चतुर्थोऽध्यायः
अथ प्राप्तकालभगवत्समाराधनविधिवर्णनम्
हारीत उवाच
विश्वास-प्रस्तुतिः - १
अथ वक्ष्यामि राजेन्द्र विष्णोराराधनं परम्
प्रत्यूषे सहसोत्थाय सम्यगाचम्य वारिणा १
मूलम् - १
अथ वक्ष्यामि राजेन्द्र विष्णोराराधनं परम्
प्रत्यूषे सहसोत्थाय सम्यगाचम्य वारिणा १
विश्वास-प्रस्तुतिः - २
आत्मानं देहमीशञ्च चिन्तयेत्संयतेन्द्रियः
ज्ञानानन्दमयो नित्यो निर्विकारो निरामयः २
मूलम् - २
आत्मानं देहमीशञ्च चिन्तयेत्संयतेन्द्रियः
ज्ञानानन्दमयो नित्यो निर्विकारो निरामयः २
विश्वास-प्रस्तुतिः - ३
देहेन्द्रियात्परः साक्षात्पञ्च विंशात्मको ह्यहम्
अस्मिन्देशे वसाम्यद्य शेषभूतो हि शार्ङ्गिणः ३
मूलम् - ३
देहेन्द्रियात्परः साक्षात्पञ्च विंशात्मको ह्यहम्
अस्मिन्देशे वसाम्यद्य शेषभूतो हि शार्ङ्गिणः ३
विश्वास-प्रस्तुतिः - ४
शुक्रशोणितसम्भूते जरारोगाद्युपद्रवे
मेदोरक्तास्थिमांसादिदेहद्रव्यसमाकुले ४
मूलम् - ४
शुक्रशोणितसम्भूते जरारोगाद्युपद्रवे
मेदोरक्तास्थिमांसादिदेहद्रव्यसमाकुले ४
विश्वास-प्रस्तुतिः - ५
मलमूत्रवसापङ्के नानादुःखसमाकुले
तापत्रयमहावह्निदह्यमानेऽनिशम्भृशम् ५
मूलम् - ५
मलमूत्रवसापङ्के नानादुःखसमाकुले
तापत्रयमहावह्निदह्यमानेऽनिशम्भृशम् ५
विश्वास-प्रस्तुतिः - ६
इषणात्रयकृष्णाहिबाध्यमाने दुरत्यये
क्लिश्यामि पापभूयिष्ठे कारागृहनिभेऽशुभे ६
मूलम् - ६
इषणात्रयकृष्णाहिबाध्यमाने दुरत्यये
क्लिश्यामि पापभूयिष्ठे कारागृहनिभेऽशुभे ६
विश्वास-प्रस्तुतिः - ७
बहुजन्मबहुक्लेशगर्भवासादि दुःखिते
वसामि सर्वदोषाणामालये दुःखभाजने ७
मूलम् - ७
बहुजन्मबहुक्लेशगर्भवासादि दुःखिते
वसामि सर्वदोषाणामालये दुःखभाजने ७
विश्वास-प्रस्तुतिः - ८
अस्माद्विमोक्षणायैव चिन्तयिष्यामि केशवम्
वैकुण्ठे परमव्योम्नि दुग्धाब्धौ वैष्णवे पदे ८
मूलम् - ८
अस्माद्विमोक्षणायैव चिन्तयिष्यामि केशवम्
वैकुण्ठे परमव्योम्नि दुग्धाब्धौ वैष्णवे पदे ८
विश्वास-प्रस्तुतिः - ५८२
अनन्तभोगिपर्य्यङ्के समासीनं श्रिया सह
र्
५८२
मूलम् - ५८२
अनन्तभोगिपर्य्यङ्के समासीनं श्रिया सह
र्
५८२
विश्वास-प्रस्तुतिः - १०
पीताम्वरधरं देवं पद्मपत्रायतेक्षणम्
श्रीवत्सकौस्तुभोरस्कं सर्वाभरणभूषितम् १०
मूलम् - १०
पीताम्वरधरं देवं पद्मपत्रायतेक्षणम्
श्रीवत्सकौस्तुभोरस्कं सर्वाभरणभूषितम् १०
विश्वास-प्रस्तुतिः - ११
चिन्तयित्वा नमस्कृत्वा कीर्तयेद्दिव्यनामभिः
सङ्कीर्त्य नामसाहस्रं नमस्कृत्वा गुरूनपि ११
मूलम् - ११
चिन्तयित्वा नमस्कृत्वा कीर्तयेद्दिव्यनामभिः
सङ्कीर्त्य नामसाहस्रं नमस्कृत्वा गुरूनपि ११
विश्वास-प्रस्तुतिः - १२
तुलसीं काञ्चनं गाञ्च संस्पृश्याथ समाहितः
दूराद्बहिर्विनिष्क्रम्य शुचौ देशे च निर्जने १२
मूलम् - १२
तुलसीं काञ्चनं गाञ्च संस्पृश्याथ समाहितः
दूराद्बहिर्विनिष्क्रम्य शुचौ देशे च निर्जने १२
विश्वास-प्रस्तुतिः - १३
कर्णस्थ ब्रह्मसूत्रस्तु शिरः प्रावृत्य वाससा
कुर्यान्मूत्रपुरीषे च ष्ठीवनोच्छ्वासवर्जितः १३
मूलम् - १३
कर्णस्थ ब्रह्मसूत्रस्तु शिरः प्रावृत्य वाससा
कुर्यान्मूत्रपुरीषे च ष्ठीवनोच्छ्वासवर्जितः १३
विश्वास-प्रस्तुतिः - १४
अहन्युदङ्मुखो रात्रौ दक्षिणाभिमुखस्तथा
समाहितमना मौनी विण्मूत्रे विसृजेत्ततः १४
मूलम् - १४
अहन्युदङ्मुखो रात्रौ दक्षिणाभिमुखस्तथा
समाहितमना मौनी विण्मूत्रे विसृजेत्ततः १४
विश्वास-प्रस्तुतिः - १५
उत्थायातन्द्रितः शौचं कुर्यादभ्युद्धृतैर्जलैः
गन्धलेपक्षयकरं यथासङ्ख्यां मृदा शुचिः १५
मूलम् - १५
उत्थायातन्द्रितः शौचं कुर्यादभ्युद्धृतैर्जलैः
गन्धलेपक्षयकरं यथासङ्ख्यां मृदा शुचिः १५
विश्वास-प्रस्तुतिः - १६
अर्द्धप्रसृतिमात्रां तु मृदं दद्याद्यथोक्तवत्
षडपाने त्रिलिङ्गे तु सव्यहस्ते तथा दश १६
मूलम् - १६
अर्द्धप्रसृतिमात्रां तु मृदं दद्याद्यथोक्तवत्
षडपाने त्रिलिङ्गे तु सव्यहस्ते तथा दश १६
विश्वास-प्रस्तुतिः - १७
उभयोः सप्त दद्याच्च तिस्रस्तिस्रस्तु पादयोः
आजङ्घान्मणिबन्धात्तु प्रक्षाल्य शुभवारिणा १७
मूलम् - १७
उभयोः सप्त दद्याच्च तिस्रस्तिस्रस्तु पादयोः
आजङ्घान्मणिबन्धात्तु प्रक्षाल्य शुभवारिणा १७
विश्वास-प्रस्तुतिः - १८
उपविष्टः शुचौ देशे अन्तर्जानुकरस्तथा
पवित्रपाणिराचामेत्प्रसृतिस्थः स वारिणा १८
मूलम् - १८
उपविष्टः शुचौ देशे अन्तर्जानुकरस्तथा
पवित्रपाणिराचामेत्प्रसृतिस्थः स वारिणा १८
विश्वास-प्रस्तुतिः - १९
त्रिः प्राश्याङ्गुष्ठमूलेन द्विधोन्मृज्य कपोलकौ
मध्यमाङ्गुलिभिः पश्चाद्द्विरोष्ठौ मृजयेत्तथा १९
मूलम् - १९
त्रिः प्राश्याङ्गुष्ठमूलेन द्विधोन्मृज्य कपोलकौ
मध्यमाङ्गुलिभिः पश्चाद्द्विरोष्ठौ मृजयेत्तथा १९
विश्वास-प्रस्तुतिः - २०
नासिकौष्ठान्तरं पश्चात्सर्वाङ्गुलिभिरेव च
पादौ हस्तौ शिरश्चैव जलैः संमार्जयेत्ततः २०
मूलम् - २०
नासिकौष्ठान्तरं पश्चात्सर्वाङ्गुलिभिरेव च
पादौ हस्तौ शिरश्चैव जलैः संमार्जयेत्ततः २०
विश्वास-प्रस्तुतिः - २१
अङ्गुष्ठतर्जनीभ्यां तु स्पृशेत् द्वौ नासिकापुटौ
अङ्गुष्ठानामिकाभ्यां तु चक्षुःश्रोत्रे जलैः स्पृशेत् २१
मूलम् - २१
अङ्गुष्ठतर्जनीभ्यां तु स्पृशेत् द्वौ नासिकापुटौ
अङ्गुष्ठानामिकाभ्यां तु चक्षुःश्रोत्रे जलैः स्पृशेत् २१
५८३
विश्वास-प्रस्तुतिः - २२
सर्वाङ्गुलिभिः शिरसि बाहुमूले तथैव च
नामभिः केशवाद्यैश्च यथासङ्ख्यमुपस्पृशेत् २२
मूलम् - २२
सर्वाङ्गुलिभिः शिरसि बाहुमूले तथैव च
नामभिः केशवाद्यैश्च यथासङ्ख्यमुपस्पृशेत् २२
विश्वास-प्रस्तुतिः - २३
द्विराचामेत्तु सर्वत्र विण्मूत्रोत्सर्जने त्रयम्
सामान्यमेतत्सर्वेषां शौचं तु द्विगुणोदितम् २३
मूलम् - २३
द्विराचामेत्तु सर्वत्र विण्मूत्रोत्सर्जने त्रयम्
सामान्यमेतत्सर्वेषां शौचं तु द्विगुणोदितम् २३
विश्वास-प्रस्तुतिः - २४
आचम्यातःपरं मौनी दन्तान् काष्ठेन शोधयेत्
प्राङ्मुखोदङ्मुखो वापि कषायं तिक्तकण्टकम् २४
मूलम् - २४
आचम्यातःपरं मौनी दन्तान् काष्ठेन शोधयेत्
प्राङ्मुखोदङ्मुखो वापि कषायं तिक्तकण्टकम् २४
विश्वास-प्रस्तुतिः - २५
कनिष्ठाग्रमितस्थूलं द्वादशाङ्गुलमायतम्
पूर्वार्धः कृतकूर्च्चेन तेन दन्तान्निकर्षयेत् २५
मूलम् - २५
कनिष्ठाग्रमितस्थूलं द्वादशाङ्गुलमायतम्
पूर्वार्धः कृतकूर्च्चेन तेन दन्तान्निकर्षयेत् २५
विश्वास-प्रस्तुतिः - २६
मुखं संमार्जयित्वाऽथ पश्चादाचमनं चरेत्
पवित्रपाणिराचम्य पश्चात् स्नानं समाचरेत् २६
मूलम् - २६
मुखं संमार्जयित्वाऽथ पश्चादाचमनं चरेत्
पवित्रपाणिराचम्य पश्चात् स्नानं समाचरेत् २६
विश्वास-प्रस्तुतिः - २७
नद्यां तडागे खाते वा तथा प्रस्रवणे जले
तुलसीमृत्तिकां धात्रीमुपलिप्य कलेवरे २७
मूलम् - २७
नद्यां तडागे खाते वा तथा प्रस्रवणे जले
तुलसीमृत्तिकां धात्रीमुपलिप्य कलेवरे २७
विश्वास-प्रस्तुतिः - २८
अभिमन्त्र्य जलं पश्चान्मूलमन्त्रेण वैष्णवः
निमज्ज्य तुलसीमिश्रं जलं सम्प्राशयेत्ततः २८
मूलम् - २८
अभिमन्त्र्य जलं पश्चान्मूलमन्त्रेण वैष्णवः
निमज्ज्य तुलसीमिश्रं जलं सम्प्राशयेत्ततः २८
विश्वास-प्रस्तुतिः - २९
आचम्य मार्जनं कुर्यात्कुशैः सतुलसीदलैः
पौरुषेण तु सूक्तेन आपो हि ष्ठादिभिस्तथा २९
मूलम् - २९
आचम्य मार्जनं कुर्यात्कुशैः सतुलसीदलैः
पौरुषेण तु सूक्तेन आपो हि ष्ठादिभिस्तथा २९
विश्वास-प्रस्तुतिः - ३०
निमज्ज्याप्सु जले पश्चात्त्रिवारमघमर्षणम्
उत्थाय पुनराचम्य पश्चादप्सु निमज्ज्य वै ३०
मूलम् - ३०
निमज्ज्याप्सु जले पश्चात्त्रिवारमघमर्षणम्
उत्थाय पुनराचम्य पश्चादप्सु निमज्ज्य वै ३०
विश्वास-प्रस्तुतिः - ३१
मन्त्ररत्नं त्रिवारं तु जपन्ध्यायन्सनातनम्
पिवेदुत्थाय तेनैव त्रिवारमभिमन्त्रितम् ३१
मूलम् - ३१
मन्त्ररत्नं त्रिवारं तु जपन्ध्यायन्सनातनम्
पिवेदुत्थाय तेनैव त्रिवारमभिमन्त्रितम् ३१
विश्वास-प्रस्तुतिः - ३२
आचम्य तर्पयेद्देवान् पितॄनपि विधानतः
निष्पीड्य कूले वस्त्रं तु पुनराचमनं चरेत् ३२
मूलम् - ३२
आचम्य तर्पयेद्देवान् पितॄनपि विधानतः
निष्पीड्य कूले वस्त्रं तु पुनराचमनं चरेत् ३२
विश्वास-प्रस्तुतिः - ३३
धौतवस्त्रं सोत्तरीयं सकौपीनं धरेत्स्थितम्
निबद्धशिखकच्छस्तु द्विराचम्य यथाविधि ३३
मूलम् - ३३
धौतवस्त्रं सोत्तरीयं सकौपीनं धरेत्स्थितम्
निबद्धशिखकच्छस्तु द्विराचम्य यथाविधि ३३
विश्वास-प्रस्तुतिः - ५८४
