तृतीयोऽध्यायः
अथ भगवन्मन्त्रविधानवर्णनम्
अम्बरीष उवाच
विश्वास-प्रस्तुतिः - १
भगवन् सर्वमन्त्राणां विधानं मम सुव्रत
ब्रूहि सर्वमशेषेण प्रयोगं सार्थसंस्कृतम् १
मूलम् - १
भगवन् सर्वमन्त्राणां विधानं मम सुव्रत
ब्रूहि सर्वमशेषेण प्रयोगं सार्थसंस्कृतम् १
विश्वास-प्रस्तुतिः - २
शृणु राजन् प्रवक्ष्यामि मन्त्रयोगमनुत्तमम्
यथोक्तं विष्णुना पूर्वं ब्रह्मणा परमात्मना २
मूलम् - २
शृणु राजन् प्रवक्ष्यामि मन्त्रयोगमनुत्तमम्
यथोक्तं विष्णुना पूर्वं ब्रह्मणा परमात्मना २
५५०
विश्वास-प्रस्तुतिः - ३
सर्वेषामेव मन्त्राणां प्रथमं गुह्यमुत्तमम्
मन्त्ररत्नं नृपश्रेष्ठ सद्यो मुक्तिफलप्रदम् ३
मूलम् - ३
सर्वेषामेव मन्त्राणां प्रथमं गुह्यमुत्तमम्
मन्त्ररत्नं नृपश्रेष्ठ सद्यो मुक्तिफलप्रदम् ३
विश्वास-प्रस्तुतिः - ४
सर्वैश्वर्यप्रदं पथ्यं सर्वेषां सर्वकामदम्
यस्योच्चारणमात्रेण परितुष्टो भवेद्धरिः ४
मूलम् - ४
सर्वैश्वर्यप्रदं पथ्यं सर्वेषां सर्वकामदम्
यस्योच्चारणमात्रेण परितुष्टो भवेद्धरिः ४
विश्वास-प्रस्तुतिः - ५
देशकालादिनियममरिमित्रादिशोधनम्
स्वरवर्णादिदोषश्च पौरश्चरणकं न तु ५
मूलम् - ५
देशकालादिनियममरिमित्रादिशोधनम्
स्वरवर्णादिदोषश्च पौरश्चरणकं न तु ५
विश्वास-प्रस्तुतिः - ६
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रास्तथेतराः
तस्याधिकारिणः सर्वे सत्वशीलगुणा यदि ६
मूलम् - ६
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रास्तथेतराः
तस्याधिकारिणः सर्वे सत्वशीलगुणा यदि ६
विश्वास-प्रस्तुतिः - ७
पञ्चसंस्कारसम्पन्नाः श्रद्धावन्तोऽनसूयकाः
भक्त्या परमयाविष्टा युक्तास्तस्याधिकारिणः ७
मूलम् - ७
पञ्चसंस्कारसम्पन्नाः श्रद्धावन्तोऽनसूयकाः
भक्त्या परमयाविष्टा युक्तास्तस्याधिकारिणः ७
विश्वास-प्रस्तुतिः - ८
पञ्चविंशाक्षरो मन्त्रः पदैः षड्भिः समन्वितः
वाक्यद्वयं परं ज्ञेयं मन्त्ररत्नमनुत्तमम् ८
मूलम् - ८
पञ्चविंशाक्षरो मन्त्रः पदैः षड्भिः समन्वितः
वाक्यद्वयं परं ज्ञेयं मन्त्ररत्नमनुत्तमम् ८
विश्वास-प्रस्तुतिः - ९
यदाश्रयति विद्यादिः संस्थिता जगतां पतिम्
तया विद्याऽनपायिन्या संयुतः परमः पुमान् ९
मूलम् - ९
यदाश्रयति विद्यादिः संस्थिता जगतां पतिम्
तया विद्याऽनपायिन्या संयुतः परमः पुमान् ९
विश्वास-प्रस्तुतिः - १०
नारायणोऽच्युतः श्रीमान् वात्सल्यगुणसागरः
नाथः सुशीलः सुलभः सर्वज्ञः शक्तिमान् परः १०
मूलम् - १०
नारायणोऽच्युतः श्रीमान् वात्सल्यगुणसागरः
नाथः सुशीलः सुलभः सर्वज्ञः शक्तिमान् परः १०
विश्वास-प्रस्तुतिः - ११
आपद्बन्धुः सदा मित्रं परिपूर्णमनोरथः
दयासुधाब्धिः सविता वीर्यवान् द्युतिमान्विभुः ११
मूलम् - ११
आपद्बन्धुः सदा मित्रं परिपूर्णमनोरथः
दयासुधाब्धिः सविता वीर्यवान् द्युतिमान्विभुः ११
विश्वास-प्रस्तुतिः - १२
प्रपद्ये चरणौ तस्य शरणं श्रेयसे मम
श्रीमते विष्णवे नित्यं सर्वावस्थासु सर्वदा १२
मूलम् - १२
प्रपद्ये चरणौ तस्य शरणं श्रेयसे मम
श्रीमते विष्णवे नित्यं सर्वावस्थासु सर्वदा १२
विश्वास-प्रस्तुतिः - १३
निर्ममो निरहङ्कारः कैङ्कर्यं करवाण्यहम्
एवमर्थं विदित्वैव पश्चान्मन्त्रं प्रयोजयेत् १३
मूलम् - १३
निर्ममो निरहङ्कारः कैङ्कर्यं करवाण्यहम्
एवमर्थं विदित्वैव पश्चान्मन्त्रं प्रयोजयेत् १३
विश्वास-प्रस्तुतिः - १४
नारायणो महाशब्दो गायत्री च परा शुभा
स्वयं नारायणः श्रीमान् देवता समुदाहृतः १४
मूलम् - १४
नारायणो महाशब्दो गायत्री च परा शुभा
स्वयं नारायणः श्रीमान् देवता समुदाहृतः १४
विश्वास-प्रस्तुतिः - १५
करयोः स्थलयोराद्यमक्षरं विन्यसेद्द्विजः
शेषाक्षराणि देयानि चतुर्विंशतिपर्वसु १५
मूलम् - १५
करयोः स्थलयोराद्यमक्षरं विन्यसेद्द्विजः
शेषाक्षराणि देयानि चतुर्विंशतिपर्वसु १५
विश्वास-प्रस्तुतिः - १६
षट्पदैरङ्गुलिन्यास मङ्गेषु च यथाक्रमम्
षडङ्गं षट्पदैः कृत्वा मन्त्रार्थैश्च यथाक्रमम् १६
मूलम् - १६
षट्पदैरङ्गुलिन्यास मङ्गेषु च यथाक्रमम्
षडङ्गं षट्पदैः कृत्वा मन्त्रार्थैश्च यथाक्रमम् १६
विश्वास-प्रस्तुतिः - १७
मूर्ध्नि भाले नेत्रनासाश्रवणेषु तथाऽऽनने
मुजयोर्हृत्प्रदेशे च स्तनयोर्नाभिमण्डले १७
मूलम् - १७
मूर्ध्नि भाले नेत्रनासाश्रवणेषु तथाऽऽनने
मुजयोर्हृत्प्रदेशे च स्तनयोर्नाभिमण्डले १७
विश्वास-प्रस्तुतिः - १८
पृष्ठे च जघने कट्योरूर्वोर्जान्वोश्च पादयोः
पञ्चविंशाक्षराण्यत्य क्रमेणाङ्गेषु विन्यसेत् १८
मूलम् - १८
पृष्ठे च जघने कट्योरूर्वोर्जान्वोश्च पादयोः
