०
वत्सरादूर्ध्वसम्पूर्णं व्रतमेवाऽऽचरेद्बुधः
अमेध्यशवचण्डालमद्यमांसादिदूषितात् ३९०
मूलम् - ३९०
वत्सरादूर्ध्वसम्पूर्णं व्रतमेवाऽऽचरेद्बुधः
अमेध्यशवचण्डालमद्यमांसादिदूषितात् ३९०
विश्वास-प्रस्तुतिः - ३९१
कूपादुद्धृत्य कलशैः सहस्रं रेचयेज्जलम्
निक्षिप्य पञ्चगव्यानि वारुणैरपि मन्त्रयेत् ३९१
मूलम् - ३९१
कूपादुद्धृत्य कलशैः सहस्रं रेचयेज्जलम्
निक्षिप्य पञ्चगव्यानि वारुणैरपि मन्त्रयेत् ३९१
विश्वास-प्रस्तुतिः - ३९२
तडागस्यापि शुध्यर्थं गोभिः संक्रामयेज्जलम्
धान्यन्तु क्षालनाच्छुद्धिर्बाहुल्यं प्रोक्षणादपि ३९२
मूलम् - ३९२
तडागस्यापि शुध्यर्थं गोभिः संक्रामयेज्जलम्
धान्यन्तु क्षालनाच्छुद्धिर्बाहुल्यं प्रोक्षणादपि ३९२
विश्वास-प्रस्तुतिः - ३९३
रसानान्तु परित्यागश्चाण्डालादिप्रदूषणात्
प्रासाददेवहर्म्याणां चण्डालपतितादिषु ३९३
मूलम् - ३९३
रसानान्तु परित्यागश्चाण्डालादिप्रदूषणात्
प्रासाददेवहर्म्याणां चण्डालपतितादिषु ३९३
विश्वास-प्रस्तुतिः - ३९४
अन्तः प्रविष्टेषु तदा शुद्धिः स्यात्केन कर्मणा
गोभिः संक्रमणं कृत्वा गोमूत्रेणैव लेपयेत् ३९४
मूलम् - ३९४
अन्तः प्रविष्टेषु तदा शुद्धिः स्यात्केन कर्मणा
गोभिः संक्रमणं कृत्वा गोमूत्रेणैव लेपयेत् ३९४
विश्वास-प्रस्तुतिः - ३९५
पुण्याहं वाचयित्वाऽथ तत्तोयैर्दर्भसंयुतैः
सम्प्रोक्ष्य सर्वतः पश्चादेवं समभिषेचयेत् ३९५
मूलम् - ३९५
पुण्याहं वाचयित्वाऽथ तत्तोयैर्दर्भसंयुतैः
सम्प्रोक्ष्य सर्वतः पश्चादेवं समभिषेचयेत् ३९५
विश्वास-प्रस्तुतिः - ३९६
पञ्चामृतैः पञ्चगव्यैः स्नापयित्वाऽथ वैष्णवः
प्रत्यृचं पावमान्यैश्च वैष्णवैश्चाभिषेचयेत् ३९६
मूलम् - ३९६
पञ्चामृतैः पञ्चगव्यैः स्नापयित्वाऽथ वैष्णवः
प्रत्यृचं पावमान्यैश्च वैष्णवैश्चाभिषेचयेत् ३९६
विश्वास-प्रस्तुतिः - ३९७
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा
चतुर्भिर्वैष्णवैर्मन्त्रैः स्नाप्य पुष्पाञ्जलिं तथा ३९७
मूलम् - ३९७
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा
चतुर्भिर्वैष्णवैर्मन्त्रैः स्नाप्य पुष्पाञ्जलिं तथा ३९७
विश्वास-प्रस्तुतिः - ३९८
अवैष्णवस्पर्शनेऽपि एवं कुर्वीत वैष्णवः
भिन्ने बिम्बे तथा दग्धे परित्यक्त्वैव तं गृहे ३९८
मूलम् - ३९८
अवैष्णवस्पर्शनेऽपि एवं कुर्वीत वैष्णवः
भिन्ने बिम्बे तथा दग्धे परित्यक्त्वैव तं गृहे ३९८
विश्वास-प्रस्तुतिः - ३९९
वैदेहीं वैष्णवीमिष्ट्वा पुनः स्थापनमाचरेत्
चोराद्यपहृते नष्टे वासुदेवीं यजेच्चरुम् ३९९
मूलम् - ३९९
वैदेहीं वैष्णवीमिष्ट्वा पुनः स्थापनमाचरेत्