धारयेदूर्ध्वपुण्ड्राणि मृदा शुभ्राणि वैष्णवः
र्
५८४
मूलम् - ५८४
धारयेदूर्ध्वपुण्ड्राणि मृदा शुभ्राणि वैष्णवः
र्
५८४
विश्वास-प्रस्तुतिः - ३५
मन्त्रेणैवाभिमन्त्र्याथ लालाटादिषु धारयेत्
नासिकामूलमारभ्य विभृयाच्छ्रीपदाकृति ३५
मूलम् - ३५
मन्त्रेणैवाभिमन्त्र्याथ लालाटादिषु धारयेत्
नासिकामूलमारभ्य विभृयाच्छ्रीपदाकृति ३५
विश्वास-प्रस्तुतिः - ३६
सान्तरालं भवेत्पुण्ड्रँ दण्डाकारं तु वा तथा
ललाटादि तथा पश्चाद्ग्रीवान्तं केशवादिभिः ३६
मूलम् - ३६
सान्तरालं भवेत्पुण्ड्रँ दण्डाकारं तु वा तथा
ललाटादि तथा पश्चाद्ग्रीवान्तं केशवादिभिः ३६
विश्वास-प्रस्तुतिः - ३७
नाम्नां द्वादशभिर्मूर्ध्नि वासुदेवं तलाम्बुना
पवित्रपाणिः शुद्धात्मा सन्ध्यां कुर्यात्समाहितः ३७
मूलम् - ३७
नाम्नां द्वादशभिर्मूर्ध्नि वासुदेवं तलाम्बुना
पवित्रपाणिः शुद्धात्मा सन्ध्यां कुर्यात्समाहितः ३७
विश्वास-प्रस्तुतिः - ३८
प्रादेशमात्रौ कौशेयौ साग्रौ मूलयुतौ तथा
अन्तर्गर्भौ सुविमलौ पवित्रं कारयेद्द्विजः ३८
मूलम् - ३८
प्रादेशमात्रौ कौशेयौ साग्रौ मूलयुतौ तथा
अन्तर्गर्भौ सुविमलौ पवित्रं कारयेद्द्विजः ३८
विश्वास-प्रस्तुतिः - ३९
देवार्चने जपे होमे कुर्याद्ब्राह्म्यं च पवित्रकम्
इतरे वर्तुलग्रन्थिरेवं धर्मो विधीयते ३९
मूलम् - ३९
देवार्चने जपे होमे कुर्याद्ब्राह्म्यं च पवित्रकम्
इतरे वर्तुलग्रन्थिरेवं धर्मो विधीयते ३९
विश्वास-प्रस्तुतिः - ४०
पथि दर्भाश्रिता दर्भा ये दर्भा यज्ञभूमिषु
स्तरणासनपिण्डेषु ब्रह्मयज्ञे च तर्पणे ४०
मूलम् - ४०
पथि दर्भाश्रिता दर्भा ये दर्भा यज्ञभूमिषु
स्तरणासनपिण्डेषु ब्रह्मयज्ञे च तर्पणे ४०
विश्वास-प्रस्तुतिः - ४१
पाने भोजनकाले च धृतान् दर्भान्विसर्जयेत्
सपवित्रकरेणैव आचामेत्प्रयतो द्विजः ४१
मूलम् - ४१
पाने भोजनकाले च धृतान् दर्भान्विसर्जयेत्
सपवित्रकरेणैव आचामेत्प्रयतो द्विजः ४१
विश्वास-प्रस्तुतिः - ४२
आचान्तस्य शुचिः पाणिर्यथापाणिस्तथा कुशः
सन्ध्याचमनकाले तु धृतं न परिवर्जयेत् ४२
मूलम् - ४२
आचान्तस्य शुचिः पाणिर्यथापाणिस्तथा कुशः
सन्ध्याचमनकाले तु धृतं न परिवर्जयेत् ४२
विश्वास-प्रस्तुतिः - ४३
अप्रसूताः स्मृता दर्भाः समिधस्तु कुशाः स्मृताः
समूलास्तु कुशा ज्ञेयाश्छिन्नाग्रास्तृणसंज्ञिताः ४३
मूलम् - ४३
अप्रसूताः स्मृता दर्भाः समिधस्तु कुशाः स्मृताः
समूलास्तु कुशा ज्ञेयाश्छिन्नाग्रास्तृणसंज्ञिताः ४३
विश्वास-प्रस्तुतिः - ४४
कुशोदकेन यत्कण्ठं नित्यं संशोधयेद्द्विजः
न पर्युषन्ति पापानि ब्रह्मकूर्चं दिने दिने ४४
मूलम् - ४४
कुशोदकेन यत्कण्ठं नित्यं संशोधयेद्द्विजः
न पर्युषन्ति पापानि ब्रह्मकूर्चं दिने दिने ४४
विश्वास-प्रस्तुतिः - ४५
कुशासनं सदापूतं जपहोमार्च्चनादिषु
केशेनैव कृतं कर्म सर्वमानन्यमश्नुते ४५
मूलम् - ४५
कुशासनं सदापूतं जपहोमार्च्चनादिषु
केशेनैव कृतं कर्म सर्वमानन्यमश्नुते ४५
विश्वास-प्रस्तुतिः - ४६
तस्मात्कुशपवित्रेण सन्ध्यां कुर्यात् यथाविधि
स्मगृह्योक्तविधानेन सन्ध्योपास्तिं समाचरेत् ४६
मूलम् - ४६
तस्मात्कुशपवित्रेण सन्ध्यां कुर्यात् यथाविधि
स्मगृह्योक्तविधानेन सन्ध्योपास्तिं समाचरेत् ४६
५८५
गायत्र्याऽर्घ्यं प्रदद्याच्च जपं कुर्वीत भक्तिमान् ४७
विश्वास-प्रस्तुतिः - ४८
सूर्यस्याभिमुखो जप्त्वा सावित्रीं नियतात्मवान्
उपस्थानं ततः कृत्वा नमस्कुर्यात्ततो हरिम् ४८
मूलम् - ४८
सूर्यस्याभिमुखो जप्त्वा सावित्रीं नियतात्मवान्
उपस्थानं ततः कृत्वा नमस्कुर्यात्ततो हरिम् ४८
विश्वास-प्रस्तुतिः - ४९
नमो ब्रह्मण इत्यादि जपित्वाऽथ विसर्जयेत्
ततः सन्तर्पयेद्विष्णुं मन्त्ररत्नेन मन्त्रवित् ४९
मूलम् - ४९
नमो ब्रह्मण इत्यादि जपित्वाऽथ विसर्जयेत्
ततः सन्तर्पयेद्विष्णुं मन्त्ररत्नेन मन्त्रवित् ४९
विश्वास-प्रस्तुतिः - ५०
शतवारं सहस्रं वा तुलसीमिश्रितैर्जलैः
वैकुण्ठपार्षदं पश्चात्तर्पयेच्च यथाविधि ५०
मूलम् - ५०
शतवारं सहस्रं वा तुलसीमिश्रितैर्जलैः
वैकुण्ठपार्षदं पश्चात्तर्पयेच्च यथाविधि ५०
विश्वास-प्रस्तुतिः - ५१
एकैकमञ्जलिं दत्त्वा पश्चादाचमनं चरेत्
श्रीशस्याऽऽराधनार्थं वै कुर्यात्पुष्पस्य सञ्चयम् ५१
मूलम् - ५१
एकैकमञ्जलिं दत्त्वा पश्चादाचमनं चरेत्
श्रीशस्याऽऽराधनार्थं वै कुर्यात्पुष्पस्य सञ्चयम् ५१
विश्वास-प्रस्तुतिः - ५२
तुलसीबिल्वपत्राणि दूर्वां कौशेयमेव च
विष्णुक्रान्तं मरुवकं केशाम्बुददलं तथा ५२
मूलम् - ५२
तुलसीबिल्वपत्राणि दूर्वां कौशेयमेव च
विष्णुक्रान्तं मरुवकं केशाम्बुददलं तथा ५२
विश्वास-प्रस्तुतिः - ५३
उशीरं जातिकुसुमं कुन्दञ्चैव कुरण्टकम्
शमीञ्चम्पाङ्कदम्बञ्च चूतपुष्पं च माधवीम् ५३
मूलम् - ५३
उशीरं जातिकुसुमं कुन्दञ्चैव कुरण्टकम्
शमीञ्चम्पाङ्कदम्बञ्च चूतपुष्पं च माधवीम् ५३
विश्वास-प्रस्तुतिः - ५४
पिप्पलस्य प्रबालानि जाम्बवं पाटलं तथा
आस्फोटं कुटजं लोध्रं कर्णिकारञ्च किंशुकम् ५४
मूलम् - ५४
पिप्पलस्य प्रबालानि जाम्बवं पाटलं तथा
आस्फोटं कुटजं लोध्रं कर्णिकारञ्च किंशुकम् ५४
विश्वास-प्रस्तुतिः - ५५
नीपार्जुने शिंशपञ्च श्वेतकिंशुकनामकम्
जम्बीरं मातुलिङ्गं च यूथिकारचयं तथा ५५
मूलम् - ५५
नीपार्जुने शिंशपञ्च श्वेतकिंशुकनामकम्
जम्बीरं मातुलिङ्गं च यूथिकारचयं तथा ५५
विश्वास-प्रस्तुतिः - ५६
पुन्नागं वकुलं नागकेशराशोकमल्लिकाः
शतपत्रं च हारिद्रं करवीरं प्रियङ्गु च ५६
मूलम् - ५६
पुन्नागं वकुलं नागकेशराशोकमल्लिकाः
शतपत्रं च हारिद्रं करवीरं प्रियङ्गु च ५६
विश्वास-प्रस्तुतिः - ५७
नीलोत्पलं तूत्पलञ्च नन्द्यावर्तञ्च कैतकम्
घटजं स्थलपद्मं च सर्वाणि जलदानि च ५७
मूलम् - ५७
नीलोत्पलं तूत्पलञ्च नन्द्यावर्तञ्च कैतकम्
घटजं स्थलपद्मं च सर्वाणि जलदानि च ५७
विश्वास-प्रस्तुतिः - ५८
तत्कालसम्भवं पुष्पं गृहीत्वाऽथ गृहं विशेत्
वितानादियुते दिव्यधूपदीपैर्विराजिते ५८
मूलम् - ५८
तत्कालसम्भवं पुष्पं गृहीत्वाऽथ गृहं विशेत्
वितानादियुते दिव्यधूपदीपैर्विराजिते ५८
विश्वास-प्रस्तुतिः - ५९
चन्दनागरुकस्तूरी कर्पूरामोदवासिते
विचित्ररङ्गवल्याढ्ये मण्डपे रत्नपीठके ५९
मूलम् - ५९
चन्दनागरुकस्तूरी कर्पूरामोदवासिते
विचित्ररङ्गवल्याढ्ये मण्डपे रत्नपीठके ५९
५८६
विश्वास-प्रस्तुतिः - ६०
विस्तीर्णपुष्पपर्यङ्के देव्या सहितमच्युतम्
सन्निधा वासने स्थित्वा कुशे पद्मासने स्थितः ६०
मूलम् - ६०
विस्तीर्णपुष्पपर्यङ्के देव्या सहितमच्युतम्
सन्निधा वासने स्थित्वा कुशे पद्मासने स्थितः ६०
विश्वास-प्रस्तुतिः - ६१
प्राणायामविधानेन भूतशुद्धिं विधाय च
प्राणायामत्रयं कृत्वा पश्चाद्ध्यानं यथोक्तवत् ६१
मूलम् - ६१
प्राणायामविधानेन भूतशुद्धिं विधाय च
प्राणायामत्रयं कृत्वा पश्चाद्ध्यानं यथोक्तवत् ६१
विश्वास-प्रस्तुतिः - ६२
परव्योम्नि स्थितं देवं लक्ष्मीनारायणं विभुम्
पराभिः शक्तिभिर्युक्तं भूलीलाविमलादिभिः ६२
मूलम् - ६२
परव्योम्नि स्थितं देवं लक्ष्मीनारायणं विभुम्
पराभिः शक्तिभिर्युक्तं भूलीलाविमलादिभिः ६२
विश्वास-प्रस्तुतिः - ६३
अनन्तविहगाधीशसैन्याद्यैः सुरसत्तमैः
चण्डाद्यैःकुमुदाद्यैश्च लोकपालैश्च सेवितम् ६३
मूलम् - ६३
अनन्तविहगाधीशसैन्याद्यैः सुरसत्तमैः
चण्डाद्यैःकुमुदाद्यैश्च लोकपालैश्च सेवितम् ६३
विश्वास-प्रस्तुतिः - ६४
चतुर्भुजं सुन्दराङ्गं नानारत्नविभूषणम्
वामाङ्कस्थश्रिया युक्तं शङ्खचक्रगदाधरम् ६४
मूलम् - ६४
चतुर्भुजं सुन्दराङ्गं नानारत्नविभूषणम्
वामाङ्कस्थश्रिया युक्तं शङ्खचक्रगदाधरम् ६४
विश्वास-प्रस्तुतिः - ६५
मन्त्ररत्नविधानेन न्यासमुद्रादिकर्मकृत्
पञ्चौपनिषदं न्यासं कुर्यात्सर्वत्र कर्मसु ६५
मूलम् - ६५
मन्त्ररत्नविधानेन न्यासमुद्रादिकर्मकृत्
पञ्चौपनिषदं न्यासं कुर्यात्सर्वत्र कर्मसु ६५
विश्वास-प्रस्तुतिः - ६६
ओमीशाय नमः परायेति परमेष्ठ्यात्मने नमः
ओं यां नमः परायेति ततः पुरुषात्मने नमः ६६
मूलम् - ६६
ओमीशाय नमः परायेति परमेष्ठ्यात्मने नमः
ओं यां नमः परायेति ततः पुरुषात्मने नमः ६६
विश्वास-प्रस्तुतिः - ६७
ओं रां नमः परायेति ततो विश्वात्मने नमः
ओं वां नमः परायेति स्वनिवृत्यात्मने नमः ६७
मूलम् - ६७
ओं रां नमः परायेति ततो विश्वात्मने नमः
ओं वां नमः परायेति स्वनिवृत्यात्मने नमः ६७
विश्वास-प्रस्तुतिः - ६८
ओं लां नमः परायेति ततः सर्वात्मने नमः