पञ्चविंशाक्षराण्यत्य क्रमेणाङ्गेषु विन्यसेत् १८
विश्वास-प्रस्तुतिः - १९
एवं न्यासविधिं कृत्वा पश्चाद्ध्यानं समाचरेत्
इन्दीवरदलश्यामं कोटिसूर्याग्निवर्च्चसम् १९
मूलम् - १९
एवं न्यासविधिं कृत्वा पश्चाद्ध्यानं समाचरेत्
इन्दीवरदलश्यामं कोटिसूर्याग्निवर्च्चसम् १९
विश्वास-प्रस्तुतिः - २०
चतुर्भुजं सुन्दराङ्गं सर्वाभरणभूषितम्
पद्मासनस्थं देवेशं पुण्डरीकनिभेक्षणम् २०
मूलम् - २०
चतुर्भुजं सुन्दराङ्गं सर्वाभरणभूषितम्
पद्मासनस्थं देवेशं पुण्डरीकनिभेक्षणम् २०
विश्वास-प्रस्तुतिः - २१
रक्तारविन्दसदृशदिव्यहस्तपदाञ्चितम्
माणिक्यमुकुटोपेतं नीलकुन्तलशीर्षजम् २१
मूलम् - २१
रक्तारविन्दसदृशदिव्यहस्तपदाञ्चितम्
माणिक्यमुकुटोपेतं नीलकुन्तलशीर्षजम् २१
विश्वास-प्रस्तुतिः - २२
श्रीवत्सकौस्तुभोरस्कं वनमालाविराजितम्
दिव्यचन्दलिप्ताङ्गं दिव्यपुष्पावतंसकम् २२
मूलम् - २२
श्रीवत्सकौस्तुभोरस्कं वनमालाविराजितम्
दिव्यचन्दलिप्ताङ्गं दिव्यपुष्पावतंसकम् २२
विश्वास-प्रस्तुतिः - २३
हारकुण्डलकेयूरनूपुरादि विराजितम्
कटकैरङ्गुरीयैश्च पीतवस्त्रेण शोभितम् २३
मूलम् - २३
हारकुण्डलकेयूरनूपुरादि विराजितम्
कटकैरङ्गुरीयैश्च पीतवस्त्रेण शोभितम् २३
विश्वास-प्रस्तुतिः - २४
शङ्खपद्मगदाचक्रपाणिनं पुरुषोत्तमम्
वामाङ्के चिन्तयेत्तस्य देवीं कमललोचनाम् २४
मूलम् - २४
शङ्खपद्मगदाचक्रपाणिनं पुरुषोत्तमम्
वामाङ्के चिन्तयेत्तस्य देवीं कमललोचनाम् २४
विश्वास-प्रस्तुतिः - २५
तरुणीं सुकुमाराङ्गीं सर्वलक्षणशोभिताम्
दुकूलवस्त्रसंयुक्तां सर्वाभरणभूषिताम् २५
मूलम् - २५
तरुणीं सुकुमाराङ्गीं सर्वलक्षणशोभिताम्
दुकूलवस्त्रसंयुक्तां सर्वाभरणभूषिताम् २५
विश्वास-प्रस्तुतिः - २६
तप्तकाञ्चनसङ्काशां पीनोन्नतपयोवराम्
रत्नमण्डलसंयुक्तां नीलकुन्तलशीर्षजाम् २६
मूलम् - २६
तप्तकाञ्चनसङ्काशां पीनोन्नतपयोवराम्
रत्नमण्डलसंयुक्तां नीलकुन्तलशीर्षजाम् २६
विश्वास-प्रस्तुतिः - २७
दिव्यचन्दनलिप्ताङ्गीं दिव्यपुष्पावतंतकाम्
मातुलिङ्गं च रक्ताब्जं दर्पणं वरदं तथा २७
मूलम् - २७
दिव्यचन्दनलिप्ताङ्गीं दिव्यपुष्पावतंतकाम्
मातुलिङ्गं च रक्ताब्जं दर्पणं वरदं तथा २७
विश्वास-प्रस्तुतिः - २८
देवीं च विभ्रतीं दोर्भिश्चिन्तयेदिष्टदां सदा
एवं ध्यात्वा परं नित्यमर्चयेदच्युतं द्विजः २८
मूलम् - २८
देवीं च विभ्रतीं दोर्भिश्चिन्तयेदिष्टदां सदा
एवं ध्यात्वा परं नित्यमर्चयेदच्युतं द्विजः २८
५५२
विश्वास-प्रस्तुतिः - २९
यथात्मनि तथा देवे ज्ञानकर्म समाचरेत्
अर्चयेदुपवारैश्च मनसा वा जनार्दनम् २९
मूलम् - २९
यथात्मनि तथा देवे ज्ञानकर्म समाचरेत्
अर्चयेदुपवारैश्च मनसा वा जनार्दनम् २९
विश्वास-प्रस्तुतिः - ३०
आवाहनासने पाद्यमर्घ्यमाचमनीयकम्
स्नानं वस्त्रोपवीते च भूषणं गन्धमेव च ३०
मूलम् - ३०
आवाहनासने पाद्यमर्घ्यमाचमनीयकम्
स्नानं वस्त्रोपवीते च भूषणं गन्धमेव च ३०
विश्वास-प्रस्तुतिः - ३१
पुष्पं धूपं तथा दीपं नैवेद्यं च प्रदक्षिणम्
नमस्कारञ्च ताम्बूलं पुष्पमालां निवेदयेत् ३१
मूलम् - ३१
पुष्पं धूपं तथा दीपं नैवेद्यं च प्रदक्षिणम्
नमस्कारञ्च ताम्बूलं पुष्पमालां निवेदयेत् ३१
विश्वास-प्रस्तुतिः - ३२
नमस्कृत्वा गुरून् पश्चाज्जपेन्मत्रं समाहितः
अष्टोत्तरसहस्रन्तु शतमष्टोत्तरं तथा ३२
मूलम् - ३२
नमस्कृत्वा गुरून् पश्चाज्जपेन्मत्रं समाहितः
अष्टोत्तरसहस्रन्तु शतमष्टोत्तरं तथा ३२
विश्वास-प्रस्तुतिः - ३३
ध्यायन्वै मनसा देवं जपेदेकाग्रमानसः
प्राङ्मुखोदङ्मुखो वापि समासीनः कुशासने ३३
मूलम् - ३३
ध्यायन्वै मनसा देवं जपेदेकाग्रमानसः
प्राङ्मुखोदङ्मुखो वापि समासीनः कुशासने ३३
विश्वास-प्रस्तुतिः - ३४
त्रिसन्ध्यासु जपेद्देवं सर्वसिद्धिमवाप्नुयात्
आदावन्ते जपस्यास्य प्राणायामान् समाचरेत् ३४
मूलम् - ३४
त्रिसन्ध्यासु जपेद्देवं सर्वसिद्धिमवाप्नुयात्
आदावन्ते जपस्यास्य प्राणायामान् समाचरेत् ३४
विश्वास-प्रस्तुतिः - ३५
पूरकः कुम्भको रेच्यः प्राणायामस्त्रिलक्षणः
वामेन पूरयेद्वायुं वाह्यं नासा जपन्मखुम् ३५
मूलम् - ३५
पूरकः कुम्भको रेच्यः प्राणायामस्त्रिलक्षणः
वामेन पूरयेद्वायुं वाह्यं नासा जपन्मखुम् ३५
विश्वास-प्रस्तुतिः - ३६
उभाभ्यां धारणं वायोः कुम्भकं समुदाहृतम्
तद्रेचनं दक्षिणेन रेचनं समुदाहृतम् ३६
मूलम् - ३६
उभाभ्यां धारणं वायोः कुम्भकं समुदाहृतम्
तद्रेचनं दक्षिणेन रेचनं समुदाहृतम् ३६
विश्वास-प्रस्तुतिः - ३७
पर्यावृत्या पुनश्चैवं प्राणायामत्रयं क्रमात्
पूरके कुम्भके चैव रेवके च विशेषतः ३७