चोराद्यपहृते नष्टे वासुदेवीं यजेच्चरुम् ३९९
६७८
विश्वास-प्रस्तुतिः - ४००
स्थानान्तरगते बिम्बे पुनः स्थापनमाचरेत्
तोयाधिवासनं वेद्यामधिरोहणमेव च ४००
मूलम् - ४००
स्थानान्तरगते बिम्बे पुनः स्थापनमाचरेत्
तोयाधिवासनं वेद्यामधिरोहणमेव च ४००
विश्वास-प्रस्तुतिः - ४०१
नयनोन्मीलनं दीक्षां वर्जयित्वाऽन्यमाचरेत्
पञ्चगव्यैः स्नापयित्वा पञ्चत्वक्पल्लवाञ्चितैः ४०१
मूलम् - ४०१
नयनोन्मीलनं दीक्षां वर्जयित्वाऽन्यमाचरेत्
पञ्चगव्यैः स्नापयित्वा पञ्चत्वक्पल्लवाञ्चितैः ४०१
विश्वास-प्रस्तुतिः - ४०२
मङ्गलद्रव्यसंयुक्तैरद्भिः समभिषेचयेत्
सूक्तैश्च ब्राह्मणस्पत्यैरविगैर्वैष्णवीस्तथा ४०२
मूलम् - ४०२
मङ्गलद्रव्यसंयुक्तैरद्भिः समभिषेचयेत्
सूक्तैश्च ब्राह्मणस्पत्यैरविगैर्वैष्णवीस्तथा ४०२
विश्वास-प्रस्तुतिः - ४०३
चतुभिर्वैष्णवैर्मन्त्रैः पृथगष्टोत्तरं शतम्
वैष्णव्या चैव गायत्र्या शङ्खेन स्नापयेद्बुधः ४०३
मूलम् - ४०३
चतुभिर्वैष्णवैर्मन्त्रैः पृथगष्टोत्तरं शतम्
वैष्णव्या चैव गायत्र्या शङ्खेन स्नापयेद्बुधः ४०३
विश्वास-प्रस्तुतिः - ४०४
ध्रुवसूक्तमृचं स्मृत्वा जपन्संस्थापयेद्धरिम्
ततस्तन्मूर्तिमन्त्रेण मूलमन्त्रेण वा द्विजः ४०४
मूलम् - ४०४
ध्रुवसूक्तमृचं स्मृत्वा जपन्संस्थापयेद्धरिम्
ततस्तन्मूर्तिमन्त्रेण मूलमन्त्रेण वा द्विजः ४०४
विश्वास-प्रस्तुतिः - ४०५
दद्यात्पुष्पसहस्राणि देवतां स मनुं स्मरन्
पश्चात्सावरणं विष्णोरर्चयित्वा विधानतः ४०५
मूलम् - ४०५
दद्यात्पुष्पसहस्राणि देवतां स मनुं स्मरन्
पश्चात्सावरणं विष्णोरर्चयित्वा विधानतः ४०५
विश्वास-प्रस्तुतिः - ४०६
इन्द्रसोमं सोमपतेरिति सूक्तमनुत्तमम्
जपन्भक्त्याऽथ देवैस्तु दद्यान्नीराजनं द्विजः ४०६
मूलम् - ४०६
इन्द्रसोमं सोमपतेरिति सूक्तमनुत्तमम्
जपन्भक्त्याऽथ देवैस्तु दद्यान्नीराजनं द्विजः ४०६
विश्वास-प्रस्तुतिः - ४०७
प्रदक्षिणं नमस्कारं कृत्वा विप्रांस्तु भोजयेत्
अवैष्णवेन विप्रेण शूद्रेणैवार्चिते हरौ ४०७
मूलम् - ४०७
प्रदक्षिणं नमस्कारं कृत्वा विप्रांस्तु भोजयेत्
अवैष्णवेन विप्रेण शूद्रेणैवार्चिते हरौ ४०७
विश्वास-प्रस्तुतिः - ४०८
सहस्रमभिषेकं च पुष्पाञ्जलिसहस्रकम्
महाभागवतो विप्रः कुर्यान्मन्त्रद्वयेन च ४०८
मूलम् - ४०८
सहस्रमभिषेकं च पुष्पाञ्जलिसहस्रकम्
महाभागवतो विप्रः कुर्यान्मन्त्रद्वयेन च ४०८
विश्वास-प्रस्तुतिः - ४०९
देवतोत्तरसम्पर्कं विना स्वाहरणं हरौ
अवैष्णवानां मन्त्राणां पक्वान्नस्य निवेदने ४०९
मूलम् - ४०९