शिरोनासाग्रहृदयगुह्यपादेषु विन्यसेत् ६८
मूलम् - ६८
ओं लां नमः परायेति ततः सर्वात्मने नमः
शिरोनासाग्रहृदयगुह्यपादेषु विन्यसेत् ६८
विश्वास-प्रस्तुतिः - ६९
यथाक्रमेण तन्मन्त्रान्पञ्चाङ्गेषु क्रमान्न्यसेत्
तन्मुद्रया तदाऽऽवाह्य दद्यादासनमेव च ६९
मूलम् - ६९
यथाक्रमेण तन्मन्त्रान्पञ्चाङ्गेषु क्रमान्न्यसेत्
तन्मुद्रया तदाऽऽवाह्य दद्यादासनमेव च ६९
विश्वास-प्रस्तुतिः - ७०
पाद्यार्घ्याचमनस्नानपात्राणि स्थाप्य पूजयेत्
पूरयित्वा शुभजलं पात्रेषु कुसुमैर्युतम् ७०
मूलम् - ७०
पाद्यार्घ्याचमनस्नानपात्राणि स्थाप्य पूजयेत्
पूरयित्वा शुभजलं पात्रेषु कुसुमैर्युतम् ७०
विश्वास-प्रस्तुतिः - ७१
द्रव्याणि निक्षिपेत्तेषु मङ्गलानि यथाक्रमात्
उशीरं चन्दनं कुष्ठं पाद्यपात्रे विनिक्षिपेत् ७१
मूलम् - ७१
द्रव्याणि निक्षिपेत्तेषु मङ्गलानि यथाक्रमात्
उशीरं चन्दनं कुष्ठं पाद्यपात्रे विनिक्षिपेत् ७१
विश्वास-प्रस्तुतिः - ७२
विष्णुक्रान्तञ्च दूर्व्वाञ्च कौशेयान्तिलसर्षपान्
अक्षतांश्च फलं पुष्पमर्घ्यपात्रे विनिक्षिपेत् ७२
मूलम् - ७२
विष्णुक्रान्तञ्च दूर्व्वाञ्च कौशेयान्तिलसर्षपान्
अक्षतांश्च फलं पुष्पमर्घ्यपात्रे विनिक्षिपेत् ७२
विश्वास-प्रस्तुतिः - ७३
जातीफलञ्च कर्पूरमेलाञ्चाचमनीयके
मकरन्दं प्रबालञ्च रत्नं सौवर्णमेव च ७३
मूलम् - ७३
जातीफलञ्च कर्पूरमेलाञ्चाचमनीयके
मकरन्दं प्रबालञ्च रत्नं सौवर्णमेव च ७३
विश्वास-प्रस्तुतिः - ७४
तानि दद्यात्स्नानपात्रे धात्रीं सुरतरुं तथा
द्रव्याणामप्यलाभे तु तुलसीपत्रमेव च ७४
मूलम् - ७४
तानि दद्यात्स्नानपात्रे धात्रीं सुरतरुं तथा
द्रव्याणामप्यलाभे तु तुलसीपत्रमेव च ७४
विश्वास-प्रस्तुतिः - ७५
चन्दनं वा सुवर्णं वा कौशेयं वा विनिक्षिपेत्
दर्शयेत्सुरभेर्मुद्रां पूजयेत्कुसुमव्रजैः ७५
मूलम् - ७५
चन्दनं वा सुवर्णं वा कौशेयं वा विनिक्षिपेत्
दर्शयेत्सुरभेर्मुद्रां पूजयेत्कुसुमव्रजैः ७५
विश्वास-प्रस्तुतिः - ७६
अभिमन्त्र्य च मन्त्रेण धूपदीपैर्निवेदयेत्
अनन्तं चोद्धरण्या च दद्यात्पाद्यादिकं तथा ७६
मूलम् - ७६
अभिमन्त्र्य च मन्त्रेण धूपदीपैर्निवेदयेत्
अनन्तं चोद्धरण्या च दद्यात्पाद्यादिकं तथा ७६
विश्वास-प्रस्तुतिः - ७७
तत्पात्रक्षालनं कृत्वा तथा पुष्पाञ्जलिं न्यसेत्
सौवर्णानि च रौप्याणि ताम्रकांस्यानि योजयेत् ७७
मूलम् - ७७
तत्पात्रक्षालनं कृत्वा तथा पुष्पाञ्जलिं न्यसेत्
सौवर्णानि च रौप्याणि ताम्रकांस्यानि योजयेत् ७७
विश्वास-प्रस्तुतिः - ७८
पात्राणामप्यलाभे तु शङ्खमेकं विशिष्यते
शङ्खोदकं सदा पूतमतिप्रियतरं हरेः ७८
मूलम् - ७८
पात्राणामप्यलाभे तु शङ्खमेकं विशिष्यते
शङ्खोदकं सदा पूतमतिप्रियतरं हरेः ७८
विश्वास-प्रस्तुतिः - ७९
उद्धरिण्या जलं दद्यान्नाप्सु शङ्खं निमज्जयेत्
अष्टाक्षरेण मनुना मन्त्ररत्नेन वा यजेत् ७९
मूलम् - ७९
उद्धरिण्या जलं दद्यान्नाप्सु शङ्खं निमज्जयेत्
अष्टाक्षरेण मनुना मन्त्ररत्नेन वा यजेत् ७९
विश्वास-प्रस्तुतिः - ८०
पाद्यार्घ्याचमनं दत्त्वा मधुपर्कं निवेदयेत्
पुनराचमनं दत्त्वा पादपीठं निवेदयेत् ८०
मूलम् - ८०
पाद्यार्घ्याचमनं दत्त्वा मधुपर्कं निवेदयेत्
पुनराचमनं दत्त्वा पादपीठं निवेदयेत् ८०
विश्वास-प्रस्तुतिः - ८१
दन्तधावनगण्डूषदर्पणालोचनं तथा
निवेद्याभ्यञ्जनं तैलेनोर्द्वर्त्तं केशरञ्जनम् ८१
मूलम् - ८१
दन्तधावनगण्डूषदर्पणालोचनं तथा
निवेद्याभ्यञ्जनं तैलेनोर्द्वर्त्तं केशरञ्जनम् ८१
विश्वास-प्रस्तुतिः - ८२
सुखोष्णितजलैः स्नानं पुनरुद्वर्तनं चरेत्
कुङ्कुमेन हरिद्रेण चन्दनेन सुगन्धिना ८२
मूलम् - ८२
सुखोष्णितजलैः स्नानं पुनरुद्वर्तनं चरेत्
कुङ्कुमेन हरिद्रेण चन्दनेन सुगन्धिना ८२
विश्वास-प्रस्तुतिः - ८३
उद्वर्त्य गन्धतोयेन स्नापयेच्च पुनस्ततः
स्नानपात्रोदकं पश्चादादाय कुसुमैः सह ८३
मूलम् - ८३
उद्वर्त्य गन्धतोयेन स्नापयेच्च पुनस्ततः
स्नानपात्रोदकं पश्चादादाय कुसुमैः सह ८३
विश्वास-प्रस्तुतिः - ८४
पौरुषेण तु सूक्तेन स्नापयेत्कमलापतिम्
मार्जयेच्छुभवस्त्रेण दीपैर्नीराजयेत्तथा ८४
मूलम् - ८४
पौरुषेण तु सूक्तेन स्नापयेत्कमलापतिम्
मार्जयेच्छुभवस्त्रेण दीपैर्नीराजयेत्तथा ८४
विश्वास-प्रस्तुतिः - ५८८
कस्तूरीतिलकं गन्धं पुष्पाणि सुरभीणि च
र्
५८८
मूलम् - ५८८
कस्तूरीतिलकं गन्धं पुष्पाणि सुरभीणि च
र्
५८८
विश्वास-प्रस्तुतिः - ८६
पार्श्वयोरर्द्धधरणी महिष्यः पतितास्तथा
विमलोत्कर्षणीत्यापः पूर्वमेव प्रकीर्तिताः ८६
मूलम् - ८६
पार्श्वयोरर्द्धधरणी महिष्यः पतितास्तथा
विमलोत्कर्षणीत्यापः पूर्वमेव प्रकीर्तिताः ८६
विश्वास-प्रस्तुतिः - ८७
वासुदेवः सीरपाणिः प्रद्युम्नश्च उषापतिः
दिक्षु कोणेषु तत्पत्न्यो लक्ष्मीरेव रती उषा ८७
मूलम् - ८७
वासुदेवः सीरपाणिः प्रद्युम्नश्च उषापतिः
दिक्षु कोणेषु तत्पत्न्यो लक्ष्मीरेव रती उषा ८७
विश्वास-प्रस्तुतिः - ८८
द्वितीयावरणं पश्चात्केशवाद्याः सशक्तयः
संकर्षणादयः पश्चान्मत्स्यकूर्मादयस्तथा ८८
मूलम् - ८८
द्वितीयावरणं पश्चात्केशवाद्याः सशक्तयः
संकर्षणादयः पश्चान्मत्स्यकूर्मादयस्तथा ८८
विश्वास-प्रस्तुतिः - ८९
श्रीर्लक्ष्मीः कमला पद्मा पद्मिनी कमलालया
रमा वृषाकपेर्धन्या वृत्तिर्यज्ञान्तदेवता ८९
मूलम् - ८९
श्रीर्लक्ष्मीः कमला पद्मा पद्मिनी कमलालया
रमा वृषाकपेर्धन्या वृत्तिर्यज्ञान्तदेवता ८९
विश्वास-प्रस्तुतिः - ९०
शक्तयः केशवादीनां संप्रोक्ताः परमे पदे
हिरण्या हरणी सत्या नित्यानन्दा त्रयी सुखा ९०
मूलम् - ९०
शक्तयः केशवादीनां संप्रोक्ताः परमे पदे
हिरण्या हरणी सत्या नित्यानन्दा त्रयी सुखा ९०
विश्वास-प्रस्तुतिः - ९१
सुगन्धा सुन्दरी विद्या सुशीला च सुलक्षणा
सङ्कर्षणादिमूर्तीनां शक्तयः समुदाहृताः ९१
मूलम् - ९१
सुगन्धा सुन्दरी विद्या सुशीला च सुलक्षणा
सङ्कर्षणादिमूर्तीनां शक्तयः समुदाहृताः ९१
विश्वास-प्रस्तुतिः - ९२
वेदा वेदवती धात्री महालक्ष्मीः सुखालया
भार्गवी च तदा सीता रेवती रुक्मिणी प्रभा ९२
मूलम् - ९२
वेदा वेदवती धात्री महालक्ष्मीः सुखालया
भार्गवी च तदा सीता रेवती रुक्मिणी प्रभा ९२
विश्वास-प्रस्तुतिः - ९३
मत्स्यकूर्मादिमूर्तीनां शक्तयः सम्प्रकीर्तिताः
एवं सशक्तयः पूज्याः केशवाद्याः सुरेश्वराः ९३
मूलम् - ९३
मत्स्यकूर्मादिमूर्तीनां शक्तयः सम्प्रकीर्तिताः
एवं सशक्तयः पूज्याः केशवाद्याः सुरेश्वराः ९३
विश्वास-प्रस्तुतिः - ९४
पश्चात्सशक्तयः पूज्याश्चक्रशङ्खादिहेतयः
शङ्खं चक्रं गदां पद्मं शार्ङ्गञ्च मुसलं हलम् ९४
मूलम् - ९४
पश्चात्सशक्तयः पूज्याश्चक्रशङ्खादिहेतयः
शङ्खं चक्रं गदां पद्मं शार्ङ्गञ्च मुसलं हलम् ९४
विश्वास-प्रस्तुतिः - ९५
वाणञ्च खड्गखेटं च छुरिका दिव्यहेतयः
भद्रा सौम्या तथा माया जया च विजया शिवा ९५
मूलम् - ९५
वाणञ्च खड्गखेटं च छुरिका दिव्यहेतयः
भद्रा सौम्या तथा माया जया च विजया शिवा ९५
विश्वास-प्रस्तुतिः - ९६
सुमङ्गला सुनन्दा च हिता रम्या सुरक्षिणी
शक्तयो दिव्यहेतीनां पूजनीयाः सनातनाः ९६
मूलम् - ९६
सुमङ्गला सुनन्दा च हिता रम्या सुरक्षिणी
शक्तयो दिव्यहेतीनां पूजनीयाः सनातनाः ९६
विश्वास-प्रस्तुतिः - ५८९
बर्हिर्लोकेश्वराः पूज्याः साध्याश्च समरुद्गणाः
एवमावरणं सर्वमर्च्चयेत्परमातमनः
५८९
मूलम् - ५८९
बर्हिर्लोकेश्वराः पूज्याः साध्याश्च समरुद्गणाः
एवमावरणं सर्वमर्च्चयेत्परमातमनः
५८९
विश्वास-प्रस्तुतिः - ९८
प्रागुदीच्याञ्च सदृशं नागराजं तथापरे
पुरतो वैनतेयञ्च पूजयेच्छक्तिभिः सह ९८
मूलम् - ९८
प्रागुदीच्याञ्च सदृशं नागराजं तथापरे
पुरतो वैनतेयञ्च पूजयेच्छक्तिभिः सह ९८
विश्वास-प्रस्तुतिः - ९९
सेनापतेः सूत्रवतीं नागराजस्य वारुणीम्
भद्राञ्चलां तथा यस्य पूजयेद्वैष्णवोत्तमः ९९
मूलम् - ९९
सेनापतेः सूत्रवतीं नागराजस्य वारुणीम्
भद्राञ्चलां तथा यस्य पूजयेद्वैष्णवोत्तमः ९९
विश्वास-प्रस्तुतिः - १००
गुग्गुलुं महिषाक्षीञ्च सालनिर्यासमेव च
अगरुं देवदारुञ्च उशीरं श्रीफलं तथा १००
मूलम् - १००
गुग्गुलुं महिषाक्षीञ्च सालनिर्यासमेव च
अगरुं देवदारुञ्च उशीरं श्रीफलं तथा १००
विश्वास-प्रस्तुतिः - १०१
ह्रीबेरं चन्दनं मुस्ता दशाङ्गं धूपमुच्यते
गवाज्येन च संयोज्यं दद्याद्धूपं सुवासितम् १०१
मूलम् - १०१
ह्रीबेरं चन्दनं मुस्ता दशाङ्गं धूपमुच्यते