मूलम् - ३७
पर्यावृत्या पुनश्चैवं प्राणायामत्रयं क्रमात्
पूरके कुम्भके चैव रेवके च विशेषतः ३७
विश्वास-प्रस्तुतिः - ३८
अष्टाविंशतिवारं तु जपेन्मन्त्रं समाहितः
उत्तानं मुनिभिः प्रोक्तं प्राणायामं नृपोत्तम ३८
मूलम् - ३८
अष्टाविंशतिवारं तु जपेन्मन्त्रं समाहितः
उत्तानं मुनिभिः प्रोक्तं प्राणायामं नृपोत्तम ३८
विश्वास-प्रस्तुतिः - ३९
जपन्द्वादशवारं तु उत्तमं तत्प्रकीर्तितम्
षड्वारन्तु कनीयः स्यात्त्रिवारमधमस्मृतम् ३९
मूलम् - ३९
जपन्द्वादशवारं तु उत्तमं तत्प्रकीर्तितम्
षड्वारन्तु कनीयः स्यात्त्रिवारमधमस्मृतम् ३९
विश्वास-प्रस्तुतिः - ४०
मनसैवार्च्चयेद्देवं पश्चादर्थं विचिन्तयेत्
प्राणायामत्रयं कृत्वा पश्चान्न्यासं समाचरेत् ४०
मूलम् - ४०
मनसैवार्च्चयेद्देवं पश्चादर्थं विचिन्तयेत्
प्राणायामत्रयं कृत्वा पश्चान्न्यासं समाचरेत् ४०
विश्वास-प्रस्तुतिः - ४१
स्नात्वा शुक्लाम्बरधरः कृत्वा साध्यादिकर्म च
धृतोर्द्ध्वपुण्ड्रदेहश्च पवित्रकर एव च ४१
मूलम् - ४१
स्नात्वा शुक्लाम्बरधरः कृत्वा साध्यादिकर्म च
धृतोर्द्ध्वपुण्ड्रदेहश्च पवित्रकर एव च ४१
विश्वास-प्रस्तुतिः - ४२
धृत्वा पद्माक्षमालां च सन्निधा वासने स्थितः
भूतशुद्धिविधानञ्च कृत्वा मन्त्रं प्रयोजयेत् ४२
मूलम् - ४२
धृत्वा पद्माक्षमालां च सन्निधा वासने स्थितः
भूतशुद्धिविधानञ्च कृत्वा मन्त्रं प्रयोजयेत् ४२
विश्वास-प्रस्तुतिः - ४३
छन्दश्च दैवी गायत्री परमात्मा च देवता
जपश्चाष्टाक्षरो मन्त्रः सर्वपापप्रणाशनः ४३
मूलम् - ४३
छन्दश्च दैवी गायत्री परमात्मा च देवता
जपश्चाष्टाक्षरो मन्त्रः सर्वपापप्रणाशनः ४३
विश्वास-प्रस्तुतिः - ४४
सर्वदुःखहरः श्रीमान् सर्वकामफलप्रदः
सर्वदेवात्मको मन्त्रस्ततो मोक्षप्रदो नृणाम् ४४
मूलम् - ४४
सर्वदुःखहरः श्रीमान् सर्वकामफलप्रदः
सर्वदेवात्मको मन्त्रस्ततो मोक्षप्रदो नृणाम् ४४
विश्वास-प्रस्तुतिः - ४५
ऋचो यजूंषि सामानि तथैवाथर्वणानि च
सर्वमष्टाक्षरान्तस्थं तच्चान्यदपि वाङ्मयम् ४५
मूलम् - ४५
ऋचो यजूंषि सामानि तथैवाथर्वणानि च
सर्वमष्टाक्षरान्तस्थं तच्चान्यदपि वाङ्मयम् ४५
विश्वास-प्रस्तुतिः - ४६
सर्वार्थो वेदगर्भस्थः वेदाश्चाष्टाक्षरे स्थिताः
अष्टाक्षरस्तु प्रणवे अकारे प्रणवः स्थितः ४६
मूलम् - ४६
सर्वार्थो वेदगर्भस्थः वेदाश्चाष्टाक्षरे स्थिताः
अष्टाक्षरस्तु प्रणवे अकारे प्रणवः स्थितः ४६
विश्वास-प्रस्तुतिः - ४७
इह लौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम्
कैवल्यं भगवत्त्वञ्च मन्त्रोऽयं साधयिष्यति ४७
मूलम् - ४७
इह लौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम्
कैवल्यं भगवत्त्वञ्च मन्त्रोऽयं साधयिष्यति ४७
विश्वास-प्रस्तुतिः - ४८
सकृदुच्चारणान्नृणां चतुर्वर्णफलप्रदम्
स्वरूपं साधनं प्राप्यं ददाति हि समञ्जसा ४८
मूलम् - ४८
सकृदुच्चारणान्नृणां चतुर्वर्णफलप्रदम्
स्वरूपं साधनं प्राप्यं ददाति हि समञ्जसा ४८
विश्वास-प्रस्तुतिः - ४९
महापापं चातिपापं विद्यते वोपपातकम्
जपादस्य मनोराशु प्रणश्यन्ति न संशयाः ४९
मूलम् - ४९
महापापं चातिपापं विद्यते वोपपातकम्
जपादस्य मनोराशु प्रणश्यन्ति न संशयाः ४९
विश्वास-प्रस्तुतिः - ५०
अश्वमेधसहस्राणि राजसूयशतानि च
सकृदष्टाक्षरं जप्त्वा लभते नात्र संशयः ५०
मूलम् - ५०
अश्वमेधसहस्राणि राजसूयशतानि च
सकृदष्टाक्षरं जप्त्वा लभते नात्र संशयः ५०
विश्वास-प्रस्तुतिः - ५१
गवामयुतदानस्य पृथिव्या मण्डलस्य च
कन्याशतसहस्रस्य गजाश्वानां तथैव च ५१
मूलम् - ५१
गवामयुतदानस्य पृथिव्या मण्डलस्य च
कन्याशतसहस्रस्य गजाश्वानां तथैव च ५१
विश्वास-प्रस्तुतिः - ५२
दानस्य यत्फलं नॄणां सत्पात्रे नृपनन्दन
शतवारं मनुं जप्त्वा तत्फलं सर्वमाप्नुयात् ५२
मूलम् - ५२
दानस्य यत्फलं नॄणां सत्पात्रे नृपनन्दन
शतवारं मनुं जप्त्वा तत्फलं सर्वमाप्नुयात् ५२
विश्वास-प्रस्तुतिः - ५३
सार्थं समुद्रं सन्न्यासं सर्षिच्छन्दोऽधिदैवतम्
अष्टाक्षरमनुञ्जप्त्वा विष्णुसायुज्यमाप्नुयात् ५३
मूलम् - ५३
सार्थं समुद्रं सन्न्यासं सर्षिच्छन्दोऽधिदैवतम्
अष्टाक्षरमनुञ्जप्त्वा विष्णुसायुज्यमाप्नुयात् ५३
विश्वास-प्रस्तुतिः - ५५४
पदत्रयात्मकं मन्त्रं चतुर्थ्या सहितं तदा
र्
५५४
मूलम् - ५५४
पदत्रयात्मकं मन्त्रं चतुर्थ्या सहितं तदा
र्
५५४
विश्वास-प्रस्तुतिः - ५५
प्रणवेन स्वरूपं स्यात्साधनं मनसा तथा
संबिभक्त्या चतुर्थ्यात्र पुरुषार्थो भवेन्मनोः ५५
मूलम् - ५५
प्रणवेन स्वरूपं स्यात्साधनं मनसा तथा