देवतोत्तरसम्पर्कं विना स्वाहरणं हरौ
अवैष्णवानां मन्त्राणां पक्वान्नस्य निवेदने ४०९
विश्वास-प्रस्तुतिः - ४१०
कृत्वा नारायणीमिष्टिं पुनः संस्कारमाचरेत्
देशान्तरगते बिम्बे चिरकालमनर्चिते ४१०
मूलम् - ४१०
कृत्वा नारायणीमिष्टिं पुनः संस्कारमाचरेत्
देशान्तरगते बिम्बे चिरकालमनर्चिते ४१०
विश्वास-प्रस्तुतिः - ४११
अधिवासादिकं सर्वं पूर्ववद्वैष्णवोत्तमः
विष्णोरुत्सवमध्ये तु विद्युत्स्तनितसम्भवे ४११
मूलम् - ४११
अधिवासादिकं सर्वं पूर्ववद्वैष्णवोत्तमः
विष्णोरुत्सवमध्ये तु विद्युत्स्तनितसम्भवे ४११
विश्वास-प्रस्तुतिः - ४१२
रथे बिम्बे ध्वजे भग्ने बिम्बे च पतितो भुवि
ग्रामदाहेऽश्मवर्षे च गुरावृत्विजि वै मृते ४१२
मूलम् - ४१२
रथे बिम्बे ध्वजे भग्ने बिम्बे च पतितो भुवि
ग्रामदाहेऽश्मवर्षे च गुरावृत्विजि वै मृते ४१२
विश्वास-प्रस्तुतिः - ४१३
नालङ्कृतेषु विधिषु परिणीते जनार्दने
अवैदिकक्रियोपेते जपहोमादिवर्जिते ४१३
मूलम् - ४१३
नालङ्कृतेषु विधिषु परिणीते जनार्दने
अवैदिकक्रियोपेते जपहोमादिवर्जिते ४१३
विश्वास-प्रस्तुतिः - ४१४
कुर्वीत महतीं शान्तिं वैष्णवीं वैष्णमोत्तमः
अग्निनाशे तु तन्मध्ये पुनरादानमाचरेत् ४१४
मूलम् - ४१४
कुर्वीत महतीं शान्तिं वैष्णवीं वैष्णमोत्तमः
अग्निनाशे तु तन्मध्ये पुनरादानमाचरेत् ४१४
विश्वास-प्रस्तुतिः - ४१५
कुर्वीत वैनतेयेष्टिं वैष्वक्सेनीमथापि वा
श्वशूकरादिसम्पर्के पवित्रेष्टिं समाचरेत् ४१५
मूलम् - ४१५
कुर्वीत वैनतेयेष्टिं वैष्वक्सेनीमथापि वा
श्वशूकरादिसम्पर्के पवित्रेष्टिं समाचरेत् ४१५
विश्वास-प्रस्तुतिः - ४१६
वैष्णवेष्टिं प्रकुर्वीत पाषण्डादिप्रदूषिते
अथास्य संप्लवे विष्णोर्यत्र यत्र च सङ्करम् ४१६
मूलम् - ४१६
वैष्णवेष्टिं प्रकुर्वीत पाषण्डादिप्रदूषिते
अथास्य संप्लवे विष्णोर्यत्र यत्र च सङ्करम् ४१६
विश्वास-प्रस्तुतिः - ४१७
तत्र तत्र यजेदिष्टिं पावमानीं द्विजोत्तमः
स्वापचारैस्तथाऽन्यैर्वा मुच्यते सर्वकिल्बषैः ४१७
मूलम् - ४१७
तत्र तत्र यजेदिष्टिं पावमानीं द्विजोत्तमः
स्वापचारैस्तथाऽन्यैर्वा मुच्यते सर्वकिल्बषैः ४१७
विश्वास-प्रस्तुतिः - ४१८
अवैष्णवेन विप्रेण स्थापिते मधुसूदने
तद्राष्ट्रं वा भूपतिर्वा विनाशमुपयास्यति ४१८
मूलम् - ४१८
अवैष्णवेन विप्रेण स्थापिते मधुसूदने
तद्राष्ट्रं वा भूपतिर्वा विनाशमुपयास्यति ४१८
विश्वास-प्रस्तुतिः - ४१९
कुर्वीत वासुदेवेष्टिं सर्वं पापं प्रशामयेत्
महाभागवतेनैव पुनः संस्कारमाचरेत् ४१९
मूलम् - ४१९
कुर्वीत वासुदेवेष्टिं सर्वं पापं प्रशामयेत्