गवाज्येन च संयोज्यं दद्याद्धूपं सुवासितम् १०१
विश्वास-प्रस्तुतिः - १०२
कार्पासमार्कं क्षौमञ्च शाल्मलीक्षीरकोद्भवम्
अम्भोजं कौटजं काशतूलिकाऽष्टाङ्गमुच्यते १०२
मूलम् - १०२
कार्पासमार्कं क्षौमञ्च शाल्मलीक्षीरकोद्भवम्
अम्भोजं कौटजं काशतूलिकाऽष्टाङ्गमुच्यते १०२
विश्वास-प्रस्तुतिः - १०३
गवाज्यं तिलतैलं वा कुसुमैश्च सुवासितम्
संयोज्य वह्निना दीपं भक्त्या विष्णोर्निवेदयेत् १०३
मूलम् - १०३
गवाज्यं तिलतैलं वा कुसुमैश्च सुवासितम्
संयोज्य वह्निना दीपं भक्त्या विष्णोर्निवेदयेत् १०३
विश्वास-प्रस्तुतिः - १०४
नैवेद्यं शुभहृद्यान्नं पायसापूपसंयुतम्
फलैश्च भक्ष्यभोज्यैश्च पानकैर्व्यञ्जनैः सह १०४
मूलम् - १०४
नैवेद्यं शुभहृद्यान्नं पायसापूपसंयुतम्
फलैश्च भक्ष्यभोज्यैश्च पानकैर्व्यञ्जनैः सह १०४
विश्वास-प्रस्तुतिः - १०५
गवाज्यञ्च दधि क्षीरं शर्कराञ्च निवेदयेत्
शुद्धं हविष्यं हृद्यञ्च सुरुच्यं वै निवेदयेत् १०५
मूलम् - १०५
गवाज्यञ्च दधि क्षीरं शर्कराञ्च निवेदयेत्
शुद्धं हविष्यं हृद्यञ्च सुरुच्यं वै निवेदयेत् १०५
विश्वास-प्रस्तुतिः - १०६
यच्छास्त्रेषु निषिद्धं तु तत्प्रयत्नेन वर्जयेत्
कोद्रवं चौलकं लुब्धं यावनालं तथा सितम् १०६
मूलम् - १०६
यच्छास्त्रेषु निषिद्धं तु तत्प्रयत्नेन वर्जयेत्
कोद्रवं चौलकं लुब्धं यावनालं तथा सितम् १०६
विश्वास-प्रस्तुतिः - १०७
निष्पावञ्च मसूरञ्च तुच्छधान्यानि सर्व्वशः
भुक्तं पर्युषितं रूक्षं यज्ञे कर्म्मणि वर्जयेत् १०७
मूलम् - १०७
निष्पावञ्च मसूरञ्च तुच्छधान्यानि सर्व्वशः
भुक्तं पर्युषितं रूक्षं यज्ञे कर्म्मणि वर्जयेत् १०७
विश्वास-प्रस्तुतिः - १०८
वर्जयेदारनालञ्च मद्यमांससमानि च
निर्यासान्वर्जयेत्सर्व्वान्विना हिङ्गु च गुग्गुलुम् १०८
मूलम् - १०८
वर्जयेदारनालञ्च मद्यमांससमानि च
निर्यासान्वर्जयेत्सर्व्वान्विना हिङ्गु च गुग्गुलुम् १०८
विश्वास-प्रस्तुतिः - १०९
छत्राकं मूलकं शिग्रु करञ्जं लशुनं तथा
कुम्भीदलञ्च पिण्याकं श्वेतवृन्ताकमेव च १०९
मूलम् - १०९
छत्राकं मूलकं शिग्रु करञ्जं लशुनं तथा
कुम्भीदलञ्च पिण्याकं श्वेतवृन्ताकमेव च १०९
विश्वास-प्रस्तुतिः - ५९०
आत्रञ्च नालिकाशाकं नालिकेर्याख्यमेव च
र्
५९०
मूलम् - ५९०
आत्रञ्च नालिकाशाकं नालिकेर्याख्यमेव च
र्
५९०
विश्वास-प्रस्तुतिः - १११
कोशातकीं बिम्बफलं मद्यमांससमानि च
अभक्ष्याण्यप्यशेषाणि वर्जयेद्यज्ञकर्मणि १११
मूलम् - १११
कोशातकीं बिम्बफलं मद्यमांससमानि च
अभक्ष्याण्यप्यशेषाणि वर्जयेद्यज्ञकर्मणि १११
विश्वास-प्रस्तुतिः - ११२
कालिङ्गं कतकं बिल्वफलं जन्तुफलं तथा
वंशाङ्कुरमलाबुञ्च तालहिन्तालके फले ११२
मूलम् - ११२
कालिङ्गं कतकं बिल्वफलं जन्तुफलं तथा
वंशाङ्कुरमलाबुञ्च तालहिन्तालके फले ११२
विश्वास-प्रस्तुतिः - ११३
अश्वत्थं प्लक्षनीपञ्च वटमारग्वधं तथा
कलम्बिका च निर्गुण्डिमुण्डिवार्त्ताकमेव च ११३
मूलम् - ११३
अश्वत्थं प्लक्षनीपञ्च वटमारग्वधं तथा
कलम्बिका च निर्गुण्डिमुण्डिवार्त्ताकमेव च ११३
विश्वास-प्रस्तुतिः - ११४
ऊषरं लवणञ्चैव श्वेतञ्च बृहतीफलम्
नखचर्मातकञ्चैव चिञ्चिलञ्चेति यत्नतः ११४
मूलम् - ११४
ऊषरं लवणञ्चैव श्वेतञ्च बृहतीफलम्
नखचर्मातकञ्चैव चिञ्चिलञ्चेति यत्नतः ११४
विश्वास-प्रस्तुतिः - ११५
विज्ञेयानि च भक्ष्याणि वर्जयेद्यज्ञकर्म्मणि
श्लेष्मातकञ्च विड्जानि प्रत्यक्षलवणं तथा ११५
मूलम् - ११५
विज्ञेयानि च भक्ष्याणि वर्जयेद्यज्ञकर्म्मणि
श्लेष्मातकञ्च विड्जानि प्रत्यक्षलवणं तथा ११५
विश्वास-प्रस्तुतिः - ११६
अनिर्दर्शाहगोक्षीरमवत्सायास्तथाऽऽविकम्
ओष्ट्रमेकशफञ्चैव पशूनां विड्भुजामपि ११६
मूलम् - ११६
अनिर्दर्शाहगोक्षीरमवत्सायास्तथाऽऽविकम्
ओष्ट्रमेकशफञ्चैव पशूनां विड्भुजामपि ११६
विश्वास-प्रस्तुतिः - ११७
अतिदीर्णं तथा तक्रं करनिर्म्मन्थितन्दधि
ताम्रेण संयुतं गव्यं क्षीरञ्च लवणान्वितम् ११७
मूलम् - ११७
अतिदीर्णं तथा तक्रं करनिर्म्मन्थितन्दधि
ताम्रेण संयुतं गव्यं क्षीरञ्च लवणान्वितम् ११७
विश्वास-प्रस्तुतिः - ११८
घृतं लवणसंयुक्तं प्रयत्नेन विवर्जयेत्
सूपान्नञ्च गुडान्नञ्च शर्करामधुसंयुतम् ११८
मूलम् - ११८
घृतं लवणसंयुक्तं प्रयत्नेन विवर्जयेत्
सूपान्नञ्च गुडान्नञ्च शर्करामधुसंयुतम् ११८
विश्वास-प्रस्तुतिः - ११९
मरीचिमिश्रं दध्यन्नं पायसान्नं फलैः सह
तुलसीदलसम्मिश्रं जलैः सम्प्रोक्ष्य वाग्यतः ११९
मूलम् - ११९
मरीचिमिश्रं दध्यन्नं पायसान्नं फलैः सह
तुलसीदलसम्मिश्रं जलैः सम्प्रोक्ष्य वाग्यतः ११९
विश्वास-प्रस्तुतिः - १२०
अष्टाविंशतिवारन्तु मूलमन्त्राभिमन्त्रितम्
मुद्राञ्च सौरभेयीन्तां दर्शयेन्मन्त्रमुच्चरन् १२०
मूलम् - १२०
अष्टाविंशतिवारन्तु मूलमन्त्राभिमन्त्रितम्
मुद्राञ्च सौरभेयीन्तां दर्शयेन्मन्त्रमुच्चरन् १२०
विश्वास-प्रस्तुतिः - १२१
सुधाब्धिममृतं बीजं चिन्तयन्परमात्मनः
दद्यात्पुष्पाञ्जलिं पश्चाद्दशवारं समाहितः १२१
मूलम् - १२१
सुधाब्धिममृतं बीजं चिन्तयन्परमात्मनः
दद्यात्पुष्पाञ्जलिं पश्चाद्दशवारं समाहितः १२१
विश्वास-प्रस्तुतिः - १२२
पेषणक्रियया पूर्वमन्नमस्मै निवेदयेत्
शतवारं जपेन्मन्त्रं घण्टाशब्दं निनादयन् १२२
मूलम् - १२२
पेषणक्रियया पूर्वमन्नमस्मै निवेदयेत्
शतवारं जपेन्मन्त्रं घण्टाशब्दं निनादयन् १२२
५९१
हरेर्भुक्तवतः पश्चाद्दद्याद्वारि सुवासितम् १२३
विश्वास-प्रस्तुतिः - १२४
पश्चादाचमनं दद्याज्जलैर्गन्धमिविश्रितैः
अभ्यर्चा पौरुषस्यास्य सूक्तस्य सुरसत्तमान् १२४
मूलम् - १२४
पश्चादाचमनं दद्याज्जलैर्गन्धमिविश्रितैः
अभ्यर्चा पौरुषस्यास्य सूक्तस्य सुरसत्तमान् १२४
विश्वास-प्रस्तुतिः - १२५
विष्ण्वर्पितचतुर्भागं क्रमाद्धव्यस्य चार्पयेत्
अनन्ततार्क्ष्यसेनेशपवित्राणां निवेदयेत् १२५
मूलम् - १२५
विष्ण्वर्पितचतुर्भागं क्रमाद्धव्यस्य चार्पयेत्
अनन्ततार्क्ष्यसेनेशपवित्राणां निवेदयेत् १२५
विश्वास-प्रस्तुतिः - १२६
तीर्थेन सहितं हव्यं पृथक्पात्रेषु निक्षिपेत्
सर्वेषां वारिपूर्वेण पश्चात्पुष्पाञ्जलिञ्चरेत् १२६
मूलम् - १२६
तीर्थेन सहितं हव्यं पृथक्पात्रेषु निक्षिपेत्
सर्वेषां वारिपूर्वेण पश्चात्पुष्पाञ्जलिञ्चरेत् १२६
विश्वास-प्रस्तुतिः - १२७
नीराजनं ततो दत्त्वा ताम्बूलञ्च निवेदयेत्
प्रणमेच्च ततो भक्त्या रम्यैः स्तोत्रैः शुभाह्वयैः १२७
मूलम् - १२७
नीराजनं ततो दत्त्वा ताम्बूलञ्च निवेदयेत्
प्रणमेच्च ततो भक्त्या रम्यैः स्तोत्रैः शुभाह्वयैः १२७
विश्वास-प्रस्तुतिः - १२८
प्रसार्य बाहू पादौ च बद्धेनाञ्जलिना सह
स्तुवन्स्तुतिभिरेवं तु प्रणामो दीर्घ उच्यते १२८
मूलम् - १२८
प्रसार्य बाहू पादौ च बद्धेनाञ्जलिना सह
स्तुवन्स्तुतिभिरेवं तु प्रणामो दीर्घ उच्यते १२८
विश्वास-प्रस्तुतिः - १२९
नत्वा दीर्घप्रणामैश्च स्तुत्वा स्तुतिभिरेव च
सर्वैश्च वैष्णवैर्मन्त्रैः कुर्यात्पुष्पाञ्जलिं ततः १२९
मूलम् - १२९
नत्वा दीर्घप्रणामैश्च स्तुत्वा स्तुतिभिरेव च
सर्वैश्च वैष्णवैर्मन्त्रैः कुर्यात्पुष्पाञ्जलिं ततः १२९
विश्वास-प्रस्तुतिः - १३०
सूक्तैश्च विष्णुदैवत्यैर्नामभिः शार्ङ्गिणस्तथा
ततः शुभासने स्थित्वा जपेन्मन्त्रमनुत्तमम् १३०
मूलम् - १३०
सूक्तैश्च विष्णुदैवत्यैर्नामभिः शार्ङ्गिणस्तथा
ततः शुभासने स्थित्वा जपेन्मन्त्रमनुत्तमम् १३०
विश्वास-प्रस्तुतिः - १३१
न्यासमुद्रादिपूर्वेण ध्यायन्वै कमलेक्षणम्
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा १३१
मूलम् - १३१
न्यासमुद्रादिपूर्वेण ध्यायन्वै कमलेक्षणम्
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा १३१
विश्वास-प्रस्तुतिः - १३२
जप्त्वा पुष्पाञ्जलिं दद्याद्यथाशक्त्या च मन्त्रतः
नमेद्योगेन देवेशः हृदिस्थं कमलेक्षणम् १३२
मूलम् - १३२
जप्त्वा पुष्पाञ्जलिं दद्याद्यथाशक्त्या च मन्त्रतः
नमेद्योगेन देवेशः हृदिस्थं कमलेक्षणम् १३२
विश्वास-प्रस्तुतिः - १३३
मनसि वाऽर्चयित्वास्मिन् समाधौ विरमेत्सुधीः
प्रातरौपासनं कृत्वा तत्र होमं समाचरेत् १३३
मूलम् - १३३
मनसि वाऽर्चयित्वास्मिन् समाधौ विरमेत्सुधीः
प्रातरौपासनं कृत्वा तत्र होमं समाचरेत् १३३
विश्वास-प्रस्तुतिः - १३४
आज्येन चरुणा वाऽपि समिद्भिर्वा च यज्ञियैः
तण्डुलैर्घृतमिश्रैर्वा बिल्पत्रैरथापि वा १३४
मूलम् - १३४
आज्येन चरुणा वाऽपि समिद्भिर्वा च यज्ञियैः
