पञ्चमोऽध्यायः
अथ भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम्
अम्बरीष उवाच
विश्वास-प्रस्तुतिः - १
भगवन् ब्रह्मणा यत्तु सम्प्रोक्तं स्यान्मनोः पुरा
तत्सर्वं परमं धर्मं वक्तुमर्हसि मेऽनघ १
मूलम् - १
भगवन् ब्रह्मणा यत्तु सम्प्रोक्तं स्यान्मनोः पुरा
तत्सर्वं परमं धर्मं वक्तुमर्हसि मेऽनघ १
विश्वास-प्रस्तुतिः - २
सर्गादौ लोककर्ताऽसौ भगवान् पद्मसम्भवः
मन्वादिप्रमुखान् विप्रान् ससृजे धर्मगुप्तये २
मूलम् - २
सर्गादौ लोककर्ताऽसौ भगवान् पद्मसम्भवः
मन्वादिप्रमुखान् विप्रान् ससृजे धर्मगुप्तये २
विश्वास-प्रस्तुतिः - ३
मनुर्भृगुर्वशिष्ठश्च मरीचिर्दक्ष एव च
अङ्गिराः पुलहश्चैव पुलस्त्योऽत्रिर्महातपाः ३
मूलम् - ३
मनुर्भृगुर्वशिष्ठश्च मरीचिर्दक्ष एव च
अङ्गिराः पुलहश्चैव पुलस्त्योऽत्रिर्महातपाः ३
विश्वास-प्रस्तुतिः - ४
वेदान्तपारगास्ते च तं प्रणम्य जगद्गुरुम्
भगवन् परमं धर्मं भवबन्धापनुत्तये ४
मूलम् - ४
वेदान्तपारगास्ते च तं प्रणम्य जगद्गुरुम्
भगवन् परमं धर्मं भवबन्धापनुत्तये ४
विश्वास-प्रस्तुतिः - ५
वद सर्वमशेषेण श्रोतुमिच्छामहे वयम्
इत्युक्तः स द्विजैः सोऽपि ब्रह्मा नत्वा जनार्दनम् ५
मूलम् - ५
वद सर्वमशेषेण श्रोतुमिच्छामहे वयम्
इत्युक्तः स द्विजैः सोऽपि ब्रह्मा नत्वा जनार्दनम् ५
विश्वास-प्रस्तुतिः - ६
वेदान्तगोचरं धर्मं तेषां वक्तुं प्रचक्रमे
सर्वेषामवलोकानां स्रष्टा धाता जनार्दनः ६
मूलम् - ६
वेदान्तगोचरं धर्मं तेषां वक्तुं प्रचक्रमे
सर्वेषामवलोकानां स्रष्टा धाता जनार्दनः ६
विश्वास-प्रस्तुतिः - ७
सर्ववेदान्ततत्वार्थसर्वयज्ञमयः प्रभुः
यज्ञो वै विष्णुरित्यत्र प्रत्यक्षं श्रूयते श्रुतिः ७
मूलम् - ७
सर्ववेदान्ततत्वार्थसर्वयज्ञमयः प्रभुः
यज्ञो वै विष्णुरित्यत्र प्रत्यक्षं श्रूयते श्रुतिः ७
विश्वास-प्रस्तुतिः - ८
इज्यते यत्समुद्दिश्य परमो धर्म उच्यते
भगवन्तमनुद्दिश्य हूयते यत्र कुत्र वै ८
मूलम् - ८
इज्यते यत्समुद्दिश्य परमो धर्म उच्यते
भगवन्तमनुद्दिश्य हूयते यत्र कुत्र वै ८
विश्वास-प्रस्तुतिः - ९
तत्र हिंसाफलं पापं भवेदत्र विगर्हितम्
तस्मात्सर्वस्य यज्ञस्य भोक्तारं पुरुषं हरिम् ९
मूलम् - ९
तत्र हिंसाफलं पापं भवेदत्र विगर्हितम्
तस्मात्सर्वस्य यज्ञस्य भोक्तारं पुरुषं हरिम् ९
विश्वास-प्रस्तुतिः - १०
ध्यात्वैव जुहुयात्तस्मै हव्यं दीप्ते हुताशने
मुखमग्निर्भगवतो विष्णोः सर्वगतस्य वै १०
मूलम् - १०
ध्यात्वैव जुहुयात्तस्मै हव्यं दीप्ते हुताशने
मुखमग्निर्भगवतो विष्णोः सर्वगतस्य वै १०
६०३
यजेद्विप्रमुखे शक्त्या जलमन्नं फलादिकम् ११
विश्वास-प्रस्तुतिः - १२
प्रीतये वासुदेवस्य सर्वभूतनिवासिनः
तमेव चार्च्चयेन्नित्यं नमस्कुर्यात्तमेव हि १२
मूलम् - १२
प्रीतये वासुदेवस्य सर्वभूतनिवासिनः
तमेव चार्च्चयेन्नित्यं नमस्कुर्यात्तमेव हि १२
विश्वास-प्रस्तुतिः - १३
ध्यात्वा जपेत्तमेवेशं तमेव ध्यापयेद्धृदि
तन्नामैव प्रगातव्यं वाचा वक्तव्यमेव च १३
मूलम् - १३
ध्यात्वा जपेत्तमेवेशं तमेव ध्यापयेद्धृदि
तन्नामैव प्रगातव्यं वाचा वक्तव्यमेव च १३
विश्वास-प्रस्तुतिः - १४
व्रतोपवासनियमान् तमुद्दिश्यैव कारयेत्
तत्समर्पितभोगः स्यादन्नपानादिभक्षणैः १४
मूलम् - १४
व्रतोपवासनियमान् तमुद्दिश्यैव कारयेत्
तत्समर्पितभोगः स्यादन्नपानादिभक्षणैः १४
विश्वास-प्रस्तुतिः - १५
मतिः स्वार्थः सदारेषु नेतरत्र कदाचन
न हिंस्यात्सर्वभूतानि यज्ञेषु विधिना विना १५
मूलम् - १५
मतिः स्वार्थः सदारेषु नेतरत्र कदाचन
न हिंस्यात्सर्वभूतानि यज्ञेषु विधिना विना १५
विश्वास-प्रस्तुतिः - १६
सोऽहं दासो भगवतो मम स्वामी जनार्दनः
एवं वृत्तिर्भवेदस्मिन्स्वधर्मः परमो मतः १६
मूलम् - १६
सोऽहं दासो भगवतो मम स्वामी जनार्दनः
एवं वृत्तिर्भवेदस्मिन्स्वधर्मः परमो मतः १६
विश्वास-प्रस्तुतिः - १७
एष निष्कण्टकः पन्था तस्य विष्णोः परं पदम्
अन्यन्तु कुपथं ज्ञेयं निरयप्राप्तिहेतुकम् १७
मूलम् - १७
एष निष्कण्टकः पन्था तस्य विष्णोः परं पदम्
अन्यन्तु कुपथं ज्ञेयं निरयप्राप्तिहेतुकम् १७
विश्वास-प्रस्तुतिः - १८
भगवन्तमनुद्दिश्य यः कर्म कुरुते नरः
स पाषण्डीति विज्ञेयः सर्वलोकेषु गर्हितः १८
मूलम् - १८
भगवन्तमनुद्दिश्य यः कर्म कुरुते नरः
स पाषण्डीति विज्ञेयः सर्वलोकेषु गर्हितः १८
विश्वास-प्रस्तुतिः - १९
यो हि विष्णु परित्यज्य सर्वलोकेश्वरं हरिम्
इतरानर्चते मोहात्स लोकायतिकः मृतः १९
मूलम् - १९
यो हि विष्णु परित्यज्य सर्वलोकेश्वरं हरिम्
इतरानर्चते मोहात्स लोकायतिकः मृतः १९
विश्वास-प्रस्तुतिः - २०
उक्तधर्मं परित्यज्य यो ह्यधर्मे च वर्तते
पतितः स तु विज्ञेयः सर्वधर्मबहिष्कृतः २०
मूलम् - २०
उक्तधर्मं परित्यज्य यो ह्यधर्मे च वर्तते
पतितः स तु विज्ञेयः सर्वधर्मबहिष्कृतः २०
विश्वास-प्रस्तुतिः - २१
यः कर्म कुरुते विप्रो विना विष्ण्वर्चनं क्वचित्
ब्राह्मण्याद् भ्रश्यते सद्यश्चण्डालत्वं स गच्छति २१
मूलम् - २१
यः कर्म कुरुते विप्रो विना विष्ण्वर्चनं क्वचित्
ब्राह्मण्याद् भ्रश्यते सद्यश्चण्डालत्वं स गच्छति २१
विश्वास-प्रस्तुतिः - २२
ब्राह्मणो वैष्णवो विप्रो गुरुरग्र्यश्च वेदवित्
पर्य्यायेण च विद्येत नामानि क्ष्मासुरस्य हि २२
मूलम् - २२
ब्राह्मणो वैष्णवो विप्रो गुरुरग्र्यश्च वेदवित्
पर्य्यायेण च विद्येत नामानि क्ष्मासुरस्य हि २२
विश्वास-प्रस्तुतिः - २३
तस्मादवैष्णवत्वेन विप्रत्वाद् भ्रश्यते हि सः
अर्चयित्वाऽपि गोविन्दमितरानर्च्चयेत्पृथक् २३
मूलम् - २३
तस्मादवैष्णवत्वेन विप्रत्वाद् भ्रश्यते हि सः
अर्चयित्वाऽपि गोविन्दमितरानर्च्चयेत्पृथक् २३
विश्वास-प्रस्तुतिः - ६०४
अवैष्णवत्वं तस्यापि मिश्रभक्त्या भवेद्ध्रुवम्
र्
६०४
मूलम् - ६०४
अवैष्णवत्वं तस्यापि मिश्रभक्त्या भवेद्ध्रुवम्
र्
६०४
विश्वास-प्रस्तुतिः - २५
ज्ञात्वा तत्प्रीतये सर्वान् जुहुयात्सततं हरिम्
दानं तपश्च यज्ञश्च त्रिविधं कर्म कीर्तितम् २५
मूलम् - २५
ज्ञात्वा तत्प्रीतये सर्वान् जुहुयात्सततं हरिम्
दानं तपश्च यज्ञश्च त्रिविधं कर्म कीर्तितम् २५
विश्वास-प्रस्तुतिः - २६
तत्सर्वं भगवत्प्रीत्यै कुर्वीत सुसमाहितः
तस्मात्तु वैष्णवा विप्राः पूजनीया यथा हरिः २६
मूलम् - २६
तत्सर्वं भगवत्प्रीत्यै कुर्वीत सुसमाहितः
तस्मात्तु वैष्णवा विप्राः पूजनीया यथा हरिः २६
विश्वास-प्रस्तुतिः - २७
ये तु वै हेतुकं वाक्यमाश्रित्यैव स्ववाग्बलात्
वैष्णवं प्रतिषिध्यन्ति ते लोकायतिकाः स्मृताः २७
मूलम् - २७
ये तु वै हेतुकं वाक्यमाश्रित्यैव स्ववाग्बलात्
वैष्णवं प्रतिषिध्यन्ति ते लोकायतिकाः स्मृताः २७
विश्वास-प्रस्तुतिः - २८
यो यत्तु वैष्णवं लिङ्गं धृत्वा च तमसाऽऽवृतः
त्यजेच्चेद्वैष्णवं धर्मं सोऽपि पाषण्डतां व्रजेत् २८
मूलम् - २८
यो यत्तु वैष्णवं लिङ्गं धृत्वा च तमसाऽऽवृतः
त्यजेच्चेद्वैष्णवं धर्मं सोऽपि पाषण्डतां व्रजेत् २८
विश्वास-प्रस्तुतिः - २९
तस्मात्तु वैष्णवो भूत्वा वैदिकीं वृत्तिमाश्रितः
कुर्वीत भगवत्प्रीत्यै कुर्य्याद्यज्ञादिकर्म यत् २९
मूलम् - २९
तस्मात्तु वैष्णवो भूत्वा वैदिकीं वृत्तिमाश्रितः
कुर्वीत भगवत्प्रीत्यै कुर्य्याद्यज्ञादिकर्म यत् २९
विश्वास-प्रस्तुतिः - ३०
तद्विशिष्टमिति प्रोक्तं सामान्यमितरं स्मृतम्
फलहीना भवेत्सा तु सामान्या वैदिकक्रिया ३०
मूलम् - ३०
तद्विशिष्टमिति प्रोक्तं सामान्यमितरं स्मृतम्
फलहीना भवेत्सा तु सामान्या वैदिकक्रिया ३०
विश्वास-प्रस्तुतिः - ३१
तोयवर्जितवापीव निरर्थी भवति ध्रुवम्
नैसर्गिकन्तु जीवानां दास्यं विष्णोः सनातनम् ३१
मूलम् - ३१
तोयवर्जितवापीव निरर्थी भवति ध्रुवम्
नैसर्गिकन्तु जीवानां दास्यं विष्णोः सनातनम् ३१
विश्वास-प्रस्तुतिः - ३२
तद्विना वर्त्तते मोहादात्मचारः सनातनात्
तस्मात्तु भगवद्दास्यमात्मनां श्रुतिचोदितम् ३२
मूलम् - ३२
तद्विना वर्त्तते मोहादात्मचारः सनातनात्
तस्मात्तु भगवद्दास्यमात्मनां श्रुतिचोदितम् ३२
विश्वास-प्रस्तुतिः - ३३
दास्यं विना कृतं यत्तु तदेव कलुषं भवेत्
विशिष्टं परमं धर्मं दास्यं भगवतो हरेः ३३
मूलम् - ३३
दास्यं विना कृतं यत्तु तदेव कलुषं भवेत्
विशिष्टं परमं धर्मं दास्यं भगवतो हरेः ३३
विश्वास-प्रस्तुतिः - ३४
कथं दास्यं हि तद्वृत्तिः कथं नैसर्गिकं नृणाम्
सत्सर्वं ब्रूहि तत्वेन लोकानुग्रहकाम्यया ३४
मूलम् - ३४
कथं दास्यं हि तद्वृत्तिः कथं नैसर्गिकं नृणाम्
सत्सर्वं ब्रूहि तत्वेन लोकानुग्रहकाम्यया ३४
विश्वास-प्रस्तुतिः - ३५
सुदर्शनोर्ध्व पुण्ड्रादिधारणं दास्यमुच्यते
तद्विधिर्वैदिकी या च तदाज्ञा चोदिता क्रिया ३५
मूलम् - ३५
सुदर्शनोर्ध्व पुण्ड्रादिधारणं दास्यमुच्यते
तद्विधिर्वैदिकी या च तदाज्ञा चोदिता क्रिया ३५
६०५
निरूपणत्वाद्दास्यस्य धार्यं चक्रं महात्मनः ३६
विश्वास-प्रस्तुतिः - ३७
अङ्गत्वात्सर्वधर्माणां वैष्णवत्वाच्च धर्म्मतः
कर्म कुर्याद्भगवतस्तस्मै राज्ञामनुस्मरन् ३७
मूलम् - ३७
अङ्गत्वात्सर्वधर्माणां वैष्णवत्वाच्च धर्म्मतः
कर्म कुर्याद्भगवतस्तस्मै राज्ञामनुस्मरन् ३७
विश्वास-प्रस्तुतिः - ३८
विधिनैव प्रतप्तेन चक्रेणवाङ्कयेद्भुजे
तथैव विभृयाद्भाले पुण्ड्रं शुभ्रतरं मृदा ३८
मूलम् - ३८
विधिनैव प्रतप्तेन चक्रेणवाङ्कयेद्भुजे
तथैव विभृयाद्भाले पुण्ड्रं शुभ्रतरं मृदा ३८
विश्वास-प्रस्तुतिः - ३९
विभृयादुपवीतन्तु सव्यस्कन्धे विधानतः
कण्ठे पद्माक्षमालाञ्च कौशेयं दक्षिणे करे ३९
मूलम् - ३९
विभृयादुपवीतन्तु सव्यस्कन्धे विधानतः
कण्ठे पद्माक्षमालाञ्च कौशेयं दक्षिणे करे ३९
विश्वास-प्रस्तुतिः - ४०
उभे चिह्ने विना विप्रो न भवेद्धि कथञ्चन
न लभेत्कर्मणां सिद्धिं वैदिकानां विशेषतः ४०
मूलम् - ४०
उभे चिह्ने विना विप्रो न भवेद्धि कथञ्चन
न लभेत्कर्मणां सिद्धिं वैदिकानां विशेषतः ४०
विश्वास-प्रस्तुतिः - ४१
आश्रमाणां चतुर्णाञ्च स्त्रीणाञ्च श्रुतिचोदनात्
अङ्कयेच्चक्रशङ्खाभ्यां प्रतप्ताभ्यां विधानतः ४१
मूलम् - ४१
आश्रमाणां चतुर्णाञ्च स्त्रीणाञ्च श्रुतिचोदनात्
अङ्कयेच्चक्रशङ्खाभ्यां प्रतप्ताभ्यां विधानतः ४१
विश्वास-प्रस्तुतिः - ४२
एकैकमुपवीतन्तु यतीनां ब्रह्मचारिणाम्
गृहिणाञ्च वनस्थानामुपवीतद्वयं स्मृतम् ४२
मूलम् - ४२
एकैकमुपवीतन्तु यतीनां ब्रह्मचारिणाम्
गृहिणाञ्च वनस्थानामुपवीतद्वयं स्मृतम् ४२
विश्वास-प्रस्तुतिः - ४३
सोत्तरीयं त्रयं वाऽपि विभृयाच्छुभतन्तुना
त्रयमूर्ध्व द्वयं तन्तु तन्तुत्रयमधोवृतम् ४३
मूलम् - ४३
सोत्तरीयं त्रयं वाऽपि विभृयाच्छुभतन्तुना
त्रयमूर्ध्व द्वयं तन्तु तन्तुत्रयमधोवृतम् ४३
विश्वास-प्रस्तुतिः - ४४
त्रिवृच्च ग्रन्थिनैकेन उपवीतमिहोच्यते
अर्ककार्पासकौशेयक्षौमशोणमयानि च ४४
मूलम् - ४४
त्रिवृच्च ग्रन्थिनैकेन उपवीतमिहोच्यते
अर्ककार्पासकौशेयक्षौमशोणमयानि च ४४
विश्वास-प्रस्तुतिः - ४५
तन्तूनि चोपवीतानां योज्यानि मुनिसत्तमाः
सर्वेषामप्यलाभे तु कुर्य्यात्कुशमयं द्विजः ४५
मूलम् - ४५
तन्तूनि चोपवीतानां योज्यानि मुनिसत्तमाः
सर्वेषामप्यलाभे तु कुर्य्यात्कुशमयं द्विजः ४५
विश्वास-प्रस्तुतिः - ४६
ऐणेयमुत्तरीयं स्याद्वनस्थब्रह्मचारिणाम्
शुक्लकाषायवसने गृहस्थस्य यतेः क्रमात् ४६
मूलम् - ४६
ऐणेयमुत्तरीयं स्याद्वनस्थब्रह्मचारिणाम्
शुक्लकाषायवसने गृहस्थस्य यतेः क्रमात् ४६
विश्वास-प्रस्तुतिः - ४७
उक्तालाभेषु सर्वेषाङ्कुशचीरं विशिष्यते
मौञ्जी वै मेखला दण्डं पालाशं ब्रह्मचारिणः ४७
मूलम् - ४७
उक्तालाभेषु सर्वेषाङ्कुशचीरं विशिष्यते
मौञ्जी वै मेखला दण्डं पालाशं ब्रह्मचारिणः ४७
विश्वास-प्रस्तुतिः - ४८
त्रयस्तु वैष्णवा दण्डा यतेः काषायवाससी
कुशचीरं वल्कलं वा वनस्थस्य विधीयते ४८
मूलम् - ४८
त्रयस्तु वैष्णवा दण्डा यतेः काषायवाससी
कुशचीरं वल्कलं वा वनस्थस्य विधीयते ४८
विश्वास-प्रस्तुतिः - ६०६
कटीसूत्रञ्च कौपीनं महच्च शुक्लवाससा
र्
६०६
मूलम् - ६०६
कटीसूत्रञ्च कौपीनं महच्च शुक्लवाससा
र्
६०६
विश्वास-प्रस्तुतिः - ५०
मुण्डिनौ सूक्ष्मशिखिनौ यत्यन्तेवासिनावुभौ
वानप्रस्थो यतिर्वा स्यात्सदा वै श्मश्रुरोमधृत् ५०
मूलम् - ५०
मुण्डिनौ सूक्ष्मशिखिनौ यत्यन्तेवासिनावुभौ
वानप्रस्थो यतिर्वा स्यात्सदा वै श्मश्रुरोमधृत् ५०
विश्वास-प्रस्तुतिः - ५१
सुकेशी सुशिखो वा स्याद्गृहस्थः सौम्यवेषवान्
यतिश्च ब्रह्मचारी च उभौ भिक्षाशनौ स्मृतौ ५१
मूलम् - ५१
सुकेशी सुशिखो वा स्याद्गृहस्थः सौम्यवेषवान्
यतिश्च ब्रह्मचारी च उभौ भिक्षाशनौ स्मृतौ ५१
विश्वास-प्रस्तुतिः - ५२
शाकमूलफलाशी स्याद्वनस्थः सततं द्विजः
कुसूलकुम्भधान्यो वा त्र्याहिको वा भवेद्गृही ५२
मूलम् - ५२
शाकमूलफलाशी स्याद्वनस्थः सततं द्विजः
कुसूलकुम्भधान्यो वा त्र्याहिको वा भवेद्गृही ५२
विश्वास-प्रस्तुतिः - ५३
प्रतिगृहेण सौम्येन जीवेद्यायावरेण वा
यस्त्वेकं दण्डमालम्व्य धर्मं ब्राह्मं परित्यजेत् ५३
मूलम् - ५३
प्रतिगृहेण सौम्येन जीवेद्यायावरेण वा
यस्त्वेकं दण्डमालम्व्य धर्मं ब्राह्मं परित्यजेत् ५३
विश्वास-प्रस्तुतिः - ५४
विकर्म्मस्थो भवेद्विप्रः स याति नरकं ध्रुवम्
शिखायज्ञोपवीतादि ब्रह्मकर्म यतिस्त्यजेत् ५४
मूलम् - ५४
विकर्म्मस्थो भवेद्विप्रः स याति नरकं ध्रुवम्
शिखायज्ञोपवीतादि ब्रह्मकर्म यतिस्त्यजेत् ५४
विश्वास-प्रस्तुतिः - ५५
सजीवं न च चण्डालो मृतश्वानोऽभिजायते
स्वरूपेणैव धर्मस्य त्यागो हानिर्भवेद्ध्रुवम् ५५
मूलम् - ५५
सजीवं न च चण्डालो मृतश्वानोऽभिजायते
स्वरूपेणैव धर्मस्य त्यागो हानिर्भवेद्ध्रुवम् ५५
विश्वास-प्रस्तुतिः - ५६
कर्मणां फलसन्त्यागः सन्न्यासः स उदाहृतः
अनाश्रितः कर्मफलं कृत्यं कर्म समाचरेत् ५६
मूलम् - ५६
कर्मणां फलसन्त्यागः सन्न्यासः स उदाहृतः
अनाश्रितः कर्मफलं कृत्यं कर्म समाचरेत् ५६
विश्वास-प्रस्तुतिः - ५७
स सन्न्यासी च योगी च स मुनिः सात्विकः स्मृतः
तुष्ट्यर्थं वासुदेवस्य धर्मं वै यः समाचरेत् ५७
मूलम् - ५७
स सन्न्यासी च योगी च स मुनिः सात्विकः स्मृतः
तुष्ट्यर्थं वासुदेवस्य धर्मं वै यः समाचरेत् ५७
विश्वास-प्रस्तुतिः - ५८
स योगी परमेकान्तं हरेः प्रियतमो भवेत्
मोहाद्दास्यं विना विष्णोः किञ्चित्कर्म समाचरेत् ५८
मूलम् - ५८
स योगी परमेकान्तं हरेः प्रियतमो भवेत्
मोहाद्दास्यं विना विष्णोः किञ्चित्कर्म समाचरेत् ५८
विश्वास-प्रस्तुतिः - ५९
न तस्य फलमाप्नोति तामसीं गतिमश्नुते
हित्वा यज्ञोपवीतन्तु हित्वा चक्रस्य धारणम् ५९
मूलम् - ५९
न तस्य फलमाप्नोति तामसीं गतिमश्नुते
हित्वा यज्ञोपवीतन्तु हित्वा चक्रस्य धारणम् ५९
विश्वास-प्रस्तुतिः - ६०
हित्वा शिखोर्ध्वपुण्ड्रे च विप्रत्वाद् भ्रश्यते ध्रुवम्
पञ्चसंस्कारपूर्वेण मन्त्रमध्यापयेद्गुरुः ६०
मूलम् - ६०
हित्वा शिखोर्ध्वपुण्ड्रे च विप्रत्वाद् भ्रश्यते ध्रुवम्
पञ्चसंस्कारपूर्वेण मन्त्रमध्यापयेद्गुरुः ६०
विश्वास-प्रस्तुतिः - ६१
संस्काराः पञ्च कर्तव्याः पारमैकान्त्यसिद्धये
प्रतिसम्वत्सरं कुर्य्यादुपाकर्म ह्यनुत्तमम् ६१
मूलम् - ६१
संस्काराः पञ्च कर्तव्याः पारमैकान्त्यसिद्धये
प्रतिसम्वत्सरं कुर्य्यादुपाकर्म ह्यनुत्तमम् ६१
६०७
दद्यादत्रोपवीतानि विष्णवे परमात्मने ६२
विश्वास-प्रस्तुतिः - ६३
ब्राह्मणेभ्यश्च दत्त्वाऽथ विभृयात् स्वयमेव च
तदग्नौ पूज्य सन्तर्प्य चक्रञ्चैवाङ्कयेद्भुजे ६३
मूलम् - ६३
ब्राह्मणेभ्यश्च दत्त्वाऽथ विभृयात् स्वयमेव च
तदग्नौ पूज्य सन्तर्प्य चक्रञ्चैवाङ्कयेद्भुजे ६३
विश्वास-प्रस्तुतिः - ६४
एवं प्रात्याह्निकं धार्यमुपवीतं सुदर्शनम्
पुण्ड्रास्तु प्रतिसन्ध्यन्तु नित्यमेव च धारयेत् ६४
मूलम् - ६४
एवं प्रात्याह्निकं धार्यमुपवीतं सुदर्शनम्
पुण्ड्रास्तु प्रतिसन्ध्यन्तु नित्यमेव च धारयेत् ६४
विश्वास-प्रस्तुतिः - ६५
द्वारवत्युद्भवं गोपी चन्दनं वेङ्कटोद्भवम्
सान्तरालं प्रकुर्वीत पुण्ड्रं हरिपदाकृति ६५
मूलम् - ६५
द्वारवत्युद्भवं गोपी चन्दनं वेङ्कटोद्भवम्
सान्तरालं प्रकुर्वीत पुण्ड्रं हरिपदाकृति ६५
विश्वास-प्रस्तुतिः - ६६
श्राद्धकाले विशेषेण कर्ता भोक्ता च धारयेत्
अर्थं पञ्चकतत्वज्ञः पञ्चसंस्कारदीक्षितः ६६
मूलम् - ६६
श्राद्धकाले विशेषेण कर्ता भोक्ता च धारयेत्
अर्थं पञ्चकतत्वज्ञः पञ्चसंस्कारदीक्षितः ६६
विश्वास-प्रस्तुतिः - ६७
महाभागवती विप्रः सततं पूजयेद्धरिम्
नारायणः परं ब्रह्म विप्राणां दैवतं सदा ६७
मूलम् - ६७
महाभागवती विप्रः सततं पूजयेद्धरिम्
नारायणः परं ब्रह्म विप्राणां दैवतं सदा ६७
विश्वास-प्रस्तुतिः - ६८
तस्य भुक्तावशेषन्तु पावनं मुनिसत्तमाः
हरिभुक्तोऽपि तं दद्यात्पितृणाञ्च दिवौकसाम् ६८
मूलम् - ६८
तस्य भुक्तावशेषन्तु पावनं मुनिसत्तमाः
हरिभुक्तोऽपि तं दद्यात्पितृणाञ्च दिवौकसाम् ६८
विश्वास-प्रस्तुतिः - ६९
तदेव जुहुयाद्वह्नौ भुञ्जीयात्तु तदेव हि
हरेरनर्पितं यत्तु देवानामर्पितञ्च यत् ६९
मूलम् - ६९
तदेव जुहुयाद्वह्नौ भुञ्जीयात्तु तदेव हि
हरेरनर्पितं यत्तु देवानामर्पितञ्च यत् ६९
विश्वास-प्रस्तुतिः - ७०
मद्यमांससमं प्रोक्तं तद्भुञ्जीयात्कदाचन
हरेः पादजलं प्राश्यं नित्यं नान्यद्दिवौकसाम् ७०
मूलम् - ७०
मद्यमांससमं प्रोक्तं तद्भुञ्जीयात्कदाचन
हरेः पादजलं प्राश्यं नित्यं नान्यद्दिवौकसाम् ७०
विश्वास-प्रस्तुतिः - ७१
सुराणामितरेषां तु फलपुष्पजलादिकम्
निर्माल्यमशुभं प्रोक्तमस्पृश्यं हि कदाचन ७१
मूलम् - ७१
सुराणामितरेषां तु फलपुष्पजलादिकम्
निर्माल्यमशुभं प्रोक्तमस्पृश्यं हि कदाचन ७१
विश्वास-प्रस्तुतिः - ७२
विधिर्ह्येष द्विजातीनां नेतरेषां कदाचन
शिवार्च्चनं त्रिपुण्ड्रञ्च शूद्राणां तु विधीयते ७२
मूलम् - ७२
विधिर्ह्येष द्विजातीनां नेतरेषां कदाचन
शिवार्च्चनं त्रिपुण्ड्रञ्च शूद्राणां तु विधीयते ७२
विश्वास-प्रस्तुतिः - ७३
तद्विधानामिदं ये च विप्राः शिवपरायणाः
ते वै देवलका ज्ञेयाः सर्वकर्मबहिष्कृताः ७३
मूलम् - ७३
तद्विधानामिदं ये च विप्राः शिवपरायणाः
ते वै देवलका ज्ञेयाः सर्वकर्मबहिष्कृताः ७३