संबिभक्त्या चतुर्थ्यात्र पुरुषार्थो भवेन्मनोः ५५
विश्वास-प्रस्तुतिः - ५६
अकारञ्चाप्युकारञ्च मकारञ्चेति तत्वतः
तान्येकधा समभवत्तदोमित्येतदुच्यते ५६
मूलम् - ५६
अकारञ्चाप्युकारञ्च मकारञ्चेति तत्वतः
तान्येकधा समभवत्तदोमित्येतदुच्यते ५६
विश्वास-प्रस्तुतिः - ५७
तस्मादोमिति प्रणवो विज्ञेयः साक्षरात्मकः
वेदत्रयात्मकं ज्ञेयं भूर्भुवःस्वरितीति वै ५७
मूलम् - ५७
तस्मादोमिति प्रणवो विज्ञेयः साक्षरात्मकः
वेदत्रयात्मकं ज्ञेयं भूर्भुवःस्वरितीति वै ५७
विश्वास-प्रस्तुतिः - ५८
अकारस्तु भवेद्विष्णुस्तदृग्वेद उदाहृतः
उकारस्तु भवेल्लक्ष्मीर्यजुर्वेदात्मको महान् ५८
मूलम् - ५८
अकारस्तु भवेद्विष्णुस्तदृग्वेद उदाहृतः
उकारस्तु भवेल्लक्ष्मीर्यजुर्वेदात्मको महान् ५८
विश्वास-प्रस्तुतिः - ५९
मकारस्तु भवेज्जीवस्तयोर्दास उदाहृतः
पञ्चविंशाक्षरः साक्षात्सामवेदस्वरूपवान् ५९
मूलम् - ५९
मकारस्तु भवेज्जीवस्तयोर्दास उदाहृतः
पञ्चविंशाक्षरः साक्षात्सामवेदस्वरूपवान् ५९
विश्वास-प्रस्तुतिः - ६०
पञ्चविंशोऽयं पुरुषः पञ्चविंश आत्मेति श्रुतेः
आत्मा पञ्चविंशः स्यादिति मम त्मानं संस्मरेत् ६०
मूलम् - ६०
पञ्चविंशोऽयं पुरुषः पञ्चविंश आत्मेति श्रुतेः
आत्मा पञ्चविंशः स्यादिति मम त्मानं संस्मरेत् ६०
विश्वास-प्रस्तुतिः - ६१
इत्यौपनिषदं ह्यर्थं विदित्वा स्वं निवेदयेत्
अवधारणमन्ये तु मध्यमार्णं वदन्ति हि ६१
मूलम् - ६१
इत्यौपनिषदं ह्यर्थं विदित्वा स्वं निवेदयेत्
अवधारणमन्ये तु मध्यमार्णं वदन्ति हि ६१
विश्वास-प्रस्तुतिः - ६२
तदेवाग्निस्तदायुस्तत्सूर्यस्तदपि चन्द्रमाः
इत्येवं धारणश्रुतेरेवमेवोपवृंहितम् ६२
मूलम् - ६२
तदेवाग्निस्तदायुस्तत्सूर्यस्तदपि चन्द्रमाः
इत्येवं धारणश्रुतेरेवमेवोपवृंहितम् ६२
विश्वास-प्रस्तुतिः - ६३
ऊकारेणैव श्रीशब्दः प्रोच्यते मुनिसत्तमः
न्यायेन गुणसिद्धिस्तु तस्यैव श्रीपतेर्वरौ ६३
मूलम् - ६३
ऊकारेणैव श्रीशब्दः प्रोच्यते मुनिसत्तमः
न्यायेन गुणसिद्धिस्तु तस्यैव श्रीपतेर्वरौ ६३
विश्वास-प्रस्तुतिः - ६४
श्रीरस्येशाना जगतो विष्णुपत्नीति वै श्रुतिः
कल्याणगुणसिद्धिस्तु लक्ष्मीर्भर्तुश्च नेतरा ६४
मूलम् - ६४
श्रीरस्येशाना जगतो विष्णुपत्नीति वै श्रुतिः
कल्याणगुणसिद्धिस्तु लक्ष्मीर्भर्तुश्च नेतरा ६४
विश्वास-प्रस्तुतिः - ६५
सामानाधिकरण्यत्वात्कारणत्वं तदोच्यते
अकार एव सर्वेषामक्षराणां हि कारणम् ६५
मूलम् - ६५
सामानाधिकरण्यत्वात्कारणत्वं तदोच्यते
अकार एव सर्वेषामक्षराणां हि कारणम् ६५
विश्वास-प्रस्तुतिः - ६६
अकारो वै सर्वा वागित्यादि श्रुतिवचस्तथा
स्पर्शोष्मभिर्व्यज्यमानो नानाबहुविधोऽभवत् ६६
मूलम् - ६६
अकारो वै सर्वा वागित्यादि श्रुतिवचस्तथा
स्पर्शोष्मभिर्व्यज्यमानो नानाबहुविधोऽभवत् ६६
५५५
तस्मात्स्रष्टा च दाता च विधाता जगतां हरिः ६७
विश्वास-प्रस्तुतिः - ६८
रक्षिता जीवलोकस्य गुणवानेव सर्वगः
अनन्या विष्णुना लक्ष्मीर्भास्करेण प्रभा यथा ६८
मूलम् - ६८
रक्षिता जीवलोकस्य गुणवानेव सर्वगः
अनन्या विष्णुना लक्ष्मीर्भास्करेण प्रभा यथा ६८
विश्वास-प्रस्तुतिः - ६९
लक्ष्मीमनपगामिनीमिति श्रुतिवचो महत्
तस्मादकारो वै विष्णुः श्रीश एव जगत्पतिः ६९
मूलम् - ६९
लक्ष्मीमनपगामिनीमिति श्रुतिवचो महत्
तस्मादकारो वै विष्णुः श्रीश एव जगत्पतिः ६९
विश्वास-प्रस्तुतिः - ७०
लक्ष्मीपतित्वं तस्यैव नान्यस्येति सुनिश्चितम्
नित्यैवैषा जगन्माता हरेः श्रीरनपायिनी ७०
मूलम् - ७०
लक्ष्मीपतित्वं तस्यैव नान्यस्येति सुनिश्चितम्
नित्यैवैषा जगन्माता हरेः श्रीरनपायिनी ७०
विश्वास-प्रस्तुतिः - ७१
यथा सर्वगतो विष्णुस्तथैवैषा जगन्मयी
तस्मादकारो वै विष्णुर्लक्ष्मीर्भर्त्ता जगत्पतिः ७१
मूलम् - ७१
यथा सर्वगतो विष्णुस्तथैवैषा जगन्मयी
तस्मादकारो वै विष्णुर्लक्ष्मीर्भर्त्ता जगत्पतिः ७१
विश्वास-प्रस्तुतिः - ७२
तस्मिंश्चतुर्थीयुक्तत्वात् त्रिपदस्य च संग्रहः
अकार प्रथमां तस्माच्चतुर्थ्यां संग्रहं न तु ७२
मूलम् - ७२
तस्मिंश्चतुर्थीयुक्तत्वात् त्रिपदस्य च संग्रहः
अकार प्रथमां तस्माच्चतुर्थ्यां संग्रहं न तु ७२
विश्वास-प्रस्तुतिः - ७३
तच्च श्रुतिविरोधत्वान्न युक्तमिति चोदितम्
महसे ब्रह्मणे त्वा वै ओमित्यात्मानं युञ्जीत ७३
मूलम् - ७३
तच्च श्रुतिविरोधत्वान्न युक्तमिति चोदितम्
महसे ब्रह्मणे त्वा वै ओमित्यात्मानं युञ्जीत ७३
विश्वास-प्रस्तुतिः - ७५
त्वमस्माकं तपस्यैव श्रुत्युक्तमपि पार्थिव
तौ शाश्वतौ त्रिषचिता वियन्ताविति वै तथा ७५
मूलम् - ७५