तण्डुलैर्घृतमिश्रैर्वा बिल्पत्रैरथापि वा १३४
विश्वास-प्रस्तुतिः - १३५
तिलैर्वा कुसुमैर्वाऽपि यवैर्मिश्रभिरेव वा
यज्ञरूपं हरिं ध्यात्वा सर्ववेदमयं विभुम् १३५
मूलम् - १३५
तिलैर्वा कुसुमैर्वाऽपि यवैर्मिश्रभिरेव वा
यज्ञरूपं हरिं ध्यात्वा सर्ववेदमयं विभुम् १३५
विश्वास-प्रस्तुतिः - ५९२
दिव्याभरणसम्पन्नं शङ्खचक्रगदाधरम्
र्
५९२
मूलम् - ५९२
दिव्याभरणसम्पन्नं शङ्खचक्रगदाधरम्
र्
५९२
विश्वास-प्रस्तुतिः - १३७
यज्ञस्वरूपिणं वह्नौ ध्यायन्मन्त्रद्वयेन च
सर्वश्च वैष्णवैर्मन्त्रैरेकैकेनाऽऽहुतिं तथा १३७
मूलम् - १३७
यज्ञस्वरूपिणं वह्नौ ध्यायन्मन्त्रद्वयेन च
सर्वश्च वैष्णवैर्मन्त्रैरेकैकेनाऽऽहुतिं तथा १३७
विश्वास-प्रस्तुतिः - १३८
नामभिः केशवाद्यैश्च सूक्तैर्विष्णुप्रकाशकैः
वैकुण्ठपार्षदं सर्वं हुत्वा चैव ततो बलिम् १३८
मूलम् - १३८
नामभिः केशवाद्यैश्च सूक्तैर्विष्णुप्रकाशकैः
वैकुण्ठपार्षदं सर्वं हुत्वा चैव ततो बलिम् १३८
विश्वास-प्रस्तुतिः - १३९
क्षिपेच्चतुर्विधान् भूतानुद्दिश्य च ततो भुवि
आचम्य पूजयेत्पश्चात्तदीयान् सुसमाहितः १३९
मूलम् - १३९
क्षिपेच्चतुर्विधान् भूतानुद्दिश्य च ततो भुवि
आचम्य पूजयेत्पश्चात्तदीयान् सुसमाहितः १३९
विश्वास-प्रस्तुतिः - १४०
तेभ्यः प्रणम्य भक्त्याऽथ सन्तर्प्य पितृदेवताः
वेदमध्यापयेच्छक्त्या धर्मशास्त्रञ्च संहिताः १४०
मूलम् - १४०
तेभ्यः प्रणम्य भक्त्याऽथ सन्तर्प्य पितृदेवताः
वेदमध्यापयेच्छक्त्या धर्मशास्त्रञ्च संहिताः १४०
विश्वास-प्रस्तुतिः - १४१
सात्विकानि पुराणानि सेतिहासानि वैष्णवः
सर्व्वोपनिषदामर्थं सद्भिः सह विचिन्तयेत् १४१
मूलम् - १४१
सात्विकानि पुराणानि सेतिहासानि वैष्णवः
सर्व्वोपनिषदामर्थं सद्भिः सह विचिन्तयेत् १४१
विश्वास-प्रस्तुतिः - १४२
योगक्षेमार्थवृद्धिञ्च कुर्य्याच्छक्त्या यथार्हतः
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्रा बर्णा यथाक्रमम् १४२
मूलम् - १४२
योगक्षेमार्थवृद्धिञ्च कुर्य्याच्छक्त्या यथार्हतः
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्रा बर्णा यथाक्रमम् १४२
विश्वास-प्रस्तुतिः - १४३
आद्यास्त्रयो द्विजाः प्रोक्तास्तेषां वै मन्त्रसत्क्रियाः
सवर्णभ्यः सवर्णासु जायन्ते हि सजातयः १४३
मूलम् - १४३
आद्यास्त्रयो द्विजाः प्रोक्तास्तेषां वै मन्त्रसत्क्रियाः
सवर्णभ्यः सवर्णासु जायन्ते हि सजातयः १४३
विश्वास-प्रस्तुतिः - १४४
तेषां सङ्करयोगाश्च प्रतिलोमानुलोमजाः
विप्रान्मूर्धाभिषिक्तस्तु क्षत्त्रियायामजायत १४४
मूलम् - १४४
तेषां सङ्करयोगाश्च प्रतिलोमानुलोमजाः
विप्रान्मूर्धाभिषिक्तस्तु क्षत्त्रियायामजायत १४४
विश्वास-प्रस्तुतिः - १४५
वैश्यायान्तु तथाऽऽम्बष्ठो निषादः शूद्रया तथा
राजन्याद्वैश्यशूद्र्यान्तु माहिष्योग्रौ तु तौ स्मृतौ १४५
मूलम् - १४५
वैश्यायान्तु तथाऽऽम्बष्ठो निषादः शूद्रया तथा
राजन्याद्वैश्यशूद्र्यान्तु माहिष्योग्रौ तु तौ स्मृतौ १४५
विश्वास-प्रस्तुतिः - १४६
शूद्र्यां वैश्यात्तु करणस्थिरैर्वा तेऽनुलोमजाः
विप्रायां क्षत्त्रियात्सूतः वैश्याद्वैदेहिकस्तथा १४६
मूलम् - १४६
शूद्र्यां वैश्यात्तु करणस्थिरैर्वा तेऽनुलोमजाः
विप्रायां क्षत्त्रियात्सूतः वैश्याद्वैदेहिकस्तथा १४६
विश्वास-प्रस्तुतिः - १४७
चण्डालस्तु तथा शूद्रात्सर्वकर्मसु गर्हितः
मागधः क्षत्त्रियायां वै वैशयाक्षत्त्रात्तु शूद्रतः १४७
मूलम् - १४७
चण्डालस्तु तथा शूद्रात्सर्वकर्मसु गर्हितः
मागधः क्षत्त्रियायां वै वैशयाक्षत्त्रात्तु शूद्रतः १४७
विश्वास-प्रस्तुतिः - १४८
शूद्रादयोगवं वैश्या जनयामास वै सुतम्
रथकारः करण्यान्तु माहिष्येण प्रजायते १४८
मूलम् - १४८
शूद्रादयोगवं वैश्या जनयामास वै सुतम्
रथकारः करण्यान्तु माहिष्येण प्रजायते १४८
५९३
प्रतिलोमासु वै जाता गर्हिताः सर्वकर्मणाम् १४९
विश्वास-प्रस्तुतिः - १५०
एतेषां ब्राह्मणाद्याश्च षट्कर्मसु नियोजिताः
त्रिकर्मसु क्षत्त्रविशावेकस्मिन् शूद्रयोनिजः १५०
मूलम् - १५०
एतेषां ब्राह्मणाद्याश्च षट्कर्मसु नियोजिताः
त्रिकर्मसु क्षत्त्रविशावेकस्मिन् शूद्रयोनिजः १५०
विश्वास-प्रस्तुतिः - १५१
प्रतिग्रहञ्च वृत्त्यर्थं ब्राह्मणस्तु समाचरेत्
असदेवासतां प्रोक्तं निषिद्धं तद्विवर्जयेत् १५१
मूलम् - १५१
प्रतिग्रहञ्च वृत्त्यर्थं ब्राह्मणस्तु समाचरेत्
असदेवासतां प्रोक्तं निषिद्धं तद्विवर्जयेत् १५१
विश्वास-प्रस्तुतिः - १५२
पाषण्डाः पतिताः पापास्तथैव प्रतिलोमजाः
कुलटाश्च विकर्मस्था असतः परिकीर्तिताः १५२
मूलम् - १५२
पाषण्डाः पतिताः पापास्तथैव प्रतिलोमजाः
कुलटाश्च विकर्मस्था असतः परिकीर्तिताः १५२
विश्वास-प्रस्तुतिः - १५३
लवणं तिलकार्पासं चर्म्म च त्रपुसीसकम्
आयसं मधु मांसञ्च विषमन्नं घृतं रुजम् १५३
मूलम् - १५३
लवणं तिलकार्पासं चर्म्म च त्रपुसीसकम्
आयसं मधु मांसञ्च विषमन्नं घृतं रुजम् १५३
विश्वास-प्रस्तुतिः - १५४
किल्विषं गजमुष्ट्रञ्च सर्षपं जलमेव च
तृणं काष्ठञ्च कूष्माण्डं शिंशपाञ्च विवर्जयेत् १५४
मूलम् - १५४
किल्विषं गजमुष्ट्रञ्च सर्षपं जलमेव च
तृणं काष्ठञ्च कूष्माण्डं शिंशपाञ्च विवर्जयेत् १५४
विश्वास-प्रस्तुतिः - १५५
महिषीं गर्दभञ्चैव वाजिनञ्च तथाऽऽविकम्
दासीमजां यानवृक्षा न पञ्चानडुहन्तुलाम् १५५
मूलम् - १५५
महिषीं गर्दभञ्चैव वाजिनञ्च तथाऽऽविकम्
दासीमजां यानवृक्षा न पञ्चानडुहन्तुलाम् १५५
विश्वास-प्रस्तुतिः - १५६
एवमाद्यमसद्द्रव्यं प्रयत्नेन विवर्जयेत्
धान्यं वासांसि भूमिञ्च सुवर्णं रत्नमेव च १५६
मूलम् - १५६
एवमाद्यमसद्द्रव्यं प्रयत्नेन विवर्जयेत्
धान्यं वासांसि भूमिञ्च सुवर्णं रत्नमेव च १५६
विश्वास-प्रस्तुतिः - १५७
पुष्पाणि फलमूलाद्यं सद्द्रव्यं मुनिभिः स्मृतम्
सर्वत्र परिगृह्णीयाद्भूमिं धान्यं फलादिकम् १५७
मूलम् - १५७
पुष्पाणि फलमूलाद्यं सद्द्रव्यं मुनिभिः स्मृतम्
सर्वत्र परिगृह्णीयाद्भूमिं धान्यं फलादिकम् १५७
विश्वास-प्रस्तुतिः - १५८
भूमिं यस्तु प्रगृह्णाति भूमिं यस्तु प्रयच्छति
तावुभौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ १५८
मूलम् - १५८
भूमिं यस्तु प्रगृह्णाति भूमिं यस्तु प्रयच्छति
तावुभौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ १५८
विश्वास-प्रस्तुतिः - १५९
धान्यं करोति दातारं प्रगृहीतारमेव च
धान्यं नृपवरश्रेष्ठ इहलोके परत्र च १५९
मूलम् - १५९
धान्यं करोति दातारं प्रगृहीतारमेव च
धान्यं नृपवरश्रेष्ठ इहलोके परत्र च १५९
विश्वास-प्रस्तुतिः - १६०
तस्माद्धान्यं धरित्रीञ्च प्रतिगृह्णीत सर्वतः
कुसुम्भधान्य एव स्यात्कुसुम्भधान्यवान्नृप १६०
मूलम् - १६०
तस्माद्धान्यं धरित्रीञ्च प्रतिगृह्णीत सर्वतः
कुसुम्भधान्य एव स्यात्कुसुम्भधान्यवान्नृप १६०
विश्वास-प्रस्तुतिः - १६१
शीलोञ्छेनापि वा जीवेच्छ्रेयानेषां परो वरः
जीवेद्यायावरेणैव विप्रः सर्वत्र सर्वदा १६१
मूलम् - १६१
शीलोञ्छेनापि वा जीवेच्छ्रेयानेषां परो वरः
जीवेद्यायावरेणैव विप्रः सर्वत्र सर्वदा १६१
विश्वास-प्रस्तुतिः - ५९४
वर्जयित्वैव पाषण्डान् पतितांश्चान्यदविकान्
र्
५९४
मूलम् - ५९४
वर्जयित्वैव पाषण्डान् पतितांश्चान्यदविकान्
र्
५९४
विश्वास-प्रस्तुतिः - १६३
न वाहयेदनडुहं क्षुधार्तं श्रान्तमेव च
तस्य पुंस्त्वमहित्वैव वाहयेद्द्विजपुङ्गवः १६३
मूलम् - १६३
न वाहयेदनडुहं क्षुधार्तं श्रान्तमेव च
तस्य पुंस्त्वमहित्वैव वाहयेद्द्विजपुङ्गवः १६३
विश्वास-प्रस्तुतिः - १६४
कर्मलोपमकुर्वन्वै कृषिं कुर्वीत वै द्विजः
हरेः पूजां यथाकालं कृषिलोपे समाचरेत् १६४
मूलम् - १६४
कर्मलोपमकुर्वन्वै कृषिं कुर्वीत वै द्विजः
हरेः पूजां यथाकालं कृषिलोपे समाचरेत् १६४
विश्वास-प्रस्तुतिः - १६५
न ब्राह्म्यं सन्त्यजेत्विप्रस्तथा यज्ञादिकर्म च
आपद्यपि न कुर्वीत सेवां वाणिज्यमेव च १६५
मूलम् - १६५
न ब्राह्म्यं सन्त्यजेत्विप्रस्तथा यज्ञादिकर्म च
आपद्यपि न कुर्वीत सेवां वाणिज्यमेव च १६५
विश्वास-प्रस्तुतिः - १६६
असत्प्रतिग्रहं स्तेयं तथा धर्मस्य विक्रयम्
अन्यायोपार्जितं द्रव्यमापद्यपि विवर्जयेत् १६६
मूलम् - १६६
असत्प्रतिग्रहं स्तेयं तथा धर्मस्य विक्रयम्
अन्यायोपार्जितं द्रव्यमापद्यपि विवर्जयेत् १६६
विश्वास-प्रस्तुतिः - १६७
भृतकाध्यापनं चैव सदासत्कर्मभावनम्