विश्वास-प्रस्तुतिः - ७४
वैखानसास्तु ये विप्राः हरिपूजनतत्पराः
न ते देवलका ज्ञेया हरिपादाब्जसंश्रयात् ७४
मूलम् - ७४
वैखानसास्तु ये विप्राः हरिपूजनतत्पराः
न ते देवलका ज्ञेया हरिपादाब्जसंश्रयात् ७४
विश्वास-प्रस्तुतिः - ६०८
नापहृत्य हरेर्द्रव्यं ग्रामार्च्चनपरो भवेत्
र्
६०८
मूलम् - ६०८
नापहृत्य हरेर्द्रव्यं ग्रामार्च्चनपरो भवेत्
र्
६०८
विश्वास-प्रस्तुतिः - ७६
भक्त्या योऽप्यर्चयेद्देवं ग्रामार्च्चं हरिमव्ययम्
प्रसादतीर्थस्वीकारान्नासौ देवलकः स्मृतः ७६
मूलम् - ७६
भक्त्या योऽप्यर्चयेद्देवं ग्रामार्च्चं हरिमव्ययम्
प्रसादतीर्थस्वीकारान्नासौ देवलकः स्मृतः ७६
विश्वास-प्रस्तुतिः - ७७
शङ्खचक्रोर्ध्वपुण्ड्रादिधारणं स्मरणं हरेः
तन्नामकीर्तनञ्चैव तत्पादाम्बुनिषेवणम् ७७
मूलम् - ७७
शङ्खचक्रोर्ध्वपुण्ड्रादिधारणं स्मरणं हरेः
तन्नामकीर्तनञ्चैव तत्पादाम्बुनिषेवणम् ७७
विश्वास-प्रस्तुतिः - ७८
तत्पादवन्दनञ्चैव तं निवेदितभोजनम्
एकादश्युपवासश्च तुलस्यैवार्चनं हरेः ७८
मूलम् - ७८
तत्पादवन्दनञ्चैव तं निवेदितभोजनम्
एकादश्युपवासश्च तुलस्यैवार्चनं हरेः ७८
विश्वास-प्रस्तुतिः - ७९
तदीयानामर्चनञ्च भक्तिर्नवविधास्मृता
एतैर्नवविधैर्युक्तो वैष्णवः प्रोच्यते बुधैः ७९
मूलम् - ७९
तदीयानामर्चनञ्च भक्तिर्नवविधास्मृता
एतैर्नवविधैर्युक्तो वैष्णवः प्रोच्यते बुधैः ७९
विश्वास-प्रस्तुतिः - ८०
एतैर्गुणैर्विहीनस्तु न तु विप्रो न वैष्णवः
कर्मणा मनसा वाचा न प्रमाद्येज्जनार्दनम् ८०
मूलम् - ८०
एतैर्गुणैर्विहीनस्तु न तु विप्रो न वैष्णवः
कर्मणा मनसा वाचा न प्रमाद्येज्जनार्दनम् ८०
विश्वास-प्रस्तुतिः - ८१
भक्तिः सा सात्विकी ज्ञेया भवेदव्यभिचारिणी
नान्यं देवं नमस्कुर्य्यान्नान्यं देवं प्रपूजयेत् ८१
मूलम् - ८१
भक्तिः सा सात्विकी ज्ञेया भवेदव्यभिचारिणी
नान्यं देवं नमस्कुर्य्यान्नान्यं देवं प्रपूजयेत् ८१
विश्वास-प्रस्तुतिः - ८२
नान्यप्रसादं भुञ्जीत नान्यदायतनं विशेत्
न त्रिपुण्ड्रं तथा कुर्य्यात्पट्याकारं जगत्त्रयम् ८२
मूलम् - ८२
नान्यप्रसादं भुञ्जीत नान्यदायतनं विशेत्
न त्रिपुण्ड्रं तथा कुर्य्यात्पट्याकारं जगत्त्रयम् ८२
विश्वास-प्रस्तुतिः - ८३
यतिर्यस्य गृहे भुङ्क्ते तस्य भुङ्क्ते हरिं स्वयम्
हरिर्यस्य गृहे भुङ्क्ते तस्य भुङ्क्ते जगत्त्रयम् ८३
मूलम् - ८३

विश्वास-प्रस्तुतिः - ८४
महाभागवतो विप्रः सततं पूजयेद्धरिम्
पाञ्चकाल्प विधानेन निमित्तेषु विशेषतः ८४
मूलम् - ८४
महाभागवतो विप्रः सततं पूजयेद्धरिम्
पाञ्चकाल्प विधानेन निमित्तेषु विशेषतः ८४
विश्वास-प्रस्तुतिः - ८५
अप्स्वग्नौ हृदये सूर्य्ये स्थण्डिले प्रतिमासु च
षट्सु तेषु हरेः पूजा नित्यमेव विधीयते ८५
मूलम् - ८५
अप्स्वग्नौ हृदये सूर्य्ये स्थण्डिले प्रतिमासु च
षट्सु तेषु हरेः पूजा नित्यमेव विधीयते ८५
विश्वास-प्रस्तुतिः - ८६
स्नानकाले तु संप्राप्ते नद्यां पुण्यजले शुभे
ध्यात्वा नारायणं देवं नागपर्यङ्कशायिनम् ८६
मूलम् - ८६
स्नानकाले तु संप्राप्ते नद्यां पुण्यजले शुभे
ध्यात्वा नारायणं देवं नागपर्यङ्कशायिनम् ८६
विश्वास-प्रस्तुतिः - ८७
द्वादशार्णन मनुना सोऽर्चयित्वाऽक्षतादिभिः
अष्टोत्तरशतं जप्त्वा ततः स्नानं समाचरेत् ८७
मूलम् - ८७
द्वादशार्णन मनुना सोऽर्चयित्वाऽक्षतादिभिः
अष्टोत्तरशतं जप्त्वा ततः स्नानं समाचरेत् ८७
६०९
होमकाले तु सततं परिस्तीर्यानलं शुभम् ८८
विश्वास-प्रस्तुतिः - ८९
यज्ञरूपं महात्मानं चिन्तयेत्पुरुषोत्तमम्
साङ्गत्रयीमयं शुभ्रदिव्याङ्गोपाङ्गशोभितम् ८९
मूलम् - ८९
यज्ञरूपं महात्मानं चिन्तयेत्पुरुषोत्तमम्
साङ्गत्रयीमयं शुभ्रदिव्याङ्गोपाङ्गशोभितम् ८९
विश्वास-प्रस्तुतिः - ९०
सर्वलक्षणसम्पन्नं शुद्धजाम्बूनदप्रभम्
युवानं पुण्डरीकाक्षं शङ्खचक्रधनुर्धरम् ९०
मूलम् - ९०
सर्वलक्षणसम्पन्नं शुद्धजाम्बूनदप्रभम्
युवानं पुण्डरीकाक्षं शङ्खचक्रधनुर्धरम् ९०
विश्वास-प्रस्तुतिः - ९१
सर्वयज्ञमयं ध्यायेद्वामाङ्काश्रितपद्मया
सम्पूज्य चाक्षतैरेव पश्चाद्धोमं समाचरेत् ९१
मूलम् - ९१
सर्वयज्ञमयं ध्यायेद्वामाङ्काश्रितपद्मया
सम्पूज्य चाक्षतैरेव पश्चाद्धोमं समाचरेत् ९१
विश्वास-प्रस्तुतिः - ९२
कुशासने समासीनः प्राग्वा प्रत्यङ्मुखोऽपि वा
पतिष्यासनमात्मानं प्राणायामं समाचरेत् ९२
मूलम् - ९२
कुशासने समासीनः प्राग्वा प्रत्यङ्मुखोऽपि वा
पतिष्यासनमात्मानं प्राणायामं समाचरेत् ९२
विश्वास-प्रस्तुतिः - ९३
मन्त्रेणोद्बुध्य हृदयपङ्कजं केशरान्वितम्
तस्मिन्वह्न्यर्कशीतांशुबिम्बान्यनु विचिन्तयेत् ९३
मूलम् - ९३
मन्त्रेणोद्बुध्य हृदयपङ्कजं केशरान्वितम्
तस्मिन्वह्न्यर्कशीतांशुबिम्बान्यनु विचिन्तयेत् ९३
विश्वास-प्रस्तुतिः - ९४
सर्वाक्षरमयं दिव्यरन्तपीठं तदुत्तरे
तन्मध्येऽष्टदलं पद्मं ध्यायेत्कल्पतरोरधः ९४
मूलम् - ९४
सर्वाक्षरमयं दिव्यरन्तपीठं तदुत्तरे
तन्मध्येऽष्टदलं पद्मं ध्यायेत्कल्पतरोरधः ९४
विश्वास-प्रस्तुतिः - ९५
वीरासने समासीनं तस्मिन्नीशं विचिन्तयेत्
स्निग्धदूर्बादलश्यामं सुन्दरं भूषणैर्युतम् ९५
मूलम् - ९५
वीरासने समासीनं तस्मिन्नीशं विचिन्तयेत्
स्निग्धदूर्बादलश्यामं सुन्दरं भूषणैर्युतम् ९५
विश्वास-प्रस्तुतिः - ९६
पीताम्बरं युवानं च चन्दनस्रग्विभूषितम्
शरत्पद्मासनं रत्नपद्माभाङ्घ्रिकरद्वयम् ९६
मूलम् - ९६
पीताम्बरं युवानं च चन्दनस्रग्विभूषितम्
शरत्पद्मासनं रत्नपद्माभाङ्घ्रिकरद्वयम् ९६
विश्वास-प्रस्तुतिः - ९७
स्निग्धवर्णं महाबाहुं विशालोरस्कमव्ययम्
चक्रशङ्खगदावाणपाणिं रघुवरं हरिम् ९७
मूलम् - ९७
स्निग्धवर्णं महाबाहुं विशालोरस्कमव्ययम्
चक्रशङ्खगदावाणपाणिं रघुवरं हरिम् ९७
विश्वास-प्रस्तुतिः - ९८
जानकीलक्ष्मणोपेतं मनसैवार्च्चयेद्विभुम्
मन्त्रद्वयेनार्च्चयित्वा जप्त्वा चैव षडक्षरम् ९८
मूलम् - ९८
जानकीलक्ष्मणोपेतं मनसैवार्च्चयेद्विभुम्
मन्त्रद्वयेनार्च्चयित्वा जप्त्वा चैव षडक्षरम् ९८
विश्वास-प्रस्तुतिः - ९९
पश्चाद्वै जुहुयात् पञ्च प्राणानभ्यर्च्च्य तं पुनः
ध्यायन्वै मनसा विष्णुं सुखं भुञ्जीत वाग्यतः ९९
मूलम् - ९९
पश्चाद्वै जुहुयात् पञ्च प्राणानभ्यर्च्च्य तं पुनः
ध्यायन्वै मनसा विष्णुं सुखं भुञ्जीत वाग्यतः ९९
विश्वास-प्रस्तुतिः - १००
एवं हृद्यचनं विष्णोरुत्तमं मुनिसत्तमाः
अत्यन्ताभिमता विष्णोर्हृत्पूजा परमात्मनः १००
मूलम् - १००
एवं हृद्यचनं विष्णोरुत्तमं मुनिसत्तमाः
अत्यन्ताभिमता विष्णोर्हृत्पूजा परमात्मनः १००
६१०
विश्वास-प्रस्तुतिः - १०१
सन्ध्याकाले तु सम्प्राप्ते रविमण्डलमध्यगम्
हिरण्यगर्भं पुरुषं हिरण्यवपुषं हरिम् १०१
मूलम् - १०१
सन्ध्याकाले तु सम्प्राप्ते रविमण्डलमध्यगम्
हिरण्यगर्भं पुरुषं हिरण्यवपुषं हरिम् १०१
विश्वास-प्रस्तुतिः - १०२
श्रीवत्सकौस्तुभोरस्कं वैजयन्तीविराजितम्
शङ्खचक्रादिभिर्युक्तं भूषितैर्दोर्भिरायतैः १०२
मूलम् - १०२
श्रीवत्सकौस्तुभोरस्कं वैजयन्तीविराजितम्
शङ्खचक्रादिभिर्युक्तं भूषितैर्दोर्भिरायतैः १०२
विश्वास-प्रस्तुतिः - १०३
शुक्लाम्बरधरं विष्णुमुक्ताहारविभूषितम्
ध्यात्वा समर्चयेद्देवं कुसुमैरक्षतैरपि १०३
मूलम् - १०३
शुक्लाम्बरधरं विष्णुमुक्ताहारविभूषितम्
ध्यात्वा समर्चयेद्देवं कुसुमैरक्षतैरपि १०३
विश्वास-प्रस्तुतिः - १०४
प्रणवेण च सावित्र्या पश्चात्सूक्तं निवेदयेत्
ध्यायन्नेवं जपेद्विष्णुं गायत्रीं भक्तिसंयुतः १०४
मूलम् - १०४
प्रणवेण च सावित्र्या पश्चात्सूक्तं निवेदयेत्
ध्यायन्नेवं जपेद्विष्णुं गायत्रीं भक्तिसंयुतः १०४
विश्वास-प्रस्तुतिः - १०५
तयैवाभ्यर्च्च्यगोविन्दं नमस्कृत्वा विसर्जयेत्
एवमभ्यर्च्चयेद्देवं त्रिसन्ध्यासु तथा हरिम् १०५
मूलम् - १०५
तयैवाभ्यर्च्च्यगोविन्दं नमस्कृत्वा विसर्जयेत्
एवमभ्यर्च्चयेद्देवं त्रिसन्ध्यासु तथा हरिम् १०५
विश्वास-प्रस्तुतिः - १०६
वैश्वदेवावसाने तु पुरस्ताद्वै विभावसोः
उपलिप्य स्थण्डिले तु जुहुयाद्भक्तिकर्म तत् १०६
मूलम् - १०६
वैश्वदेवावसाने तु पुरस्ताद्वै विभावसोः
उपलिप्य स्थण्डिले तु जुहुयाद्भक्तिकर्म तत् १०६
विश्वास-प्रस्तुतिः - १०७
ध्यात्वा सर्वगतं विष्णुं घनश्यामं सुलोचनम्
कौस्तुभोद्भासितोरस्कं तुलसीवनमालिनम् १०७
मूलम् - १०७
ध्यात्वा सर्वगतं विष्णुं घनश्यामं सुलोचनम्
कौस्तुभोद्भासितोरस्कं तुलसीवनमालिनम् १०७
विश्वास-प्रस्तुतिः - १०८
पीताम्बरधरं देवं रत्नकुण्डलशोभितम्
हरिचन्दनलिप्ताङ्गं पुण्डरीकायतेक्षणम् १०८
मूलम् - १०८
पीताम्बरधरं देवं रत्नकुण्डलशोभितम्
हरिचन्दनलिप्ताङ्गं पुण्डरीकायतेक्षणम् १०८
विश्वास-प्रस्तुतिः - १०९
मौक्तिकान्वितनासाग्रं जगन्मोहनविग्रहम्
गोपीजनैः परिवृतं वेणुं गायन्तमच्युतम् १०९
मूलम् - १०९
मौक्तिकान्वितनासाग्रं जगन्मोहनविग्रहम्
गोपीजनैः परिवृतं वेणुं गायन्तमच्युतम् १०९
विश्वास-प्रस्तुतिः - ११०
ध्यात्वा कृष्णं जगन्नाथं पूजयित्वा यथाविधिः
जुहुयाद्धरिचक्रं तद्देवानुद्दिश्य सत्तमाः ११०
मूलम् - ११०
ध्यात्वा कृष्णं जगन्नाथं पूजयित्वा यथाविधिः
जुहुयाद्धरिचक्रं तद्देवानुद्दिश्य सत्तमाः ११०
विश्वास-प्रस्तुतिः - १११
जप्त्वा कृष्णमनुं पश्चादभ्यर्च्य मनसा हरिम्
आचम्य प्रयतो भूत्वा नमस्कृत्य विसर्जयेत् १११
मूलम् - १११
जप्त्वा कृष्णमनुं पश्चादभ्यर्च्य मनसा हरिम्
आचम्य प्रयतो भूत्वा नमस्कृत्य विसर्जयेत् १११
विश्वास-प्रस्तुतिः - ११२
स्थण्डिलेऽभ्यर्च्चनं विष्णोरेवं कुर्याद्विधानतः
त्रिसन्ध्यास्वर्चयेद्विष्णुं प्रतिमासु विशेषतः ११२
मूलम् - ११२
स्थण्डिलेऽभ्यर्च्चनं विष्णोरेवं कुर्याद्विधानतः
त्रिसन्ध्यास्वर्चयेद्विष्णुं प्रतिमासु विशेषतः ११२
विश्वास-प्रस्तुतिः - ११३
सुवर्णरजताद्यैर्वा शिलादार्वादिनाऽपि वा
कृत्वा बिम्बं हरेः सम्यक् सर्वावयवशोभितम् ११३
मूलम् - ११३
सुवर्णरजताद्यैर्वा शिलादार्वादिनाऽपि वा
कृत्वा बिम्बं हरेः सम्यक् सर्वावयवशोभितम् ११३
विश्वास-प्रस्तुतिः - ११४
सर्वलक्षणसम्पन्नं सर्वायुध समन्वितम्
ततोऽधिवासनं कुर्यात्त्रिरात्रं शुद्धवारिषु ११४
मूलम् - ११४
सर्वलक्षणसम्पन्नं सर्वायुध समन्वितम्
ततोऽधिवासनं कुर्यात्त्रिरात्रं शुद्धवारिषु ११४
विश्वास-प्रस्तुतिः - ११५
तत्रार्च्चयेद्विधानेन जपहोमादिकर्मभिः
स्नाप्य पञ्चामृतैर्गव्यैस्तदा मन्त्रजलैरपि ११५
मूलम् - ११५
तत्रार्च्चयेद्विधानेन जपहोमादिकर्मभिः
स्नाप्य पञ्चामृतैर्गव्यैस्तदा मन्त्रजलैरपि ११५
विश्वास-प्रस्तुतिः - ११६
यज्जपेद्यां समारोप्य पूजयेत्तत्र दीक्षितः
मङ्गलद्रव्यसंयुक्तैः पूर्णकुम्भैः समन्वितः ११६
मूलम् - ११६
यज्जपेद्यां समारोप्य पूजयेत्तत्र दीक्षितः
मङ्गलद्रव्यसंयुक्तैः पूर्णकुम्भैः समन्वितः ११६
विश्वास-प्रस्तुतिः - ११७
शरावैर्द्रव्यसम्पूर्णैः पताकैस्तोरणादिभिः
कुम्भेषु वासुदेवादीन् सुरान् संपूजयेत् क्रमात् ११७
मूलम् - ११७
शरावैर्द्रव्यसम्पूर्णैः पताकैस्तोरणादिभिः
कुम्भेषु वासुदेवादीन् सुरान् संपूजयेत् क्रमात् ११७
विश्वास-प्रस्तुतिः - ११८
वासुदेवो हयग्रीवस्तथा सङ्कर्षणो विभुः
महावराहः प्रद्युम्नो नारसिंहस्तथैव च ११८
मूलम् - ११८
वासुदेवो हयग्रीवस्तथा सङ्कर्षणो विभुः
महावराहः प्रद्युम्नो नारसिंहस्तथैव च ११८
विश्वास-प्रस्तुतिः - ११९
अनिरुद्धो वामनश्च पूजनीया यथाक्रमात्
तस्य पूर्णशरावेषु लोकेशानर्चयेत्ततः ११९
मूलम् - ११९
अनिरुद्धो वामनश्च पूजनीया यथाक्रमात्
तस्य पूर्णशरावेषु लोकेशानर्चयेत्ततः ११९
विश्वास-प्रस्तुतिः - १२०
मध्ये तु वारुणं कुम्भं पञ्चरत्नसमन्वितम्
पूजयेद्गन्धपुष्पाद्यैर्ध्यात्वाऽस्मिन् जलशायिनम् १२०
मूलम् - १२०
मध्ये तु वारुणं कुम्भं पञ्चरत्नसमन्वितम्
पूजयेद्गन्धपुष्पाद्यैर्ध्यात्वाऽस्मिन् जलशायिनम् १२०
विश्वास-प्रस्तुतिः - १२२
व्याघ्रचर्म्म समास्तीर्य तस्मिन् कौशेयवाससि
निवेद्य पूजयेद्बिम्बं मूलमन्त्रेण वैष्णवः १२२
मूलम् - १२२
व्याघ्रचर्म्म समास्तीर्य तस्मिन् कौशेयवाससि
निवेद्य पूजयेद्बिम्बं मूलमन्त्रेण वैष्णवः १२२
विश्वास-प्रस्तुतिः - १२३
तारणेषु चतुर्दिक्षु चण्डादीनर्चयेत्तदा
कुमुदादि सुरान् दिक्षु तथा धर्मादिदेवताः १२३
मूलम् - १२३
तारणेषु चतुर्दिक्षु चण्डादीनर्चयेत्तदा
कुमुदादि सुरान् दिक्षु तथा धर्मादिदेवताः १२३
विश्वास-प्रस्तुतिः - १२४
संपूज्य विधिना तस्मिन् पश्चाद्धोमं समाचरेत्
आग्नेयं कल्पयेत् कुण्डं मेखलाद्युपशोभितम् १२४
मूलम् - १२४
संपूज्य विधिना तस्मिन् पश्चाद्धोमं समाचरेत्
आग्नेयं कल्पयेत् कुण्डं मेखलाद्युपशोभितम् १२४
विश्वास-प्रस्तुतिः - १२५
अश्वत्थाद्वा शमीगर्भादाहृत्याग्नौ विनिक्षिपेत्
वैष्णवस्य गृहाद्वाऽपि समानीयानलं द्विजः १२५
मूलम् - १२५
अश्वत्थाद्वा शमीगर्भादाहृत्याग्नौ विनिक्षिपेत्
वैष्णवस्य गृहाद्वाऽपि समानीयानलं द्विजः १२५
विश्वास-प्रस्तुतिः - १२६
गृह्योक्तविधिनेवात्र प्रतिष्ठाप्य हुताशनम्
इध्माधानादि पर्यन्तं कृत्वा होमं समाचरेत् १२६
मूलम् - १२६
गृह्योक्तविधिनेवात्र प्रतिष्ठाप्य हुताशनम्
इध्माधानादि पर्यन्तं कृत्वा होमं समाचरेत् १२६
विश्वास-प्रस्तुतिः - ६१२
पायसेन गवाज्येन तिलैर्व्रीहिभिरेव च
र्
६१२
मूलम् - ६१२
पायसेन गवाज्येन तिलैर्व्रीहिभिरेव च
र्
६१२
विश्वास-प्रस्तुतिः - १२८
हिरण्यगर्भसूक्तेन श्रीसूक्तेन तथैव च
अहं रुद्रेभिरिति च गवाज्यं जुहुयात्ततः १२८
मूलम् - १२८
हिरण्यगर्भसूक्तेन श्रीसूक्तेन तथैव च
अहं रुद्रेभिरिति च गवाज्यं जुहुयात्ततः १२८
विश्वास-प्रस्तुतिः - १२९
त्वमग्ने द्युभिरिति च सूक्तेन प्रत्यृचन्त्रिभिः
अस्य वामेति सूक्तेन प्रत्यृचं व्रीहिभिस्तथा १२९
मूलम् - १२९
त्वमग्ने द्युभिरिति च सूक्तेन प्रत्यृचन्त्रिभिः
अस्य वामेति सूक्तेन प्रत्यृचं व्रीहिभिस्तथा १२९
विश्वास-प्रस्तुतिः - १३०
अग्निं नरो दीधितिभिः सूक्तेन प्रत्यृचं तथा
समिद्भिः पिप्पलीरौद्रैर्होतव्यं मुनिसत्तमाः १३०
मूलम् - १३०
अग्निं नरो दीधितिभिः सूक्तेन प्रत्यृचं तथा
समिद्भिः पिप्पलीरौद्रैर्होतव्यं मुनिसत्तमाः १३०
विश्वास-प्रस्तुतिः - १३१
अष्टोत्तरं सहस्रं वा शतमष्टोत्तरं तु वा
होतव्यमाज्यं पश्चात्तु तथा मन्त्रचतुष्टयम् १३१
मूलम् - १३१
अष्टोत्तरं सहस्रं वा शतमष्टोत्तरं तु वा
होतव्यमाज्यं पश्चात्तु तथा मन्त्रचतुष्टयम् १३१
विश्वास-प्रस्तुतिः - १३२
समाप्य होमं हविषः शेषं तस्मै निवेदयेत्
चतुर्मन्त्रांश्चतुर्वेदांश्चतुर्दिक्षु जपेत्ततः १३२
मूलम् - १३२
समाप्य होमं हविषः शेषं तस्मै निवेदयेत्
चतुर्मन्त्रांश्चतुर्वेदांश्चतुर्दिक्षु जपेत्ततः १३२
विश्वास-प्रस्तुतिः - १३३
तत्र जागरणं कुर्य्याद्गीतवादित्रनर्तकैः
रजन्यां तु व्यतीतायां स्नात्वा नद्यां विधानतः १३३
मूलम् - १३३
तत्र जागरणं कुर्य्याद्गीतवादित्रनर्तकैः
रजन्यां तु व्यतीतायां स्नात्वा नद्यां विधानतः १३३
विश्वास-प्रस्तुतिः - १३४
वैकुण्ठतर्पणं कुर्य्यादृत्विग्भिर्ब्राह्मणैः सह
तर्पयित्वा पितॄन् देवान्वाग्यतो भवनं विशेत् १३४
मूलम् - १३४
वैकुण्ठतर्पणं कुर्य्यादृत्विग्भिर्ब्राह्मणैः सह
तर्पयित्वा पितॄन् देवान्वाग्यतो भवनं विशेत् १३४
विश्वास-प्रस्तुतिः - १३५
आचम्य पूर्ववत् पूजां कृत्वा होमं समाचरेत्
जुहुयाद्ब्रह्मणः स्तुत्यैः सूक्तैश्च घृतपायसम् १३५
मूलम् - १३५
आचम्य पूर्ववत् पूजां कृत्वा होमं समाचरेत्
जुहुयाद्ब्रह्मणः स्तुत्यैः सूक्तैश्च घृतपायसम् १३५
विश्वास-प्रस्तुतिः - १३६
पौरुषेण तु सूक्तेन श्रीसूक्तेन तथैव च
वैकुण्ठपार्षदं हुत्वा कर्मशेषं समापयेत् १३६
मूलम् - १३६
पौरुषेण तु सूक्तेन श्रीसूक्तेन तथैव च
वैकुण्ठपार्षदं हुत्वा कर्मशेषं समापयेत् १३६
विश्वास-प्रस्तुतिः - १३७
नयनोन्मीलनं कुर्य्यात् सुमुहूर्तेन वैष्णवः
महाभागवतः श्रेष्ठः सूक्ष्महेमशलाकया १३७
मूलम् - १३७
नयनोन्मीलनं कुर्य्यात् सुमुहूर्तेन वैष्णवः
महाभागवतः श्रेष्ठः सूक्ष्महेमशलाकया १३७
विश्वास-प्रस्तुतिः - १३८
द्वयेनैव प्रकुर्व्वीत नयनोन्मीलनं हरेः
निवेश्य भद्रपीठे तु स्नापयेत्सुसमाहितः १३८
मूलम् - १३८
द्वयेनैव प्रकुर्व्वीत नयनोन्मीलनं हरेः
निवेश्य भद्रपीठे तु स्नापयेत्सुसमाहितः १३८
विश्वास-प्रस्तुतिः - १३९
सर्वैश्च वैष्णवैः सूक्तैर्ऋत्विजः कलशोदकैः
ततस्तन्मध्यमं कुम्भमादाय द्विजसत्तमः १३९
मूलम् - १३९
सर्वैश्च वैष्णवैः सूक्तैर्ऋत्विजः कलशोदकैः
ततस्तन्मध्यमं कुम्भमादाय द्विजसत्तमः १३९
विश्वास-प्रस्तुतिः - १४०
स्नापयेन्मन्त्ररत्नेन शतवारं समाहितः
सौवर्णन च ताम्रेण शङ्खेन रजतेन वा १४०
मूलम् - १४०
स्नापयेन्मन्त्ररत्नेन शतवारं समाहितः
सौवर्णन च ताम्रेण शङ्खेन रजतेन वा १४०
विश्वास-प्रस्तुतिः - १४१
स्नाप्य पञ्चामृतैर्गव्यैरुद्धृत्य शुभचन्दनैः
मन्त्रेण स्नापयित्वा च तुलसीमिश्रितैर्जलैः १४१
मूलम् - १४१
स्नाप्य पञ्चामृतैर्गव्यैरुद्धृत्य शुभचन्दनैः
मन्त्रेण स्नापयित्वा च तुलसीमिश्रितैर्जलैः १४१
विश्वास-प्रस्तुतिः - १४२
वासोभिर्भूषणैः सम्यगलङ्कृत्यं च वैष्णवः
उपचारैः समभ्यर्च्चैः पश्चान्नीराजयेत्तदा १४२
मूलम् - १४२
वासोभिर्भूषणैः सम्यगलङ्कृत्यं च वैष्णवः
उपचारैः समभ्यर्च्चैः पश्चान्नीराजयेत्तदा १४२
विश्वास-प्रस्तुतिः - १४३
अलङ्कृते शुभे गेहे पीठे संस्थापयेद्धरिम्
सूकेत्नोत्तानपादस्य दृढं स्थाप्य सुखासने १४३
मूलम् - १४३
अलङ्कृते शुभे गेहे पीठे संस्थापयेद्धरिम्
सूकेत्नोत्तानपादस्य दृढं स्थाप्य सुखासने १४३
विश्वास-प्रस्तुतिः - १४४
अष्टोत्तरशतं वारं शुभमन्त्रचतुष्टयात्
ध्यात्वा पुष्पाञ्जलिं दद्यान्महाभागवतोत्तमः १४४
मूलम् - १४४
अष्टोत्तरशतं वारं शुभमन्त्रचतुष्टयात्
ध्यात्वा पुष्पाञ्जलिं दद्यान्महाभागवतोत्तमः १४४
विश्वास-प्रस्तुतिः - १४५
नत्वा गुरुन् परं धाम्नि स्थितं देवं सनातनम्
ध्यात्वैव मन्त्ररत्नेन तस्मिन् बिम्बे निवेशयेत् १४५
मूलम् - १४५
नत्वा गुरुन् परं धाम्नि स्थितं देवं सनातनम्
ध्यात्वैव मन्त्ररत्नेन तस्मिन् बिम्बे निवेशयेत् १४५
विश्वास-प्रस्तुतिः - १४६
अर्चयित्वोपचारैस्तु मङ्गलानि निवेदयेत्