त्वमस्माकं तपस्यैव श्रुत्युक्तमपि पार्थिव
तौ शाश्वतौ त्रिषचिता वियन्ताविति वै तथा ७५
विश्वास-प्रस्तुतिः - ७६
गृभिष्व दया प्रागेववात्मा न विश्वभृत्
असोयमर्त्यो मर्त्येन नयेनेत्येवयोनिता ७६
मूलम् - ७६
गृभिष्व दया प्रागेववात्मा न विश्वभृत्
असोयमर्त्यो मर्त्येन नयेनेत्येवयोनिता ७६
विश्वास-प्रस्तुतिः - ७७
इत्यादि श्रुतयो भेदं वदन्ति परजीवयोः
दास्यमेवात्मनां विष्णोः स्वरूपं परमात्मनः ७७
मूलम् - ७७
इत्यादि श्रुतयो भेदं वदन्ति परजीवयोः
दास्यमेवात्मनां विष्णोः स्वरूपं परमात्मनः ७७
विश्वास-प्रस्तुतिः - ७८
साम्यं लक्ष्मीवरप्रोक्तं देवादीनां तथात्मनाम्
अनन्यशेषरूपा वै जीवास्तस्य जगत्पतेः ७८
मूलम् - ७८
साम्यं लक्ष्मीवरप्रोक्तं देवादीनां तथात्मनाम्
अनन्यशेषरूपा वै जीवास्तस्य जगत्पतेः ७८
विश्वास-प्रस्तुतिः - ७९
दास्यं स्वरूपं सर्वेषामात्मनां सतपं हरेः
भगवच्छेषमात्मानमन्यथा यः प्रपद्यते ७९
मूलम् - ७९
दास्यं स्वरूपं सर्वेषामात्मनां सतपं हरेः
भगवच्छेषमात्मानमन्यथा यः प्रपद्यते ७९
विश्वास-प्रस्तुतिः - ८०
स चैव हि महापापी चण्डालः स्यात् न संशयः
तस्मान्मकारवाच्योऽसौ पञ्चविंशात्मकः पुमान् ८०
मूलम् - ८०
स चैव हि महापापी चण्डालः स्यात् न संशयः
तस्मान्मकारवाच्योऽसौ पञ्चविंशात्मकः पुमान् ८०
५५६
अकारवाच्यस्येशस्य दास एवाभिधीयते
विश्वास-प्रस्तुतिः - ८१
अनुज्ञानाश्रयो नित्यो निर्विकारोऽव्ययः सदा
देहेन्द्रियात्परो ज्ञाता कर्त्ता भोक्ता सनातनः ८१
मूलम् - ८१
अनुज्ञानाश्रयो नित्यो निर्विकारोऽव्ययः सदा
देहेन्द्रियात्परो ज्ञाता कर्त्ता भोक्ता सनातनः ८१
विश्वास-प्रस्तुतिः - ८२
मकारवाच्यो जीवोसौ दास एव हरेः सदा
श्रीशस्याकारवाच्यस्य विष्णोरस्य जगत्पतेः ८२
मूलम् - ८२
मकारवाच्यो जीवोसौ दास एव हरेः सदा
श्रीशस्याकारवाच्यस्य विष्णोरस्य जगत्पतेः ८२
विश्वास-प्रस्तुतिः - ८३
स्वस्वामिनोरुकारेण ह्यवधारणमुच्यते
स जीवः स्यादतः स्वामी सर्वदा नृपसत्तम ८३
मूलम् - ८३
स्वस्वामिनोरुकारेण ह्यवधारणमुच्यते
स जीवः स्यादतः स्वामी सर्वदा नृपसत्तम ८३
विश्वास-प्रस्तुतिः - ८४
अनयोर्नान्यथेत्युक्तमुकारेण महर्षिभिः
इत्येवं प्रणवस्यार्थं प्रणवस्य पदस्य तु ८४
मूलम् - ८४
अनयोर्नान्यथेत्युक्तमुकारेण महर्षिभिः
इत्येवं प्रणवस्यार्थं प्रणवस्य पदस्य तु ८४
विश्वास-प्रस्तुतिः - ८५
आत्मनश्च स्वरूपत्वाद्विजेयमृषिसत्तमैः
सर्वेषामेव मन्त्राणां कारणं प्रणवः स्मृतः ८५
मूलम् - ८५
आत्मनश्च स्वरूपत्वाद्विजेयमृषिसत्तमैः
सर्वेषामेव मन्त्राणां कारणं प्रणवः स्मृतः ८५
विश्वास-प्रस्तुतिः - ८६
तस्माद्व्याहतयो जातास्ताभ्यो वेदत्रयं तथा
भूरेत्येव हि ऋग्वेदो भुवरिति यजुस्तथा ८६
मूलम् - ८६
तस्माद्व्याहतयो जातास्ताभ्यो वेदत्रयं तथा
भूरेत्येव हि ऋग्वेदो भुवरिति यजुस्तथा ८६
विश्वास-प्रस्तुतिः - ८८
स्वरिति सामवेदः स्यात्प्रणवो भूर्भुवःसुवः
भूर्विष्णुश्च तदा लक्ष्मीर्भुव इत्यभिधीयते ८८
मूलम् - ८८
स्वरिति सामवेदः स्यात्प्रणवो भूर्भुवःसुवः
भूर्विष्णुश्च तदा लक्ष्मीर्भुव इत्यभिधीयते ८८
विश्वास-प्रस्तुतिः - ८८
तयोः स्वरिति जीवस्तु सुव इत्यभिधीयते
अग्निर्वायुस्तथा सूर्यस्तेभ्य एव हि जज्ञिरे ८८
मूलम् - ८८
तयोः स्वरिति जीवस्तु सुव इत्यभिधीयते
अग्निर्वायुस्तथा सूर्यस्तेभ्य एव हि जज्ञिरे ८८
विश्वास-प्रस्तुतिः - ८९
य एता व्याहृतीर्हुत्वा सर्वं वेदं जुहोति वै
प्रसङ्गात्महितं चेदं मन्त्रशेषमुदीर्यते ८९
मूलम् - ८९
य एता व्याहृतीर्हुत्वा सर्वं वेदं जुहोति वै
प्रसङ्गात्महितं चेदं मन्त्रशेषमुदीर्यते ८९
विश्वास-प्रस्तुतिः - ९०
अस्वातन्त्र्यात्तु जीवानामधीनं परमात्मनः
नमसा प्रोच्यते तस्मान्नहन्ताममतोऽपितम् ९०
मूलम् - ९०
अस्वातन्त्र्यात्तु जीवानामधीनं परमात्मनः
नमसा प्रोच्यते तस्मान्नहन्ताममतोऽपितम् ९०
विश्वास-प्रस्तुतिः - ९१
स्वरूपादित्रिवर्गस्य संसिद्धिर्न्नतु सैव हि
नमसा रहितं सव विफलं सम्प्रकीर्त्तितम् ९१
मूलम् - ९१
स्वरूपादित्रिवर्गस्य संसिद्धिर्न्नतु सैव हि
नमसा रहितं सव विफलं सम्प्रकीर्त्तितम् ९१
विश्वास-प्रस्तुतिः - ९२
नमसैव हि संसिद्धिर्भवेदत्र न संशयः
पुरतः पृष्ठतश्चैव पार्श्वतश्चावशेषतः ९२
मूलम् - ९२
नमसैव हि संसिद्धिर्भवेदत्र न संशयः
पुरतः पृष्ठतश्चैव पार्श्वतश्चावशेषतः ९२
५५७
मकारेण स्वतन्त्रः स्यान्नरकस्तं निषिध्यति ९३
विश्वास-प्रस्तुतिः - ९४
तस्माच्च नम इत्यत्र स्वातन्त्र्यमपनोदति
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरस्तु हि शाश्वतम् ९४