प्रीतये वासुदेवस्य यद्दत्तमसतामपि १६७
मूलम् - १६७
भृतकाध्यापनं चैव सदासत्कर्मभावनम्
प्रीतये वासुदेवस्य यद्दत्तमसतामपि १६७
विश्वास-प्रस्तुतिः - १६८
महाभागवतस्पर्शात्तत्सदित्युच्यते बुधैः
तापादीन्पञ्च संस्कारांस्तथाकारैस्त्रिभिर्युतः १६८
मूलम् - १६८
महाभागवतस्पर्शात्तत्सदित्युच्यते बुधैः
तापादीन्पञ्च संस्कारांस्तथाकारैस्त्रिभिर्युतः १६८
विश्वास-प्रस्तुतिः - १६९
हरेरनन्यशरणो महाभागवतः स्मृतः
यक्षराक्षसभूतानां तामसानां दिवौकसाम् १६९
मूलम् - १६९
हरेरनन्यशरणो महाभागवतः स्मृतः
यक्षराक्षसभूतानां तामसानां दिवौकसाम् १६९
विश्वास-प्रस्तुतिः - १७०
तेषां यत्प्रीतये दत्तं तथा यद्यपि वर्जयेत्
बुद्धरुद्रौ तथा वायुर्दुर्गागणसुभैरवाः १७०
मूलम् - १७०
तेषां यत्प्रीतये दत्तं तथा यद्यपि वर्जयेत्
बुद्धरुद्रौ तथा वायुर्दुर्गागणसुभैरवाः १७०
विश्वास-प्रस्तुतिः - १७१
यमः स्कन्दो नैर्ऋतश्च तामसा देवताः स्मृताः
एवं विशुद्धिं द्रव्यस्य ज्ञात्वा गृह्णीत सत्तमः १७१
मूलम् - १७१
यमः स्कन्दो नैर्ऋतश्च तामसा देवताः स्मृताः
एवं विशुद्धिं द्रव्यस्य ज्ञात्वा गृह्णीत सत्तमः १७१
विश्वास-प्रस्तुतिः - १७२
कृषिस्तु सर्ववर्णानां सामान्यो धर्म उच्यते
प्रतिग्रहस्तु विप्राणां राज्ञां क्ष्मापालनं तथा १७२
मूलम् - १७२
कृषिस्तु सर्ववर्णानां सामान्यो धर्म उच्यते
प्रतिग्रहस्तु विप्राणां राज्ञां क्ष्मापालनं तथा १७२
विश्वास-प्रस्तुतिः - १७३
कुसीदञ्चैव वाणिज्यं विशामेव प्रकीर्तितम्
सेवावृत्तिस्तु शूद्राणां कृषिर्वा सम्प्रकीर्तिता १७३
मूलम् - १७३
कुसीदञ्चैव वाणिज्यं विशामेव प्रकीर्तितम्
सेवावृत्तिस्तु शूद्राणां कृषिर्वा सम्प्रकीर्तिता १७३
विश्वास-प्रस्तुतिः - १७४
अशक्तस्तु भवेद्राजा पृथिव्याः परिपालने
जीवेद्वाऽपि विशां वृत्त्या शूद्राणां वा यथासुखम् १७४
मूलम् - १७४
अशक्तस्तु भवेद्राजा पृथिव्याः परिपालने
जीवेद्वाऽपि विशां वृत्त्या शूद्राणां वा यथासुखम् १७४
५९५
स्तेयं परस्त्रीहरणं हिंसा कुहककौशिके १७५
विश्वास-प्रस्तुतिः - १७६
स्त्रीमद्यमांसलवणविक्रयं पतितं स्मृतम्
अपकृष्टनिकृष्टानां जीवितं शिल्पकर्मभिः १७६
मूलम् - १७६
स्त्रीमद्यमांसलवणविक्रयं पतितं स्मृतम्
अपकृष्टनिकृष्टानां जीवितं शिल्पकर्मभिः १७६
विश्वास-प्रस्तुतिः - १७७
हीनन्तु प्रतिलोमानामहीनमनुलोमिनाम्
चर्मवैणववस्त्राणां हिंसाकर्म च नेजनम् १७७
मूलम् - १७७
हीनन्तु प्रतिलोमानामहीनमनुलोमिनाम्
चर्मवैणववस्त्राणां हिंसाकर्म च नेजनम् १७७
विश्वास-प्रस्तुतिः - १७८
गाणिक्यं वपनाग्निञ्च मद्यमांसक्रिया तथा
सारथ्यं वाहकानाञ्च रथानां भूभृतामपि १७८
मूलम् - १७८
गाणिक्यं वपनाग्निञ्च मद्यमांसक्रिया तथा
सारथ्यं वाहकानाञ्च रथानां भूभृतामपि १७८
विश्वास-प्रस्तुतिः - १७९
एवमादि निषिद्धं यत्प्रातिलोम्यं यदुच्यते
यत्सौम्यशिल्पं लोकेऽस्मिन्सौम्यं तदनुलोमकम् १७९
मूलम् - १७९
एवमादि निषिद्धं यत्प्रातिलोम्यं यदुच्यते
यत्सौम्यशिल्पं लोकेऽस्मिन्सौम्यं तदनुलोमकम् १७९
विश्वास-प्रस्तुतिः - १८०
मृद्दारुशैललोहानां शिल्पं सौम्यमिहोच्यते
न्यायेन पालयेद्राजा पृथिवीं शास्त्रमार्गतः १८०
मूलम् - १८०
मृद्दारुशैललोहानां शिल्पं सौम्यमिहोच्यते
न्यायेन पालयेद्राजा पृथिवीं शास्त्रमार्गतः १८०
विश्वास-प्रस्तुतिः - १८१
स्वराष्ट्रकृतधर्मस्य सदा षडभागसिद्धये
राज्ञां राष्ट्रकृतं पापमिति धर्मविदो विदुः १८१
मूलम् - १८१
स्वराष्ट्रकृतधर्मस्य सदा षडभागसिद्धये
राज्ञां राष्ट्रकृतं पापमिति धर्मविदो विदुः १८१
विश्वास-प्रस्तुतिः - १८२
तस्मादपापसंयुक्तां यथा संरक्षयेद्भुवम्
अग्निदङ्गरदञ्चोरं हिंस्रं दुर्वृत्तमेव च १८२
मूलम् - १८२
तस्मादपापसंयुक्तां यथा संरक्षयेद्भुवम्
अग्निदङ्गरदञ्चोरं हिंस्रं दुर्वृत्तमेव च १८२
विश्वास-प्रस्तुतिः - १८३
धूर्त्तं पतितमित्यादीन् हन्यादेवाविचारयन्
अङ्कयित्वा श्वपादेन गर्दभे चाधिरोह्य वै १८३
मूलम् - १८३
धूर्त्तं पतितमित्यादीन् हन्यादेवाविचारयन्
अङ्कयित्वा श्वपादेन गर्दभे चाधिरोह्य वै १८३
विश्वास-प्रस्तुतिः - १८४
प्रवासयेत् स्वराष्ट्रात्तु ब्राह्मणं पतितं नृपः
कुलटां कामचारेण गर्भघ्नीं भर्तृहिंसकाम् १८४
मूलम् - १८४
प्रवासयेत् स्वराष्ट्रात्तु ब्राह्मणं पतितं नृपः
कुलटां कामचारेण गर्भघ्नीं भर्तृहिंसकाम् १८४
विश्वास-प्रस्तुतिः - १८५
निकृत्तकर्णनासोष्ठीं कृत्वा नारीं प्रवासयेत्
न्यायेन दण्डनं राज्ञः स्वर्गकीर्तिविवर्धनम् १८५
मूलम् - १८५
निकृत्तकर्णनासोष्ठीं कृत्वा नारीं प्रवासयेत्
न्यायेन दण्डनं राज्ञः स्वर्गकीर्तिविवर्धनम् १८५
विश्वास-प्रस्तुतिः - १८६
अदण्ड्यान् दण्डयन्राजा तथा दण्ड्यानदण्डयन्
अयशो महदाप्नोति नरकं चाधिगच्छति १८६
मूलम् - १८६
अदण्ड्यान् दण्डयन्राजा तथा दण्ड्यानदण्डयन्
अयशो महदाप्नोति नरकं चाधिगच्छति १८६
विश्वास-प्रस्तुतिः - १८७
दिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा
ज्ञात्वाऽपराधं देशं च जनं कालमदोऽपि वा १८७
मूलम् - १८७
दिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा
ज्ञात्वाऽपराधं देशं च जनं कालमदोऽपि वा १८७
विश्वास-प्रस्तुतिः - ५९६
वयः कर्म च वित्तञ्च दण्डं न्यायेन पातयेत्
र्
५९६
मूलम् - ५९६
वयः कर्म च वित्तञ्च दण्डं न्यायेन पातयेत्
र्
५९६
विश्वास-प्रस्तुतिः - १८९
गुरूणां तु गुरुं दण्डं पापानां च लघोर्लघुम्
व्यवहारान् स्वयं पश्यन् कुर्यात् सभ्यैर्वृतोऽन्वहम् १८९
मूलम् - १८९
गुरूणां तु गुरुं दण्डं पापानां च लघोर्लघुम्
व्यवहारान् स्वयं पश्यन् कुर्यात् सभ्यैर्वृतोऽन्वहम् १८९
विश्वास-प्रस्तुतिः - १९०
मिथ्यापवादशुद्ध्यर्थं पञ्च दिव्यानि कल्पयेत्
ज्ञात्वा शुद्धेषु दिव्येषु शुद्धान्वै मानयेत्तथा १९०
मूलम् - १९०
मिथ्यापवादशुद्ध्यर्थं पञ्च दिव्यानि कल्पयेत्
ज्ञात्वा शुद्धेषु दिव्येषु शुद्धान्वै मानयेत्तथा १९०
विश्वास-प्रस्तुतिः - १९१
तन्मिथ्याशंसिनं दुष्टं जिह्वाच्छेदेन दण्डयेत्
परद्रव्यादिहरणं परदाराभिमर्शनम् १९१
मूलम् - १९१
तन्मिथ्याशंसिनं दुष्टं जिह्वाच्छेदेन दण्डयेत्
परद्रव्यादिहरणं परदाराभिमर्शनम् १९१
विश्वास-प्रस्तुतिः - १९२
यः कुर्यात्तु बलात्तस्य हस्तच्छेदः प्रकीर्तितः
यो गच्छेत्परदारांस्तु बलात्कामाच्च वा नरः १९२
मूलम् - १९२
यः कुर्यात्तु बलात्तस्य हस्तच्छेदः प्रकीर्तितः
यो गच्छेत्परदारांस्तु बलात्कामाच्च वा नरः १९२
विश्वास-प्रस्तुतिः - १९३
सर्वस्वहरणं कृत्वा लिङ्गच्छेदञ्च दापयेत्
दहेत्कटाग्निना देहं गुरुस्त्रीगामिनं तदा १९३
मूलम् - १९३
सर्वस्वहरणं कृत्वा लिङ्गच्छेदञ्च दापयेत्
दहेत्कटाग्निना देहं गुरुस्त्रीगामिनं तदा १९३
विश्वास-प्रस्तुतिः - १९४
ब्रह्मघ्नं च सुरापं वा गोस्त्रीबालनिषूदनम्
देवविप्रस्वहर्तारं शूलमारोपयेन्नरम् १९४
मूलम् - १९४
ब्रह्मघ्नं च सुरापं वा गोस्त्रीबालनिषूदनम्
देवविप्रस्वहर्तारं शूलमारोपयेन्नरम् १९४
विश्वास-प्रस्तुतिः - १९५
दैवतं ब्राह्मणं गाञ्च पितृमातृगुरुंस्तथा
पादेन ताडयेद्यस्तु तस्य तच्छेदनं स्मृतम् १९५
मूलम् - १९५
दैवतं ब्राह्मणं गाञ्च पितृमातृगुरुंस्तथा
पादेन ताडयेद्यस्तु तस्य तच्छेदनं स्मृतम् १९५
विश्वास-प्रस्तुतिः - १९६
तेषामुपरि हस्तं तु दोष्णोश्छेदन्तु कामतः
प्रत्येकं दण्डनं कुर्याद्दुर्वृत्तस्य परस्त्रियाम् १९६
मूलम् - १९६
तेषामुपरि हस्तं तु दोष्णोश्छेदन्तु कामतः
प्रत्येकं दण्डनं कुर्याद्दुर्वृत्तस्य परस्त्रियाम् १९६
विश्वास-प्रस्तुतिः - १९७
चुम्बने तालुविच्छेदो द्वौ हस्तौ परिरम्भणे
हस्तस्याङ्गुलिविच्छेदः केशादिग्रहणे स्त्रियः १९७
मूलम् - १९७
चुम्बने तालुविच्छेदो द्वौ हस्तौ परिरम्भणे
हस्तस्याङ्गुलिविच्छेदः केशादिग्रहणे स्त्रियः १९७
विश्वास-प्रस्तुतिः - १९८
दाहयेत्तप्ततैलेन हस्तमुष्ट्या च ताडनम्
सुरतं याचमानस्य जिह्वाच्छेदं च कामतः १९८
मूलम् - १९८
दाहयेत्तप्ततैलेन हस्तमुष्ट्या च ताडनम्
सुरतं याचमानस्य जिह्वाच्छेदं च कामतः १९८
विश्वास-प्रस्तुतिः - १९९
कामेङ्गितेषु सर्वत्र ताल्वोश्च दहनं स्मृतम्
दृष्ट्वा मुहुः प्रेरणे तु नेत्रयोः स्फोटनं चरेत् १९९
मूलम् - १९९
कामेङ्गितेषु सर्वत्र ताल्वोश्च दहनं स्मृतम्
दृष्ट्वा मुहुः प्रेरणे तु नेत्रयोः स्फोटनं चरेत् १९९
विश्वास-प्रस्तुतिः - २००