दर्पणं कपिलां कन्यां शङ्खं दूर्व्वाक्षतान् पयः १४६
मूलम् - १४६
अर्चयित्वोपचारैस्तु मङ्गलानि निवेदयेत्
दर्पणं कपिलां कन्यां शङ्खं दूर्व्वाक्षतान् पयः १४६
विश्वास-प्रस्तुतिः - १४७
सौवर्णमाज्यं लाजांश्च मधुसर्षपमञ्जनम्
एवं त्रयोदशे मासि मङ्गलानि निवेदयेत् १४७
मूलम् - १४७
सौवर्णमाज्यं लाजांश्च मधुसर्षपमञ्जनम्
एवं त्रयोदशे मासि मङ्गलानि निवेदयेत् १४७
विश्वास-प्रस्तुतिः - १४८
तथैव दशमुद्राश्च मन्त्रेणैव समीक्षयेत्
तद्बिम्बमूर्त्ति मन्त्रेण पश्चाद्दशशतानि तु १४८
मूलम् - १४८
तथैव दशमुद्राश्च मन्त्रेणैव समीक्षयेत्
तद्बिम्बमूर्त्ति मन्त्रेण पश्चाद्दशशतानि तु १४८
विश्वास-प्रस्तुतिः - १४९
पुष्पाणि दद्याद्भक्त्या च जपेच्च सुसमाहितः
सतिलैस्तण्डुलैः शुभ्रैर्जुहुयाच्च द्विजोत्तमः १४९
मूलम् - १४९
पुष्पाणि दद्याद्भक्त्या च जपेच्च सुसमाहितः
सतिलैस्तण्डुलैः शुभ्रैर्जुहुयाच्च द्विजोत्तमः १४९
विश्वास-प्रस्तुतिः - १५०
आशिषो वाचनं कृत्वा दीपैर्नीराजयेत्तदा
भोजयित्वा ततो विप्रान् दक्षिणाभिश्च तोषयेत् १५०
मूलम् - १५०
आशिषो वाचनं कृत्वा दीपैर्नीराजयेत्तदा
भोजयित्वा ततो विप्रान् दक्षिणाभिश्च तोषयेत् १५०
विश्वास-प्रस्तुतिः - १५१
आचार्य मृत्विजश्चापि विशेषेण समर्चयेत्
तदग्रिं संग्रहेन्नित्यं होमार्थं परमात्मनः १५१
मूलम् - १५१
आचार्य मृत्विजश्चापि विशेषेण समर्चयेत्
तदग्रिं संग्रहेन्नित्यं होमार्थं परमात्मनः १५१
विश्वास-प्रस्तुतिः - १५२
त्रिरात्रमुत्सवं तत्र कुर्य्याच्छक्त्या यतात्मवान्
वैष्णवैः पापमाप्तुश्च तत्र पुष्पाञ्जलिं चरेत् १५२
मूलम् - १५२
त्रिरात्रमुत्सवं तत्र कुर्य्याच्छक्त्या यतात्मवान्
वैष्णवैः पापमाप्तुश्च तत्र पुष्पाञ्जलिं चरेत् १५२
६१४
विश्वास-प्रस्तुतिः - १५३
आज्येन चरुणा वाऽपि होमं कुर्व्वीत वैष्णवः
प्रत्यहं भोजयेद्विप्रान् वैष्णवान् धृतपायसम् १५३
मूलम् - १५३
आज्येन चरुणा वाऽपि होमं कुर्व्वीत वैष्णवः
प्रत्यहं भोजयेद्विप्रान् वैष्णवान् धृतपायसम् १५३
विश्वास-प्रस्तुतिः - १५४
तन्मूर्तिप्रीतये शक्त्या दद्याद्वासांसि दक्षिणाः
कुर्यादवभृथेष्टिञ्च महाभागवतैः सह १५४
मूलम् - १५४
तन्मूर्तिप्रीतये शक्त्या दद्याद्वासांसि दक्षिणाः
कुर्यादवभृथेष्टिञ्च महाभागवतैः सह १५४
विश्वास-प्रस्तुतिः - १५५
सहस्रनामभिर्विष्णोः सूक्तैर्विष्णुप्रकाशकैः
नद्यामवभृथं कृत्वा तर्पयेत्पितृदेवताः १५५
मूलम् - १५५
सहस्रनामभिर्विष्णोः सूक्तैर्विष्णुप्रकाशकैः
नद्यामवभृथं कृत्वा तर्पयेत्पितृदेवताः १५५
विश्वास-प्रस्तुतिः - १५६
अस्य वामेति सूक्तेन पायसं मधुसंयुतम्
आज्येन मूलमन्त्रेण सहस्रं जुहुयात्तदा १५६
मूलम् - १५६
अस्य वामेति सूक्तेन पायसं मधुसंयुतम्
आज्येन मूलमन्त्रेण सहस्रं जुहुयात्तदा १५६
विश्वास-प्रस्तुतिः - १५७
आशिषो वाचनं कृत्वा भोजयेद्द्विजसत्तमान्
एवं संस्थापयेद्देवमर्च्चयेद्विधिना तदा १५७
मूलम् - १५७
आशिषो वाचनं कृत्वा भोजयेद्द्विजसत्तमान्
एवं संस्थापयेद्देवमर्च्चयेद्विधिना तदा १५७
विश्वास-प्रस्तुतिः - १५८
गृहार्चायां स्थापने तु लघुतन्त्रं समाचरेत्
आधिवासनवेद्यादि मन्त्रमत्र विवर्जयेत् १५८
मूलम् - १५८
गृहार्चायां स्थापने तु लघुतन्त्रं समाचरेत्
आधिवासनवेद्यादि मन्त्रमत्र विवर्जयेत् १५८
विश्वास-प्रस्तुतिः - १५९
एकत्र पञ्चगव्येषु विनिक्षिप्य परेऽहनि
पञ्चामृतैः स्नापयित्वा पश्चादुद्वर्तनादिकम् १५९
मूलम् - १५९
एकत्र पञ्चगव्येषु विनिक्षिप्य परेऽहनि
पञ्चामृतैः स्नापयित्वा पश्चादुद्वर्तनादिकम् १५९
विश्वास-प्रस्तुतिः - १६०
आदाय कलशं शुद्धं पवित्रोदकपूरितम्
निक्षिप्य पञ्चरत्नानि सुवर्णतुलसीदलम् १६०
मूलम् - १६०
आदाय कलशं शुद्धं पवित्रोदकपूरितम्
निक्षिप्य पञ्चरत्नानि सुवर्णतुलसीदलम् १६०
विश्वास-प्रस्तुतिः - १६१
चन्दनाक्षतदूर्व्वाश्च तिलान् धात्रीञ्च सर्षपम्
अभिमन्त्र्य कुशैः पश्चान्मन्त्ररत्नेन वैष्णवः १६१
मूलम् - १६१
चन्दनाक्षतदूर्व्वाश्च तिलान् धात्रीञ्च सर्षपम्
अभिमन्त्र्य कुशैः पश्चान्मन्त्ररत्नेन वैष्णवः १६१
विश्वास-प्रस्तुतिः - १६२
शतवारं सहस्रं वा मन्त्रेणैवाभिषेचयेत्
सर्वैश्च वैष्णवैः सूक्तैर्गायत्र्या वैष्णवेन च १६२
मूलम् - १६२
शतवारं सहस्रं वा मन्त्रेणैवाभिषेचयेत्
सर्वैश्च वैष्णवैः सूक्तैर्गायत्र्या वैष्णवेन च १६२
विश्वास-प्रस्तुतिः - १६३
नामभिः केशवाद्यैश्च सर्वैर्मन्त्रैश्च वैष्णवैः
स्नाप्य वस्त्रैर्भूषणैश्च शुभे धान्ये निवेशयेत् १६३
मूलम् - १६३
नामभिः केशवाद्यैश्च सर्वैर्मन्त्रैश्च वैष्णवैः
स्नाप्य वस्त्रैर्भूषणैश्च शुभे धान्ये निवेशयेत् १६३
विश्वास-प्रस्तुतिः - १६४
स्थण्डिलेऽग्निं प्रतिष्ठाप्य इध्माधानादि पूर्ववत्
होमं कुर्य्याद् गवाज्येन पायसान्नेन वैष्णवः १६४
मूलम् - १६४
स्थण्डिलेऽग्निं प्रतिष्ठाप्य इध्माधानादि पूर्ववत्
होमं कुर्य्याद् गवाज्येन पायसान्नेन वैष्णवः १६४
विश्वास-प्रस्तुतिः - १६५
कर्तुरौपासनाग्नौ तु होममत्र विशिष्यते
प्रत्यृचं वैष्णवैः सूक्तैर्जुहुयाद् घृतपायसम् १६५
मूलम् - १६५
कर्तुरौपासनाग्नौ तु होममत्र विशिष्यते
प्रत्यृचं वैष्णवैः सूक्तैर्जुहुयाद् घृतपायसम् १६५
विश्वास-प्रस्तुतिः - १६६
अस्य वामेति सूक्तेन गवाज्यं जुहुयात्ततः
मन्त्ररत्नेन जुहुयादष्टोत्तरसहस्रकम् १६६
मूलम् - १६६
अस्य वामेति सूक्तेन गवाज्यं जुहुयात्ततः
मन्त्ररत्नेन जुहुयादष्टोत्तरसहस्रकम् १६६
विश्वास-प्रस्तुतिः - १६७
तद्बिम्बमूर्तिमन्त्रेण तिलहोमं तथैव च
अविज्ञातस्तु तन्मत्रं मूलमन्त्रेण वा यजेत् १६७
मूलम् - १६७
तद्बिम्बमूर्तिमन्त्रेण तिलहोमं तथैव च
अविज्ञातस्तु तन्मत्रं मूलमन्त्रेण वा यजेत् १६७
विश्वास-प्रस्तुतिः - १६८
यजेच्छ्री भ्रूप्रकाशैश्च गायत्र्या विष्णुसंज्ञया
वैकुण्ठपार्षदं होमं कृत्वा होमं समापयेत् १६८
मूलम् - १६८
यजेच्छ्री भ्रूप्रकाशैश्च गायत्र्या विष्णुसंज्ञया
वैकुण्ठपार्षदं होमं कृत्वा होमं समापयेत् १६८
विश्वास-प्रस्तुतिः - १६९
नयनोन्मीलनं कृत्वा सौवर्णन कुशेन वा
निवेश्याऽऽवाहयेत्पीठे मन्त्ररत्नेन वैष्णवः १६९
मूलम् - १६९
नयनोन्मीलनं कृत्वा सौवर्णन कुशेन वा
निवेश्याऽऽवाहयेत्पीठे मन्त्ररत्नेन वैष्णवः १६९
विश्वास-प्रस्तुतिः - १७०
मन्त्रेणैवार्चनं कृत्वा पश्चात्पुष्पाञ्जलिं यजेत्
तस्मिन्बिम्बे तु तन्मूर्तिं ध्यात्वा नियतमानसः १७०
मूलम् - १७०
मन्त्रेणैवार्चनं कृत्वा पश्चात्पुष्पाञ्जलिं यजेत्
तस्मिन्बिम्बे तु तन्मूर्तिं ध्यात्वा नियतमानसः १७०
विश्वास-प्रस्तुतिः - १७१
अष्टोत्तरसहस्रन्तु दद्यात्पुष्पाञ्जलिं ततः
सर्वैश्च वैष्णवैः सूक्तैर्दद्यात्पुष्पाणि वैष्णवः १७१
मूलम् - १७१
अष्टोत्तरसहस्रन्तु दद्यात्पुष्पाञ्जलिं ततः
सर्वैश्च वैष्णवैः सूक्तैर्दद्यात्पुष्पाणि वैष्णवः १७१
विश्वास-प्रस्तुतिः - १७२
ब्राह्मणान्भोजयेत्पश्चात्पायसान्नं घृतान्वितम्
शक्त्या च दक्षिणां दत्त्वा विशेषेणार्च्चयेद्गुरुम् १७२
मूलम् - १७२
ब्राह्मणान्भोजयेत्पश्चात्पायसान्नं घृतान्वितम्
शक्त्या च दक्षिणां दत्त्वा विशेषेणार्च्चयेद्गुरुम् १७२
विश्वास-प्रस्तुतिः - १७३
सहस्रनामभिः स्तुत्वा आशीर्भिरभिवादयेत्
प्रदक्षिणानमस्कारान्कुर्व्वीतात्र पुनः पुनः १७३
मूलम् - १७३
सहस्रनामभिः स्तुत्वा आशीर्भिरभिवादयेत्
प्रदक्षिणानमस्कारान्कुर्व्वीतात्र पुनः पुनः १७३
विश्वास-प्रस्तुतिः - १७४
प्रसीद मम नाथेति भक्त्या सम्प्रार्थयेद्विभुम्
दीप्तैर्नीराजयेत्पश्चाच्छक्त्या तेन समाहितः १७४
मूलम् - १७४
प्रसीद मम नाथेति भक्त्या सम्प्रार्थयेद्विभुम्
दीप्तैर्नीराजयेत्पश्चाच्छक्त्या तेन समाहितः १७४
विश्वास-प्रस्तुतिः - १७५
हुतशेषं हविः प्राश्य जप्त्वा मन्त्रमनुत्तमम्
ध्यायन् कमलपत्राक्षं भूमौ स्वप्यात्कुशोत्तरम् १७५
मूलम् - १७५
हुतशेषं हविः प्राश्य जप्त्वा मन्त्रमनुत्तमम्
ध्यायन् कमलपत्राक्षं भूमौ स्वप्यात्कुशोत्तरम् १७५
विश्वास-प्रस्तुतिः - १७६
एवं गृहार्चा बिम्बस्य विष्णुं संस्थाप्य वैष्णवः
अर्चयेद्विधिना नित्यं यावद्देहनिपातनम् १७६
मूलम् - १७६
एवं गृहार्चा बिम्बस्य विष्णुं संस्थाप्य वैष्णवः
अर्चयेद्विधिना नित्यं यावद्देहनिपातनम् १७६
विश्वास-प्रस्तुतिः - १७७
शालग्रामशिलायान्तु पूजनं परमात्मनः
कोटिकोटिगुणाधिक्यं भवेदत्र न संशयः १७७
मूलम् - १७७
शालग्रामशिलायान्तु पूजनं परमात्मनः
कोटिकोटिगुणाधिक्यं भवेदत्र न संशयः १७७
विश्वास-प्रस्तुतिः - १७८
न जपो नाधिवासश्च न च संस्थापनक्रिया
शालग्रामार्चने विष्णुस्तस्मिन् सन्निहितस्तथा १७८
मूलम् - १७८
न जपो नाधिवासश्च न च संस्थापनक्रिया
शालग्रामार्चने विष्णुस्तस्मिन् सन्निहितस्तथा १७८
६१६
विश्वास-प्रस्तुतिः - १७९
मूर्तीनान्तु हरेस्तस्य यस्यां प्रीतिरनुत्तमा
तस्यामेव तु तां ध्यात्वा पूजयेत्तद्विधानतः १७९
मूलम् - १७९
मूर्तीनान्तु हरेस्तस्य यस्यां प्रीतिरनुत्तमा
तस्यामेव तु तां ध्यात्वा पूजयेत्तद्विधानतः १७९
विश्वास-प्रस्तुतिः - १८०
मूर्त्यन्तरमबिम्बे तु न यष्टव्यं तदेव तत्
शालग्रामशिलायान्तु यष्टव्या इष्टमूर्तयः १८०
मूलम् - १८०
मूर्त्यन्तरमबिम्बे तु न यष्टव्यं तदेव तत्
शालग्रामशिलायान्तु यष्टव्या इष्टमूर्तयः १८०
विश्वास-प्रस्तुतिः - १८१
अर्चनं वन्दनं दानं प्रणामं दर्शनं नृणाम्
शालग्रामशिलायान्तु सर्वं कोटिगुणं भवेत् १८१
मूलम् - १८१
अर्चनं वन्दनं दानं प्रणामं दर्शनं नृणाम्
शालग्रामशिलायान्तु सर्वं कोटिगुणं भवेत् १८१
विश्वास-प्रस्तुतिः - १८२
न स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः
यो वहेच्छिरसा नित्यं सालग्रामशिलाजलम् १८२
मूलम् - १८२
न स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः
यो वहेच्छिरसा नित्यं सालग्रामशिलाजलम् १८२
विश्वास-प्रस्तुतिः - १८३
असत्यकथनं हिंसामभक्ष्याणाञ्च भक्षणम्
शालग्रामजलं पीत्वा सर्वं दहति तत्क्षणात् १८३
मूलम् - १८३
असत्यकथनं हिंसामभक्ष्याणाञ्च भक्षणम्
शालग्रामजलं पीत्वा सर्वं दहति तत्क्षणात् १८३
विश्वास-प्रस्तुतिः - १८४
द्विजानामेव नान्येषां शालग्रामशिलार्चनम्
बालकृष्णवपुर्देवं पूजयेत्तद्द्विजः सदा १८४
मूलम् - १८४
द्विजानामेव नान्येषां शालग्रामशिलार्चनम्
बालकृष्णवपुर्देवं पूजयेत्तद्द्विजः सदा १८४
विश्वास-प्रस्तुतिः - १८५
पठेद्वाऽप्यर्चयेद्विष्णुं विशिष्टः शूद्रयोनिजः
स्थण्डिले हृदये वाऽपि पूजयेत्तद्द्विजः सदा १८५
मूलम् - १८५
पठेद्वाऽप्यर्चयेद्विष्णुं विशिष्टः शूद्रयोनिजः
स्थण्डिले हृदये वाऽपि पूजयेत्तद्द्विजः सदा १८५
विश्वास-प्रस्तुतिः - १८६
वाराहं नारसिंहञ्च हयग्रीवञ्च वामनम्
ब्राह्मणः पूजयेद्विष्णुं यज्ञमूर्तिञ्च केवलम् १८६
मूलम् - १८६
वाराहं नारसिंहञ्च हयग्रीवञ्च वामनम्
ब्राह्मणः पूजयेद्विष्णुं यज्ञमूर्तिञ्च केवलम् १८६
विश्वास-प्रस्तुतिः - १८७
क्षत्रियः पूजयेद्रामं केशवं मधुसूदनम्
नारायणं वासुदेवमनन्तञ्च जनार्दनम् १८७
मूलम् - १८७
क्षत्रियः पूजयेद्रामं केशवं मधुसूदनम्
नारायणं वासुदेवमनन्तञ्च जनार्दनम् १८७
विश्वास-प्रस्तुतिः - १८८
प्रद्युम्नमनिरुद्धञ्च गोविन्दञ्चाच्युतं हरिम्
सङ्कर्षणं तथा कृष्णं वैश्यः संपूजयेत्तदा १८८
मूलम् - १८८
प्रद्युम्नमनिरुद्धञ्च गोविन्दञ्चाच्युतं हरिम्
सङ्कर्षणं तथा कृष्णं वैश्यः संपूजयेत्तदा १८८
विश्वास-प्रस्तुतिः - १८९
बालं गोपालवेषं वा पूजयेच्छूद्रयोनिजः
सर्व एव हि संपूज्या विप्रेण मुनिसत्तमाः १८९
मूलम् - १८९
बालं गोपालवेषं वा पूजयेच्छूद्रयोनिजः
सर्व एव हि संपूज्या विप्रेण मुनिसत्तमाः १८९
विश्वास-प्रस्तुतिः - १९०
सर्वेऽपि भगवन्मन्त्रा जप्तव्याः सर्वसिद्धिदाः
तस्माद्द्विजोत्तमः पूज्यः सर्वेषां भूतिमिच्छताम् १९०
मूलम् - १९०
सर्वेऽपि भगवन्मन्त्रा जप्तव्याः सर्वसिद्धिदाः
तस्माद्द्विजोत्तमः पूज्यः सर्वेषां भूतिमिच्छताम् १९०
विश्वास-प्रस्तुतिः - ६१७
पञ्चसंस्कारसम्पन्नो मन्त्ररत्नार्थकोविदः
शालग्रामशिलायां तु पूजयेत्पुरुषोत्तमम्
६१७
मूलम् - ६१७
पञ्चसंस्कारसम्पन्नो मन्त्ररत्नार्थकोविदः
शालग्रामशिलायां तु पूजयेत्पुरुषोत्तमम्
६१७
विश्वास-प्रस्तुतिः - १९२
यः श्राद्धं कुरुते विप्रः शालग्रामशिलाग्रतः
पितॄणां तत्र तृप्तिः स्याद् गयाश्राद्धादनन्तरम् १९२
मूलम् - १९२
यः श्राद्धं कुरुते विप्रः शालग्रामशिलाग्रतः
पितॄणां तत्र तृप्तिः स्याद् गयाश्राद्धादनन्तरम् १९२
विश्वास-प्रस्तुतिः - १९३
जप्तं हुतं तथा दानं बन्दनं च ततः क्रिया
शालग्रामसमीपे तु सर्वं कोटिगुणं भवेत् १९३
मूलम् - १९३
जप्तं हुतं तथा दानं बन्दनं च ततः क्रिया
शालग्रामसमीपे तु सर्वं कोटिगुणं भवेत् १९३
विश्वास-प्रस्तुतिः - १९४
ध्यात्वा कमलपत्राक्षं शालग्रामशिलोपरि
पौरुषेण तु सूक्तेन पूजयेत् पुरुषोत्तमम् १९४
मूलम् - १९४
ध्यात्वा कमलपत्राक्षं शालग्रामशिलोपरि
पौरुषेण तु सूक्तेन पूजयेत् पुरुषोत्तमम् १९४
विश्वास-प्रस्तुतिः - १९५
अनुष्टुभस्य सूक्तस्य त्रिष्टुबन्त्वाऽस्य देवता
पुरुषो यो जगद्बीजमृषिर्नारायणः स्मृतः १९५
मूलम् - १९५
अनुष्टुभस्य सूक्तस्य त्रिष्टुबन्त्वाऽस्य देवता
पुरुषो यो जगद्बीजमृषिर्नारायणः स्मृतः १९५
विश्वास-प्रस्तुतिः - १९६
प्रथमां विन्यसेद्वामे द्वितीयां दक्षिणे करे
तृतीयां वामपादे तु चतुर्थीं दक्षिणे तथा १९६
मूलम् - १९६
प्रथमां विन्यसेद्वामे द्वितीयां दक्षिणे करे
तृतीयां वामपादे तु चतुर्थीं दक्षिणे तथा १९६
विश्वास-प्रस्तुतिः - १९७
पञ्चमीं वामजानौ तु षष्ठीं वै दक्षिणे तथा
सप्तमीं वामकट्यां तु ह्यष्टमीं दक्षिणेऽपि च १९७
मूलम् - १९७
पञ्चमीं वामजानौ तु षष्ठीं वै दक्षिणे तथा
सप्तमीं वामकट्यां तु ह्यष्टमीं दक्षिणेऽपि च १९७
विश्वास-प्रस्तुतिः - १९८
नवमीं नाभिदेशे तु दशमीं हृदि विन्यसेत्
एकादशीं कण्ठदेशे द्वादशीं वामवाहुके १९८
मूलम् - १९८
नवमीं नाभिदेशे तु दशमीं हृदि विन्यसेत्
एकादशीं कण्ठदेशे द्वादशीं वामवाहुके १९८
विश्वास-प्रस्तुतिः - १९९
त्रयोदशीं दक्षिणे तु स्वास्यदेशे चतुर्दशीम्
अक्ष्णोः पञ्चदशीं मूर्ध्नि षोडशीञ्चैव विन्यसेत् १९९
मूलम् - १९९
त्रयोदशीं दक्षिणे तु स्वास्यदेशे चतुर्दशीम्
अक्ष्णोः पञ्चदशीं मूर्ध्नि षोडशीञ्चैव विन्यसेत् १९९
विश्वास-प्रस्तुतिः - २००
एवं न्यासविधिं कृत्या पश्चाद्ध्यानं समाचरेत्
सहस्रार्कप्रतीकाशङ्कन्दर्पायुतसन्निभम् २००
मूलम् - २००
एवं न्यासविधिं कृत्या पश्चाद्ध्यानं समाचरेत्
सहस्रार्कप्रतीकाशङ्कन्दर्पायुतसन्निभम् २००
विश्वास-प्रस्तुतिः - २०१
युवानं पुण्डरीकाक्षं सर्वाभरणभूषितम्
पीनवृत्तायतैर्दोर्भिश्चतुर्भिर्भूषणान्वितैः २०१
मूलम् - २०१
युवानं पुण्डरीकाक्षं सर्वाभरणभूषितम्
पीनवृत्तायतैर्दोर्भिश्चतुर्भिर्भूषणान्वितैः २०१
विश्वास-प्रस्तुतिः - २०२
चक्रं पद्मं गदां शङ्खं विभ्राणं पीतवाससम्
शुक्लपुष्पानुलेपञ्च रक्तहस्तपदाम्बुजम् २०२
मूलम् - २०२
चक्रं पद्मं गदां शङ्खं विभ्राणं पीतवाससम्
शुक्लपुष्पानुलेपञ्च रक्तहस्तपदाम्बुजम् २०२
विश्वास-प्रस्तुतिः - २०३
सुस्निग्धनीलकुटिलकुन्तलैरुपशोभितम्
श्रिया भूम्या समाश्लिष्टपार्श्वं ध्यात्वा समर्चयेत् २०३
मूलम् - २०३
सुस्निग्धनीलकुटिलकुन्तलैरुपशोभितम्
श्रिया भूम्या समाश्लिष्टपार्श्वं ध्यात्वा समर्चयेत् २०३
विश्वास-प्रस्तुतिः - ६१८
यथाऽऽत्मनि तथा देवे न्यासकर्म्म समाचरेत्
र्
६१८
मूलम् - ६१८
यथाऽऽत्मनि तथा देवे न्यासकर्म्म समाचरेत्
र्
६१८
विश्वास-प्रस्तुतिः - २०५
तृतीयया च तत्पाद्यं चतुर्थ्याऽर्घ्यं निवेदयेत्
पञ्चम्याऽऽचमनीयं तु दातव्यं च ततः क्रमात् २०५
मूलम् - २०५
तृतीयया च तत्पाद्यं चतुर्थ्याऽर्घ्यं निवेदयेत्
पञ्चम्याऽऽचमनीयं तु दातव्यं च ततः क्रमात् २०५
विश्वास-प्रस्तुतिः - २०६
षष्ठ्या स्नानन्तु सप्तम्या वस्त्रमप्युपवीतकम्
अष्टम्या चैव गन्धन्तु नवम्याथ सुपुष्पकम् २०६
मूलम् - २०६
षष्ठ्या स्नानन्तु सप्तम्या वस्त्रमप्युपवीतकम्
अष्टम्या चैव गन्धन्तु नवम्याथ सुपुष्पकम् २०६
विश्वास-प्रस्तुतिः - २०७
दशम्या धूपकञ्चैवमेकादश्या च दीपकम्
द्वादश्या च त्रयोदश्या चरुं दिव्यं निवेदयेत् २०७
मूलम् - २०७
दशम्या धूपकञ्चैवमेकादश्या च दीपकम्
द्वादश्या च त्रयोदश्या चरुं दिव्यं निवेदयेत् २०७
विश्वास-प्रस्तुतिः - २०८
चतुर्दश्या नमस्कारं पञ्चदश्या प्रदक्षिणम्
षोडश्या शयनं दत्त्वा शेषकर्म्म समाचरेत् २०८
मूलम् - २०८
चतुर्दश्या नमस्कारं पञ्चदश्या प्रदक्षिणम्
षोडश्या शयनं दत्त्वा शेषकर्म्म समाचरेत् २०८
विश्वास-प्रस्तुतिः - २०९
स्नानवस्त्रोपवीतेषु चरौ चाऽचमनं चरेत्
हुत्वा षोडशभिर्मन्त्रैः षोडशाऽऽज्याहुतीः क्रमात् २०९
मूलम् - २०९
स्नानवस्त्रोपवीतेषु चरौ चाऽचमनं चरेत्
हुत्वा षोडशभिर्मन्त्रैः षोडशाऽऽज्याहुतीः क्रमात् २०९
विश्वास-प्रस्तुतिः - २१०
तथावाऽऽज्येन होतव्यं मृद्भिः पुष्पाञ्जलिं चरेत्
तच्च सर्वं जपेत्सद्यः पौरुषं सूक्तमुत्तमम् २१०
मूलम् - २१०
तथावाऽऽज्येन होतव्यं मृद्भिः पुष्पाञ्जलिं चरेत्
तच्च सर्वं जपेत्सद्यः पौरुषं सूक्तमुत्तमम् २१०
विश्वास-प्रस्तुतिः - २११
कृत्वा माध्याह्निकस्नानमूर्द्ध्वपुण्ड्रधरस्ततः
नित्यां सन्ध्यामुपास्याथ रविमण्डलमध्यगम् २११
मूलम् - २११
कृत्वा माध्याह्निकस्नानमूर्द्ध्वपुण्ड्रधरस्ततः
नित्यां सन्ध्यामुपास्याथ रविमण्डलमध्यगम् २११
विश्वास-प्रस्तुतिः - २१२
हरिं ध्यायन्नगदः स्यादेनसः शुचिरित्यृचा
सावित्रीं च जपेत्तिष्ठन् प्राणानायम्य पूर्वतः २१२
मूलम् - २१२
हरिं ध्यायन्नगदः स्यादेनसः शुचिरित्यृचा
सावित्रीं च जपेत्तिष्ठन् प्राणानायम्य पूर्वतः २१२
विश्वास-प्रस्तुतिः - २१३
सौरेण चानुवाकेन उपस्थानजपं तथा
आत्मानं च परीक्ष्याथ दर्भान्तरपुटाञ्जलिम् २१३
मूलम् - २१३
सौरेण चानुवाकेन उपस्थानजपं तथा
आत्मानं च परीक्ष्याथ दर्भान्तरपुटाञ्जलिम् २१३
विश्वास-प्रस्तुतिः - २१४
दक्षिणाङ्के तु विन्यस्य जपयज्ञाप्तये बुधः
सव्याहृतिं सप्रणवां गायत्रीं तु जपेत्तदा २१४
मूलम् - २१४