महाभागवतेनैव पुनः संस्कारमाचरेत् ४१९
विश्वास-प्रस्तुतिः - ४२०
सेनेशवैनतेयादि नित्यानाञ्च दिवौकसाम्
मुक्तानामपि पूजार्थं बिम्बानि स्थापयेद्यदि ४२०
मूलम् - ४२०
सेनेशवैनतेयादि नित्यानाञ्च दिवौकसाम्
मुक्तानामपि पूजार्थं बिम्बानि स्थापयेद्यदि ४२०
विश्वास-प्रस्तुतिः - ४२१
स निवेश्यै करात्रन्तु गव्यैः स्नाप्याऽथ देशिकः
सर्ववैष्णवसूक्तैश्च तद्गायत्र्या सहस्रकम् ४२१
मूलम् - ४२१
स निवेश्यै करात्रन्तु गव्यैः स्नाप्याऽथ देशिकः
सर्ववैष्णवसूक्तैश्च तद्गायत्र्या सहस्रकम् ४२१
विश्वास-प्रस्तुतिः - ४२२
शङ्खेनैवाभिषिच्याथ भगवत्पुरतो न्यसेत्
स्थण्डिलेऽग्निं प्रतिष्ठाप्य यजेच्च पुरतो हरेः ४२२
मूलम् - ४२२
शङ्खेनैवाभिषिच्याथ भगवत्पुरतो न्यसेत्
स्थण्डिलेऽग्निं प्रतिष्ठाप्य यजेच्च पुरतो हरेः ४२२
विश्वास-प्रस्तुतिः - ४२३
अस्य वामेति सूक्तेन पायसं मधुमिश्रितम्
अष्टोत्तरशतं पञ्चादाज्यं मन्त्रचतुष्टयात् ४२३
मूलम् - ४२३
अस्य वामेति सूक्तेन पायसं मधुमिश्रितम्
अष्टोत्तरशतं पञ्चादाज्यं मन्त्रचतुष्टयात् ४२३
विश्वास-प्रस्तुतिः - ४२४
सुवर्णतार्क्ष्यसूक्ताभ्यां पृषदाज्यं यजेत्ततः
तिलैर्व्याहृतिभिर्हुत्वा पश्चादष्टोत्तरं शतम् ४२४
मूलम् - ४२४
सुवर्णतार्क्ष्यसूक्ताभ्यां पृषदाज्यं यजेत्ततः
तिलैर्व्याहृतिभिर्हुत्वा पश्चादष्टोत्तरं शतम् ४२४
विश्वास-प्रस्तुतिः - ४२५
वैकुण्ठं पार्षदञ्चैव होमशेषं समापयेत्
अहमस्मीतिसूक्तेन पीठे संस्थापयेद्बुधः ४२५
मूलम् - ४२५
वैकुण्ठं पार्षदञ्चैव होमशेषं समापयेत्
अहमस्मीतिसूक्तेन पीठे संस्थापयेद्बुधः ४२५
६८०
विश्वास-प्रस्तुतिः - ४२६
प्रणवादि चतुर्थ्यन्तनामभिस्तत्प्रकाशकैः
आवाह्य पूजयित्वाऽथ दद्यात्पुष्पाञ्जलिं ततः ४२६
मूलम् - ४२६
प्रणवादि चतुर्थ्यन्तनामभिस्तत्प्रकाशकैः
आवाह्य पूजयित्वाऽथ दद्यात्पुष्पाञ्जलिं ततः ४२६
विश्वास-प्रस्तुतिः - ४२७
द्वादशार्णन मनुना सहस्रमथवा शतम्
सोमरुद्रेति सूक्तेन दीपैर्नीराजयेत्ततः ४२७
मूलम् - ४२७
द्वादशार्णन मनुना सहस्रमथवा शतम्
सोमरुद्रेति सूक्तेन दीपैर्नीराजयेत्ततः ४२७
विश्वास-प्रस्तुतिः - ४२८
भोजयित्वा ततो विप्रान् गुरुं सम्यक् प्रपूजयेत्
मत्स्यकूर्मादिमूर्तीनामेवं संस्थापनं चरेत् ४२८
मूलम् - ४२८
भोजयित्वा ततो विप्रान् गुरुं सम्यक् प्रपूजयेत्
मत्स्यकूर्मादिमूर्तीनामेवं संस्थापनं चरेत् ४२८
विश्वास-प्रस्तुतिः - ४२९
तत्तत्प्रकाशकैर्मन्त्रैर्जपहोमादिकं चरेत्
सहस्रनामभिर्दद्यात्पुष्पाणि सुरभीणि च ४२९
मूलम् - ४२९
तत्तत्प्रकाशकैर्मन्त्रैर्जपहोमादिकं चरेत्