मानकूटं तुलाकूटं कूटसाक्ष्यकृतां नृणाम्
सहस्रं दापयेद्दण्डं वृत्त्या स्वस्यापनायने २००
मूलम् - २००
मानकूटं तुलाकूटं कूटसाक्ष्यकृतां नृणाम्
सहस्रं दापयेद्दण्डं वृत्त्या स्वस्यापनायने २००
५९७
तेषु तेष्वङ्कनेनैव अक्षतो ब्राह्मणो व्रजेत् २०१
विश्वास-प्रस्तुतिः - २०२
पापानेवाङ्कयित्वाऽस्य मुण्डयित्वा शिरोरुहान्
सर्वस्वहरणं कृत्वा राष्ट्रात्सम्यक्प्रवासयेत् २०२
मूलम् - २०२
पापानेवाङ्कयित्वाऽस्य मुण्डयित्वा शिरोरुहान्
सर्वस्वहरणं कृत्वा राष्ट्रात्सम्यक्प्रवासयेत् २०२
विश्वास-प्रस्तुतिः - २०३
अवैष्णवं विकर्मस्थं हरिवासरभोजनम्
ब्राह्मणं गार्दभं यानमारोप्यैव विवासयेत् २०३
मूलम् - २०३
अवैष्णवं विकर्मस्थं हरिवासरभोजनम्
ब्राह्मणं गार्दभं यानमारोप्यैव विवासयेत् २०३
विश्वास-प्रस्तुतिः - २०४
न्यायेन पालयेद्राजा धर्मान् षड्भागमाहरेत्
त्रिभागमाहरेद्धान्याद्धनात् षड्भागमेव च २०४
मूलम् - २०४
न्यायेन पालयेद्राजा धर्मान् षड्भागमाहरेत्
त्रिभागमाहरेद्धान्याद्धनात् षड्भागमेव च २०४
विश्वास-प्रस्तुतिः - २०५
गोभूहिरण्यवासोभिर्धान्यरत्नविभूषणैः
पूजयेद्ब्राह्मणान् भक्त्या पोषयेच्च विशेषतः २०५
मूलम् - २०५
गोभूहिरण्यवासोभिर्धान्यरत्नविभूषणैः
पूजयेद्ब्राह्मणान् भक्त्या पोषयेच्च विशेषतः २०५
विश्वास-प्रस्तुतिः - २०६
बिम्बानि स्थापयेद्विष्णोर्ग्रामेषु नगरेषु च
चैत्यान्यायतनान्यस्य रम्याण्येव तु कारयेत् २०६
मूलम् - २०६
बिम्बानि स्थापयेद्विष्णोर्ग्रामेषु नगरेषु च
चैत्यान्यायतनान्यस्य रम्याण्येव तु कारयेत् २०६
विश्वास-प्रस्तुतिः - २०७
वसुपुष्पोपहारौघं भूधेन्वादि समर्पयेत्
इतरेषां सुराणां च वैदिकानां जनेश्वरः २०७
मूलम् - २०७
वसुपुष्पोपहारौघं भूधेन्वादि समर्पयेत्
इतरेषां सुराणां च वैदिकानां जनेश्वरः २०७
विश्वास-प्रस्तुतिः - २०८
धर्मतः कारयेद्यश्च चैत्यान्यायतनानि तु
वापी कूपतडागादि फलपुष्पवनानि च २०८
मूलम् - २०८
धर्मतः कारयेद्यश्च चैत्यान्यायतनानि तु
वापी कूपतडागादि फलपुष्पवनानि च २०८
विश्वास-प्रस्तुतिः - २०९
कुर्वीत सुविशालानि पूर्वकान्यपि पालयेत्
फलितं पुष्पितं वाऽपि वनं छिन्द्यात्तु यो नरः २०९
मूलम् - २०९
कुर्वीत सुविशालानि पूर्वकान्यपि पालयेत्
फलितं पुष्पितं वाऽपि वनं छिन्द्यात्तु यो नरः २०९
विश्वास-प्रस्तुतिः - २१०
तडागसेतुं यो भिन्द्यात्तं शूलेनानुरोहयेत्
अग्निदं गरदं गोघ्नं बालस्त्रीगुरुघातिनम् २१०
मूलम् - २१०
तडागसेतुं यो भिन्द्यात्तं शूलेनानुरोहयेत्
अग्निदं गरदं गोघ्नं बालस्त्रीगुरुघातिनम् २१०
विश्वास-प्रस्तुतिः - २११
भगिनीं मातरं पुत्रीं गुरुदारान् स्नुषामपि
साध्वीं तपस्विनीं वाऽपि गच्छन्तमतिपापिनम् २११
मूलम् - २११
भगिनीं मातरं पुत्रीं गुरुदारान् स्नुषामपि
साध्वीं तपस्विनीं वाऽपि गच्छन्तमतिपापिनम् २११
विश्वास-प्रस्तुतिः - २१२
हिंस्रयन्त्रप्रयोक्तारं दाहयेद्वै कटाग्निना
अदण्डयित्वा दुर्वृत्तान् तत्पापं पृथिवीपतिः २१२
मूलम् - २१२
हिंस्रयन्त्रप्रयोक्तारं दाहयेद्वै कटाग्निना
अदण्डयित्वा दुर्वृत्तान् तत्पापं पृथिवीपतिः २१२
विश्वास-प्रस्तुतिः - २१३
सम्प्राप्य निरयं गच्छेत्तस्मात्तान् दण्डयेत्तथा
यः स्ववर्णाश्रमं हित्वा स्वच्छन्देन तु वर्तयेत् २१३
मूलम् - २१३
सम्प्राप्य निरयं गच्छेत्तस्मात्तान् दण्डयेत्तथा
यः स्ववर्णाश्रमं हित्वा स्वच्छन्देन तु वर्तयेत् २१३
विश्वास-प्रस्तुतिः - ५९८
तं दण्डयेद्वर्षशतं नाशयेत्तद्विदेशतः
र्
५९८
मूलम् - ५९८
तं दण्डयेद्वर्षशतं नाशयेत्तद्विदेशतः
र्
५९८
विश्वास-प्रस्तुतिः - २१५
पितेव पालयेद्भृत्यान् प्रजाश्च पृथिवीपतिः
प्रजासंरक्षणार्थाय संग्रामं कारयेन्नृपः २१५
मूलम् - २१५
पितेव पालयेद्भृत्यान् प्रजाश्च पृथिवीपतिः
प्रजासंरक्षणार्थाय संग्रामं कारयेन्नृपः २१५
विश्वास-प्रस्तुतिः - २१६
तस्मिन् मृत्युर्भवेच्छ्रेयो राज्ञः संग्राममूर्द्धनि
मृतेन लभ्यते स्वर्गं जितेन पृथिवी त्वियम् २१६
मूलम् - २१६
तस्मिन् मृत्युर्भवेच्छ्रेयो राज्ञः संग्राममूर्द्धनि
मृतेन लभ्यते स्वर्गं जितेन पृथिवी त्वियम् २१६
विश्वास-प्रस्तुतिः - २१७
यशः कीर्त्तिविवृध्यर्थं धर्मसंग्राममाचरेत्
मुक्तशीर्षं मुक्तवस्त्रं त्यक्तहेतिं पलायितम् २१७
मूलम् - २१७
यशः कीर्त्तिविवृध्यर्थं धर्मसंग्राममाचरेत्
मुक्तशीर्षं मुक्तवस्त्रं त्यक्तहेतिं पलायितम् २१७
विश्वास-प्रस्तुतिः - २१८
न हन्याद्बन्दिनं राजा युद्धे प्रेक्षणकृज्जनान्
भग्ने स्वसैन्यपुञ्जे च संग्रामे विनिवर्तिनः २१८
मूलम् - २१८
न हन्याद्बन्दिनं राजा युद्धे प्रेक्षणकृज्जनान्
भग्ने स्वसैन्यपुञ्जे च संग्रामे विनिवर्तिनः २१८
विश्वास-प्रस्तुतिः - २१९
पदे पदे समग्रस्य यज्ञस्य फलमश्नुते
नातः परतरो धर्मो नृपाणां नरशालिनाम् २१९
मूलम् - २१९
पदे पदे समग्रस्य यज्ञस्य फलमश्नुते
नातः परतरो धर्मो नृपाणां नरशालिनाम् २१९
विश्वास-प्रस्तुतिः - २२०
युद्धलब्धा महीशस्य दीयते नृपसप्तमैः
जित्वा शत्रून्महीं लब्ध्वा लब्धां यत्नेन पालयेत् २२०
मूलम् - २२०
युद्धलब्धा महीशस्य दीयते नृपसप्तमैः
जित्वा शत्रून्महीं लब्ध्वा लब्धां यत्नेन पालयेत् २२०
विश्वास-प्रस्तुतिः - २२१
पालितां वर्धयेन्नित्यं वृद्धां पात्रे विनिक्षिपेत्
पात्रमित्युच्यते विप्रस्तपोविद्यासमन्वितः २२१
मूलम् - २२१
पालितां वर्धयेन्नित्यं वृद्धां पात्रे विनिक्षिपेत्
पात्रमित्युच्यते विप्रस्तपोविद्यासमन्वितः २२१
विश्वास-प्रस्तुतिः - २२२
न विद्यया केवलया तपसा वाऽपि पात्रता
श्रुतमध्ययनं शीलं तप इत्युच्यते बुधैः २२२
मूलम् - २२२
न विद्यया केवलया तपसा वाऽपि पात्रता
श्रुतमध्ययनं शीलं तप इत्युच्यते बुधैः २२२
विश्वास-प्रस्तुतिः - २२३
ईश्वरस्याऽऽत्मनश्चापि ज्ञानं विद्येति चोच्यते
तथाविधेषु पात्रेषु दत्त्वा भूमिं धनं नृपः २२३
मूलम् - २२३
ईश्वरस्याऽऽत्मनश्चापि ज्ञानं विद्येति चोच्यते
तथाविधेषु पात्रेषु दत्त्वा भूमिं धनं नृपः २२३
विश्वास-प्रस्तुतिः - २२४
शासनं कारयेत्सम्यक् स्वहस्तलिखितादिभिः
उपजीव्योपसर्पेच्च रम्ये देशे नृपोत्तमः २२४
मूलम् - २२४
शासनं कारयेत्सम्यक् स्वहस्तलिखितादिभिः
उपजीव्योपसर्पेच्च रम्ये देशे नृपोत्तमः २२४
विश्वास-प्रस्तुतिः - २२५
दुर्गाणि तत्र कुर्वीत जनकस्यात्मगुप्तये
तत्र कर्मसु निष्णातान् कुशलान् धर्मनिष्ठितान् २२५
मूलम् - २२५
दुर्गाणि तत्र कुर्वीत जनकस्यात्मगुप्तये
तत्र कर्मसु निष्णातान् कुशलान् धर्मनिष्ठितान् २२५
विश्वास-प्रस्तुतिः - २२६
सत्यशौचयुतान् शुद्धानध्यक्षान् स्थापयेत् नृपः
अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके २२६
मूलम् - २२६
सत्यशौचयुतान् शुद्धानध्यक्षान् स्थापयेत् नृपः
अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके २२६
५९९
लेखयेत्तदृणं सम्यक् समामासादिकल्पनैः २२७
विश्वास-प्रस्तुतिः - २२८
देयं सवृद्ध्याधविके पुरुषैस्त्रिभिरेव तत्
निर्धनस्तु शनैर्दद्याद्यथाकालं यथोदयम् २२८
मूलम् - २२८
देयं सवृद्ध्याधविके पुरुषैस्त्रिभिरेव तत्
निर्धनस्तु शनैर्दद्याद्यथाकालं यथोदयम् २२८
विश्वास-प्रस्तुतिः - २२९
औद्धत्याद्वा बलाद्वा तु न दद्याद्धनिने ऋणम्
दण्डयित्वैव तं राजा धनिने दापयेदृणम् २२९
मूलम् - २२९
औद्धत्याद्वा बलाद्वा तु न दद्याद्धनिने ऋणम्
दण्डयित्वैव तं राजा धनिने दापयेदृणम् २२९
विश्वास-प्रस्तुतिः - २३०
छिन्ने दग्धेऽथवा पत्रे साक्षिभिः परिकल्पयेत्
वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणादिभिः २३०
मूलम् - २३०
छिन्ने दग्धेऽथवा पत्रे साक्षिभिः परिकल्पयेत्
वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणादिभिः २३०
विश्वास-प्रस्तुतिः - २३१
न सन्ति साक्षिणस्तत्र देशकालान्तरादिभिः
शोधयित्वा तु दिव्येन दापयेद्धनिने ऋणम् २३१
मूलम् - २३१
न सन्ति साक्षिणस्तत्र देशकालान्तरादिभिः
शोधयित्वा तु दिव्येन दापयेद्धनिने ऋणम् २३१
विश्वास-प्रस्तुतिः - २३२
मध्यस्थस्थापितं द्रव्यं वर्धते न ततः परम्
कृते प्रतिग्रहे चाऽऽधौ पूर्वो वै बलवत्तरः २३२
मूलम् - २३२
मध्यस्थस्थापितं द्रव्यं वर्धते न ततः परम्
कृते प्रतिग्रहे चाऽऽधौ पूर्वो वै बलवत्तरः २३२
विश्वास-प्रस्तुतिः - २३३
अवधिर्द्विविधं प्रोक्तं भोग्यं गोप्यं तथैव च
क्षेत्रारामादिकं भोग्यं गोप्यं द्रव्यमुपस्करम् २३३