दक्षिणाङ्के तु विन्यस्य जपयज्ञाप्तये बुधः
सव्याहृतिं सप्रणवां गायत्रीं तु जपेत्तदा २१४
विश्वास-प्रस्तुतिः - २१५
शक्त्या च चतुरो वेदान् पुराणं वैष्णवं जपेत्
चरितं रघुनाथस्य गीतां भगवतो हरेः २१५
मूलम् - २१५
शक्त्या च चतुरो वेदान् पुराणं वैष्णवं जपेत्
चरितं रघुनाथस्य गीतां भगवतो हरेः २१५
विश्वास-प्रस्तुतिः - २१६
ध्यायन्वै पुण्डरीकाक्षं जप्त्वा वाऽप उपस्पृशेत्
पूर्ववत्तर्पयेद्देवं वैकुण्ठपार्षदं तथा २१६
मूलम् - २१६
ध्यायन्वै पुण्डरीकाक्षं जप्त्वा वाऽप उपस्पृशेत्
पूर्ववत्तर्पयेद्देवं वैकुण्ठपार्षदं तथा २१६
६१९
निष्पीड्य वस्त्रमाचम्य गृहमाविश्य पूर्ववत् २१७
विश्वास-प्रस्तुतिः - २१८
पूजयित्वाऽच्युतं भक्त्या पौरुषेण विधानतः
दैवं भूतं पैतृकं च मानुषञ्च विधानतः २१८
मूलम् - २१८
पूजयित्वाऽच्युतं भक्त्या पौरुषेण विधानतः
दैवं भूतं पैतृकं च मानुषञ्च विधानतः २१८
विश्वास-प्रस्तुतिः - २१९
प्रीतये सर्वयज्ञस्य भोक्तुर्विष्णोर्यतेत्ततः
वैकुण्ठं वैष्णवं होमं पूर्ववज्जुहुयात्तदा २१९
मूलम् - २१९
प्रीतये सर्वयज्ञस्य भोक्तुर्विष्णोर्यतेत्ततः
वैकुण्ठं वैष्णवं होमं पूर्ववज्जुहुयात्तदा २१९
विश्वास-प्रस्तुतिः - २२०
चतुर्विधेभ्यो भूतेभ्यो बलिं पश्चाद्विनिक्षिपेत्
द्वारि गोदोहमात्रन्तु तिष्ठेदतिथिवाञ्छया २२०
मूलम् - २२०
चतुर्विधेभ्यो भूतेभ्यो बलिं पश्चाद्विनिक्षिपेत्
द्वारि गोदोहमात्रन्तु तिष्ठेदतिथिवाञ्छया २२०
विश्वास-प्रस्तुतिः - २२१
भोजयेच्चाऽऽगतान् काले फलमूलौदनादिभिः
महाभागवतान् विप्रान् विशेषेणैव पूजयेत् २२१
मूलम् - २२१
भोजयेच्चाऽऽगतान् काले फलमूलौदनादिभिः
महाभागवतान् विप्रान् विशेषेणैव पूजयेत् २२१
विश्वास-प्रस्तुतिः - २२२
मधुपर्कप्रदानेन पाद्यार्घ्याचमनादिभिः
गन्धैः पुष्पैश्च ताम्बूलैर्धूपैर्दीपैर्निवेदनैः २२२
मूलम् - २२२
मधुपर्कप्रदानेन पाद्यार्घ्याचमनादिभिः
गन्धैः पुष्पैश्च ताम्बूलैर्धूपैर्दीपैर्निवेदनैः २२२
विश्वास-प्रस्तुतिः - २२३
ब्रह्मासने निवेश्यैव पूजयेच्छ्रद्धयाऽन्वितः
सकृत्संपूजिते विप्रे महाभागवतोत्तमे २२३
मूलम् - २२३
ब्रह्मासने निवेश्यैव पूजयेच्छ्रद्धयाऽन्वितः
सकृत्संपूजिते विप्रे महाभागवतोत्तमे २२३
विश्वास-प्रस्तुतिः - २२४
षष्टिं वर्षसहस्राणि हरिः संपूजितो भवेत्
मोहादनर्चयेद्यस्तु महाभागवतोत्तमम् २२४
मूलम् - २२४
षष्टिं वर्षसहस्राणि हरिः संपूजितो भवेत्
मोहादनर्चयेद्यस्तु महाभागवतोत्तमम् २२४
विश्वास-प्रस्तुतिः - २२५
कोटिजन्मार्जितात्पुण्याद् भ्रश्यते नात्र संशयः
गृहे तस्य न चाश्नाति शतवर्षाणि केशवः २२५
मूलम् - २२५
कोटिजन्मार्जितात्पुण्याद् भ्रश्यते नात्र संशयः
गृहे तस्य न चाश्नाति शतवर्षाणि केशवः २२५
विश्वास-प्रस्तुतिः - २२६
मुखं हि सर्वदेवानां महाभागवतोत्तमः
तस्मिन् सम्पूजिते विप्रे पूजितं स्याज्जगत्त्रयम् २२६
मूलम् - २२६
मुखं हि सर्वदेवानां महाभागवतोत्तमः
तस्मिन् सम्पूजिते विप्रे पूजितं स्याज्जगत्त्रयम् २२६
विश्वास-प्रस्तुतिः - २२७
अर्थपञ्चकतत्वज्ञः पञ्चसंस्कारसंस्कृतः
नवभक्तिसमायुक्तो महाभागवतः स्मृतः २२७
मूलम् - २२७
अर्थपञ्चकतत्वज्ञः पञ्चसंस्कारसंस्कृतः
नवभक्तिसमायुक्तो महाभागवतः स्मृतः २२७
विश्वास-प्रस्तुतिः - २२८
काले समागते तस्मिन् पूजिते मधुसूदनः
क्षणादेव प्रसन्नः स्यादीप्सितानि प्रयच्छति २२८
मूलम् - २२८
काले समागते तस्मिन् पूजिते मधुसूदनः
क्षणादेव प्रसन्नः स्यादीप्सितानि प्रयच्छति २२८
विश्वास-प्रस्तुतिः - २२९
महाभागवतानाञ्च पिबेत्पादोदकं तु यः
शिरसा वा श्रयेद्भक्त्या सर्वपापैः प्रमुच्यते २२९
मूलम् - २२९
महाभागवतानाञ्च पिबेत्पादोदकं तु यः
शिरसा वा श्रयेद्भक्त्या सर्वपापैः प्रमुच्यते २२९
विश्वास-प्रस्तुतिः - ६२०
यस्मिन् कस्मिन् हि वसति महाभागवतोत्तमे
र्
६२०
मूलम् - ६२०
यस्मिन् कस्मिन् हि वसति महाभागवतोत्तमे
र्
६२०
विश्वास-प्रस्तुतिः - २३१
भोजयित्वा महाभागान् वैष्णवानतिथीनपि
ततो बालसुहृद्वृद्धान् बान्धवांश्च समागतान् २३१
मूलम् - २३१
भोजयित्वा महाभागान् वैष्णवानतिथीनपि
ततो बालसुहृद्वृद्धान् बान्धवांश्च समागतान् २३१
विश्वास-प्रस्तुतिः - २३२
भोजयित्वा यथा शक्त्या यथाकालं जितक्षुधः
भिक्षां दद्यात्प्रयत्नेन यतीनां ब्रह्मचारिणाम् २३२
मूलम् - २३२
भोजयित्वा यथा शक्त्या यथाकालं जितक्षुधः
भिक्षां दद्यात्प्रयत्नेन यतीनां ब्रह्मचारिणाम् २३२
विश्वास-प्रस्तुतिः - २३३
शूद्रो वा प्रतिलोमो वा पथि श्रान्तः क्षुधातुरः
भोजयेत्तं प्रयत्नेन गृहमभ्यागतो यदि २३३
मूलम् - २३३
शूद्रो वा प्रतिलोमो वा पथि श्रान्तः क्षुधातुरः
भोजयेत्तं प्रयत्नेन गृहमभ्यागतो यदि २३३
विश्वास-प्रस्तुतिः - २३४
पाषण्डः पतितो वाऽपि क्षुधार्त्तो गृहमागतः
नैव दद्यात्स्वपक्वान्नमाममेव प्रदापयेत् २३४
मूलम् - २३४
पाषण्डः पतितो वाऽपि क्षुधार्त्तो गृहमागतः
नैव दद्यात्स्वपक्वान्नमाममेव प्रदापयेत् २३४
विश्वास-प्रस्तुतिः - २३५
स्वशक्त्या तर्पयित्वैवमतिथीनागतान् गृहे
सम्यङ्निवेदितं विष्णोः स्वयं भुञ्जीत वाग्यतः २३५
मूलम् - २३५
स्वशक्त्या तर्पयित्वैवमतिथीनागतान् गृहे
सम्यङ्निवेदितं विष्णोः स्वयं भुञ्जीत वाग्यतः २३५
विश्वास-प्रस्तुतिः - २३६
प्रक्षाल्य पादौ हस्तौ च सम्यगाचम्य वारिणा
विष्णोरभिमुखं पीठे हेमदिग्धे कुशोत्तरे २३६
मूलम् - २३६
प्रक्षाल्य पादौ हस्तौ च सम्यगाचम्य वारिणा
विष्णोरभिमुखं पीठे हेमदिग्धे कुशोत्तरे २३६
विश्वास-प्रस्तुतिः - २३७
प्राग्वा प्रत्यङ्मुखो वाऽपि जान्वोरन्तःकरः शुचिः
उदङ्मुखो वा पैत्र्ये तु समासीताभिपूजितः २३७
मूलम् - २३७
प्राग्वा प्रत्यङ्मुखो वाऽपि जान्वोरन्तःकरः शुचिः
उदङ्मुखो वा पैत्र्ये तु समासीताभिपूजितः २३७
विश्वास-प्रस्तुतिः - २३८
वंशतालादिपत्रैस्तु कृतं वसनमश्म च
कपालमिष्टकं वापि वर्णं तृणमयं तथा २३८
मूलम् - २३८
वंशतालादिपत्रैस्तु कृतं वसनमश्म च
कपालमिष्टकं वापि वर्णं तृणमयं तथा २३८
विश्वास-प्रस्तुतिः - २३९
चर्मासनं शुष्ककाष्ठं खलं पय्यङ्कमेव च
निषिद्धधातु पीठं च दान्तमस्थिमयञ्च यत् २३९
मूलम् - २३९
चर्मासनं शुष्ककाष्ठं खलं पय्यङ्कमेव च
निषिद्धधातु पीठं च दान्तमस्थिमयञ्च यत् २३९
विश्वास-प्रस्तुतिः - २४०
दग्धं परावितं तालमायसञ्च विवर्जयेत्
विभीतकन्तिन्दुकञ्च करञ्जं व्याधिघातकम् २४०
मूलम् - २४०
दग्धं परावितं तालमायसञ्च विवर्जयेत्
विभीतकन्तिन्दुकञ्च करञ्जं व्याधिघातकम् २४०
विश्वास-प्रस्तुतिः - २४१
भल्लातकं कपित्थं च हिन्तालं शिग्रुमेव च
निषिद्धतरवो ह्येते सर्वकर्मसु गर्हिताः २४१
मूलम् - २४१
भल्लातकं कपित्थं च हिन्तालं शिग्रुमेव च
निषिद्धतरवो ह्येते सर्वकर्मसु गर्हिताः २४१
विश्वास-प्रस्तुतिः - २४२
शुद्धदारुमये पीठे समासीने कुशोत्तरे
पीठे त्वलाभे सौम्ये स्यात्केवलं कुशविष्टरम् २४२
मूलम् - २४२
शुद्धदारुमये पीठे समासीने कुशोत्तरे
पीठे त्वलाभे सौम्ये स्यात्केवलं कुशविष्टरम् २४२
६२१
वर्णानामानुपूर्वेण मण्डलानि यथाक्रमात् २४३
विश्वास-प्रस्तुतिः - २४४
स्वलङ्कृते मण्डलेऽस्मिन् विमलं भाजनं न्यसेत्
स्वर्णं रौप्यं च कांस्यं वा पर्णं वा शास्त्रचोदितम् २४४
मूलम् - २४४
स्वलङ्कृते मण्डलेऽस्मिन् विमलं भाजनं न्यसेत्
स्वर्णं रौप्यं च कांस्यं वा पर्णं वा शास्त्रचोदितम् २४४
विश्वास-प्रस्तुतिः - २४५
चतुःषष्टिपलं कांस्यं तदर्धं पादमेव वा
गृहिणामेव भोज्यं स्यात्ततो हीनन्तु वर्जयेत् २४५
मूलम् - २४५
चतुःषष्टिपलं कांस्यं तदर्धं पादमेव वा
गृहिणामेव भोज्यं स्यात्ततो हीनन्तु वर्जयेत् २४५
विश्वास-प्रस्तुतिः - २४६
पलाशपद्मपत्रे तु गृही यत्नेन वर्जयेत्
यतीनाञ्च वनस्थानां पितॄणाञ्च शुभप्रदम् २४६
मूलम् - २४६
पलाशपद्मपत्रे तु गृही यत्नेन वर्जयेत्
यतीनाञ्च वनस्थानां पितॄणाञ्च शुभप्रदम् २४६
विश्वास-प्रस्तुतिः - २४७
वटाश्वत्थार्कपर्णानि कुम्भीतिन्दुकयोस्तथा
एरण्डतालबिल्वेषु कोविदारकरञ्जके २४७
मूलम् - २४७
वटाश्वत्थार्कपर्णानि कुम्भीतिन्दुकयोस्तथा
एरण्डतालबिल्वेषु कोविदारकरञ्जके २४७
विश्वास-प्रस्तुतिः - २४८
भल्लातकाश्वपर्णानां पर्णानि परिवर्जयेत्
मोचागर्भपलाशं च वर्जयेत्तत्तु सर्वदा २४८
मूलम् - २४८
भल्लातकाश्वपर्णानां पर्णानि परिवर्जयेत्
मोचागर्भपलाशं च वर्जयेत्तत्तु सर्वदा २४८
विश्वास-प्रस्तुतिः - २४९
मधुकं कूटजं ब्राह्मजम्बूप्लक्षमुदुम्बरम्
मातुलङ्गं पनसं च मोचाचर्मदलानि च २४९
मूलम् - २४९
मधुकं कूटजं ब्राह्मजम्बूप्लक्षमुदुम्बरम्
मातुलङ्गं पनसं च मोचाचर्मदलानि च २४९
विश्वास-प्रस्तुतिः - २५०
पालाक्यवर्णं श्रीपर्णं शुभानीमानि भोजने
यथाकालोपपन्ने तु भोजने घृतसंस्कृते २५०
मूलम् - २५०
पालाक्यवर्णं श्रीपर्णं शुभानीमानि भोजने
यथाकालोपपन्ने तु भोजने घृतसंस्कृते २५०
विश्वास-प्रस्तुतिः - २५१
पत्न्यादिभिर्दत्तवस्तु वास्तुदेवार्पिते शुभे
गायत्र्या मूलमन्त्रेण संप्रोक्ष्य शुभवारिणा २५१
मूलम् - २५१
पत्न्यादिभिर्दत्तवस्तु वास्तुदेवार्पिते शुभे
गायत्र्या मूलमन्त्रेण संप्रोक्ष्य शुभवारिणा २५१
विश्वास-प्रस्तुतिः - २५२
ऋतसत्याभ्यामिति च मन्त्राभ्यां परिषेचयेत्
अन्नरूपं विराजं संध्यात्वा मन्त्रं जपेद्बुधः २५२
मूलम् - २५२
ऋतसत्याभ्यामिति च मन्त्राभ्यां परिषेचयेत्
अन्नरूपं विराजं संध्यात्वा मन्त्रं जपेद्बुधः २५२
विश्वास-प्रस्तुतिः - २५३
ध्यात्वा हृत्पङ्कजे विष्णुं सुधांशुसदृशद्युतिम्
शङ्खचक्रगदापद्मपाणिं वै दिव्यभूषणम् २५३
मूलम् - २५३
ध्यात्वा हृत्पङ्कजे विष्णुं सुधांशुसदृशद्युतिम्
शङ्खचक्रगदापद्मपाणिं वै दिव्यभूषणम् २५३
विश्वास-प्रस्तुतिः - २५४
मनसैवार्चयित्वाऽथ मूलमन्त्रेण वैष्णवः
पादोदकं हरेः पुण्यं तुलसीदलमिश्रितम् २५४
मूलम् - २५४
मनसैवार्चयित्वाऽथ मूलमन्त्रेण वैष्णवः
पादोदकं हरेः पुण्यं तुलसीदलमिश्रितम् २५४
विश्वास-प्रस्तुतिः - २५५
अमृतोपस्तरणमसीति मन्त्रेण प्राशयेत्
उद्दिश्यैव हरिं प्राणान् जुहुयात्सघृतं हविः २५५
मूलम् - २५५
अमृतोपस्तरणमसीति मन्त्रेण प्राशयेत्
उद्दिश्यैव हरिं प्राणान् जुहुयात्सघृतं हविः २५५
विश्वास-प्रस्तुतिः - ६२२
अन्नलाभे तु होतव्यं शाकमूलफलादिभिः
र्
६२२
मूलम् - ६२२
अन्नलाभे तु होतव्यं शाकमूलफलादिभिः
र्
६२२
विश्वास-प्रस्तुतिः - २५७
श्रद्धायां प्राणे विष्ठेति मन्त्रेण च यथाक्रमात्
तर्जनीमध्यमाङ्गुष्ठैः प्राणायेति यजेद्धविः २५७
मूलम् - २५७
श्रद्धायां प्राणे विष्ठेति मन्त्रेण च यथाक्रमात्
तर्जनीमध्यमाङ्गुष्ठैः प्राणायेति यजेद्धविः २५७
विश्वास-प्रस्तुतिः - २५८
मध्यमानामिकाङ्गुष्ठैरपानायेत्यनन्तरम्
कनिष्ठानामिकाङ्गुष्ठैर्व्यानायेत्याहुतिं ततः २५८
मूलम् - २५८
मध्यमानामिकाङ्गुष्ठैरपानायेत्यनन्तरम्
कनिष्ठानामिकाङ्गुष्ठैर्व्यानायेत्याहुतिं ततः २५८
विश्वास-प्रस्तुतिः - २५९
कनिष्ठतर्जन्यङ्गुष्ठैरुदानायेति वै यजेत्
समानायेति जुहुयात्सर्वैरङ्गुलिभिर्द्विजः २५९
मूलम् - २५९
कनिष्ठतर्जन्यङ्गुष्ठैरुदानायेति वै यजेत्
समानायेति जुहुयात्सर्वैरङ्गुलिभिर्द्विजः २५९
विश्वास-प्रस्तुतिः - २६०
अयमग्निवैश्वानरिरित्यात्मानमनन्तरम्
शतमष्टोत्तरं मन्त्रं मनसैव जपेत्ततः २६०
मूलम् - २६०
अयमग्निवैश्वानरिरित्यात्मानमनन्तरम्
शतमष्टोत्तरं मन्त्रं मनसैव जपेत्ततः २६०
विश्वास-प्रस्तुतिः - २६१
ध्यायन् नारायणं देवं भुञ्जीयात्तु यथासुखम्
वक्त्रादपातयन् पासं चिन्तयन्मधुसूदनम् २६१
मूलम् - २६१
ध्यायन् नारायणं देवं भुञ्जीयात्तु यथासुखम्
वक्त्रादपातयन् पासं चिन्तयन्मधुसूदनम् २६१
विश्वास-प्रस्तुतिः - २६२
नाऽऽसनारूढपादस्तु न वेष्टितशिरास्तथा
न स्कन्दयन् न च हसन् बहिर्नाप्यवलोकयन् २६२
मूलम् - २६२
नाऽऽसनारूढपादस्तु न वेष्टितशिरास्तथा
न स्कन्दयन् न च हसन् बहिर्नाप्यवलोकयन् २६२
विश्वास-प्रस्तुतिः - २६३
नाऽऽत्मीयान् प्रलपन् जल्पन् बहिर्जानुकरो न च
न वादकोपितनरः पृथिव्यामपि वा न च २६३
मूलम् - २६३
नाऽऽत्मीयान् प्रलपन् जल्पन् बहिर्जानुकरो न च
न वादकोपितनरः पृथिव्यामपि वा न च २६३
विश्वास-प्रस्तुतिः - २६४
न प्रसारितपादश्च नोत्सङ्गकृतभाजनः
नाश्नीयाद्भार्यया सार्धं न पुत्रैर्वापि विह्वलः २६४
मूलम् - २६४
न प्रसारितपादश्च नोत्सङ्गकृतभाजनः
नाश्नीयाद्भार्यया सार्धं न पुत्रैर्वापि विह्वलः २६४
विश्वास-प्रस्तुतिः - २६५
न शयानो नातिसङ्गो न विमुक्तशिरोरुहः
अन्नं वृथा न विकिरन् निष्ठीवन् नातिकाङ्क्षया २६५
मूलम् - २६५
न शयानो नातिसङ्गो न विमुक्तशिरोरुहः
अन्नं वृथा न विकिरन् निष्ठीवन् नातिकाङ्क्षया २६५
विश्वास-प्रस्तुतिः - २६६
नातिशब्देन भुञ्जीत न वस्त्रार्थोपवेष्टितः
प्रगृह्य पात्रं हस्तेन भुञ्जीयात्पैतृकं यदि २६६
मूलम् - २६६
नातिशब्देन भुञ्जीत न वस्त्रार्थोपवेष्टितः
प्रगृह्य पात्रं हस्तेन भुञ्जीयात्पैतृकं यदि २६६
विश्वास-प्रस्तुतिः - २६७
चषके पुटके वाऽपि पिबेत्तोयं द्विजोत्तमः
तक्रं वाऽप्यथ वा क्षीरं पानकं वाऽपि भोजने २६७
मूलम् - २६७
चषके पुटके वाऽपि पिबेत्तोयं द्विजोत्तमः
तक्रं वाऽप्यथ वा क्षीरं पानकं वाऽपि भोजने २६७
विश्वास-प्रस्तुतिः - २६८
वक्त्रेण सान्तर्धानेन दत्तमन्येन वा पिबेत्
ग्रासशेषं नचाश्नीयात्पीतशेषं पिबेन्न तु २६८
मूलम् - २६८
वक्त्रेण सान्तर्धानेन दत्तमन्येन वा पिबेत्
ग्रासशेषं नचाश्नीयात्पीतशेषं पिबेन्न तु २६८
६२३
उद्धृत्य वामहस्तेन तोयं वक्त्रेण यः पिबेत् २६९
विश्वास-प्रस्तुतिः - २७०
स सुरां वै पिबेद् व्यक्तां सद्यः पतति रौरवे
शब्देनापोशने पीत्वा शब्देन दधिपायसे २७०
मूलम् - २७०
स सुरां वै पिबेद् व्यक्तां सद्यः पतति रौरवे
शब्देनापोशने पीत्वा शब्देन दधिपायसे २७०
विश्वास-प्रस्तुतिः - २७१
शब्देनान्नरसं क्षीरं पीत्वेव पतितो भवेत्
प्रत्यक्षलवणं शुक्तं क्षीरं च लवणान्वितम् २७१
मूलम् - २७१
शब्देनान्नरसं क्षीरं पीत्वेव पतितो भवेत्
प्रत्यक्षलवणं शुक्तं क्षीरं च लवणान्वितम् २७१
विश्वास-प्रस्तुतिः - २७२
दधि हस्तेन मथितं सुरापानसमं स्मृतम्
आरनालरसं तद्वत्तद्वैवानार्पितं हरेः २७२
मूलम् - २७२
दधि हस्तेन मथितं सुरापानसमं स्मृतम्
आरनालरसं तद्वत्तद्वैवानार्पितं हरेः २७२
विश्वास-प्रस्तुतिः - २७३
आसनेन तु पात्रेण नैव दद्याद्धृतादिकम्
नोच्छिष्टं घृतमादद्यात्पैतृके भोजने विना २७३
मूलम् - २७३
आसनेन तु पात्रेण नैव दद्याद्धृतादिकम्
नोच्छिष्टं घृतमादद्यात्पैतृके भोजने विना २७३
विश्वास-प्रस्तुतिः - २७४
तथैव तु पुरोडाशं पृषदाज्यञ्च माक्षिकम्
पानीयं पायसं क्षीरं घृतं लवणमेव च २७४
मूलम् - २७४
तथैव तु पुरोडाशं पृषदाज्यञ्च माक्षिकम्
पानीयं पायसं क्षीरं घृतं लवणमेव च २७४
विश्वास-प्रस्तुतिः - २७५
हस्तदत्तं न गृह्णीयात्तुल्यं गोमांसभक्षणम्
अपूपं पायसं माषं यावकं कृसरं मधु २७५
मूलम् - २७५
हस्तदत्तं न गृह्णीयात्तुल्यं गोमांसभक्षणम्
अपूपं पायसं माषं यावकं कृसरं मधु २७५
विश्वास-प्रस्तुतिः - २७६
केवलं यो वृथाऽश्नाति तेन भुक्तं सुरासमम्
करञ्जं मूलकं शिग्रु लशुनं तिलपिष्टकम् २७६
मूलम् - २७६
केवलं यो वृथाऽश्नाति तेन भुक्तं सुरासमम्
करञ्जं मूलकं शिग्रु लशुनं तिलपिष्टकम् २७६
विश्वास-प्रस्तुतिः - २७७
तलास्थि श्वेतवृन्ताकं सुरापानसमं स्मृतम्
अन्यच्च फलमूलाद्यं भक्ष्यं पानादिकञ्च यत् २७७
मूलम् - २७७
तलास्थि श्वेतवृन्ताकं सुरापानसमं स्मृतम्
अन्यच्च फलमूलाद्यं भक्ष्यं पानादिकञ्च यत् २७७
विश्वास-प्रस्तुतिः - २७८
स्रक्चन्दनादि ताम्बूलं यो भुङ्क्ते हर्यनर्पितम्
कल्पकोटिसहस्राणि रेतोविण्मूत्रभाग्भवेत् २७८
मूलम् - २७८
स्रक्चन्दनादि ताम्बूलं यो भुङ्क्ते हर्यनर्पितम्
कल्पकोटिसहस्राणि रेतोविण्मूत्रभाग्भवेत् २७८
विश्वास-प्रस्तुतिः - २७९
तस्मात्सर्वं सुविमलं हरिभुक्तं यथोक्तवत्
स पवित्रेण यो भाङ्क्ते सर्वयज्ञफलं लभेत् २७९
मूलम् - २७९
तस्मात्सर्वं सुविमलं हरिभुक्तं यथोक्तवत्
स पवित्रेण यो भाङ्क्ते सर्वयज्ञफलं लभेत् २७९
विश्वास-प्रस्तुतिः - २८०
ध्यायन् नारायणं देवं वाग्यतः प्रयतात्मवान्
भुक्त्वावनतितृप्त्यैव प्राशयेदम्बु निर्मलम् २८०
मूलम् - २८०
ध्यायन् नारायणं देवं वाग्यतः प्रयतात्मवान्
भुक्त्वावनतितृप्त्यैव प्राशयेदम्बु निर्मलम् २८०
विश्वास-प्रस्तुतिः - २८१
अमृतापिधानमसीतिमन्त्रेण कुशपाणिना
किञ्चिदन्नमुपादाय पीतशेषेण वारिणा २८१
मूलम् - २८१
अमृतापिधानमसीतिमन्त्रेण कुशपाणिना
किञ्चिदन्नमुपादाय पीतशेषेण वारिणा २८१
विश्वास-प्रस्तुतिः - ६२४
पैतृकेण तु तीर्थेन भूमौ दद्यात्तदर्थिनाम्
र्
६२४
मूलम् - ६२४
पैतृकेण तु तीर्थेन भूमौ दद्यात्तदर्थिनाम्
र्
६२४
विश्वास-प्रस्तुतिः - २८३
तेषामन्नं सोदकञ्च अक्षय्यमुपतिष्ठतु
इति दत्त्वोदकं तेषां तस्मिन्नेवाऽऽसने स्थितः २८३
मूलम् - २८३
तेषामन्नं सोदकञ्च अक्षय्यमुपतिष्ठतु
इति दत्त्वोदकं तेषां तस्मिन्नेवाऽऽसने स्थितः २८३
विश्वास-प्रस्तुतिः - २८४
प्रक्ष्याल्य हस्तौ पादौ च वक्त्रं संशोध्य वारिभिः
द्विराचम्य विधानेन मन्त्रेण प्राशयेज्जलम् २८४
मूलम् - २८४
प्रक्ष्याल्य हस्तौ पादौ च वक्त्रं संशोध्य वारिभिः
द्विराचम्य विधानेन मन्त्रेण प्राशयेज्जलम् २८४
विश्वास-प्रस्तुतिः - २८५
पीत्वा मन्त्रजलं पश्चादाचम्य हृदयाम्बुजे
राममिन्दीवरश्यामं चक्रशङ्खधनुर्धरम् २८५
मूलम् - २८५
पीत्वा मन्त्रजलं पश्चादाचम्य हृदयाम्बुजे
राममिन्दीवरश्यामं चक्रशङ्खधनुर्धरम् २८५
विश्वास-प्रस्तुतिः - २८६
समासीनः सुखासने वेदमध्यापयेत्ततः
सच्छिष्यान् यांस्तु शास्त्रं वा स्नेहाद्वा धर्मसंहिताम् २८६
मूलम् - २८६
समासीनः सुखासने वेदमध्यापयेत्ततः
सच्छिष्यान् यांस्तु शास्त्रं वा स्नेहाद्वा धर्मसंहिताम् २८६
विश्वास-प्रस्तुतिः - २८७
इतिहासपुराणं वा कथयेच्छृणुयाच्च वा
रवावस्तङ्गते सन्ध्यां बहिः कुर्व्वीत पूर्ववत् २८७
मूलम् - २८७
इतिहासपुराणं वा कथयेच्छृणुयाच्च वा
रवावस्तङ्गते सन्ध्यां बहिः कुर्व्वीत पूर्ववत् २८७
विश्वास-प्रस्तुतिः - २८८
बहिः सन्ध्या शतगुणं गोष्ठे शतगुणं तथा