मूलम् - ९४
तस्माच्च नम इत्यत्र स्वातन्त्र्यमपनोदति
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरस्तु हि शाश्वतम् ९४
विश्वास-प्रस्तुतिः - ९५
ममेति द्व्यक्षरं मृत्युर्न ममेति तु शाश्वतम्
न ममेति च सर्वत्र स्त्रातन्त्ररहिताय वै ९५
मूलम् - ९५
ममेति द्व्यक्षरं मृत्युर्न ममेति तु शाश्वतम्
न ममेति च सर्वत्र स्त्रातन्त्ररहिताय वै ९५
विश्वास-प्रस्तुतिः - ९६
युज्यते मुनिभिः सम्यक्सर्वकर्मसु पार्थिव
तस्मात्तु नमसा युक्ता मन्त्राः सर्वे च पार्थिव ९६
मूलम् - ९६
युज्यते मुनिभिः सम्यक्सर्वकर्मसु पार्थिव
तस्मात्तु नमसा युक्ता मन्त्राः सर्वे च पार्थिव ९६
विश्वास-प्रस्तुतिः - ९७
सर्वसिद्धिप्रदां नॄणां भवन्त्यत्र न संशयः
नमसा रहिता ये तु न तु मुक्तिप्रदा नृणाम् ९७
मूलम् - ९७
सर्वसिद्धिप्रदां नॄणां भवन्त्यत्र न संशयः
नमसा रहिता ये तु न तु मुक्तिप्रदा नृणाम् ९७
विश्वास-प्रस्तुतिः - ९८
तस्मात्तु नमस्तेवैषां पारतन्त्र्यत्वमीशितुः
पारतन्त्र्याल्लभेत्सिद्धिं स्वातन्त्र्यान्नाशमेष्यति ९८
मूलम् - ९८
तस्मात्तु नमस्तेवैषां पारतन्त्र्यत्वमीशितुः
पारतन्त्र्याल्लभेत्सिद्धिं स्वातन्त्र्यान्नाशमेष्यति ९८
विश्वास-प्रस्तुतिः - ९९
दास्यमेव हि जीवानां प्रोच्यते नमसैव तु
नमसा रहितं लोके किञ्चिदत्र न विद्यते ९९
मूलम् - ९९
दास्यमेव हि जीवानां प्रोच्यते नमसैव तु
नमसा रहितं लोके किञ्चिदत्र न विद्यते ९९
विश्वास-प्रस्तुतिः - १००
नमो देवेभ्यो नम इति येषामीशे तथा मनः
हृतञ्चिदेनो नमसा आविवाक्येति वै श्रुतिः १००
मूलम् - १००
नमो देवेभ्यो नम इति येषामीशे तथा मनः
हृतञ्चिदेनो नमसा आविवाक्येति वै श्रुतिः १००
विश्वास-प्रस्तुतिः - १०१
क्षयैरकारः सम्प्रोक्तो नकारस्तं निषिध्यति
तस्मात्तु नर इत्यत्र नित्यत्येनोच्यते जनः १०१
मूलम् - १०१
क्षयैरकारः सम्प्रोक्तो नकारस्तं निषिध्यति
तस्मात्तु नर इत्यत्र नित्यत्येनोच्यते जनः १०१
विश्वास-प्रस्तुतिः - १०२
नारा इति समूहत्वे बाहुल्यत्वाज्जनस्य च
तेषामयनमावासस्तेन नारायणः स्मृतः १०२
मूलम् - १०२
नारा इति समूहत्वे बाहुल्यत्वाज्जनस्य च
तेषामयनमावासस्तेन नारायणः स्मृतः १०२
विश्वास-प्रस्तुतिः - १०३
महाभूतान्यहङ्कारो महदव्यक्तमेव च
अण्डं तदन्तर्गता ये लोकाः सर्वे चतुर्दश १०३
मूलम् - १०३
महाभूतान्यहङ्कारो महदव्यक्तमेव च
अण्डं तदन्तर्गता ये लोकाः सर्वे चतुर्दश १०३
विश्वास-प्रस्तुतिः - १०४
चतुर्विधशरीराणि कालः कर्मेति व जगत्
प्रवाहरूपेणैवैषां नारत्वेनोच्यते बुधैः १०४
मूलम् - १०४
चतुर्विधशरीराणि कालः कर्मेति व जगत्
प्रवाहरूपेणैवैषां नारत्वेनोच्यते बुधैः १०४
विश्वास-प्रस्तुतिः - १०५
तेषामपि निवासत्वान्नारायण इतीरितः
अन्तर्बहिश्च जगतो धाता स च सनातनः १०५
मूलम् - १०५
तेषामपि निवासत्वान्नारायण इतीरितः
अन्तर्बहिश्च जगतो धाता स च सनातनः १०५
विश्वास-प्रस्तुतिः - ५५८
स्रष्टा नियन्ता शरणं विधाता भूतभावनः
र्
५५८
मूलम् - ५५८
स्रष्टा नियन्ता शरणं विधाता भूतभावनः
र्
५५८
विश्वास-प्रस्तुतिः - १०७
योनौ श्रियः श्री परमस्तेन नारायणः स्मृतः
नराणां सर्वजगतामयनं शरणं हरिः १०७
मूलम् - १०७
योनौ श्रियः श्री परमस्तेन नारायणः स्मृतः
नराणां सर्वजगतामयनं शरणं हरिः १०७
विश्वास-प्रस्तुतिः - १०८
तस्मान्नारायण इति मुनिभिः सम्प्रकीर्त्यते
सर्वेषु देशकालेषु सर्वावस्थासु सर्वदा १०८
मूलम् - १०८
तस्मान्नारायण इति मुनिभिः सम्प्रकीर्त्यते
सर्वेषु देशकालेषु सर्वावस्थासु सर्वदा १०८
विश्वास-प्रस्तुतिः - १०९
तस्यैव किङ्करोऽस्मीति चतुर्दा परमात्मनः
भगवत्परिचर्यैव जीवानां फलमुच्यते १०९
मूलम् - १०९
तस्यैव किङ्करोऽस्मीति चतुर्दा परमात्मनः
भगवत्परिचर्यैव जीवानां फलमुच्यते १०९
विश्वास-प्रस्तुतिः - ११०
तद्विना किं शरीरेण यातनास्य जनस्य तु
यस्मिन् शरीरे जीवानां न दास्यं परमात्मनः ११०
मूलम् - ११०
तद्विना किं शरीरेण यातनास्य जनस्य तु
यस्मिन् शरीरे जीवानां न दास्यं परमात्मनः ११०
विश्वास-प्रस्तुतिः - १११
तदेव निरयं प्रोक्तं सर्वदुःखफलं भवेत्
दास्यमेव फलं विष्णोर्दास्यमेव परं सुखम् १११
मूलम् - १११
तदेव निरयं प्रोक्तं सर्वदुःखफलं भवेत्
दास्यमेव फलं विष्णोर्दास्यमेव परं सुखम् १११
विश्वास-प्रस्तुतिः - ११२
ब्रह्माद्याः सकला देवा वशिष्ठाद्या महर्षयः
काङ्क्षन्तः परमं दास्यं विष्णोरेव यजन्ति तम् ११२
मूलम् - ११२
ब्रह्माद्याः सकला देवा वशिष्ठाद्या महर्षयः