मूलम् - २३३
अवधिर्द्विविधं प्रोक्तं भोग्यं गोप्यं तथैव च
क्षेत्रारामादिकं भोग्यं गोप्यं द्रव्यमुपस्करम् २३३
विश्वास-प्रस्तुतिः - २३४
गोप्याधिभोग्ये नो वृद्धिः सोपस्कारे तथापि ते
नष्टं देयं विनष्टञ्च द्रव्यं राजकृतादृते २३४
मूलम् - २३४
गोप्याधिभोग्ये नो वृद्धिः सोपस्कारे तथापि ते
नष्टं देयं विनष्टञ्च द्रव्यं राजकृतादृते २३४
विश्वास-प्रस्तुतिः - २३५
उपस्थितस्य भोक्तव्यमाधिस्तेनोऽन्यथा भवेत्
प्रयोजने सति धनं कुलेन्यस्याधिमाप्नुयात् २३५
मूलम् - २३५
उपस्थितस्य भोक्तव्यमाधिस्तेनोऽन्यथा भवेत्
प्रयोजने सति धनं कुलेन्यस्याधिमाप्नुयात् २३५
विश्वास-प्रस्तुतिः - २३६
तत्कालकृतमूल्ये वा तत्र तिष्ठेदवृद्धिकम्
विना धारणकाद्वापि विक्रीणीतमसाक्षिकम् २३६
मूलम् - २३६
तत्कालकृतमूल्ये वा तत्र तिष्ठेदवृद्धिकम्
विना धारणकाद्वापि विक्रीणीतमसाक्षिकम् २३६
विश्वास-प्रस्तुतिः - २३७
तं वनस्थमनाख्याय धान्यमस्य न दीयते
तदा यदधिकं द्रव्यं प्रतिदेयं तथैव च २३७
मूलम् - २३७
तं वनस्थमनाख्याय धान्यमस्य न दीयते
तदा यदधिकं द्रव्यं प्रतिदेयं तथैव च २३७
विश्वास-प्रस्तुतिः - २३८
न दाप्योऽपहृतन्त्यक्तराजदैविकतस्करैः
न प्रदद्यात्तु तन्मोहात्स दण्ड्यश्चोरवत्तदा २३८
मूलम् - २३८
न दाप्योऽपहृतन्त्यक्तराजदैविकतस्करैः
न प्रदद्यात्तु तन्मोहात्स दण्ड्यश्चोरवत्तदा २३८
विश्वास-प्रस्तुतिः - २३९
ददीत स्वेच्छया दण्डं दापयेद्वापि सोदरम्
याचितान्वाहितन्यायान्निक्षेपादिष्वयं विधिः २३९
मूलम् - २३९
ददीत स्वेच्छया दण्डं दापयेद्वापि सोदरम्
याचितान्वाहितन्यायान्निक्षेपादिष्वयं विधिः २३९
विश्वास-प्रस्तुतिः - ६००
सुराकामद्यूतकृतं वृथा दानं तथैव च
र्
६००
मूलम् - ६००
सुराकामद्यूतकृतं वृथा दानं तथैव च
र्
६००
विश्वास-प्रस्तुतिः - २४१
पितरि प्रोषिते प्रेते व्यसनाभिष्टुतेऽपि वा
पुत्रपौत्रैर्ऋणं देयं निह्नुते साक्षिचोदितम् २४१
मूलम् - २४१
पितरि प्रोषिते प्रेते व्यसनाभिष्टुतेऽपि वा
पुत्रपौत्रैर्ऋणं देयं निह्नुते साक्षिचोदितम् २४१
विश्वास-प्रस्तुतिः - २४२
रिक्थग्राही ऋणं दद्याद्योषिद्ग्राहस्तथैव च
पुत्रो न स्वाश्रितद्रव्यः पुत्रहीनस्तु रिक्थिनः २४२
मूलम् - २४२
रिक्थग्राही ऋणं दद्याद्योषिद्ग्राहस्तथैव च
पुत्रो न स्वाश्रितद्रव्यः पुत्रहीनस्तु रिक्थिनः २४२
विश्वास-प्रस्तुतिः - २४३
प्रातिभाव्य मृणं साक्ष्यं देयं तस्मै यथोचितम्
दीयते स्यात्प्रतिभुवा धनिने तु ऋणं यथा २४३
मूलम् - २४३
प्रातिभाव्य मृणं साक्ष्यं देयं तस्मै यथोचितम्
दीयते स्यात्प्रतिभुवा धनिने तु ऋणं यथा २४३
विश्वास-प्रस्तुतिः - २४४
द्विगुणं तत्प्रदातव्यं दण्डं राज्ञे च तत्समम्
पुत्रादिभिर्न दातव्यं प्रविभाव्यमृणं स्त्रियाम् २४४
मूलम् - २४४
द्विगुणं तत्प्रदातव्यं दण्डं राज्ञे च तत्समम्
पुत्रादिभिर्न दातव्यं प्रविभाव्यमृणं स्त्रियाम् २४४
विश्वास-प्रस्तुतिः - २४५
प्रतिपन्नं स्त्रिया देयं पत्या चैव हि यत्कृतम्
स्वयं कृतं तु यदृणं नान्यस्त्री दातुमर्हति २४५
मूलम् - २४५
प्रतिपन्नं स्त्रिया देयं पत्या चैव हि यत्कृतम्
स्वयं कृतं तु यदृणं नान्यस्त्री दातुमर्हति २४५
विश्वास-प्रस्तुतिः - २४६
पत्यै स्वकं धनं पुत्रा विभजेयुः सुनिर्णितम्
मातृकञ्चेद्दुहितरस्तदभावे तु तत्सुत २४६
मूलम् - २४६
पत्यै स्वकं धनं पुत्रा विभजेयुः सुनिर्णितम्
मातृकञ्चेद्दुहितरस्तदभावे तु तत्सुत २४६
विश्वास-प्रस्तुतिः - २४७
भगिन्यश्च प्रमुदिताः पैतृकादाहरेद्धनात्
न स्त्रीधनं तु दायादा विभजेयुरनापदि २४७
मूलम् - २४७
भगिन्यश्च प्रमुदिताः पैतृकादाहरेद्धनात्
न स्त्रीधनं तु दायादा विभजेयुरनापदि २४७
विश्वास-प्रस्तुतिः - २४८
पितृमातृसुताभ्रातृपत्यपत्याद्युपागतम्
आधिवेतनिकाद्यं च स्त्रीधनं परिकीर्तितम् २४८
मूलम् - २४८
पितृमातृसुताभ्रातृपत्यपत्याद्युपागतम्
आधिवेतनिकाद्यं च स्त्रीधनं परिकीर्तितम् २४८
विश्वास-प्रस्तुतिः - २४९
अपुत्रा योषितश्चैव भर्तव्या साधुवृत्तयः
निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च २४९
मूलम् - २४९
अपुत्रा योषितश्चैव भर्तव्या साधुवृत्तयः
निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च २४९
विश्वास-प्रस्तुतिः - २५०
नैव भागं वनस्थानां यतीनां ब्रह्मचारिणाम्
पाषण्डपतितानां च नचावदिककर्मणाम् २५०
मूलम् - २५०
नैव भागं वनस्थानां यतीनां ब्रह्मचारिणाम्
पाषण्डपतितानां च नचावदिककर्मणाम् २५०
विश्वास-प्रस्तुतिः - २५१
विभक्तष्वनुजो जातः सवर्णो यदि भागभाक्
अविभक्तपितृकाणां पितृव्यात् भागकल्पना २५१
मूलम् - २५१
विभक्तष्वनुजो जातः सवर्णो यदि भागभाक्
अविभक्तपितृकाणां पितृव्यात् भागकल्पना २५१
विश्वास-प्रस्तुतिः - २५२
द्वै मातृणां मातृतश्च कल्पयेद्वा समोऽपि वा
विभक्तस्यास्य पुत्रस्य पत्नी दुहितरस्तथा २५२
मूलम् - २५२
द्वै मातृणां मातृतश्च कल्पयेद्वा समोऽपि वा
विभक्तस्यास्य पुत्रस्य पत्नी दुहितरस्तथा २५२
६०१
सम्बन्धिबान्धवाश्चैव क्रमाद्वै रिक्थभागिनः २५३
विश्वास-प्रस्तुतिः - २५४
सीम्नोऽपवादे क्षेत्रेषु सामन्ताः स्थविरादयः
गोपाः सीमाकृषाणां च सर्वे भवनगोचराः २५४
मूलम् - २५४
सीम्नोऽपवादे क्षेत्रेषु सामन्ताः स्थविरादयः
गोपाः सीमाकृषाणां च सर्वे भवनगोचराः २५४
विश्वास-प्रस्तुतिः - २५५
नयेयुरेते सीमानं स्थूणाङ्गारतुषद्रुमैः
न तु वल्मीकनिम्नास्थिचैत्याद्यैरुपशोभिताः २५५
मूलम् - २५५
नयेयुरेते सीमानं स्थूणाङ्गारतुषद्रुमैः
न तु वल्मीकनिम्नास्थिचैत्याद्यैरुपशोभिताः २५५
विश्वास-प्रस्तुतिः - २५६
औरसो दत्तकश्चैव क्रीतः कृत्रिम एव च
क्षेत्रजः कानिकश्चैव दौहित्रः सत्तमः स्मृतः २५६
मूलम् - २५६
औरसो दत्तकश्चैव क्रीतः कृत्रिम एव च
क्षेत्रजः कानिकश्चैव दौहित्रः सत्तमः स्मृतः २५६
विश्वास-प्रस्तुतिः - २५७
पिण्डजश्च परश्चैषां पूर्वाभावे परः परः
पुत्रः पौत्रश्च तत्पुत्रः पुत्रिकापुत्र एव च २५७
मूलम् - २५७
पिण्डजश्च परश्चैषां पूर्वाभावे परः परः
पुत्रः पौत्रश्च तत्पुत्रः पुत्रिकापुत्र एव च २५७
विश्वास-प्रस्तुतिः - २५८
पुत्री च भ्रातरश्चैव पिण्डदाः स्युर्यथाक्रमात्
एवं धर्मेण नृपतिः शासयेत्सर्वदा प्रजाः २५८
मूलम् - २५८
पुत्री च भ्रातरश्चैव पिण्डदाः स्युर्यथाक्रमात्
एवं धर्मेण नृपतिः शासयेत्सर्वदा प्रजाः २५८
विश्वास-प्रस्तुतिः - २५९
यदुक्तं मनुना धर्मं व्यवहारपदं प्रति
विलोक्य तञ्च विद्वद्भिर्वीतरागैर्विमत्सरैः २५९
मूलम् - २५९
यदुक्तं मनुना धर्मं व्यवहारपदं प्रति
विलोक्य तञ्च विद्वद्भिर्वीतरागैर्विमत्सरैः २५९
विश्वास-प्रस्तुतिः - २६०
विमृश्य धर्मविद्भिश्च विमलैः पापभीरुभिः
धर्मेणैव सदा राजा शासयेत्पृथिवीं स्वकाम् २६०
मूलम् - २६०
विमृश्य धर्मविद्भिश्च विमलैः पापभीरुभिः
धर्मेणैव सदा राजा शासयेत्पृथिवीं स्वकाम् २६०
विश्वास-प्रस्तुतिः - २६१
विपरीतां दण्डयेद्वै यावद्दर्पोपनाशनम्
सभ्या अपि च दण्ड्या वै शास्त्रमार्गविरोधिनः २६१
मूलम् - २६१
विपरीतां दण्डयेद्वै यावद्दर्पोपनाशनम्
सभ्या अपि च दण्ड्या वै शास्त्रमार्गविरोधिनः २६१
विश्वास-प्रस्तुतिः - २६२
राजधर्मोऽयमित्येवं प्रसङ्गात् कथितो मया
कात्यायनेन मनुना याज्ञवल्क्येन धीमता २६२
मूलम् - २६२
राजधर्मोऽयमित्येवं प्रसङ्गात् कथितो मया
कात्यायनेन मनुना याज्ञवल्क्येन धीमता २६२
विश्वास-प्रस्तुतिः - २६३
नारदेन च सम्प्रोक्तं विस्तरादिदमेव हि
तस्मान्मया विस्तरेण नोक्तमत्र नृपोत्तम २६३
मूलम् - २६३
नारदेन च सम्प्रोक्तं विस्तरादिदमेव हि
तस्मान्मया विस्तरेण नोक्तमत्र नृपोत्तम २६३
विश्वास-प्रस्तुतिः - २६४
परं भागवतं धर्मं विस्तरेण ब्रवीमि ते
विष्णोरभ्यर्च्चनं यत्तु नित्यं नैमित्तिकं नृप २६४
मूलम् - २६४
परं भागवतं धर्मं विस्तरेण ब्रवीमि ते
विष्णोरभ्यर्च्चनं यत्तु नित्यं नैमित्तिकं नृप २६४
विश्वास-प्रस्तुतिः - २६५
यदाह भगवान् धातुस्तेन स्वायम्भुवस्य च
नारदस्य च मे सम्यक् तदद्य कथयामि ते २६५
मूलम् - २६५
यदाह भगवान् धातुस्तेन स्वायम्भुवस्य च
नारदस्य च मे सम्यक् तदद्य कथयामि ते २६५
विश्वास-प्रस्तुतिः - ६०२
इति वृद्धहारीतस्मृतौ विशिष्टधर्मशास्त्रे प्राप्तकालभगवत्-
र्
६०२
मूलम् - ६०२
इति वृद्धहारीतस्मृतौ विशिष्टधर्मशास्त्रे प्राप्तकालभगवत्-
र्
६०२