गङ्गाजले सहस्रं स्यादनन्तं विष्णुसन्निधौ २८८
मूलम् - २८८
बहिः सन्ध्या शतगुणं गोष्ठे शतगुणं तथा
गङ्गाजले सहस्रं स्यादनन्तं विष्णुसन्निधौ २८८
विश्वास-प्रस्तुतिः - २८९
उपास्य पश्चिमां सन्ध्यां जप्त्वा जप्यं समाहितः
पूर्ववत्पूजयेद्विष्णुं गन्धपुष्पाक्षतादिभिः २८९
मूलम् - २८९
उपास्य पश्चिमां सन्ध्यां जप्त्वा जप्यं समाहितः
पूर्ववत्पूजयेद्विष्णुं गन्धपुष्पाक्षतादिभिः २८९
विश्वास-प्रस्तुतिः - २९०
अष्टाक्षरविधानेन निवेश्यैवं समाहितः
सायमौपासनं हुत्वा वैष्णवं होममाचरेत् २९०
मूलम् - २९०
अष्टाक्षरविधानेन निवेश्यैवं समाहितः
सायमौपासनं हुत्वा वैष्णवं होममाचरेत् २९०
विश्वास-प्रस्तुतिः - २९१
ध्यात्वा यज्ञमयं विष्णुं
मन्त्रेणाष्टोत्तरं शतम्
तिल-व्रीह्य्-आज्य-चरुभिस्
तत्रैकेनापि वा यजेत् २९१
मूलम् - २९१
ध्यात्वा यज्ञमयं विष्णुं मन्त्रेणाष्टोत्तरं शतम्
तिलव्रीह्याज्यचरुभिस्तत्रैकेनापि वा यजेत् २९१
विश्वास-प्रस्तुतिः - २९२
वैश्वदेवं भूतबलिं हुत्वा
दत्त्वा च आचमेत्
शय्यायां विन्यसेद् देवं
पर्य्यङ्के समलङ्कृते २९२
मूलम् - २९२
वैश्वदेवं भूतबलिं हुत्वा दत्त्वा च आचमेत्
शय्यायां विन्यसेद्देवं पर्य्यङ्के समलङ्कृते २९२
विश्वास-प्रस्तुतिः - २९३
सविताने गन्ध-पुष्प-धूपैर्
आमोदिते शुभे
शाययित्वा च देवेशं
देवीभ्यां सहितं हरिम् २९३
मूलम् - २९३
सविताने गन्धपुष्पधूपैरामोदिते शुभे
शाययित्वा च देवेशं देवीभ्यां सहितं हरिम् २९३
विश्वास-प्रस्तुतिः - २९४
हिरण्यगर्भसूक्तेन नासदासीदनेन च
कृत्वा पुष्पाञ्जलिं पश्चादुपचारैः समर्चयेत् २९४
मूलम् - २९४
हिरण्यगर्भसूक्तेन नासदासीदनेन च
कृत्वा पुष्पाञ्जलिं पश्चादुपचारैः समर्चयेत् २९४
विश्वास-प्रस्तुतिः - २९५
श्रिये जात इत्यृचैव ध्रुवसूक्तेन च द्विजः
दीपैर्नीराजनं कृत्वा पश्चादर्घ्यं निवेदयेत् २९५
मूलम् - २९५
श्रिये जात इत्यृचैव ध्रुवसूक्तेन च द्विजः
दीपैर्नीराजनं कृत्वा पश्चादर्घ्यं निवेदयेत् २९५
विश्वास-प्रस्तुतिः - २९६
सुवाससा यवनिकां विन्यस्याथ समाहितः
द्वादशार्णं महामन्त्रं जपेदष्टोत्तरं शतम् २९६
मूलम् - २९६
सुवाससा यवनिकां विन्यस्याथ समाहितः
द्वादशार्णं महामन्त्रं जपेदष्टोत्तरं शतम् २९६
विश्वास-प्रस्तुतिः - २९७
अस्त्रैश्च शङ्खचक्राद्यैर्दिक्षु रक्षां सुविन्यसेत्
स्तोत्रैः स्तुत्वा नमस्कृत्वा पुनः पुनरनन्तरम् २९७
मूलम् - २९७
अस्त्रैश्च शङ्खचक्राद्यैर्दिक्षु रक्षां सुविन्यसेत्
स्तोत्रैः स्तुत्वा नमस्कृत्वा पुनः पुनरनन्तरम् २९७
विश्वास-प्रस्तुतिः - २९८
वैष्णवैश्च सुहृद्भिश्च भुञ्जीयादर्पितं हरेः
आचम्याग्निमुपस्पृश्य समासीनस्तु वाग्यतः २९८
मूलम् - २९८
वैष्णवैश्च सुहृद्भिश्च भुञ्जीयादर्पितं हरेः
आचम्याग्निमुपस्पृश्य समासीनस्तु वाग्यतः २९८
विश्वास-प्रस्तुतिः - २९९
ध्यायन् हृदि शुभं मन्त्रं जपेदष्टोत्तरं शतम्
शेषाहिशायिनं देवं मनसैवार्चयेत्ततः २९९
मूलम् - २९९
ध्यायन् हृदि शुभं मन्त्रं जपेदष्टोत्तरं शतम्
शेषाहिशायिनं देवं मनसैवार्चयेत्ततः २९९
विश्वास-प्रस्तुतिः - ३००
शयीत शुभशय्यायां विमले शुभमण्डले
ऋतौ गच्छेद्धर्मपत्नीं विना पञ्चसु पर्वसु ३००
मूलम् - ३००
शयीत शुभशय्यायां विमले शुभमण्डले
ऋतौ गच्छेद्धर्मपत्नीं विना पञ्चसु पर्वसु ३००
विश्वास-प्रस्तुतिः - ३०१
पुत्रार्थी चेत्तु युग्मासु स्त्रीकामी विषमासु च
न श्राद्धदिवसे चैव नोपवासदिने तथा ३०१
मूलम् - ३०१
पुत्रार्थी चेत्तु युग्मासु स्त्रीकामी विषमासु च
न श्राद्धदिवसे चैव नोपवासदिने तथा ३०१
विश्वास-प्रस्तुतिः - ३०२
नाशुचिर्मलिनो वाऽपि न चैव मलिनां तथा
न क्रुद्धां न च क्रुद्धः सन् न रोगी न च रोगिणीम् ३०२
मूलम् - ३०२
नाशुचिर्मलिनो वाऽपि न चैव मलिनां तथा
न क्रुद्धां न च क्रुद्धः सन् न रोगी न च रोगिणीम् ३०२
विश्वास-प्रस्तुतिः - ३०३
न गच्छेत्क्रूरदिवसे मघामूलद्वयोरपि
ब्राह्मे मुहूर्ते उत्थाय आचामेत्प्रयतात्मवान् ३०३
मूलम् - ३०३
न गच्छेत्क्रूरदिवसे मघामूलद्वयोरपि
ब्राह्मे मुहूर्ते उत्थाय आचामेत्प्रयतात्मवान् ३०३
विश्वास-प्रस्तुतिः - ३०४
यती च ब्रह्मचारी च वनस्थो विधवा तथा
अजिने कम्बले वाऽपि भूमौ स्वप्यात् कुशोत्तरे ३०४
मूलम् - ३०४
यती च ब्रह्मचारी च वनस्थो विधवा तथा
अजिने कम्बले वाऽपि भूमौ स्वप्यात् कुशोत्तरे ३०४
विश्वास-प्रस्तुतिः - ३०५
ध्यायन्तः पद्मनाभं तु शयीरन् विजितेन्द्रियाः
अर्पयेद्वाऽर्चयेद्विष्णुं त्रिकालं श्रद्धयाऽन्विताः ३०५
मूलम् - ३०५
ध्यायन्तः पद्मनाभं तु शयीरन् विजितेन्द्रियाः
अर्पयेद्वाऽर्चयेद्विष्णुं त्रिकालं श्रद्धयाऽन्विताः ३०५
विश्वास-प्रस्तुतिः - ३०६
आचरेयुः परं धर्मं यथावृत्त्यनुसारतः
प्रातः कृष्णं जगन्नाथं कीर्तयेत्पुण्यनामभिः ३०६
मूलम् - ३०६
आचरेयुः परं धर्मं यथावृत्त्यनुसारतः
प्रातः कृष्णं जगन्नाथं कीर्तयेत्पुण्यनामभिः ३०६
विश्वास-प्रस्तुतिः - ३०७
शौचादिकन्तु यत्कर्म पूर्व्वोक्तं सर्वमाचरेत्
नैमित्तिकविशेषेण पूजयेत्पतिमव्ययम् ३०७
मूलम् - ३०७
शौचादिकन्तु यत्कर्म पूर्व्वोक्तं सर्वमाचरेत्
नैमित्तिकविशेषेण पूजयेत्पतिमव्ययम् ३०७
६२६
विश्वास-प्रस्तुतिः - ३०८
तत्तत्काले तु तन्मूर्ते रर्चनं मुनिभिः स्मृतम्
प्रसुप्ते पद्मनाभे तु नित्यं मासचतुष्टयम् ३०८
मूलम् - ३०८
तत्तत्काले तु तन्मूर्ते रर्चनं मुनिभिः स्मृतम्
प्रसुप्ते पद्मनाभे तु नित्यं मासचतुष्टयम् ३०८
विश्वास-प्रस्तुतिः - ३०९
द्रोण्यान्दोलायामपि वा भक्त्या संपूजयेद्विभुम्
क्षीराब्धौ शेषपर्यङ्के शयानं रमया सह ३०९
मूलम् - ३०९
द्रोण्यान्दोलायामपि वा भक्त्या संपूजयेद्विभुम्
क्षीराब्धौ शेषपर्यङ्के शयानं रमया सह ३०९
विश्वास-प्रस्तुतिः - ३१०
नीलजीमूतसङ्काशं सर्वालङ्कारसुन्दरम्
कौस्तुभोद्भासिततनुं वैजयन्त्या बिराजितम् ३१०
मूलम् - ३१०
नीलजीमूतसङ्काशं सर्वालङ्कारसुन्दरम्
कौस्तुभोद्भासिततनुं वैजयन्त्या बिराजितम् ३१०
विश्वास-प्रस्तुतिः - ३११
लक्ष्मीघनकुचस्पर्शशुभोरस्कं सुबर्चसम्
ध्यात्वैवं पद्मनाभन्तु द्वादशार्णन नित्यशः ३११
मूलम् - ३११
लक्ष्मीघनकुचस्पर्शशुभोरस्कं सुबर्चसम्
ध्यात्वैवं पद्मनाभन्तु द्वादशार्णन नित्यशः ३११
विश्वास-प्रस्तुतिः - ३१२
पूजयेद्गन्धपुष्पाद्यैस्त्रिसन्ध्यास्वपि वैष्णवः
निवेद्य पायसान्नं तु दद्यात्पुष्पाञ्जलिं ततः ३१२
मूलम् - ३१२
पूजयेद्गन्धपुष्पाद्यैस्त्रिसन्ध्यास्वपि वैष्णवः
निवेद्य पायसान्नं तु दद्यात्पुष्पाञ्जलिं ततः ३१२
विश्वास-प्रस्तुतिः - ३१३
सहस्रं शतवारं वा द्वयं मन्त्रं जपेत्सुधीः
द्वादशार्णमनुञ्चैव जप्त्वाऽऽज्येन तिलैश्च वा ३१३
मूलम् - ३१३
सहस्रं शतवारं वा द्वयं मन्त्रं जपेत्सुधीः
द्वादशार्णमनुञ्चैव जप्त्वाऽऽज्येन तिलैश्च वा ३१३
विश्वास-प्रस्तुतिः - ३१४
केवलं चारुणा वाऽपो जुहुयात्प्रतिवासरम्
अधःशायी ब्रह्मचारी सर्वभोगविवर्जितः ३१४
मूलम् - ३१४
केवलं चारुणा वाऽपो जुहुयात्प्रतिवासरम्
अधःशायी ब्रह्मचारी सर्वभोगविवर्जितः ३१४
विश्वास-प्रस्तुतिः - ३१५
वार्षिकांश्चतुरो मासानेवमभ्यर्च्च्य केशवम्
बोधयित्वाऽथ कार्तिक्यां दद्यात्पुष्पाण्यनेकशः ३१५
मूलम् - ३१५
वार्षिकांश्चतुरो मासानेवमभ्यर्च्च्य केशवम्
बोधयित्वाऽथ कार्तिक्यां दद्यात्पुष्पाण्यनेकशः ३१५
विश्वास-प्रस्तुतिः - ३१६
साज्यैस्तिलैः पायसेन मधुना च सहस्रशः
मूलमन्त्रेण जुहुयात्सूक्तैश्चावभृथं ततः ३१६
मूलम् - ३१६
साज्यैस्तिलैः पायसेन मधुना च सहस्रशः
मूलमन्त्रेण जुहुयात्सूक्तैश्चावभृथं ततः ३१६
विश्वास-प्रस्तुतिः - ३१७
सहस्रनामभिः कृत्वा दद्याद्दर्पणमेव च
गृहं गत्वाऽथ देवेशम्पूजयित्वा यथाविधि ३१७
मूलम् - ३१७
सहस्रनामभिः कृत्वा दद्याद्दर्पणमेव च
गृहं गत्वाऽथ देवेशम्पूजयित्वा यथाविधि ३१७
विश्वास-प्रस्तुतिः - ३१८
भोजयेद्वैष्णवान्विप्रान्दक्षिणाभिश्च तोषयेत्
शुक्लपक्षे नभोमासि द्वादश्यां वैष्णवः शुचिः ३१८
मूलम् - ३१८
भोजयेद्वैष्णवान्विप्रान्दक्षिणाभिश्च तोषयेत्
शुक्लपक्षे नभोमासि द्वादश्यां वैष्णवः शुचिः ३१८
विश्वास-प्रस्तुतिः - ३१९
पवित्रारोपणं कुर्य्यान्नाभिमात्रायतं न्यसेत्
तथा वक्षसि पर्यन्तं सहस्रन्तान्तवं स्मृतम् ३१९
मूलम् - ३१९
पवित्रारोपणं कुर्य्यान्नाभिमात्रायतं न्यसेत्
तथा वक्षसि पर्यन्तं सहस्रन्तान्तवं स्मृतम् ३१९
विश्वास-प्रस्तुतिः - ३२०
कुशग्रन्थिसहस्रन्तु पादान्तं विन्यसेत्ततः
सौवर्णीं राजतीं मालां शतग्रन्थियुतां न्यसेत् ३२०
मूलम् - ३२०
कुशग्रन्थिसहस्रन्तु पादान्तं विन्यसेत्ततः
सौवर्णीं राजतीं मालां शतग्रन्थियुतां न्यसेत् ३२०
विश्वास-प्रस्तुतिः - ३२१
मृणालतान्तवं पश्चात्पुष्पमालां ततः परम्
शतमौक्तिकहाराणि नानारत्नमयान्यपि ३२१
मूलम् - ३२१
मृणालतान्तवं पश्चात्पुष्पमालां ततः परम्
शतमौक्तिकहाराणि नानारत्नमयान्यपि ३२१
विश्वास-प्रस्तुतिः - ३२२
उपोष्यैकादशीं तत्र रात्रौ जागरणान्वितः
अभ्यर्च्चयेज्जगन्नाथं गन्धपुष्पफलादिभिः ३२२
मूलम् - ३२२
उपोष्यैकादशीं तत्र रात्रौ जागरणान्वितः
अभ्यर्च्चयेज्जगन्नाथं गन्धपुष्पफलादिभिः ३२२
विश्वास-प्रस्तुतिः - ३२३
नीत्वा रात्रिं नर्तनाद्यैः प्रभाते विमले नदीम्
गत्वा स्नात्वा च विधिना तर्पयित्वेशमर्चयेत् ३२३
मूलम् - ३२३
नीत्वा रात्रिं नर्तनाद्यैः प्रभाते विमले नदीम्
गत्वा स्नात्वा च विधिना तर्पयित्वेशमर्चयेत् ३२३
विश्वास-प्रस्तुतिः - ३२४
सर्वैश्च वैष्णवैः सूक्तैर्मध्वाज्यतिलपायसैः
हुत्वा दत्त्वा दशार्णन सहस्रं जुहुयात्ततः ३२४
मूलम् - ३२४
सर्वैश्च वैष्णवैः सूक्तैर्मध्वाज्यतिलपायसैः
हुत्वा दत्त्वा दशार्णन सहस्रं जुहुयात्ततः ३२४
विश्वास-प्रस्तुतिः - ३२५
पश्चादारोपयेद्विष्णोः पवित्राणि शुभानि वै
पवस्व सोम इति च जपन् सूक्तं सुपावनम् ३२५
मूलम् - ३२५
पश्चादारोपयेद्विष्णोः पवित्राणि शुभानि वै
पवस्व सोम इति च जपन् सूक्तं सुपावनम् ३२५
विश्वास-प्रस्तुतिः - ३२६
निवेदयेत्पवित्राणि तथा विष्णोर्यथाक्रमात्
मन्दिरं कुशयोक्त्रेण वेष्टयन् परमात्मनः ३२६
मूलम् - ३२६
निवेदयेत्पवित्राणि तथा विष्णोर्यथाक्रमात्
मन्दिरं कुशयोक्त्रेण वेष्टयन् परमात्मनः ३२६
विश्वास-प्रस्तुतिः - ३२७
वितानपुष्पमालाद्य रलङ्कृत्य च सर्वतः
सहस्रं द्वादशर्णन भक्त्या पुष्पाञ्जलिं न्यसेत् ३२७
मूलम् - ३२७
वितानपुष्पमालाद्य रलङ्कृत्य च सर्वतः
सहस्रं द्वादशर्णन भक्त्या पुष्पाञ्जलिं न्यसेत् ३२७
विश्वास-प्रस्तुतिः - ३२८
अथोपनिषदुक्तानि पञ्चसूक्तान्यनुक्रमात्
त्वयाहन् पीतमिज्यादि जपन् पुष्पाञ्जलि ततः ३२८
मूलम् - ३२८
अथोपनिषदुक्तानि पञ्चसूक्तान्यनुक्रमात्
त्वयाहन् पीतमिज्यादि जपन् पुष्पाञ्जलि ततः ३२८
विश्वास-प्रस्तुतिः - ३२९
ब्राह्मणान् भोजयेत्पश्चात्स्वयं कुर्वीत पारणम्
शक्त्या वा चोत्सवं कुर्य्यात्त्रिरात्रं वैष्णवोत्तमः ३२९
मूलम् - ३२९
ब्राह्मणान् भोजयेत्पश्चात्स्वयं कुर्वीत पारणम्
शक्त्या वा चोत्सवं कुर्य्यात्त्रिरात्रं वैष्णवोत्तमः ३२९
विश्वास-प्रस्तुतिः - ३३०
प्रत्यब्दमेवं कुर्वीत पवित्रारोपणं हरेः
क्रतुकोटिसहस्रस्य फलं प्राप्नोत्यसंशयः ३३०
मूलम् - ३३०
प्रत्यब्दमेवं कुर्वीत पवित्रारोपणं हरेः
क्रतुकोटिसहस्रस्य फलं प्राप्नोत्यसंशयः ३३०
विश्वास-प्रस्तुतिः - ३३१
तत्र दुर्भिक्षरोगादिभयं नास्ति कदाचन
संप्राप्ते कार्तिके मासे सायाह्णे पूजयेद्धरिम् ३३१
मूलम् - ३३१
तत्र दुर्भिक्षरोगादिभयं नास्ति कदाचन
संप्राप्ते कार्तिके मासे सायाह्णे पूजयेद्धरिम् ३३१
विश्वास-प्रस्तुतिः - ३३२
हृद्यैः पुष्पैश्च जातीभिः कोमलैस्तुलसीदलैः
अर्चयेद्विष्णुं गायत्र्याऽनुवाकैर्वैष्णवैरपि ३३२
मूलम् - ३३२
हृद्यैः पुष्पैश्च जातीभिः कोमलैस्तुलसीदलैः
अर्चयेद्विष्णुं गायत्र्याऽनुवाकैर्वैष्णवैरपि ३३२
विश्वास-प्रस्तुतिः - ३३३
पावमान्यैश्च तन्मासं भक्त्या पुष्पाञ्जलिं न्यसेत्
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा ३३३
मूलम् - ३३३
पावमान्यैश्च तन्मासं भक्त्या पुष्पाञ्जलिं न्यसेत्
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा ३३३
६२८
विश्वास-प्रस्तुतिः - ३३४
अष्टाविंशतिं वा शक्त्या दद्याद्दीपान् सुपालिकान्
सुवासितेन तैलेन गवाज्येनाथवा हरेः ३३४
मूलम् - ३३४
अष्टाविंशतिं वा शक्त्या दद्याद्दीपान् सुपालिकान्
सुवासितेन तैलेन गवाज्येनाथवा हरेः ३३४
विश्वास-प्रस्तुतिः - ३३५
अष्टोत्तरशतं नित्यं तिलहोमं समाचरेत्
मनुना वैष्णवेनापि गायत्र्या विष्णुसंज्ञया ३३५
मूलम् - ३३५
अष्टोत्तरशतं नित्यं तिलहोमं समाचरेत्
मनुना वैष्णवेनापि गायत्र्या विष्णुसंज्ञया ३३५
विश्वास-प्रस्तुतिः - ३३६
हुत्वा पुष्पाञ्जलिं दत्वा ताभ्यामेव तदा विभोः
हविष्यं मोदकं शुद्धं नत्तंक् भुञ्जीत वाग्यतः ३३६
मूलम् - ३३६
हुत्वा पुष्पाञ्जलिं दत्वा ताभ्यामेव तदा विभोः
हविष्यं मोदकं शुद्धं नत्तंक् भुञ्जीत वाग्यतः ३३६
विश्वास-प्रस्तुतिः - ३३७
तैलं शुक्तं तथा मांसं निष्पावान्माक्षिकं तथा
चणकानपि माषांश्च वर्जयेत्कार्तिकेऽहनि ३३७
मूलम् - ३३७
तैलं शुक्तं तथा मांसं निष्पावान्माक्षिकं तथा
चणकानपि माषांश्च वर्जयेत्कार्तिकेऽहनि ३३७
विश्वास-प्रस्तुतिः - ३३८
भोजयेद्वैष्णवान्विप्रान् नित्यं दानादिशक्तयः
अन्ते च भोजयेद्विप्रान् दक्षिणाभिश्च तोषयेत् ३३८
मूलम् - ३३८
भोजयेद्वैष्णवान्विप्रान् नित्यं दानादिशक्तयः
अन्ते च भोजयेद्विप्रान् दक्षिणाभिश्च तोषयेत् ३३८
विश्वास-प्रस्तुतिः - ३३९
एवं संपूज्य देवेशं कार्तिके क्रतुकोटिभिः
पुण्यं प्राप्यानघो भूत्वा विष्णुलोके महीयते ३३९
मूलम् - ३३९
एवं संपूज्य देवेशं कार्तिके क्रतुकोटिभिः
पुण्यं प्राप्यानघो भूत्वा विष्णुलोके महीयते ३३९
विश्वास-प्रस्तुतिः - ३४०
दशमीमिश्रितां त्यक्त्वा वेलायामरुणोदये
उपोष्यैकादशीं शुद्धां द्वादशीं वाऽपि वैष्णवः ३४०
मूलम् - ३४०
दशमीमिश्रितां त्यक्त्वा वेलायामरुणोदये
उपोष्यैकादशीं शुद्धां द्वादशीं वाऽपि वैष्णवः ३४०
विश्वास-प्रस्तुतिः - ३४१
स्नात्वाऽऽमलक्या नद्यां तु विधानेन हरिं यजेत्
सुगन्धकुसुमैः शुभ्रैरुपचारैश्च सर्वशः ३४१
मूलम् - ३४१
स्नात्वाऽऽमलक्या नद्यां तु विधानेन हरिं यजेत्
सुगन्धकुसुमैः शुभ्रैरुपचारैश्च सर्वशः ३४१
विश्वास-प्रस्तुतिः - ३४२
रात्रौ जागरणं कुर्यात्पुराणं संहितां पठेत्
जागरेऽस्मिन्नशक्तश्चेद्दर्भानास्तीर्य वैष्णवः ३४२
मूलम् - ३४२
रात्रौ जागरणं कुर्यात्पुराणं संहितां पठेत्
जागरेऽस्मिन्नशक्तश्चेद्दर्भानास्तीर्य वैष्णवः ३४२
विश्वास-प्रस्तुतिः - ३४३
पुरतो वासुदेवस्य — स्वप्यात्समाहितः
ततः प्रभातसमये तुलसीमिश्रितैर्जलैः ३४३
मूलम् - ३४३
पुरतो वासुदेवस्य — स्वप्यात्समाहितः
ततः प्रभातसमये तुलसीमिश्रितैर्जलैः ३४३
विश्वास-प्रस्तुतिः - ३४४
स्नात्वा सन्तर्प्य देवेशं तुल्यस्या मूलमन्त्रतः
द्वयेन वा विष्णुसूक्तैः कुर्य्यात्पुष्पाञ्जलीस्ततः ३४४
मूलम् - ३४४
स्नात्वा सन्तर्प्य देवेशं तुल्यस्या मूलमन्त्रतः
द्वयेन वा विष्णुसूक्तैः कुर्य्यात्पुष्पाञ्जलीस्ततः ३४४
विश्वास-प्रस्तुतिः - ३४५
तथैव जुहुयादाज्यं मन्त्रेणैव शतं ततः
पायसान्नं निवेद्येशे ब्राह्मणान् भोजयेत्ततः ३४५
मूलम् - ३४५
तथैव जुहुयादाज्यं मन्त्रेणैव शतं ततः
पायसान्नं निवेद्येशे ब्राह्मणान् भोजयेत्ततः ३४५
विश्वास-प्रस्तुतिः - ३४६
ध्यायन् कमलपत्राक्षं स्वयं भुञ्जीत वाग्यतः
अहःशेषं समानीय पुराणं वाचयन्बुधः ३४६
मूलम् - ३४६
ध्यायन् कमलपत्राक्षं स्वयं भुञ्जीत वाग्यतः
अहःशेषं समानीय पुराणं वाचयन्बुधः ३४६
विश्वास-प्रस्तुतिः - ३४७
सायाह्ने समनुप्राप्ते दोलायां पूजयेद्धरिम्
अभ्यर्च्य गन्धपुष्पाद्यैर्भक्ष्यैर्नानाविधैरपि ३४७
मूलम् - ३४७
सायाह्ने समनुप्राप्ते दोलायां पूजयेद्धरिम्
अभ्यर्च्य गन्धपुष्पाद्यैर्भक्ष्यैर्नानाविधैरपि ३४७
विश्वास-प्रस्तुतिः - ३४८
ब्राह्मणस्य तु सूक्तैश्च शनैर्दोलां प्रचालयेत्
इतिहासपुराणाभ्यां गीतवाद्यैः प्रबन्धकैः ३४८
मूलम् - ३४८
ब्राह्मणस्य तु सूक्तैश्च शनैर्दोलां प्रचालयेत्
इतिहासपुराणाभ्यां गीतवाद्यैः प्रबन्धकैः ३४८
विश्वास-प्रस्तुतिः - ३४९
एवं संपूजयेद्देवं तस्यां निशि समाहितः
मध्याह्ने पूजयेद्विष्णुं वैष्णवेन समाहितः ३४९
मूलम् - ३४९
एवं संपूजयेद्देवं तस्यां निशि समाहितः
मध्याह्ने पूजयेद्विष्णुं वैष्णवेन समाहितः ३४९
विश्वास-प्रस्तुतिः - ३५०
चम्पकैः शतपत्रैश्च करवीरैः सितैरपि
वैष्णवेनैव मन्त्रेण पूजयेत्कमलापतिम् ३५०
मूलम् - ३५०
चम्पकैः शतपत्रैश्च करवीरैः सितैरपि
वैष्णवेनैव मन्त्रेण पूजयेत्कमलापतिम् ३५०
विश्वास-प्रस्तुतिः - ३५१
नकरीन्द्रेति सूक्तेन दद्यात्पुष्पाञ्जलिं हरेः
मन्त्रेणाष्टोत्तरशतं दद्यात्पुष्पाणि भक्तितः ३५१
मूलम् - ३५१
नकरीन्द्रेति सूक्तेन दद्यात्पुष्पाञ्जलिं हरेः
मन्त्रेणाष्टोत्तरशतं दद्यात्पुष्पाणि भक्तितः ३५१
विश्वास-प्रस्तुतिः - ३५२
तथैव होमं कुर्वीत तिस्रौ व्रीहिभिरेव वा
सुदध्यन्नं फलयुतं नैवेद्यं विनिवेदयत् ३५२
मूलम् - ३५२
तथैव होमं कुर्वीत तिस्रौ व्रीहिभिरेव वा
सुदध्यन्नं फलयुतं नैवेद्यं विनिवेदयत् ३५२
विश्वास-प्रस्तुतिः - ३५३
दीपैर्नीराजनं कृत्वा वैष्णवान् भोजयेत्ततः
मन्दवारे तु सायाह्ने तावत्सम्यगुपोषितः ३५३
मूलम् - ३५३
दीपैर्नीराजनं कृत्वा वैष्णवान् भोजयेत्ततः
मन्दवारे तु सायाह्ने तावत्सम्यगुपोषितः ३५३
विश्वास-प्रस्तुतिः - ३५४
तिलैः स्नात्वा विधानेन सन्तर्प्य च सनातनम्
नृसिंहवपुषं देवं पूजयेत्तद्विधानतः ३५४
मूलम् - ३५४
तिलैः स्नात्वा विधानेन सन्तर्प्य च सनातनम्
नृसिंहवपुषं देवं पूजयेत्तद्विधानतः ३५४
विश्वास-प्रस्तुतिः - ३५५
मन्त्रराजेन गायत्र्या मूलमन्त्रेण वा यजेत्
अखण्डबिल्वपत्रैश्च जातिकुन्दैश्च यूथिकैः ३५५
मूलम् - ३५५
मन्त्रराजेन गायत्र्या मूलमन्त्रेण वा यजेत्
अखण्डबिल्वपत्रैश्च जातिकुन्दैश्च यूथिकैः ३५५
विश्वास-प्रस्तुतिः - ३५६
छन्नः पञ्चोशना शान्त्याः त्वमग्ने द्युभिरीति च
दद्यात्पुष्पाञ्जलिं भक्त्या मन्त्रेणैव शतं यथा ३५६
मूलम् - ३५६