काङ्क्षन्तः परमं दास्यं विष्णोरेव यजन्ति तम् ११२
विश्वास-प्रस्तुतिः - ११३
तस्माच्चतुर्थ्या मन्त्रस्य प्रधानं दास्यमुच्यते
न दास्यवृत्तिर्जीवानां नाशहेतुः परस्य हि ११३
मूलम् - ११३
तस्माच्चतुर्थ्या मन्त्रस्य प्रधानं दास्यमुच्यते
न दास्यवृत्तिर्जीवानां नाशहेतुः परस्य हि ११३
विश्वास-प्रस्तुतिः - ११४
इत्थं सञ्चिन्त्य मन्त्राथ जपेन्मंत्रमतन्द्रितः
अविदित्वा मनोरर्थं जपेत्प्रयतमानसः ११४
मूलम् - ११४
इत्थं सञ्चिन्त्य मन्त्राथ जपेन्मंत्रमतन्द्रितः
अविदित्वा मनोरर्थं जपेत्प्रयतमानसः ११४
विश्वास-प्रस्तुतिः - ११५
न संसिद्धिमवाप्नोति स्वरूपञ्च न विन्दति
संसारञ्च समुद्रञ्च सर्षिचण्डोऽधि दैवतम् ११५
मूलम् - ११५
न संसिद्धिमवाप्नोति स्वरूपञ्च न विन्दति
संसारञ्च समुद्रञ्च सर्षिचण्डोऽधि दैवतम् ११५
विश्वास-प्रस्तुतिः - ११६
सार्द्धं स यज्ञं सद्ध्यानं मन्त्रमेव प्रपूजयेत्
नारायणार्षं गायत्री दैवी चन्द्रोऽधिदेवता ११६
मूलम् - ११६
सार्द्धं स यज्ञं सद्ध्यानं मन्त्रमेव प्रपूजयेत्
नारायणार्षं गायत्री दैवी चन्द्रोऽधिदेवता ११६
विश्वास-प्रस्तुतिः - ११७
परमात्मा च लक्ष्मीशो विष्णुरेवाच्युतो हरिः
प्रणयस्तु भवेद्बीजं चतुर्थी शक्तिरुच्यते ११७
मूलम् - ११७
परमात्मा च लक्ष्मीशो विष्णुरेवाच्युतो हरिः
प्रणयस्तु भवेद्बीजं चतुर्थी शक्तिरुच्यते ११७
विश्वास-प्रस्तुतिः - ११८
क्रुद्धोल्काय महोल्काय विष्णूल्काय तथैव च
जाल्काय सहस्रोल्काय पञ्चाङ्गो न्यास उच्यते ११८
मूलम् - ११८
क्रुद्धोल्काय महोल्काय विष्णूल्काय तथैव च
जाल्काय सहस्रोल्काय पञ्चाङ्गो न्यास उच्यते ११८
विश्वास-प्रस्तुतिः - ११९
हृन्मूर्ध्नोश्च शिखायाञ्च कवचो नेत्रयोर्न्यसेत्
पञ्चाङ्गन्यासमित्युक्तं सर्वमन्त्रेषु वैष्णवैः ११९
मूलम् - ११९
हृन्मूर्ध्नोश्च शिखायाञ्च कवचो नेत्रयोर्न्यसेत्
पञ्चाङ्गन्यासमित्युक्तं सर्वमन्त्रेषु वैष्णवैः ११९
विश्वास-प्रस्तुतिः - १२०
यदा त्रयेण कुर्वीत षडङ्गं तु यथाक्रमम्
मूर्ध्न्यानने च हृदये भुजयोर्जघने तथा १२०
मूलम् - १२०
यदा त्रयेण कुर्वीत षडङ्गं तु यथाक्रमम्
मूर्ध्न्यानने च हृदये भुजयोर्जघने तथा १२०
विश्वास-प्रस्तुतिः - १२१
पृष्ठे च जान्वोः पदयोर्मन्त्रार्णानि यदा न्यसेत्
अष्टाक्षराण्यष्टदिक्षु क्रमेण तदनन्तरम् १२१
मूलम् - १२१
पृष्ठे च जान्वोः पदयोर्मन्त्रार्णानि यदा न्यसेत्
अष्टाक्षराण्यष्टदिक्षु क्रमेण तदनन्तरम् १२१
विश्वास-प्रस्तुतिः - १२२
नासिकायां तथाक्ष्णोश्च श्रोत्रयोरानने तथा
कण्ठे च स्तनयोर्नाभौ गुह्ये च तदनन्तरम् १२२
मूलम् - १२२
नासिकायां तथाक्ष्णोश्च श्रोत्रयोरानने तथा
कण्ठे च स्तनयोर्नाभौ गुह्ये च तदनन्तरम् १२२
विश्वास-प्रस्तुतिः - १२३
अचक्राय विचक्राय सुचक्राय तथैव च
ज्वालामहासुचक्राय त्रैलोक्याय तदन्तरम् १२३
मूलम् - १२३
अचक्राय विचक्राय सुचक्राय तथैव च
ज्वालामहासुचक्राय त्रैलोक्याय तदन्तरम् १२३
विश्वास-प्रस्तुतिः - १२४
आधारकालचक्राय दशादिक्षु यथाक्रमम्
स्वाहान्तं प्रणवाद्यन्तं न्यसेच्चक्राणि वैष्णवः १२४
मूलम् - १२४
आधारकालचक्राय दशादिक्षु यथाक्रमम्
स्वाहान्तं प्रणवाद्यन्तं न्यसेच्चक्राणि वैष्णवः १२४
विश्वास-प्रस्तुतिः - १२५
एवन्न्यासविधिं कृत्वा पश्चाद्ध्यानं समाचरेत्
हृदये प्रतिमायां वा जले सवितृमण्डले १२५
मूलम् - १२५
एवन्न्यासविधिं कृत्वा पश्चाद्ध्यानं समाचरेत्
हृदये प्रतिमायां वा जले सवितृमण्डले १२५
विश्वास-प्रस्तुतिः - १२६
वह्नौ च स्थण्डिले वाऽपि चिन्तयेद्विष्णुमव्ययम्
बालार्ककोटिसङ्काशं पीतवस्त्रं चतुर्भुजम् १२६
मूलम् - १२६
वह्नौ च स्थण्डिले वाऽपि चिन्तयेद्विष्णुमव्ययम्
बालार्ककोटिसङ्काशं पीतवस्त्रं चतुर्भुजम् १२६
विश्वास-प्रस्तुतिः - १२७
पद्मपत्रविशालाक्षं सर्वाभरणभूषितम्
चक्रमब्जं गदां शङ्खं चतुर्दोर्भिर्धृतं तथा १२७
मूलम् - १२७
पद्मपत्रविशालाक्षं सर्वाभरणभूषितम्
चक्रमब्जं गदां शङ्खं चतुर्दोर्भिर्धृतं तथा १२७
विश्वास-प्रस्तुतिः - १२८
श्रीभूमिसहितं देवमासीनं परमासने
तत्र चाधारशक्त्याद्यैर्धर्माद्यैः सूरिभिर्धृतैः १२८
मूलम् - १२८
श्रीभूमिसहितं देवमासीनं परमासने
तत्र चाधारशक्त्याद्यैर्धर्माद्यैः सूरिभिर्धृतैः १२८
विश्वास-प्रस्तुतिः - १२९
दिव्यरत्नमये पीठे पङ्कजेऽष्टदले शुभे
तत्कर्णिकोपरितले तप्तकाञ्चनसन्निभे १२९
मूलम् - १२९
दिव्यरत्नमये पीठे पङ्कजेऽष्टदले शुभे
तत्कर्णिकोपरितले तप्तकाञ्चनसन्निभे १२९
विश्वास-प्रस्तुतिः - १३०
देवीभ्यां सहितं तस्मिन्नासीनं पङ्कजासने