सहस्रनामभिर्दद्यात्पुष्पाणि सुरभीणि च ४२९
विश्वास-प्रस्तुतिः - ४३०
वापीकूपतडागानां तरुणां स्थापने तथा
वारुणीभिश्च सौम्यैश्च जपहोमादिकं चरेत् ४३०
मूलम् - ४३०
वापीकूपतडागानां तरुणां स्थापने तथा
वारुणीभिश्च सौम्यैश्च जपहोमादिकं चरेत् ४३०
विश्वास-प्रस्तुतिः - ४३१
तरूणां स्थापने गोपकृष्णं मातरमेव च
ताभ्यामेव तु मन्त्राभ्यां सहस्रं जुहुयाद्धृतम् ४३१
मूलम् - ४३१
तरूणां स्थापने गोपकृष्णं मातरमेव च
ताभ्यामेव तु मन्त्राभ्यां सहस्रं जुहुयाद्धृतम् ४३१
विश्वास-प्रस्तुतिः - ४३२
वैनतेयाङ्कितं स्तम्भं मध्ये संस्थापयेद्बुधः
अवैष्णवान्धये जातः कृत्वेष्टिं वैष्णवीं द्विजः ४३२
मूलम् - ४३२
वैनतेयाङ्कितं स्तम्भं मध्ये संस्थापयेद्बुधः
अवैष्णवान्धये जातः कृत्वेष्टिं वैष्णवीं द्विजः ४३२
विश्वास-प्रस्तुतिः - ४३३
वैष्णवैः पञ्चसंस्कारैः संस्कृतो वैष्णवो भवेत्
देवतान्तरशेषस्य भोजने स्पर्शने तथा ४३३
मूलम् - ४३३
वैष्णवैः पञ्चसंस्कारैः संस्कृतो वैष्णवो भवेत्
देवतान्तरशेषस्य भोजने स्पर्शने तथा ४३३
विश्वास-प्रस्तुतिः - ४३४
अनर्चिते पद्मनाभे तस्यानर्पितभोजने
अवैष्णवानां विप्राणां पूजने वन्दने तथा ४३४
मूलम् - ४३४
अनर्चिते पद्मनाभे तस्यानर्पितभोजने
अवैष्णवानां विप्राणां पूजने वन्दने तथा ४३४
विश्वास-प्रस्तुतिः - ४३५
याजनेऽध्यापने दाने श्राद्धे चैषाञ्च भोजने
अनर्चिते भागवते हरिवासरभोजने ४३५
मूलम् - ४३५
याजनेऽध्यापने दाने श्राद्धे चैषाञ्च भोजने
अनर्चिते भागवते हरिवासरभोजने ४३५
विश्वास-प्रस्तुतिः - ४३६
प्रायश्चित्तं प्रकुर्व्वीत वैय्यूही मिष्टिमुत्तमाम्
पश्चाद्भागवतानाञ्च पिवेत्पादजलं शुभम् ४३६
मूलम् - ४३६
प्रायश्चित्तं प्रकुर्व्वीत वैय्यूही मिष्टिमुत्तमाम्
पश्चाद्भागवतानाञ्च पिवेत्पादजलं शुभम् ४३६
विश्वास-प्रस्तुतिः - ४३७
एतत्समस्तपापानां प्रायश्चित्तं मनीषिभिः
निर्णीतं भगवद्भक्तपादामृतनिषेवणम् ४३७
मूलम् - ४३७
एतत्समस्तपापानां प्रायश्चित्तं मनीषिभिः
निर्णीतं भगवद्भक्तपादामृतनिषेवणम् ४३७
विश्वास-प्रस्तुतिः - ४३८
अङ्गीकृतं महाभागैर्महाभागवतैर्द्विजैः
सर्व्यापचारैर्मुच्येत परां वृतिञ्च विन्दति ४३८
मूलम् - ४३८
अङ्गीकृतं महाभागैर्महाभागवतैर्द्विजैः
सर्व्यापचारैर्मुच्येत परां वृतिञ्च विन्दति ४३८
विश्वास-प्रस्तुतिः - ४३९
प्रायश्चित्ते तथा चीर्ण महाभागवताद् द्विजात्
वैष्णवैः पञ्चसंस्कारैः संकृतो हरिमर्चयेत् ४३९
मूलम् - ४३९
प्रायश्चित्ते तथा चीर्ण महाभागवताद् द्विजात्
वैष्णवैः पञ्चसंस्कारैः संकृतो हरिमर्चयेत् ४३९