छन्नः पञ्चोशना शान्त्याः त्वमग्ने द्युभिरीति च
दद्यात्पुष्पाञ्जलिं भक्त्या मन्त्रेणैव शतं यथा ३५६
विश्वास-प्रस्तुतिः - ३५७
आम्यामेबानुवाकाभ्यां प्रत्यृचं जुहुयाद् घृतम्
मन्त्रेणाष्टोत्तरशतं बिल्वपत्रैर्वृतान्वितैः ३५७
मूलम् - ३५७
आम्यामेबानुवाकाभ्यां प्रत्यृचं जुहुयाद् घृतम्
मन्त्रेणाष्टोत्तरशतं बिल्वपत्रैर्वृतान्वितैः ३५७
विश्वास-प्रस्तुतिः - ३५८
वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत्
मधुशर्करसंयुक्तानपूपान्मोदकांस्तथा ३५८
मूलम् - ३५८
वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत्
मधुशर्करसंयुक्तानपूपान्मोदकांस्तथा ३५८
विश्वास-प्रस्तुतिः - ३५९
मण्डकान्विविधान्भक्ष्यान्सूपान्नं मधुमिश्रितम्
सुवासितं पानकञ्च नृसिंहाय समर्पयेत् ३५९
मूलम् - ३५९
मण्डकान्विविधान्भक्ष्यान्सूपान्नं मधुमिश्रितम्
सुवासितं पानकञ्च नृसिंहाय समर्पयेत् ३५९
६३०
विश्वास-प्रस्तुतिः - ३६०
नृत्यं गीतं तथा वाद्यं कुर्वीत पुरतो हरेः
भोजयेच्च ततो विप्रान् नव सप्ताथ पञ्च वा ३६०
मूलम् - ३६०
नृत्यं गीतं तथा वाद्यं कुर्वीत पुरतो हरेः
भोजयेच्च ततो विप्रान् नव सप्ताथ पञ्च वा ३६०
विश्वास-प्रस्तुतिः - ३६१
हर्यर्पितहविष्यान्नं भुञ्जीयाद्वाग्यतः स्वयम्
ध्यायेन्नृसिंहं मनसा भूमौ स्वप्याज्जितेन्द्रियः ३६१
मूलम् - ३६१
हर्यर्पितहविष्यान्नं भुञ्जीयाद्वाग्यतः स्वयम्
ध्यायेन्नृसिंहं मनसा भूमौ स्वप्याज्जितेन्द्रियः ३६१
विश्वास-प्रस्तुतिः - ३६२
एवं शनिदिने देवमभ्यर्च्य नरकेसरिम्
सर्वान् कामानवाप्नोति सोऽश्वमेधायुतं लभेत् ३६२
मूलम् - ३६२
एवं शनिदिने देवमभ्यर्च्य नरकेसरिम्
सर्वान् कामानवाप्नोति सोऽश्वमेधायुतं लभेत् ३६२
विश्वास-प्रस्तुतिः - ३६३
षष्टिवर्षसहस्रं स पूजां प्राप्नोति केशवः
कुलकोटिं समुद्धृत्य वैकुण्ठपुरमाप्नुयात् ३६३
मूलम् - ३६३
षष्टिवर्षसहस्रं स पूजां प्राप्नोति केशवः
कुलकोटिं समुद्धृत्य वैकुण्ठपुरमाप्नुयात् ३६३
विश्वास-प्रस्तुतिः - ३६४
प्रायश्चित्तमिदं गुह्यं पातकेषु महत्स्वपि
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ३६४
मूलम् - ३६४
प्रायश्चित्तमिदं गुह्यं पातकेषु महत्स्वपि
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ३६४
विश्वास-प्रस्तुतिः - ३६५
पक्षे पक्षे पौर्णमास्यामुदितेऽस्मिन्दिवाकरे
स्नात्वा संपूजयेद्विष्णुं वामनं देवमव्ययम् ३६५
मूलम् - ३६५
पक्षे पक्षे पौर्णमास्यामुदितेऽस्मिन्दिवाकरे
स्नात्वा संपूजयेद्विष्णुं वामनं देवमव्ययम् ३६५
विश्वास-प्रस्तुतिः - ३६६
समासीनं महात्मानं तस्मिन् पूर्णन्दुमण्डले
सन्तर्पयेच्छुभजलैः कुसुमाक्षतमिश्रितैः ३६६
मूलम् - ३६६
समासीनं महात्मानं तस्मिन् पूर्णन्दुमण्डले
सन्तर्पयेच्छुभजलैः कुसुमाक्षतमिश्रितैः ३६६
विश्वास-प्रस्तुतिः - ३६७
तत्र मूलेन मन्त्रेण पूजयेत्परमेश्वरम्
तुलसीकुन्दकुसुमैरथ पुष्पाञ्जलिं चरेत् ३६७
मूलम् - ३६७
तत्र मूलेन मन्त्रेण पूजयेत्परमेश्वरम्
तुलसीकुन्दकुसुमैरथ पुष्पाञ्जलिं चरेत् ३६७
विश्वास-प्रस्तुतिः - ३६८
त्वं सोम इति सूक्तेन प्रत्यृच कुसुमैर्यजेत्
पश्चाद्धोमं प्रकुर्वीत पायसान्नं सशर्करम् ३६८
मूलम् - ३६८
त्वं सोम इति सूक्तेन प्रत्यृच कुसुमैर्यजेत्
पश्चाद्धोमं प्रकुर्वीत पायसान्नं सशर्करम् ३६८
विश्वास-प्रस्तुतिः - ३६९
मन्त्रेणाष्टोत्तरशतं सूक्तेन प्रत्यृचं तथा
अग्निसोमानुवाकेन समिद्भिः पिप्पलैर्यजेत् ३६९
मूलम् - ३६९
मन्त्रेणाष्टोत्तरशतं सूक्तेन प्रत्यृचं तथा
अग्निसोमानुवाकेन समिद्भिः पिप्पलैर्यजेत् ३६९
विश्वास-प्रस्तुतिः - ३७०
सहस्रनामभिः स्तुत्वा नमस्कृत्वा जनार्दनम्
वैष्णवान् भोजयेत्पश्चात्पायसान्नेन शक्तितः ३७०
मूलम् - ३७०
सहस्रनामभिः स्तुत्वा नमस्कृत्वा जनार्दनम्
वैष्णवान् भोजयेत्पश्चात्पायसान्नेन शक्तितः ३७०
विश्वास-प्रस्तुतिः - ३७१
स्वयं भुक्त्वा हविः शेषं शयीत नियतेन्द्रियः
एवं संपूज्य देवेशं पौर्णमास्यां जनार्दनम् ३७१
मूलम् - ३७१
स्वयं भुक्त्वा हविः शेषं शयीत नियतेन्द्रियः
एवं संपूज्य देवेशं पौर्णमास्यां जनार्दनम् ३७१
विश्वास-प्रस्तुतिः - ३७२
सर्वपापविनिर्मुक्तो विष्णु सायुज्यमाप्नुयात्
मघायामपि पूर्वाह्णे स्नात्वा कृष्णं जलैर्द्विजः ३७२
मूलम् - ३७२
सर्वपापविनिर्मुक्तो विष्णु सायुज्यमाप्नुयात्
मघायामपि पूर्वाह्णे स्नात्वा कृष्णं जलैर्द्विजः ३७२
विश्वास-प्रस्तुतिः - ३७३
सन्तर्प्य मूलमन्त्रेण तिलमिश्रितवारिभिः
तर्पयित्वा पितृन्देवानर्चयेदच्युतं ततः ३७३
मूलम् - ३७३
सन्तर्प्य मूलमन्त्रेण तिलमिश्रितवारिभिः
तर्पयित्वा पितृन्देवानर्चयेदच्युतं ततः ३७३
विश्वास-प्रस्तुतिः - ३७४
कृष्णैश्च तुलसीपत्रैः केतकैः कमलैरपि
शोणितैः करवीरैश्च जपाकुटजपाटलैः ३७४
मूलम् - ३७४
कृष्णैश्च तुलसीपत्रैः केतकैः कमलैरपि
शोणितैः करवीरैश्च जपाकुटजपाटलैः ३७४
विश्वास-प्रस्तुतिः - ३७५
अस्य वामेति सूक्तेन दद्यात्पुष्पाञ्जलिं हरेः
मन्त्रेणाष्टोत्तरशतं कृष्णं श्रीतुलसीदलैः ३७५
मूलम् - ३७५
अस्य वामेति सूक्तेन दद्यात्पुष्पाञ्जलिं हरेः
मन्त्रेणाष्टोत्तरशतं कृष्णं श्रीतुलसीदलैः ३७५
विश्वास-प्रस्तुतिः - ३७६
तथैव जुहुयादग्नौ तिलैः कृष्णैः सकर्शरैः
आज्येन पौरुषं सूक्तं प्रत्यृचं जुहुयात्ततः ३७६
मूलम् - ३७६
तथैव जुहुयादग्नौ तिलैः कृष्णैः सकर्शरैः
आज्येन पौरुषं सूक्तं प्रत्यृचं जुहुयात्ततः ३७६
विश्वास-प्रस्तुतिः - ३७७
नारायणानुवाकेन उपस्थाय जनार्दनम्
सुसंयावैः सौहृदैश्च शाल्यन्नं विनिवेदयेत् ३७७
मूलम् - ३७७
नारायणानुवाकेन उपस्थाय जनार्दनम्
सुसंयावैः सौहृदैश्च शाल्यन्नं विनिवेदयेत् ३७७
विश्वास-प्रस्तुतिः - ३७८
वैष्णवान्भोजयेत्पश्चात्स्वयं भुञ्जीत वाग्यतः
तस्यां रात्रौ जपेन्मन्त्रमयुतं हरिसन्निधौ ३७८
मूलम् - ३७८
वैष्णवान्भोजयेत्पश्चात्स्वयं भुञ्जीत वाग्यतः
तस्यां रात्रौ जपेन्मन्त्रमयुतं हरिसन्निधौ ३७८
विश्वास-प्रस्तुतिः - ३७९
वैष्णवैरनुवाकैश्च दत्त्वा पुष्पाञ्जलिं ततः
पुरतो वासुदेवस्य भूमौ स्वप्यात्कुशोत्तरे ३७९
मूलम् - ३७९
वैष्णवैरनुवाकैश्च दत्त्वा पुष्पाञ्जलिं ततः
पुरतो वासुदेवस्य भूमौ स्वप्यात्कुशोत्तरे ३७९
विश्वास-प्रस्तुतिः - ३८०
एवं संपूज्य देवेशं मघायां वैष्णवोत्तमः
उद्धृत्य वंशजान् सर्वान् वैष्णवं पदमाप्नुयात् ३८०
मूलम् - ३८०
एवं संपूज्य देवेशं मघायां वैष्णवोत्तमः
उद्धृत्य वंशजान् सर्वान् वैष्णवं पदमाप्नुयात् ३८०
विश्वास-प्रस्तुतिः - ३८१
व्यतीपाते तु संप्राप्ते हयग्रीवं जनार्दनम्
पुष्पैश्च करवीरैश्च पुण्डरीकैः समर्च्चयेत् ३८१
मूलम् - ३८१
व्यतीपाते तु संप्राप्ते हयग्रीवं जनार्दनम्
पुष्पैश्च करवीरैश्च पुण्डरीकैः समर्च्चयेत् ३८१
विश्वास-प्रस्तुतिः - ३८२
योरयीत्यनुवाकेन प्रत्यृचं वै यजेद्बुधः
मन्त्रेण च शतं दत्त्वा पश्चाद्धोमं समाचरेत् ३८२
मूलम् - ३८२
योरयीत्यनुवाकेन प्रत्यृचं वै यजेद्बुधः
मन्त्रेण च शतं दत्त्वा पश्चाद्धोमं समाचरेत् ३८२
विश्वास-प्रस्तुतिः - ३८३
यवैश्च तण्डुलैर्वाऽपि तिलैः पुष्पैरमापि वा
मन्त्रेणाष्टोत्तरशतं जुहुयाद्वैष्णवोत्तमः ३८३
मूलम् - ३८३
यवैश्च तण्डुलैर्वाऽपि तिलैः पुष्पैरमापि वा
मन्त्रेणाष्टोत्तरशतं जुहुयाद्वैष्णवोत्तमः ३८३
विश्वास-प्रस्तुतिः - ३८४
अभूदेकाद्यष्टसूक्तैः प्रत्यृचं जुहुयाच्चरुम्
शेषं निवेद्य हरये संप्राश्याऽऽचमनं चरेत् ३८४
मूलम् - ३८४
अभूदेकाद्यष्टसूक्तैः प्रत्यृचं जुहुयाच्चरुम्
शेषं निवेद्य हरये संप्राश्याऽऽचमनं चरेत् ३८४
विश्वास-प्रस्तुतिः - ३८५
सहस्रशीर्षसूक्तेन उपस्थाय जनार्दनम्
शाल्योदनं सूपयुतं विविधैश्च फलैरपि ३८५
मूलम् - ३८५
सहस्रशीर्षसूक्तेन उपस्थाय जनार्दनम्
शाल्योदनं सूपयुतं विविधैश्च फलैरपि ३८५
६३२
गवाज्येन युतं दत्त्वा दीपैर्नीराजयेत्ततः ३८६
विश्वास-प्रस्तुतिः - ३८७
ब्राह्मणान् भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत्
हविष्यन्तु स्वयं भुक्त्वा भूमौ स्वप्याज्जितेन्द्रियः ३८७
मूलम् - ३८७
ब्राह्मणान् भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत्
हविष्यन्तु स्वयं भुक्त्वा भूमौ स्वप्याज्जितेन्द्रियः ३८७
विश्वास-प्रस्तुतिः - ३८८
एवं संपूज्य देवेशं व्यतीपाते सनातनम्
दशवर्षसहस्रस्य पूजायाः फलनाप्नुयात् ३८८
मूलम् - ३८८
एवं संपूज्य देवेशं व्यतीपाते सनातनम्
दशवर्षसहस्रस्य पूजायाः फलनाप्नुयात् ३८८
विश्वास-प्रस्तुतिः - ३८९
ग्रहणे रविसंक्रान्तौ वराहवपुषं हरिम्
कुमुदैरुज्वलैः पद्मैस्तुलसीभिः कुरन्दकैः ३८९
मूलम् - ३८९
ग्रहणे रविसंक्रान्तौ वराहवपुषं हरिम्
कुमुदैरुज्वलैः पद्मैस्तुलसीभिः कुरन्दकैः ३८९
विश्वास-प्रस्तुतिः - ३९०
अर्चयेद्भूधरं देवं तन्मन्त्रेणैव वैष्णवः
दूरादिहेति सूक्तेन दद्यात्पुष्पाञ्जलिं द्विजः ३९०
मूलम् - ३९०
अर्चयेद्भूधरं देवं तन्मन्त्रेणैव वैष्णवः
दूरादिहेति सूक्तेन दद्यात्पुष्पाञ्जलिं द्विजः ३९०
विश्वास-प्रस्तुतिः - ३९१
मन्त्रेण च सहस्रं तु शतं वाऽपि यजेत्तदा
तिलैश्च जुहुयात्तद्वत् सूक्तेन प्रत्यृचं घृतम् ३९१
मूलम् - ३९१
मन्त्रेण च सहस्रं तु शतं वाऽपि यजेत्तदा
तिलैश्च जुहुयात्तद्वत् सूक्तेन प्रत्यृचं घृतम् ३९१
विश्वास-प्रस्तुतिः - ३९२
सूपान्नं कृसरान्नं च भक्ष्यापूपान्घृतप्लुतान्
नैवेद्यं विनिवेद्येशे ब्राह्मणान्भोजयेत्ततः ३९२
मूलम् - ३९२
सूपान्नं कृसरान्नं च भक्ष्यापूपान्घृतप्लुतान्
नैवेद्यं विनिवेद्येशे ब्राह्मणान्भोजयेत्ततः ३९२
विश्वास-प्रस्तुतिः - ३९३
एवं संपूज्य देवेशं संक्रान्तौ ग्रहणे हरिम्
कल्पकोटिसहस्राणि विष्णुलोके महीयते ३९३
मूलम् - ३९३
एवं संपूज्य देवेशं संक्रान्तौ ग्रहणे हरिम्
कल्पकोटिसहस्राणि विष्णुलोके महीयते ३९३
विश्वास-प्रस्तुतिः - ३९४
वैशाखे पूजयेद्रामं काकुत्स्थं पुरुषोत्तमम्
सीतालक्ष्मणसंयुक्तं मध्याह्ने पूजयेद्विभुम् ३९४
मूलम् - ३९४
वैशाखे पूजयेद्रामं काकुत्स्थं पुरुषोत्तमम्
सीतालक्ष्मणसंयुक्तं मध्याह्ने पूजयेद्विभुम् ३९४
विश्वास-प्रस्तुतिः - ३९५
पुन्नागकेतकीपद्मैरुत्पलैः करवीरकैः
चाम्पेयैबकुलैः पूजां षडर्णनैव कारयेत् ३९५
मूलम् - ३९५
पुन्नागकेतकीपद्मैरुत्पलैः करवीरकैः
चाम्पेयैबकुलैः पूजां षडर्णनैव कारयेत् ३९५
विश्वास-प्रस्तुतिः - ३९६
जातये वातिसूक्तेन कुर्यात्पुष्पाञ्जलिं ततः
संक्षेपेण शतश्लोक्यां प्रतिश्लोकं यजेत्ततः ३९६
मूलम् - ३९६
जातये वातिसूक्तेन कुर्यात्पुष्पाञ्जलिं ततः
संक्षेपेण शतश्लोक्यां प्रतिश्लोकं यजेत्ततः ३९६
विश्वास-प्रस्तुतिः - ३९७
पुष्पाञ्जलिं सहस्रं तु मन्त्रेणैव यजेत्ततः
त्वमग्न इति सूक्तेन पायसं जुहुयादृचा ३९७
मूलम् - ३९७
पुष्पाञ्जलिं सहस्रं तु मन्त्रेणैव यजेत्ततः
त्वमग्न इति सूक्तेन पायसं जुहुयादृचा ३९७
विश्वास-प्रस्तुतिः - ३९८
पश्चान्मत्रेणाऽऽज्यहोमो नैवेद्यं पायसं घृतम्
कदलीफलं शर्करां च पानकं च निवेदयेत् ३९८
मूलम् - ३९८
पश्चान्मत्रेणाऽऽज्यहोमो नैवेद्यं पायसं घृतम्
कदलीफलं शर्करां च पानकं च निवेदयेत् ३९८
६३३
सुहृद्यैरन्नपानाद्यैर्गोहिण्यादिदक्षिणैः ३९९
विश्वास-प्रस्तुतिः - ४००
हविष्यान्नं स्वयं भुक्त्वा पठेद्रामायणं नरः
एवं संपूज्य विधिवद्राघवं जानकीयुतम् ४००
मूलम् - ४००
हविष्यान्नं स्वयं भुक्त्वा पठेद्रामायणं नरः
एवं संपूज्य विधिवद्राघवं जानकीयुतम् ४००
विश्वास-प्रस्तुतिः - ४०१
भुक्त्वा भोगान् मनोरम्यान् विष्णुलोके महीयते
लक्ष्मीनारायणं देवं भार्गवे वासरे निशि ४०१
मूलम् - ४०१
भुक्त्वा भोगान् मनोरम्यान् विष्णुलोके महीयते
लक्ष्मीनारायणं देवं भार्गवे वासरे निशि ४०१
विश्वास-प्रस्तुतिः - ४०२
अखण्डबिल्वपत्रैश्च तुलसीकोमलैर्दलैः
अर्चयेन्मन्त्ररत्नेन वामाङ्कस्थश्रिया सह ४०२
मूलम् - ४०२
अखण्डबिल्वपत्रैश्च तुलसीकोमलैर्दलैः
अर्चयेन्मन्त्ररत्नेन वामाङ्कस्थश्रिया सह ४०२
विश्वास-प्रस्तुतिः - ४०३
चन्दनं कुङ्कुमोपेतङ्कस्तूर्या च समर्चयेत्
श्रीसूक्तपुरुषसूक्ताभ्यां दद्यात्पुष्पाञ्जलिं ततः ४०३
मूलम् - ४०३
चन्दनं कुङ्कुमोपेतङ्कस्तूर्या च समर्चयेत्
श्रीसूक्तपुरुषसूक्ताभ्यां दद्यात्पुष्पाञ्जलिं ततः ४०३
विश्वास-प्रस्तुतिः - ४०४
मन्त्रद्वयेन पुष्पाणां सहस्रं च निवेदयेत्
त्वमग्न इति सूक्तेन प्रत्यृचं कुसुमान् यजेत् ४०४
मूलम् - ४०४
मन्त्रद्वयेन पुष्पाणां सहस्रं च निवेदयेत्
त्वमग्न इति सूक्तेन प्रत्यृचं कुसुमान् यजेत् ४०४
विश्वास-प्रस्तुतिः - ४०५
अखण्डबिल्वपत्रैर्वा पद्मपत्रैर्घृतेन वा
श्रीसूक्तपुरुषसूक्ताभ्यां प्रत्यृचं जुहुयात्ततः ४०५
मूलम् - ४०५
अखण्डबिल्वपत्रैर्वा पद्मपत्रैर्घृतेन वा
श्रीसूक्तपुरुषसूक्ताभ्यां प्रत्यृचं जुहुयात्ततः ४०५
विश्वास-प्रस्तुतिः - ४०६
अग्निं न वेति सूक्तेन तिलैर्व्रीहिभिरेव वा
मन्त्ररत्नेन जुहुयात्सुगन्धकुसुमैः शतम् ४०६
मूलम् - ४०६
अग्निं न वेति सूक्तेन तिलैर्व्रीहिभिरेव वा
मन्त्ररत्नेन जुहुयात्सुगन्धकुसुमैः शतम् ४०६
विश्वास-प्रस्तुतिः - ४०७
मण्डकान् क्षीरसंयुक्तान्पायसान्नं सशर्करम्
शाल्यन्नं पृषदाज्यं च भक्त्यास्मै विनिवेदयेत् ४०७
मूलम् - ४०७
मण्डकान् क्षीरसंयुक्तान्पायसान्नं सशर्करम्
शाल्यन्नं पृषदाज्यं च भक्त्यास्मै विनिवेदयेत् ४०७
विश्वास-प्रस्तुतिः - ४०८
अभ्यर्च्य विप्रमिथुनान् वासोऽलङ्कारभूषणैः
भोजयित्वा यथाशक्त्या पश्चाद्भुञ्जीत वाग्यतः ४०८
मूलम् - ४०८
अभ्यर्च्य विप्रमिथुनान् वासोऽलङ्कारभूषणैः
भोजयित्वा यथाशक्त्या पश्चाद्भुञ्जीत वाग्यतः ४०८
विश्वास-प्रस्तुतिः - ४०९
मन्वन्तरशतं विष्णुं दुग्धाब्धौ हेमपङ्कजैः
संपूज्य यदवाप्नोति तत्फलं भृगुवासरे ४०९
मूलम् - ४०९
मन्वन्तरशतं विष्णुं दुग्धाब्धौ हेमपङ्कजैः
संपूज्य यदवाप्नोति तत्फलं भृगुवासरे ४०९
विश्वास-प्रस्तुतिः - ४१०
एवं संपूज्यमानस्तु तस्मिन्नहनि वैष्णवैः
लक्ष्म्या सह हरिः साक्षात्प्रत्यक्षं तत्क्षणाद्भवेत् ४१०
मूलम् - ४१०
एवं संपूज्यमानस्तु तस्मिन्नहनि वैष्णवैः
लक्ष्म्या सह हरिः साक्षात्प्रत्यक्षं तत्क्षणाद्भवेत् ४१०
विश्वास-प्रस्तुतिः - ४११
गोपालपुरुषं कृष्णमर्चयेच्छ्रद्धयाऽन्वितः
मल्लिकामालतीकुन्दयूथी कुटजकेतकैः ४११
मूलम् - ४११
गोपालपुरुषं कृष्णमर्चयेच्छ्रद्धयाऽन्वितः
मल्लिकामालतीकुन्दयूथी कुटजकेतकैः ४११
६३४
विश्वास-प्रस्तुतिः - ४१२
लोध्रनीपार्जुनैर्नागैः कर्णिकारैः कदम्बकैः
कोविदारैः करवीरैर्बिल्वरास्फोटकैरपि ४१२
मूलम् - ४१२
लोध्रनीपार्जुनैर्नागैः कर्णिकारैः कदम्बकैः
कोविदारैः करवीरैर्बिल्वरास्फोटकैरपि ४१२
विश्वास-प्रस्तुतिः - ४१३
दशाक्षरेण मन्त्रेण पूजयेत्पुरुषोत्तमम्
ये त्रिंशतीति सूक्तेन दद्यात्पुष्पाञ्जलिं ततः ४१३
मूलम् - ४१३
दशाक्षरेण मन्त्रेण पूजयेत्पुरुषोत्तमम्
ये त्रिंशतीति सूक्तेन दद्यात्पुष्पाञ्जलिं ततः ४१३
विश्वास-प्रस्तुतिः - ४१४
श्रीकृष्णं तुलसीपत्रैः प्रत्यृचं पूजयेद्विभुम्
श्रीकृष्णाय नम इति सूक्तेनाष्टोत्तरं शतम् ४१४
मूलम् - ४१४
श्रीकृष्णं तुलसीपत्रैः प्रत्यृचं पूजयेद्विभुम्
श्रीकृष्णाय नम इति सूक्तेनाष्टोत्तरं शतम् ४१४
विश्वास-प्रस्तुतिः - ४१५
पूजयित्वाऽथ होमन्तु तिलैः कृष्णैर्घृतान्वितैः
प्रत्यृचं वैष्णवैः सूक्तैर्जुहुयात्पुरुषोत्तमम् ४१५
मूलम् - ४१५
पूजयित्वाऽथ होमन्तु तिलैः कृष्णैर्घृतान्वितैः
प्रत्यृचं वैष्णवैः सूक्तैर्जुहुयात्पुरुषोत्तमम् ४१५
विश्वास-प्रस्तुतिः - ४१६
समिद्भिः पिप्पलैश्चापि मन्त्रेणाष्टोत्तरं शतम्
नामभिः केशवाद्यैश्च चरुं पश्चाद्धृतप्लुतम् ४१६
मूलम् - ४१६
समिद्भिः पिप्पलैश्चापि मन्त्रेणाष्टोत्तरं शतम्
नामभिः केशवाद्यैश्च चरुं पश्चाद्धृतप्लुतम् ४१६
विश्वास-प्रस्तुतिः - ४१७
वैष्णव्या चैव गायत्र्या पृषदाज्यं शतं तथा
गुडोदनं सर्पिषाऽक्तं भक्ष्याणि विविधानि च ४१७
मूलम् - ४१७
वैष्णव्या चैव गायत्र्या पृषदाज्यं शतं तथा
गुडोदनं सर्पिषाऽक्तं भक्ष्याणि विविधानि च ४१७
विश्वास-प्रस्तुतिः - ४१८
क्षीरान्नं शर्करोपेतं नैवेद्यञ्च समर्पयेत्
वैष्णवान्भोजयेत्पश्चात्स्वयं भुञ्जीत वाग्यतः ४१८
मूलम् - ४१८
क्षीरान्नं शर्करोपेतं नैवेद्यञ्च समर्पयेत्
वैष्णवान्भोजयेत्पश्चात्स्वयं भुञ्जीत वाग्यतः ४१८
विश्वास-प्रस्तुतिः - ४१९
एवमभ्यर्च्य गोविन्दं कृष्णाष्टम्यां विधानतः
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ४१९
मूलम् - ४१९
एवमभ्यर्च्य गोविन्दं कृष्णाष्टम्यां विधानतः
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ४१९
विश्वास-प्रस्तुतिः - ४२०
द्वयोरप्यनयोः श्रीशं कूर्मरूपं समर्च्चयेत्
ससागरां महीं सर्व्वां लभते नात्र संशयः ४२०
मूलम् - ४२०
द्वयोरप्यनयोः श्रीशं कूर्मरूपं समर्च्चयेत्
ससागरां महीं सर्व्वां लभते नात्र संशयः ४२०
विश्वास-प्रस्तुतिः - ४२१
अर्चयेन्मूलमन्त्रेण गन्धपुष्पाक्षतादिभिः
अर्च्चयित्वा विधानेन हविष्यं व्यञ्जनैर्युतम् ४२१
मूलम् - ४२१
अर्चयेन्मूलमन्त्रेण गन्धपुष्पाक्षतादिभिः
अर्च्चयित्वा विधानेन हविष्यं व्यञ्जनैर्युतम् ४२१
विश्वास-प्रस्तुतिः - ४२२
सुदीर्घयन्त्रजान्सूपघृतमिश्रान्निवेदयेत्
अहं पूर्वेति सूक्तेन कुर्यात्पुष्पाञ्जलिं ततः ४२२
मूलम् - ४२२
सुदीर्घयन्त्रजान्सूपघृतमिश्रान्निवेदयेत्
अहं पूर्वेति सूक्तेन कुर्यात्पुष्पाञ्जलिं ततः ४२२
विश्वास-प्रस्तुतिः - ४२३
सहस्रं मूलमन्त्रेण पूजयेत्तुलसीदलैः
तिलमिश्रैश्च पृथुकैर्जुहुयाद्धव्यवाहने ४२३
मूलम् - ४२३
सहस्रं मूलमन्त्रेण पूजयेत्तुलसीदलैः
तिलमिश्रैश्च पृथुकैर्जुहुयाद्धव्यवाहने ४२३
विश्वास-प्रस्तुतिः - ४२४
प्रयद्व इति सूक्ताभ्यां नासदासीत्यनेन च
मन्त्रेणाऽऽज्यं सहस्रन्तु जुहुयाद्वैष्णवोत्तमः ४२४
मूलम् - ४२४
प्रयद्व इति सूक्ताभ्यां नासदासीत्यनेन च
मन्त्रेणाऽऽज्यं सहस्रन्तु जुहुयाद्वैष्णवोत्तमः ४२४
विश्वास-प्रस्तुतिः - ४२५
भोजयेद्वैष्णवान्भक्त्या विशेषेणार्च्चयेद्गुरुम्
कौर्मे तु शतवर्षन्तु समभ्यर्च्य विधानतः ४२५
मूलम् - ४२५
भोजयेद्वैष्णवान्भक्त्या विशेषेणार्च्चयेद्गुरुम्
कौर्मे तु शतवर्षन्तु समभ्यर्च्य विधानतः ४२५
विश्वास-प्रस्तुतिः - ४२६
अत्राप्यर्चनमात्रेण तत्फलं समवाप्नुयात्
मधुशुक्लप्रतिपदि केशवं पूजयेद्द्विजः ४२६
मूलम् - ४२६
अत्राप्यर्चनमात्रेण तत्फलं समवाप्नुयात्
मधुशुक्लप्रतिपदि केशवं पूजयेद्द्विजः ४२६
विश्वास-प्रस्तुतिः - ४२७
स्नात्वा मध्याह्नसमये करवीरैः सुगन्धिभिः
अग्निमील इत्याद्येन प्रत्यृचं कुसुमैर्यजेत् ४२७
मूलम् - ४२७
स्नात्वा मध्याह्नसमये करवीरैः सुगन्धिभिः
अग्निमील इत्याद्येन प्रत्यृचं कुसुमैर्यजेत् ४२७
विश्वास-प्रस्तुतिः - ४२८
मन्त्ररत्नेन वाऽभ्यर्च्य चरुपायसहोमकृत्
ईले द्यावेति सूक्तेन यदिन्द्राग्नीत्यनेन च ४२८
मूलम् - ४२८
मन्त्ररत्नेन वाऽभ्यर्च्य चरुपायसहोमकृत्
ईले द्यावेति सूक्तेन यदिन्द्राग्नीत्यनेन च ४२८
विश्वास-प्रस्तुतिः - ४२९
विष्णुसूक्तैश्च जुहुयाद्गायत्र्या विष्णुसंज्ञया
अपूपान्कटकाकारान्शाल्यन्नं घृतसंयुतम् ४२९
मूलम् - ४२९
विष्णुसूक्तैश्च जुहुयाद्गायत्र्या विष्णुसंज्ञया
अपूपान्कटकाकारान्शाल्यन्नं घृतसंयुतम् ४२९
विश्वास-प्रस्तुतिः - ४३०
फलैश्च भक्ष्यभोज्यैश्च नैवेद्यं विनिवेदयेत्
भोजयेद्ब्राह्मणान्शक्त्या दक्षिणाभिः प्रपूजयेत् ४३०
मूलम् - ४३०
फलैश्च भक्ष्यभोज्यैश्च नैवेद्यं विनिवेदयेत्
भोजयेद्ब्राह्मणान्शक्त्या दक्षिणाभिः प्रपूजयेत् ४३०
विश्वास-प्रस्तुतिः - ४३१
साग्रं सम्वत्सरं तत्र सम्यक् संपूजयेद्धरिम्
सर्वान् कामानवाप्नोति हयमेधायुतं लभेत् ४३१
मूलम् - ४३१
साग्रं सम्वत्सरं तत्र सम्यक् संपूजयेद्धरिम्
सर्वान् कामानवाप्नोति हयमेधायुतं लभेत् ४३१
विश्वास-प्रस्तुतिः - ४३२
तस्मिन्नवम्यां शुक्ले तु नक्षत्रेऽदितिदैवते
तत्र जातो जगन्नाथो राघवः पुरुषोत्तमः ४३२
मूलम् - ४३२
तस्मिन्नवम्यां शुक्ले तु नक्षत्रेऽदितिदैवते
तत्र जातो जगन्नाथो राघवः पुरुषोत्तमः ४३२
विश्वास-प्रस्तुतिः - ४३३
तस्मिन्नुपोष्य मध्याह्ने स्नात्वा सन्ध्यां विधानतः
तर्पयित्वा पितॄन् देवानर्चयेद्राघवं हरिम् ४३३
मूलम् - ४३३
तस्मिन्नुपोष्य मध्याह्ने स्नात्वा सन्ध्यां विधानतः
तर्पयित्वा पितॄन् देवानर्चयेद्राघवं हरिम् ४३३
विश्वास-प्रस्तुतिः - ४३४
अभ्यर्च्य जगतामीशं जपेन्मन्त्रं समाहितः
शान्तिं शास्त्रं पुराणञ्च नाम्नां विष्णोः सहस्रकम् ४३४
मूलम् - ४३४
अभ्यर्च्य जगतामीशं जपेन्मन्त्रं समाहितः
शान्तिं शास्त्रं पुराणञ्च नाम्नां विष्णोः सहस्रकम् ४३४
विश्वास-प्रस्तुतिः - ४३५
पावमानैर्विष्णुसूक्तैः कुर्यात्पुष्पाञ्जलिं ततः
रामायणशतश्लोक्या दद्यात्पुष्पाणि वैष्णवः ४३५
मूलम् - ४३५
पावमानैर्विष्णुसूक्तैः कुर्यात्पुष्पाञ्जलिं ततः
रामायणशतश्लोक्या दद्यात्पुष्पाणि वैष्णवः ४३५
विश्वास-प्रस्तुतिः - ४३६
सशर्करं पायसान्नं कपिलाघृतसंयुतम्
रम्भाफलं पानकञ्च नैवेद्यं विनिवेदयेत् ४३६
मूलम् - ४३६
सशर्करं पायसान्नं कपिलाघृतसंयुतम्
रम्भाफलं पानकञ्च नैवेद्यं विनिवेदयेत् ४३६
विश्वास-प्रस्तुतिः - ६३६
पीतानि नागपर्णानि स्निग्धपूगीफलानि च
र्
६३६
मूलम् - ६३६
पीतानि नागपर्णानि स्निग्धपूगीफलानि च
र्
६३६
विश्वास-प्रस्तुतिः - ४३८
दीपान्नीराजयेद्भक्त्या नमस्कृत्य पुनः पुनः
प्रीतये रघुनाथस्य कुर्याद्दानानि शक्तितः ४३८
मूलम् - ४३८
दीपान्नीराजयेद्भक्त्या नमस्कृत्य पुनः पुनः
प्रीतये रघुनाथस्य कुर्याद्दानानि शक्तितः ४३८
विश्वास-प्रस्तुतिः - ४३९
षडक्षरेण साहस्रं तिलैर्वा पायसेन वा
कमलैर्बिल्वपत्रैर्वा घृतेन जुहुयात्ततः ४३९
मूलम् - ४३९
षडक्षरेण साहस्रं तिलैर्वा पायसेन वा
कमलैर्बिल्वपत्रैर्वा घृतेन जुहुयात्ततः ४३९
विश्वास-प्रस्तुतिः - ४४०
अस्य वामेति सूक्तेन समिद्भिः पिप्पलस्य तु
वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत् ४४०
मूलम् - ४४०
अस्य वामेति सूक्तेन समिद्भिः पिप्पलस्य तु
वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत् ४४०
विश्वास-प्रस्तुतिः - ४४१
रात्रौ जागरणं कुर्यात् द्वित्रियामं समर्चयेत्
प्रभाते विमले चापि ततो भरतजन्मनि ४४१
मूलम् - ४४१
रात्रौ जागरणं कुर्यात् द्वित्रियामं समर्चयेत्
प्रभाते विमले चापि ततो भरतजन्मनि ४४१
विश्वास-प्रस्तुतिः - ४४२
तृतीयेऽहनि मध्याह्ने सौमित्रेर्जन्मवासरे
सानुजं जगतामीशमर्चयेत्पूर्ववद्द्विजः ४४२
मूलम् - ४४२
तृतीयेऽहनि मध्याह्ने सौमित्रेर्जन्मवासरे
सानुजं जगतामीशमर्चयेत्पूर्ववद्द्विजः ४४२
विश्वास-प्रस्तुतिः - ४४३
पूजां पुष्पाञ्जलिं होमं जपं ब्राह्मणभोजनम्
अविच्छिन्नं तथा कुर्यादग्निहोत्रं त्रिवासरम् ४४३
मूलम् - ४४३
पूजां पुष्पाञ्जलिं होमं जपं ब्राह्मणभोजनम्
अविच्छिन्नं तथा कुर्यादग्निहोत्रं त्रिवासरम् ४४३
विश्वास-प्रस्तुतिः - ४४४
एवं त्रिरात्रं कुर्वीत राघवाणां विधानतः
महोत्सवं जन्मभेषु प्रत्यब्दं चैत्रमासिके ४४४
मूलम् - ४४४
एवं त्रिरात्रं कुर्वीत राघवाणां विधानतः
महोत्सवं जन्मभेषु प्रत्यब्दं चैत्रमासिके ४४४
विश्वास-प्रस्तुतिः - ४४५
चतुर्थेऽह्नि तथा नद्यां कुर्यादवभृथं द्विजः
वैष्णवैरनुवाकैश्च रामनामभिरेव च ४४५
मूलम् - ४४५
चतुर्थेऽह्नि तथा नद्यां कुर्यादवभृथं द्विजः
वैष्णवैरनुवाकैश्च रामनामभिरेव च ४४५
विश्वास-प्रस्तुतिः - ४४६
चरितं रघुनाथस्य जपन्नवभृतं चरेत्
देवान् पितृंश्च सन्तर्प्य गृहं गत्वाऽर्च्चयेत्प्रभुम् ४४६
मूलम् - ४४६
चरितं रघुनाथस्य जपन्नवभृतं चरेत्
देवान् पितृंश्च सन्तर्प्य गृहं गत्वाऽर्च्चयेत्प्रभुम् ४४६
विश्वास-प्रस्तुतिः - ४४७
कुर्यादवभृथेष्टिञ्च चरुणा पायसेन वा
अस्य वामेति सूक्तेन परोमात्रेत्यनेन च ४४७
मूलम् - ४४७
कुर्यादवभृथेष्टिञ्च चरुणा पायसेन वा
अस्य वामेति सूक्तेन परोमात्रेत्यनेन च ४४७
विश्वास-प्रस्तुतिः - ४४८
प्रत्यृचं जुहुयात्पश्चान्मन्त्रेण शतसंख्यया
हुत्वा समाप्य होमन्तु शेषं सम्प्राशयेच्चरुम् ४४८
मूलम् - ४४८
प्रत्यृचं जुहुयात्पश्चान्मन्त्रेण शतसंख्यया
हुत्वा समाप्य होमन्तु शेषं सम्प्राशयेच्चरुम् ४४८
विश्वास-प्रस्तुतिः - ४४९
आचम्य पूजयेद्देवं वैष्णवान् भोजयेत्ततः
स्वयं भुञ्जीत तद्रात्रावधःशायी समाहितः ४४९
मूलम् - ४४९
आचम्य पूजयेद्देवं वैष्णवान् भोजयेत्ततः
स्वयं भुञ्जीत तद्रात्रावधःशायी समाहितः ४४९
६३७
षष्टिवर्षसहस्राणि श्वेतद्वीपनिवासिनम् ४५०
विश्वास-प्रस्तुतिः - ४५१
संपूज्य यदवाप्नोति तदेवात्र समश्नुते
यज्ञायुतशतं लब्ध्वा विष्णुलोके महीयते ४५१
मूलम् - ४५१
संपूज्य यदवाप्नोति तदेवात्र समश्नुते
यज्ञायुतशतं लब्ध्वा विष्णुलोके महीयते ४५१
विश्वास-प्रस्तुतिः - ४५२
तस्यैव पौर्णमास्याञ्च शीतांशो रुदये तथा
स्नात्वा संपूजयेद्देवं माधवं रमया सह ४५२
मूलम् - ४५२
तस्यैव पौर्णमास्याञ्च शीतांशो रुदये तथा
स्नात्वा संपूजयेद्देवं माधवं रमया सह ४५२
विश्वास-प्रस्तुतिः - ४५३
शुद्धजाम्बूनदप्रख्यं कन्दर्पशतसन्निभम्
लक्ष्म्या सह समासीनं विमले हेमपङ्कजे ४५३
मूलम् - ४५३
शुद्धजाम्बूनदप्रख्यं कन्दर्पशतसन्निभम्
लक्ष्म्या सह समासीनं विमले हेमपङ्कजे ४५३
विश्वास-प्रस्तुतिः - ४५४
चन्दनेन सुगन्धेन करवीराब्जपङ्कजैः
कर्पूरकुङ्कुमोपेतचन्दनेन च पूजयेत् ४५४
मूलम् - ४५४
चन्दनेन सुगन्धेन करवीराब्जपङ्कजैः
कर्पूरकुङ्कुमोपेतचन्दनेन च पूजयेत् ४५४
विश्वास-प्रस्तुतिः - ४५५
तन्मन्त्रमन्त्ररत्नाभ्यां माधवं विधिना यजेत्
मण्डकान् क्षीरसंयुक्तान्शाल्यन्नं घृतसंयुतम् ४५५
मूलम् - ४५५
तन्मन्त्रमन्त्ररत्नाभ्यां माधवं विधिना यजेत्
मण्डकान् क्षीरसंयुक्तान्शाल्यन्नं घृतसंयुतम् ४५५
विश्वास-प्रस्तुतिः - ४५६
कृष्णरम्भाफलैर्जुष्टं नैवेद्यं विनिवेदयेत्
अस जीवत्व इत्यादि षट्सूक्तैः कुसुमैर्यजेत् ४५६
मूलम् - ४५६
कृष्णरम्भाफलैर्जुष्टं नैवेद्यं विनिवेदयेत्
अस जीवत्व इत्यादि षट्सूक्तैः कुसुमैर्यजेत् ४५६
विश्वास-प्रस्तुतिः - ४५७
मन्त्रेणाष्टोत्तरशतं कोमलैस्तुलसीदलैः
संपूज्य होमं कुर्वीत साज्येन चरुणा ततः ४५७
मूलम् - ४५७
मन्त्रेणाष्टोत्तरशतं कोमलैस्तुलसीदलैः
संपूज्य होमं कुर्वीत साज्येन चरुणा ततः ४५७
विश्वास-प्रस्तुतिः - ४५८
विहीभोतोरित्यतेन सूक्तेन प्रत्यृचं द्विजः
कमलैर्बिल्वपत्रैर्वा मन्नेणाष्टोत्तरं शतम् ४५८
मूलम् - ४५८
विहीभोतोरित्यतेन सूक्तेन प्रत्यृचं द्विजः
कमलैर्बिल्वपत्रैर्वा मन्नेणाष्टोत्तरं शतम् ४५८
विश्वास-प्रस्तुतिः - ४५९
हुत्वाऽथ पौरुषं सूक्तं श्रीसूक्तं जुहुयाद्द्विजः
सहस्रनामभिः स्तुत्वा वैष्णवान् भोजयेत्ततः ४५९
मूलम् - ४५९
हुत्वाऽथ पौरुषं सूक्तं श्रीसूक्तं जुहुयाद्द्विजः
सहस्रनामभिः स्तुत्वा वैष्णवान् भोजयेत्ततः ४५९
विश्वास-प्रस्तुतिः - ४६०
हुतशेषं स्वयं भुक्त्वा भूमौ स्वप्याज्जितेन्द्रियः
एवं संपूज्य देवेशं माधव्यां मधुसूदनः ४६०
मूलम् - ४६०
हुतशेषं स्वयं भुक्त्वा भूमौ स्वप्याज्जितेन्द्रियः
एवं संपूज्य देवेशं माधव्यां मधुसूदनः ४६०
विश्वास-प्रस्तुतिः - ४६१
सर्वान् कामानवाप्नोति हरिसायुज्यमाप्नुयात्
वैशाख्यां पौर्णमास्यान्तु मध्याह्ने पुरुषोत्तमम् ४६१
मूलम् - ४६१
सर्वान् कामानवाप्नोति हरिसायुज्यमाप्नुयात्
वैशाख्यां पौर्णमास्यान्तु मध्याह्ने पुरुषोत्तमम् ४६१
विश्वास-प्रस्तुतिः - ४६२
अर्च्चयेद्रक्तकमलैरुत्पलैः पाटलैरपि
ह्रीवेरकरवीरैश्च गायत्र्या विष्णुसंज्ञया ४६२
मूलम् - ४६२
अर्च्चयेद्रक्तकमलैरुत्पलैः पाटलैरपि
ह्रीवेरकरवीरैश्च गायत्र्या विष्णुसंज्ञया ४६२
विश्वास-प्रस्तुतिः - ६३८
दध्यन्नं फलसंयुक्तं पायसञ्च निवेदयेत्
र्
६३८
मूलम् - ६३८
दध्यन्नं फलसंयुक्तं पायसञ्च निवेदयेत्
र्
६३८
विश्वास-प्रस्तुतिः - ४६४
सौराष्ट्रे द्रेति सूक्तेन दीपैर्नीराजयेत्ततः
शक्त्या विप्रान्भोजयित्वा पूजयेद्देशिकं तथा ४६४
मूलम् - ४६४
सौराष्ट्रे द्रेति सूक्तेन दीपैर्नीराजयेत्ततः
शक्त्या विप्रान्भोजयित्वा पूजयेद्देशिकं तथा ४६४
विश्वास-प्रस्तुतिः - ४६५
तस्मिन् सम्पूजितो देवः प्रत्यक्षस्तत्क्षणाद्भवेत्
शयने भोजयेद्विष्णुं पूजयेच्छ्रद्धयाऽन्वितः ४६५
मूलम् - ४६५
तस्मिन् सम्पूजितो देवः प्रत्यक्षस्तत्क्षणाद्भवेत्
शयने भोजयेद्विष्णुं पूजयेच्छ्रद्धयाऽन्वितः ४६५
विश्वास-प्रस्तुतिः - ४६६
कुशप्रसूनदूर्व्वाग्रपुण्डरीककदम्बकैः
मूलमन्त्रेण श्रीविष्णुं गायत्र्या च समर्च्चयेत् ४६६
मूलम् - ४६६
कुशप्रसूनदूर्व्वाग्रपुण्डरीककदम्बकैः
मूलमन्त्रेण श्रीविष्णुं गायत्र्या च समर्च्चयेत् ४६६
विश्वास-प्रस्तुतिः - ४६७
सत्येनोत्तमसूक्तेन ऋग्भिः पुष्पाञ्जलिं यजेत्
मन्त्रेणाष्टोत्तरशतं तुलसीपल्लवैस्तथा ४६७
मूलम् - ४६७
सत्येनोत्तमसूक्तेन ऋग्भिः पुष्पाञ्जलिं यजेत्
मन्त्रेणाष्टोत्तरशतं तुलसीपल्लवैस्तथा ४६७
विश्वास-प्रस्तुतिः - ४६८
पश्चाद्धोमं प्रकुर्व्वीत विष्णुसूक्तैः सुपायसम्
मन्त्ररत्नेन जुहुयादाज्यमष्टोत्तरं शतम् ४६८
मूलम् - ४६८
पश्चाद्धोमं प्रकुर्व्वीत विष्णुसूक्तैः सुपायसम्
मन्त्ररत्नेन जुहुयादाज्यमष्टोत्तरं शतम् ४६८
विश्वास-प्रस्तुतिः - ४६९
सशर्करं पायसान्नमपूपान्विनिवेदयेत्
विश्वजितेति सूक्तेन कुर्य्यान्नीराजनं ततः ४६९
मूलम् - ४६९
सशर्करं पायसान्नमपूपान्विनिवेदयेत्
विश्वजितेति सूक्तेन कुर्य्यान्नीराजनं ततः ४६९
विश्वास-प्रस्तुतिः - ४७०
भोजयेद्वैष्णवान् विप्रान् पूजयेच्च विशेषतः
सर्व्वान् कामानवाप्नोति हयमेधायुतं लभेत् ४७०
मूलम् - ४७०
भोजयेद्वैष्णवान् विप्रान् पूजयेच्च विशेषतः
सर्व्वान् कामानवाप्नोति हयमेधायुतं लभेत् ४७०
विश्वास-प्रस्तुतिः - ४७१
प्राजापत्यर्क्षसंयुक्ता नभःकृष्णाष्टमी यदा
नभस्यैव भवेत्सातु जयन्ती परिकीर्तिता ४७१
मूलम् - ४७१
प्राजापत्यर्क्षसंयुक्ता नभःकृष्णाष्टमी यदा
नभस्यैव भवेत्सातु जयन्ती परिकीर्तिता ४७१
विश्वास-प्रस्तुतिः - ४७२
तस्यां जातो जगन्नाथः केशवः कंसमर्दनः
तस्मिन्नुपोष्य विधिवत्सर्वपापैः प्रमुच्यते ४७२
मूलम् - ४७२
तस्यां जातो जगन्नाथः केशवः कंसमर्दनः
तस्मिन्नुपोष्य विधिवत्सर्वपापैः प्रमुच्यते ४७२
विश्वास-प्रस्तुतिः - ४७३
मुख्यकाल इतिख्यातस्तत्र जातः स्वयं हरिः
मासद्वये यद्यलाभे योगे तस्मिन् दिवा निशि ४७३
मूलम् - ४७३
मुख्यकाल इतिख्यातस्तत्र जातः स्वयं हरिः
मासद्वये यद्यलाभे योगे तस्मिन् दिवा निशि ४७३
विश्वास-प्रस्तुतिः - ४७४
नवमी रोहिणीयोगः कर्तव्यो वैष्णवैर्द्विजैः
रात्रियोगस्तु बलवान् तस्यां जातो जनार्दनः ४७४
मूलम् - ४७४
नवमी रोहिणीयोगः कर्तव्यो वैष्णवैर्द्विजैः
रात्रियोगस्तु बलवान् तस्यां जातो जनार्दनः ४७४
विश्वास-प्रस्तुतिः - ४७५
तिलेन वै भवान्ते च पारणा यत्र चोच्यते
यामत्रयवियुक्तायां प्रातरेव हि पारणा ४७५
मूलम् - ४७५
तिलेन वै भवान्ते च पारणा यत्र चोच्यते
यामत्रयवियुक्तायां प्रातरेव हि पारणा ४७५
विश्वास-प्रस्तुतिः - ४७६
पूर्वेद्युर्नियमं कुर्य्याद्दन्तधावनपूर्वकम्
प्रातः स्नात्वा विधानेन पूजयेत्कृष्णमव्ययम् ४७६
मूलम् - ४७६
पूर्वेद्युर्नियमं कुर्य्याद्दन्तधावनपूर्वकम्
प्रातः स्नात्वा विधानेन पूजयेत्कृष्णमव्ययम् ४७६
विश्वास-प्रस्तुतिः - ४७७
षडक्षरेण मन्त्रेण बालकृष्णतनुं हरिम्
सुकृष्णतुलसीपत्रैरर्चयेच्छ्रद्धयाऽन्वितः ४७७
मूलम् - ४७७
षडक्षरेण मन्त्रेण बालकृष्णतनुं हरिम्
सुकृष्णतुलसीपत्रैरर्चयेच्छ्रद्धयाऽन्वितः ४७७
विश्वास-प्रस्तुतिः - ४७८
दुग्धं क्षीरं शर्कराञ्च नवनीतं निवेदयेत्
सहस्रमयुतं वाऽपि जपेन्मन्त्रं षडक्षरम् ४७८
मूलम् - ४७८
दुग्धं क्षीरं शर्कराञ्च नवनीतं निवेदयेत्
सहस्रमयुतं वाऽपि जपेन्मन्त्रं षडक्षरम् ४७८
विश्वास-प्रस्तुतिः - ४७९
गवाज्यं जुहुयाद्वह्नौ कृष्णमन्त्रेण पायसम्
सहस्रं शतवारं वा प्रत्यृचं विष्णु सूक्तकैः ४७९
मूलम् - ४७९
गवाज्यं जुहुयाद्वह्नौ कृष्णमन्त्रेण पायसम्
सहस्रं शतवारं वा प्रत्यृचं विष्णु सूक्तकैः ४७९
विश्वास-प्रस्तुतिः - ४८०
हुत्वा सुगन्धिपुष्पाणि तैरेव च समर्चयेत्
सहस्रनाम्नां गीतानां पठनं गुरुपूजनम् ४८०
मूलम् - ४८०
हुत्वा सुगन्धिपुष्पाणि तैरेव च समर्चयेत्
सहस्रनाम्नां गीतानां पठनं गुरुपूजनम् ४८०
विश्वास-प्रस्तुतिः - ४८१
वैष्णवान् भोजयेच्छक्त्या हुतशेषं सकृत्स्वयम्
हुत्वा कुशोत्तरे स्वप्याद्भूमौ नियमवान् शुचिः ४८१
मूलम् - ४८१
वैष्णवान् भोजयेच्छक्त्या हुतशेषं सकृत्स्वयम्
हुत्वा कुशोत्तरे स्वप्याद्भूमौ नियमवान् शुचिः ४८१
विश्वास-प्रस्तुतिः - ४८२
परेऽह्नु पोष्य विधिवत्स्नात्वा नद्यां विधानतः
तर्पयित्वा जगन्नाथं पितॄन्देवांश्च तर्पयेत् ४८२
मूलम् - ४८२
परेऽह्नु पोष्य विधिवत्स्नात्वा नद्यां विधानतः
तर्पयित्वा जगन्नाथं पितॄन्देवांश्च तर्पयेत् ४८२
विश्वास-प्रस्तुतिः - ४८४
अवैष्णवं द्विजं तस्मिन्वाङ्मात्रेणापि वार्च्चयेत्
पुराणादिप्रपाठेन रात्रौ जागरणं चरेत् ४८४
मूलम् - ४८४
अवैष्णवं द्विजं तस्मिन्वाङ्मात्रेणापि वार्च्चयेत्
पुराणादिप्रपाठेन रात्रौ जागरणं चरेत् ४८४
विश्वास-प्रस्तुतिः - ४८५
शीतांशावुदिते स्नात्वा शुक्लाम्बरधरः शुचिः
नवो नवो भवतीत्यृचाऽर्घ्यं विनिवेदयेत् ४८५
मूलम् - ४८५
शीतांशावुदिते स्नात्वा शुक्लाम्बरधरः शुचिः
नवो नवो भवतीत्यृचाऽर्घ्यं विनिवेदयेत् ४८५
विश्वास-प्रस्तुतिः - ४८६
अर्चयेन्मातुरुत्सङ्गे स्थितं कृष्णं सनातनम्
तुलसीगन्धपुष्पैश्च कस्तूरीचन्द्रचन्दनैः ४८६
मूलम् - ४८६
अर्चयेन्मातुरुत्सङ्गे स्थितं कृष्णं सनातनम्
तुलसीगन्धपुष्पैश्च कस्तूरीचन्द्रचन्दनैः ४८६
विश्वास-प्रस्तुतिः - ४८७
षडक्षरेण मन्त्रेण भक्त्या सम्पूजयेद्धरिम्
वसुदेवं नन्दगोपं बलभद्रञ्च रोहिणीम् ४८७
मूलम् - ४८७
षडक्षरेण मन्त्रेण भक्त्या सम्पूजयेद्धरिम्
वसुदेवं नन्दगोपं बलभद्रञ्च रोहिणीम् ४८७
विश्वास-प्रस्तुतिः - ४८८
यशोदां च सुभद्रां च मायां दिक्षु प्रपूजयेत्
प्रह्लादादीन् वैष्णवांश्च तथा लोकेश्वरानपि ४८८
मूलम् - ४८८
यशोदां च सुभद्रां च मायां दिक्षु प्रपूजयेत्
प्रह्लादादीन् वैष्णवांश्च तथा लोकेश्वरानपि ४८८
विश्वास-प्रस्तुतिः - ६४०
धूपं दीपञ्च नैवेद्यं ताम्बूलञ्च समर्पयेत्
र्
६४०
मूलम् - ६४०
धूपं दीपञ्च नैवेद्यं ताम्बूलञ्च समर्पयेत्
र्
६४०
विश्वास-प्रस्तुतिः - ४९०
शन्न इत्यादिसूक्तैश्च दद्यात्पुष्पाणि वैष्णवः
दशाक्षरेण मन्त्रेण पूजयेत्पुरुषोत्तमम् ४९०
मूलम् - ४९०
शन्न इत्यादिसूक्तैश्च दद्यात्पुष्पाणि वैष्णवः
दशाक्षरेण मन्त्रेण पूजयेत्पुरुषोत्तमम् ४९०
विश्वास-प्रस्तुतिः - ४९१
सहस्रनामभिः स्तुत्वा शय्यायां विनिवेशयेत्
गीतं नृत्यञ्च वाद्यञ्च यथा शक्त्या च कारयेत् ४९१
मूलम् - ४९१
सहस्रनामभिः स्तुत्वा शय्यायां विनिवेशयेत्
गीतं नृत्यञ्च वाद्यञ्च यथा शक्त्या च कारयेत् ४९१
विश्वास-प्रस्तुतिः - ४९२
ततः प्रभातसमये सन्ध्यामन्वास्य वैष्णवः
दशाक्षरेण मन्त्रेण तुलसीचन्दनादिभिः ४९२
मूलम् - ४९२
ततः प्रभातसमये सन्ध्यामन्वास्य वैष्णवः
दशाक्षरेण मन्त्रेण तुलसीचन्दनादिभिः ४९२
विश्वास-प्रस्तुतिः - ४९३
सम्पूज्य वैष्णवैः सूक्तैः कुर्य्यात् पुष्पाञ्जलिं ततः
मन्त्रेण जुहुयादाज्यं सहस्रं हव्यवाहने ४९३
मूलम् - ४९३
सम्पूज्य वैष्णवैः सूक्तैः कुर्य्यात् पुष्पाञ्जलिं ततः
मन्त्रेण जुहुयादाज्यं सहस्रं हव्यवाहने ४९३
विश्वास-प्रस्तुतिः - ४९४
ममाग्र इति सूक्ताभ्यां जुहुयात्पायसं ततः
परोमात्रेति सूक्तेन चरुं तिलविमिश्रितम् ४९४
मूलम् - ४९४
ममाग्र इति सूक्ताभ्यां जुहुयात्पायसं ततः
परोमात्रेति सूक्तेन चरुं तिलविमिश्रितम् ४९४
विश्वास-प्रस्तुतिः - ४९५
सर्वैश्च भगवन्मन्त्रैरेकैकामाहुतिं यजेत्
नामभिः केशवाद्यैश्च तथा सङ्कर्षणादिभिः ४९५
मूलम् - ४९५
सर्वैश्च भगवन्मन्त्रैरेकैकामाहुतिं यजेत्
नामभिः केशवाद्यैश्च तथा सङ्कर्षणादिभिः ४९५
विश्वास-प्रस्तुतिः - ४९६
वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत्
ततो मङ्गलवादित्रैर्यानैर्योक्त्रैश्च चामरैः ४९६
मूलम् - ४९६
वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत्
ततो मङ्गलवादित्रैर्यानैर्योक्त्रैश्च चामरैः ४९६
विश्वास-प्रस्तुतिः - ४९७
लाजैर्हरिद्राचूर्णैश्च गन्धैः पुष्पैः सुगन्धिभिः
मुदा बिकीरयन् सर्वे बालवृद्धाश्च मध्यमाः ४९७
मूलम् - ४९७
लाजैर्हरिद्राचूर्णैश्च गन्धैः पुष्पैः सुगन्धिभिः
मुदा बिकीरयन् सर्वे बालवृद्धाश्च मध्यमाः ४९७
विश्वास-प्रस्तुतिः - ४९८
नार्य्यश्च रमणैः सार्द्धं सुवासिन्यश्च योषितः
आरोप्य शिविकायान्तु देवकीनन्दनं हरिम् ४९८
मूलम् - ४९८
नार्य्यश्च रमणैः सार्द्धं सुवासिन्यश्च योषितः
आरोप्य शिविकायान्तु देवकीनन्दनं हरिम् ४९८
विश्वास-प्रस्तुतिः - ४९९
अकर्दमां नदीं रम्यां तडागं वा मनोरहम्
गच्छेयुर्ग्राहशैवालजलौकादिविवर्जितम् ४९९
मूलम् - ४९९
अकर्दमां नदीं रम्यां तडागं वा मनोरहम्
गच्छेयुर्ग्राहशैवालजलौकादिविवर्जितम् ४९९
विश्वास-प्रस्तुतिः - ५००
कुर्य्यादवभृथं तत्र पावमान्यैः पवित्रकैः
विष्णुसूक्तैश्च सुस्नात्वा देवान्पितॄंश्च तर्पयेत् ५००
मूलम् - ५००
कुर्य्यादवभृथं तत्र पावमान्यैः पवित्रकैः
विष्णुसूक्तैश्च सुस्नात्वा देवान्पितॄंश्च तर्पयेत् ५००
विश्वास-प्रस्तुतिः - ५०१
विचित्राणि च भक्ष्याणि दद्यात्तत्र शुभान्वितः
गृहं गत्वा तथैवेशं पूर्ववत्पूजयेद्द्विजः ५०१
मूलम् - ५०१
विचित्राणि च भक्ष्याणि दद्यात्तत्र शुभान्वितः
गृहं गत्वा तथैवेशं पूर्ववत्पूजयेद्द्विजः ५०१
६४१
हिरण्यवस्त्राभरणैराचार्यं पूजयेत्तु सः ५०२
विश्वास-प्रस्तुतिः - ५०३
स्वयञ्च पारणां कुर्य्यात्पुत्रपौत्रसमन्वितः
सायाह्ने समनुप्राप्ते दोलायामर्च्चयेद्धरिम् ५०३
मूलम् - ५०३
स्वयञ्च पारणां कुर्य्यात्पुत्रपौत्रसमन्वितः
सायाह्ने समनुप्राप्ते दोलायामर्च्चयेद्धरिम् ५०३
विश्वास-प्रस्तुतिः - ५०४
चतुः स्तम्भां चतुर्धामवितानाद्यैरलङ्कृताम्
धूपैर्दीपैश्चैव रम्यां दोलां सम्पूजयेद्द्विजः ५०४
मूलम् - ५०४
चतुः स्तम्भां चतुर्धामवितानाद्यैरलङ्कृताम्
धूपैर्दीपैश्चैव रम्यां दोलां सम्पूजयेद्द्विजः ५०४
विश्वास-प्रस्तुतिः - ५०५
स्तम्भेषु वेदान् मन्त्रांश्च धामस्वभ्यर्च्य कच्छपम्
पादेष्वाशागजान् पीठे सप्तच्छन्दांसि चाऽऽस्तरे ५०५
मूलम् - ५०५
स्तम्भेषु वेदान् मन्त्रांश्च धामस्वभ्यर्च्य कच्छपम्
पादेष्वाशागजान् पीठे सप्तच्छन्दांसि चाऽऽस्तरे ५०५
विश्वास-प्रस्तुतिः - ५०६
प्रणवञ्चाऽऽतपत्रे तु शेषं केतौ खगेश्वरम्
इतिहासपुराणानि सर्वतः परिपूजयेत् ५०६
मूलम् - ५०६
प्रणवञ्चाऽऽतपत्रे तु शेषं केतौ खगेश्वरम्
इतिहासपुराणानि सर्वतः परिपूजयेत् ५०६
विश्वास-प्रस्तुतिः - ५०७
तस्यां निवेश्य दोलायां वासुदेवं श्रियः पतिम्
उपचारैरर्चयित्वा शनैर्दोलाञ्च दोलयेत् ५०७
मूलम् - ५०७
तस्यां निवेश्य दोलायां वासुदेवं श्रियः पतिम्
उपचारैरर्चयित्वा शनैर्दोलाञ्च दोलयेत् ५०७
विश्वास-प्रस्तुतिः - ५०८
वेदाद्यैर्ब्रह्मणस्पत्यैः सूक्तैरङ्गैर्द्विजोत्तमः
सामगानैः प्रबन्धैश्च गायन्कृष्णं जगद्गुरुम् ५०८
मूलम् - ५०८
वेदाद्यैर्ब्रह्मणस्पत्यैः सूक्तैरङ्गैर्द्विजोत्तमः
सामगानैः प्रबन्धैश्च गायन्कृष्णं जगद्गुरुम् ५०८
विश्वास-प्रस्तुतिः - ५०९
सुवासिन्यो दोलयित्वा वैष्णवान्पूजयेत्ततः
एवं संपूज्य देवेशं पापैर्मुक्तो हरिं व्रजेत् ५०९
मूलम् - ५०९
सुवासिन्यो दोलयित्वा वैष्णवान्पूजयेत्ततः
एवं संपूज्य देवेशं पापैर्मुक्तो हरिं व्रजेत् ५०९
विश्वास-प्रस्तुतिः - ५१०
दोलायां दर्शनं विष्णोर्महापातकनाशमम्
कोटियागानुजं पुण्यं लभते नात्र संशयः ५१०
मूलम् - ५१०
दोलायां दर्शनं विष्णोर्महापातकनाशमम्
कोटियागानुजं पुण्यं लभते नात्र संशयः ५१०
विश्वास-प्रस्तुतिः - ५११
शिवब्रह्मादयो देवा नारदाद्या महर्षयः
दोलायां दर्शनार्थं वै प्रयान्त्यनुचरैः सह ५११
मूलम् - ५११
शिवब्रह्मादयो देवा नारदाद्या महर्षयः
दोलायां दर्शनार्थं वै प्रयान्त्यनुचरैः सह ५११
विश्वास-प्रस्तुतिः - ५१२
गन्धर्वाप्सरसः सर्वा विमानस्थाः सकिन्नराः
गायन्ति सामगानैश्च दोलायमर्चितं हरिम् ५१२
मूलम् - ५१२
गन्धर्वाप्सरसः सर्वा विमानस्थाः सकिन्नराः
गायन्ति सामगानैश्च दोलायमर्चितं हरिम् ५१२
विश्वास-प्रस्तुतिः - ५१३
गवाज्यसंयुतैर्दीपैर्भक्त्या नीराजनं चरेत्
मरुत्व इन्द्रसूक्तेन मङ्गलाशीर्भिरेव च ५१३
मूलम् - ५१३
गवाज्यसंयुतैर्दीपैर्भक्त्या नीराजनं चरेत्
मरुत्व इन्द्रसूक्तेन मङ्गलाशीर्भिरेव च ५१३
विश्वास-प्रस्तुतिः - ५१४
ताम्बूलफलपुष्पाद्यैर्वैष्णवान्भोजयेत्ततः
आशिषोवाचनं कृत्वा नमस्कृत्वा विसर्जयेत् ५१४
मूलम् - ५१४
ताम्बूलफलपुष्पाद्यैर्वैष्णवान्भोजयेत्ततः
आशिषोवाचनं कृत्वा नमस्कृत्वा विसर्जयेत् ५१४
विश्वास-प्रस्तुतिः - ६४२
एवं संपूज्य देवेशं जयन्त्यां मधुसूदनम्
र्
६४२
मूलम् - ६४२
एवं संपूज्य देवेशं जयन्त्यां मधुसूदनम्
र्
६४२
विश्वास-प्रस्तुतिः - ५१६
मासि भाद्रपदे शुक्ले द्वादश्यां विष्णुदैवते
आदित्यामुदभूद्विष्णुरुपेन्द्रो वामनोऽव्ययः ५१६
मूलम् - ५१६
मासि भाद्रपदे शुक्ले द्वादश्यां विष्णुदैवते
आदित्यामुदभूद्विष्णुरुपेन्द्रो वामनोऽव्ययः ५१६
विश्वास-प्रस्तुतिः - ५१७
तस्यां स्नानोपवासाद्यमक्षय्यं परिकीर्तितम्
श्रीकृष्णजन्मवत्सर्वं कुर्यादत्रापि वैष्णवः ५१७
मूलम् - ५१७
तस्यां स्नानोपवासाद्यमक्षय्यं परिकीर्तितम्
श्रीकृष्णजन्मवत्सर्वं कुर्यादत्रापि वैष्णवः ५१७
विश्वास-प्रस्तुतिः - ५१९
माघमासे तु सप्तम्या मुदिते चैव भास्करे
स्नात्वा नद्यां विधानेन पूजयेत्पुरुषोत्तमम् ५१९
मूलम् - ५१९
माघमासे तु सप्तम्या मुदिते चैव भास्करे
स्नात्वा नद्यां विधानेन पूजयेत्पुरुषोत्तमम् ५१९
विश्वास-प्रस्तुतिः - ५२०
रक्तैश्च करवीरैश्च कुमुदेन्दीवरादिभिः
मन्त्ररत्नेनार्चयित्वा पायसान्नं निवेदयेत् ५२०
मूलम् - ५२०
रक्तैश्च करवीरैश्च कुमुदेन्दीवरादिभिः
मन्त्ररत्नेनार्चयित्वा पायसान्नं निवेदयेत् ५२०
विश्वास-प्रस्तुतिः - ५२१
यतश्च गोपा इत्यादि दश सूक्तान्यनुक्रमात्
पुष्पाणि दद्याद्भक्त्या वै प्रत्यृचं वैष्णवोत्तमः ५२१
मूलम् - ५२१
यतश्च गोपा इत्यादि दश सूक्तान्यनुक्रमात्
पुष्पाणि दद्याद्भक्त्या वै प्रत्यृचं वैष्णवोत्तमः ५२१
विश्वास-प्रस्तुतिः - ५२२
सहस्रं शतवारं वा मन्त्रेणापि यजेत्ततः
पश्चाद्धोमं प्रकुर्वीत तिलैः कृष्णैः सशर्करैः ५२२
मूलम् - ५२२
सहस्रं शतवारं वा मन्त्रेणापि यजेत्ततः
पश्चाद्धोमं प्रकुर्वीत तिलैः कृष्णैः सशर्करैः ५२२
विश्वास-प्रस्तुतिः - ५२३
वैष्णवैरनुवाकैश्च मन्त्ररत्नेन मन्त्रवित्
वैकुण्ठपार्षदं हुत्वा शेषं कर्म्म समाचरेत् ५२३
मूलम् - ५२३
वैष्णवैरनुवाकैश्च मन्त्ररत्नेन मन्त्रवित्
वैकुण्ठपार्षदं हुत्वा शेषं कर्म्म समाचरेत् ५२३
विश्वास-प्रस्तुतिः - ५२४
नीराजनं ततो दद्यादयं गौरित्यनेन तु
इति वा इति सूक्तेन उपस्थाय जनार्दनम् ५२४
मूलम् - ५२४
नीराजनं ततो दद्यादयं गौरित्यनेन तु
इति वा इति सूक्तेन उपस्थाय जनार्दनम् ५२४
विश्वास-प्रस्तुतिः - ५२५
सहस्रनामभिः स्तुत्वा वैष्णवान् भोजयेत्ततः
गुरुं सम्पूजयेद्भक्त्या भुञ्जीत तद्धविः सकृत् ५२५
मूलम् - ५२५
सहस्रनामभिः स्तुत्वा वैष्णवान् भोजयेत्ततः
गुरुं सम्पूजयेद्भक्त्या भुञ्जीत तद्धविः सकृत् ५२५
विश्वास-प्रस्तुतिः - ५२६
अधःशायी ब्रह्मचारी जपेद्रात्रौ समाहितः
एवं सम्पूज्य देवेशं तस्मिन्नहनि वैष्णवः ५२६
मूलम् - ५२६
अधःशायी ब्रह्मचारी जपेद्रात्रौ समाहितः
एवं सम्पूज्य देवेशं तस्मिन्नहनि वैष्णवः ५२६
विश्वास-प्रस्तुतिः - ५२७
त्रिकोटिकुलमुद्धृत्य वैष्णवं पदमाप्नुयात्
द्वादश्यामपि तस्यां वै यज्ञवाराहमच्युतम् ५२७
मूलम् - ५२७
त्रिकोटिकुलमुद्धृत्य वैष्णवं पदमाप्नुयात्
द्वादश्यामपि तस्यां वै यज्ञवाराहमच्युतम् ५२७
विश्वास-प्रस्तुतिः - ५२८
वैष्णव्या चैव गायत्र्या पूजयेत्प्रयतात्मवान्
महिषाख्यं घृताक्तं वै धूपं दद्यात्प्रयत्नतः ५२८
मूलम् - ५२८
वैष्णव्या चैव गायत्र्या पूजयेत्प्रयतात्मवान्
महिषाख्यं घृताक्तं वै धूपं दद्यात्प्रयत्नतः ५२८
विश्वास-प्रस्तुतिः - ५२९
दद्यादष्टाङ्गदीपं च गवाज्येन च वैष्णवः
सशर्कराज्यं सूपान्नं मोदकान्कृसरं तथा ५२९
मूलम् - ५२९
दद्यादष्टाङ्गदीपं च गवाज्येन च वैष्णवः
सशर्कराज्यं सूपान्नं मोदकान्कृसरं तथा ५२९
विश्वास-प्रस्तुतिः - ५३०
इक्षुदण्डानि रम्याणि फलानि च निवेदयेत्
प्र ते महीति सूक्तेन दद्यात् पुष्पाणि भक्तिमान् ५३०
मूलम् - ५३०
इक्षुदण्डानि रम्याणि फलानि च निवेदयेत्
प्र ते महीति सूक्तेन दद्यात् पुष्पाणि भक्तिमान् ५३०
विश्वास-प्रस्तुतिः - ५३१
सर्वैश्च वैष्णवैः सूक्तैश्चरुणा पायसेन वा
मधुसूक्तेन होतव्यं गायत्र्या विष्णुसंज्ञया ५३१
मूलम् - ५३१
सर्वैश्च वैष्णवैः सूक्तैश्चरुणा पायसेन वा
मधुसूक्तेन होतव्यं गायत्र्या विष्णुसंज्ञया ५३१
विश्वास-प्रस्तुतिः - ५३२
आज्येन वैष्णवैर्मन्त्रैः त्रिशतं त्रिभिरेव तु
वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत् ५३२
मूलम् - ५३२
आज्येन वैष्णवैर्मन्त्रैः त्रिशतं त्रिभिरेव तु
वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत् ५३२
विश्वास-प्रस्तुतिः - ५३३
भोजयेद्ब्राह्मणान् भक्त्या गुरुं चापि प्रपूजयेत्
सर्वयज्ञेषु यत्पुण्यं सर्वदानेषु यत्फलम् ५३३
मूलम् - ५३३
भोजयेद्ब्राह्मणान् भक्त्या गुरुं चापि प्रपूजयेत्
सर्वयज्ञेषु यत्पुण्यं सर्वदानेषु यत्फलम् ५३३
विश्वास-प्रस्तुतिः - ५३४
तत्फलं लभते मर्त्यो विष्णुसायुज्यमाप्नुयात्
कोदण्डस्थे दिनकरे तस्मिन्मासि निरन्तरम् ५३४
मूलम् - ५३४
तत्फलं लभते मर्त्यो विष्णुसायुज्यमाप्नुयात्
कोदण्डस्थे दिनकरे तस्मिन्मासि निरन्तरम् ५३४
विश्वास-प्रस्तुतिः - ५३५
अरुणोदयवेलायां प्रातः स्नानं समाचरेत्
तर्पयित्वा विधानेन कृतकृत्यः समाहितः ५३५
मूलम् - ५३५
अरुणोदयवेलायां प्रातः स्नानं समाचरेत्
तर्पयित्वा विधानेन कृतकृत्यः समाहितः ५३५
विश्वास-प्रस्तुतिः - ५३६
नारायणं जगन्नाथमर्च्चयेद्विधिवद्द्विजः
पौरुषेण विधानेन मूलमन्त्रेण वा यजेत् ५३६
मूलम् - ५३६
नारायणं जगन्नाथमर्च्चयेद्विधिवद्द्विजः
पौरुषेण विधानेन मूलमन्त्रेण वा यजेत् ५३६
विश्वास-प्रस्तुतिः - ५३७
शतपत्रैश्च जातीभिस्तुलसीबिल्वपुष्करैः
गन्धैर्धूपैश्च दीपैश्च नैवेद्यैर्विविधैरपि ५३७
मूलम् - ५३७
शतपत्रैश्च जातीभिस्तुलसीबिल्वपुष्करैः
गन्धैर्धूपैश्च दीपैश्च नैवेद्यैर्विविधैरपि ५३७
विश्वास-प्रस्तुतिः - ५३८
पायसान्नं शर्करान्नं मुद्गान्नं सघृतं हविः
सुवासितञ्च दध्यन्नमपूपान् मधुमिश्रितान् ५३८
मूलम् - ५३८
पायसान्नं शर्करान्नं मुद्गान्नं सघृतं हविः
सुवासितञ्च दध्यन्नमपूपान् मधुमिश्रितान् ५३८
विश्वास-प्रस्तुतिः - ५३९
मोदकान्पृथुकान्लाजान्शष्कुली चणकानपि
विविधानि च भक्ष्याणि फलानि च निवेदयेत् ५३९
मूलम् - ५३९
मोदकान्पृथुकान्लाजान्शष्कुली चणकानपि
विविधानि च भक्ष्याणि फलानि च निवेदयेत् ५३९
विश्वास-प्रस्तुतिः - ५४०
वेदपारायणेनैव मासमेकं निरन्तरम्
ऋचां दशसहस्राणि ऋचां पञ्चशतानि च ५४०
मूलम् - ५४०
वेदपारायणेनैव मासमेकं निरन्तरम्
ऋचां दशसहस्राणि ऋचां पञ्चशतानि च ५४०
विश्वास-प्रस्तुतिः - ५४१
ऋचामशीतिपादैश्च पारायणं प्रकीर्तितम्
वेदपारायणेनैव प्रत्यृचं कुसुमान्यजेत् ५४१
मूलम् - ५४१
ऋचामशीतिपादैश्च पारायणं प्रकीर्तितम्
वेदपारायणेनैव प्रत्यृचं कुसुमान्यजेत् ५४१
६४४
विश्वास-प्रस्तुतिः - ५४२
रात्रौ होमं प्रकुर्व्वीत तिलैर्व्रीहिभिरेव वा
सर्ववेदेष्वशक्तस्तु होमकर्मणि वैष्णवः ५४२
मूलम् - ५४२
रात्रौ होमं प्रकुर्व्वीत तिलैर्व्रीहिभिरेव वा
सर्ववेदेष्वशक्तस्तु होमकर्मणि वैष्णवः ५४२
विश्वास-प्रस्तुतिः - ५४३
वैष्णवैरनुवाकैर्वा प्रत्यहं जुहुयाद्बुधः
यजुषाऽपि तथा साम्नां शक्त्या पुष्पाञ्जलिं चरेत् ५४३
मूलम् - ५४३
वैष्णवैरनुवाकैर्वा प्रत्यहं जुहुयाद्बुधः
यजुषाऽपि तथा साम्नां शक्त्या पुष्पाञ्जलिं चरेत् ५४३
विश्वास-प्रस्तुतिः - ५४४
अशक्तो यस्तु वेदेन प्रतिवासरमच्युतम्
मूलमन्त्रेण साहस्रं दद्यात्पुष्पाञ्जलिं द्विजः ५४४
मूलम् - ५४४
अशक्तो यस्तु वेदेन प्रतिवासरमच्युतम्
मूलमन्त्रेण साहस्रं दद्यात्पुष्पाञ्जलिं द्विजः ५४४
विश्वास-प्रस्तुतिः - ५४५
तेनैव जुहुयाद्भक्त्या सहस्रं वह्निमण्डले
अथवा रघुनाथस्य चारित्रेण महात्मनः ५४५
मूलम् - ५४५
तेनैव जुहुयाद्भक्त्या सहस्रं वह्निमण्डले
अथवा रघुनाथस्य चारित्रेण महात्मनः ५४५
विश्वास-प्रस्तुतिः - ५४६
प्रतिश्लोकेन पुष्पाणि दद्यान्मासं निरन्तरम्
अधःशायी ब्रह्मचारी सकृद्भोजी भवेद्द्विजः ५४६
मूलम् - ५४६
प्रतिश्लोकेन पुष्पाणि दद्यान्मासं निरन्तरम्
अधःशायी ब्रह्मचारी सकृद्भोजी भवेद्द्विजः ५४६
विश्वास-प्रस्तुतिः - ५४७
मासान्ते तु विशेषेण पूजयेद्वैष्णवान् द्विजान्
एवमभ्यर्च्य गोविन्दम् धनुर्मासे निरन्तरम् ५४७
मूलम् - ५४७
मासान्ते तु विशेषेण पूजयेद्वैष्णवान् द्विजान्
एवमभ्यर्च्य गोविन्दम् धनुर्मासे निरन्तरम् ५४७
विश्वास-प्रस्तुतिः - ५४८
दिने दिने वैष्णवेष्ट्या फलं प्राप्नोत्यसंशयः
यं यं कामयते चित्ते तं तमाप्नोति पुरुषः ५४८
मूलम् - ५४८
दिने दिने वैष्णवेष्ट्या फलं प्राप्नोत्यसंशयः
यं यं कामयते चित्ते तं तमाप्नोति पुरुषः ५४८
विश्वास-प्रस्तुतिः - ५४९
महद्भिः पातकैर्मुक्तो विष्णुलोके महीयते
ततोमास्युदिते भानौ मासमेकं निरन्तरम् ५४९
मूलम् - ५४९
महद्भिः पातकैर्मुक्तो विष्णुलोके महीयते
ततोमास्युदिते भानौ मासमेकं निरन्तरम् ५४९
विश्वास-प्रस्तुतिः - ५५०
स्नात्वा नद्यां तडागे वा तर्पयेत्पतिमच्युतम्
अर्चयेन्माधवं नित्यं तन्मत्रेणैव तत्र वै ५५०
मूलम् - ५५०
स्नात्वा नद्यां तडागे वा तर्पयेत्पतिमच्युतम्
अर्चयेन्माधवं नित्यं तन्मत्रेणैव तत्र वै ५५०
विश्वास-प्रस्तुतिः - ५५१
मन्त्ररत्नेन वा नित्यं माधवीचूतचम्पकैः
मण्डपानि विचित्राणि शर्कराज्ययुतानि च ५५१
मूलम् - ५५१
मन्त्ररत्नेन वा नित्यं माधवीचूतचम्पकैः
मण्डपानि विचित्राणि शर्कराज्ययुतानि च ५५१
विश्वास-प्रस्तुतिः - ५५२
शाल्यन्नं दधिसंयुक्तं मोदकांश्च निवेदयेत्
वैष्णवैः पावमानैश्च कुर्यात्पुष्पाञ्जलिं ततः ५५२
मूलम् - ५५२
शाल्यन्नं दधिसंयुक्तं मोदकांश्च निवेदयेत्
वैष्णवैः पावमानैश्च कुर्यात्पुष्पाञ्जलिं ततः ५५२
विश्वास-प्रस्तुतिः - ५५३
तिलैश्च जुहुयाद्वह्नौ मधुशर्करमिश्रितैः
प्रत्यृचं पुरुषसूक्तेन श्रीसूक्तेनापि वैष्णवः ५५३
मूलम् - ५५३
तिलैश्च जुहुयाद्वह्नौ मधुशर्करमिश्रितैः
प्रत्यृचं पुरुषसूक्तेन श्रीसूक्तेनापि वैष्णवः ५५३
विश्वास-प्रस्तुतिः - ५५४
सहस्रं मूलमन्त्रेण तन्मन्त्रेणापि वै द्विजः
सहस्रं वा शतं वाऽपि शक्त्या च जुहुयाद्बुधः ५५४
मूलम् - ५५४
सहस्रं मूलमन्त्रेण तन्मन्त्रेणापि वै द्विजः
सहस्रं वा शतं वाऽपि शक्त्या च जुहुयाद्बुधः ५५४
विश्वास-प्रस्तुतिः - ५५५
यज्ञे यज्ञमिति ऋचा दीपान्नीराजयेत्ततः
रात्रौ दोलार्चनं कुर्याद्वैष्णवैर्द्विजसत्तमैः ५५५
मूलम् - ५५५
यज्ञे यज्ञमिति ऋचा दीपान्नीराजयेत्ततः
रात्रौ दोलार्चनं कुर्याद्वैष्णवैर्द्विजसत्तमैः ५५५
विश्वास-प्रस्तुतिः - ५५६
मासान्ते भोजयेद्विप्रान्वासोऽलङ्कारभूषणैः
एवं सम्पूजिते तस्मिन् प्रसन्नोऽभूज्जनार्दनः ५५६
मूलम् - ५५६
मासान्ते भोजयेद्विप्रान्वासोऽलङ्कारभूषणैः
एवं सम्पूजिते तस्मिन् प्रसन्नोऽभूज्जनार्दनः ५५६
विश्वास-प्रस्तुतिः - ५५७
ददाति स्वपदं दिव्यं योगिगम्यं सनातनम्
फाल्गुन्यां पौर्णमास्यां वै उदिते च निशाकरे ५५७
मूलम् - ५५७
ददाति स्वपदं दिव्यं योगिगम्यं सनातनम्
फाल्गुन्यां पौर्णमास्यां वै उदिते च निशाकरे ५५७
विश्वास-प्रस्तुतिः - ५५८
उपोष्य विधिवद्भक्तिं पूजयेद्वैष्णवोत्तमः
तिलैश्च करवीरैश्च कर्णिकारैश्च पाटलैः ५५८
मूलम् - ५५८
उपोष्य विधिवद्भक्तिं पूजयेद्वैष्णवोत्तमः
तिलैश्च करवीरैश्च कर्णिकारैश्च पाटलैः ५५८
विश्वास-प्रस्तुतिः - ५५९
कुन्दसहस्रकुसुमैर्यजेत्तं कमलापतिम्
विष्णुसूक्तैः प्रत्यृचं च चरुणाऽज्येन मन्त्रतः ५५९
मूलम् - ५५९
कुन्दसहस्रकुसुमैर्यजेत्तं कमलापतिम्
विष्णुसूक्तैः प्रत्यृचं च चरुणाऽज्येन मन्त्रतः ५५९
विश्वास-प्रस्तुतिः - ५६०
प्रसन्नो नित्यमनेन उपस्थाय सनातनम्
वैष्णवान्भोजयेच्छक्त्या भुञ्जीयाद्वाग्यतः स्वयम् ५६०
मूलम् - ५६०
प्रसन्नो नित्यमनेन उपस्थाय सनातनम्
वैष्णवान्भोजयेच्छक्त्या भुञ्जीयाद्वाग्यतः स्वयम् ५६०
विश्वास-प्रस्तुतिः - ५६१
एवं सम्पूज्य देवेशं तस्यां रात्रौ सनातनम्
षष्टिवर्षसहस्रस्य पूजामाप्नोत्यसंशयः ५६१
मूलम् - ५६१
एवं सम्पूज्य देवेशं तस्यां रात्रौ सनातनम्
षष्टिवर्षसहस्रस्य पूजामाप्नोत्यसंशयः ५६१
विश्वास-प्रस्तुतिः - ५६२
एवं सम्पूजयेद्विष्णुं निमित्तेषु विशेषतः
यथाकालं यथावर्णं यथाशक्त्या यथाबलम् ५६२
मूलम् - ५६२
एवं सम्पूजयेद्विष्णुं निमित्तेषु विशेषतः
यथाकालं यथावर्णं यथाशक्त्या यथाबलम् ५६२
विश्वास-प्रस्तुतिः - ५६३
यथोक्तपुष्पालाभे तु तुलस्या वै समर्च्चयेत्
नैवेद्यस्याप्यलाभे तु हविष्यं वा निवेदयेत् ५६३
मूलम् - ५६३
यथोक्तपुष्पालाभे तु तुलस्या वै समर्च्चयेत्
नैवेद्यस्याप्यलाभे तु हविष्यं वा निवेदयेत् ५६३
विश्वास-प्रस्तुतिः - ५६४
सूक्तानि वैष्णवान्येव सूक्तालाभे यथा जपेत्
एकेन वा पौरुषेण सूक्तेन जुहुयात्तथा ५६४
मूलम् - ५६४
सूक्तानि वैष्णवान्येव सूक्तालाभे यथा जपेत्
एकेन वा पौरुषेण सूक्तेन जुहुयात्तथा ५६४
विश्वास-प्रस्तुतिः - ५६५
सर्वत्राऽज्यं प्रशस्तं स्याद्धोमद्रव्याद्यलाभतः
मन्त्रालाभे मूलमन्त्रं सर्वतन्त्रेषु यो जयेत् ५६५
मूलम् - ५६५
सर्वत्राऽज्यं प्रशस्तं स्याद्धोमद्रव्याद्यलाभतः
मन्त्रालाभे मूलमन्त्रं सर्वतन्त्रेषु यो जयेत् ५६५
विश्वास-प्रस्तुतिः - ५६६
उपस्थानन्तु सर्वत्र तद्विष्णोरिति वा ऋचा
नीराजनन्तु सर्वत्र श्रिये जातेत्यनेन वा ५६६
मूलम् - ५६६
उपस्थानन्तु सर्वत्र तद्विष्णोरिति वा ऋचा
नीराजनन्तु सर्वत्र श्रिये जातेत्यनेन वा ५६६
विश्वास-प्रस्तुतिः - ६४६
तत्तत्कालोचितं सर्वं मनसा वाऽपि पूजयेत्
र्
६४६
मूलम् - ६४६
तत्तत्कालोचितं सर्वं मनसा वाऽपि पूजयेत्
र्
६४६
विश्वास-प्रस्तुतिः - ५६८
सर्वेष्वेषु निमित्तेषु महाभागवतोत्तमान्
सम्पूज्य परिपूर्णत्वमाप्नोत्यत्र न संशयः ५६८
मूलम् - ५६८