चिन्तयेद्दक्षिणे पार्श्वे लक्ष्मीं काञ्चनसन्निभाम् १३०
मूलम् - १३०
देवीभ्यां सहितं तस्मिन्नासीनं पङ्कजासने
चिन्तयेद्दक्षिणे पार्श्वे लक्ष्मीं काञ्चनसन्निभाम् १३०
विश्वास-प्रस्तुतिः - १३१
पद्महस्तविशालाक्ष्मीं दुकूलवसनां शुभाम्
वामे दूर्वादलश्यामां विचित्राम्बरभूषिताम् १३१
मूलम् - १३१
पद्महस्तविशालाक्ष्मीं दुकूलवसनां शुभाम्
वामे दूर्वादलश्यामां विचित्राम्बरभूषिताम् १३१
५६०
विश्वास-प्रस्तुतिः - १३२
चिन्तयेद्धरणीं देवीं नीलोत्पलधरां शुभाम्
माहिष्यष्टदलाग्रेषु चिन्तयेद्धृतचामराम् १३२
मूलम् - १३२
चिन्तयेद्धरणीं देवीं नीलोत्पलधरां शुभाम्
माहिष्यष्टदलाग्रेषु चिन्तयेद्धृतचामराम् १३२
विश्वास-प्रस्तुतिः - १३३
एवं ध्यात्वा हरिं नित्यं जपेत्प्रयतमानसः
स्नातः शुक्लाम्बरधरः कृतकृत्यो यथाविधि १३३
मूलम् - १३३
एवं ध्यात्वा हरिं नित्यं जपेत्प्रयतमानसः
स्नातः शुक्लाम्बरधरः कृतकृत्यो यथाविधि १३३
विश्वास-प्रस्तुतिः - १३४
धृतोर्द्ध्वपुण्ड्रदेहश्च पवित्रकर एव च
शुचिः कृष्णाजिनासीनः प्राणायामी च न्यासकृत् १३४
मूलम् - १३४
धृतोर्द्ध्वपुण्ड्रदेहश्च पवित्रकर एव च
शुचिः कृष्णाजिनासीनः प्राणायामी च न्यासकृत् १३४
विश्वास-प्रस्तुतिः - १३५
शङ्खचक्रगदाखड्गशार्ङ्गपद्मान्यनुक्रमात्
तार्क्ष्यञ्च वनमालाञ्च मुद्रा अष्टौ प्रपूजयेत् १३५
मूलम् - १३५
शङ्खचक्रगदाखड्गशार्ङ्गपद्मान्यनुक्रमात्
तार्क्ष्यञ्च वनमालाञ्च मुद्रा अष्टौ प्रपूजयेत् १३५
विश्वास-प्रस्तुतिः - १३६
पश्चात् ध्यात्वा जगन्नाथं मनसैवार्चयेद्विभुम्
गन्धपुष्पादि सकलं मन्त्रेणैव निवेदयेत् १३६
मूलम् - १३६
पश्चात् ध्यात्वा जगन्नाथं मनसैवार्चयेद्विभुम्
गन्धपुष्पादि सकलं मन्त्रेणैव निवेदयेत् १३६
विश्वास-प्रस्तुतिः - १३७
अयुतं वा सहस्रं वा त्रिसन्ध्यासु जपेन्मनुम्
विष्णोः समानरूपेण शाश्वतं पदमाप्नुयात् १३७
मूलम् - १३७
अयुतं वा सहस्रं वा त्रिसन्ध्यासु जपेन्मनुम्
विष्णोः समानरूपेण शाश्वतं पदमाप्नुयात् १३७
विश्वास-प्रस्तुतिः - १३८
आयुष्कामी जपेन्नित्यं षण्मासं नियतेन्द्रियः
अयुतं तु जपेन्मन्त्रं सहस्रं जुहुयाद्धृतम् १३८
मूलम् - १३८
आयुष्कामी जपेन्नित्यं षण्मासं नियतेन्द्रियः
अयुतं तु जपेन्मन्त्रं सहस्रं जुहुयाद्धृतम् १३८
विश्वास-प्रस्तुतिः - १३९
आयुर्निरामयं सम्पद्भवेद्वर्षशताधिकम्
विद्याकामी जपेद्वर्षं त्रिसन्ध्यास्वयुतं मनुम् १३९
मूलम् - १३९
आयुर्निरामयं सम्पद्भवेद्वर्षशताधिकम्
विद्याकामी जपेद्वर्षं त्रिसन्ध्यास्वयुतं मनुम् १३९
विश्वास-प्रस्तुतिः - १४०
जुहुया — पुष्पैः सहस्रं नियतेन्द्रियः
अष्टादशानां विद्यानां भवेद्व्याससमो द्विजः १४०
मूलम् - १४०
जुहुया — पुष्पैः सहस्रं नियतेन्द्रियः
अष्टादशानां विद्यानां भवेद्व्याससमो द्विजः १४०
विश्वास-प्रस्तुतिः - १४२
राजहोमी सहस्रं तु लभेत्कन्यां सुशोभिताम्
सम्पत्कामी जपेन्नित्यं त्र्ययुतं वत्सरत्रयम् १४२
मूलम् - १४२
राजहोमी सहस्रं तु लभेत्कन्यां सुशोभिताम्
सम्पत्कामी जपेन्नित्यं त्र्ययुतं वत्सरत्रयम् १४२
विश्वास-प्रस्तुतिः - १४३
पद्मैर्वा पद्मपत्रैर्वा तथा होमी श्रियं लभेत्
भूकामी तु जपेन्नित्यं वत्सरं विजितेन्द्रियः १४३
मूलम् - १४३
पद्मैर्वा पद्मपत्रैर्वा तथा होमी श्रियं लभेत्
भूकामी तु जपेन्नित्यं वत्सरं विजितेन्द्रियः १४३
विश्वास-प्रस्तुतिः - १४४
दूर्वाभिर्जुहुयात्तद्वल्लभेद्भूमिमभीप्सितम्
राज्यकामी जपेन्नित्यं षडबदं त्र्ययुतं तथा १४४
मूलम् - १४४
दूर्वाभिर्जुहुयात्तद्वल्लभेद्भूमिमभीप्सितम्
राज्यकामी जपेन्नित्यं षडबदं त्र्ययुतं तथा १४४
विश्वास-प्रस्तुतिः - १४५
सहस्रं जुहुयान्नित्यं पायसं घृतमिश्रितम्
चक्रवर्ती भवेत् सद्य पद्माभर्त्तुः प्रसादतः १४५
मूलम् - १४५
सहस्रं जुहुयान्नित्यं पायसं घृतमिश्रितम्
चक्रवर्ती भवेत् सद्य पद्माभर्त्तुः प्रसादतः १४५
विश्वास-प्रस्तुतिः - १४६
द्वादशाब्दं जपेद्देवं सततं विजितेन्द्रियः
आत्महोमी तु यो नित्यमिन्द्रत्वं लभते नरः १४६
मूलम् - १४६
द्वादशाब्दं जपेद्देवं सततं विजितेन्द्रियः
आत्महोमी तु यो नित्यमिन्द्रत्वं लभते नरः १४६
विश्वास-प्रस्तुतिः - १४७
लक्षञ्जपेच्च यो नित्यं त्रिंशद्वर्षं जितेन्द्रियः
ब्रह्मत्वं वा शिवत्वं वा समाप्नोति न संशयः १४७
मूलम् - १४७
लक्षञ्जपेच्च यो नित्यं त्रिंशद्वर्षं जितेन्द्रियः
ब्रह्मत्वं वा शिवत्वं वा समाप्नोति न संशयः १४७
विश्वास-प्रस्तुतिः - १४८
यावज्जीवं तु यो नित्यमयुतं सुसमाहितः
सहस्रं वा शतं वापि होतव्यं वह्निमण्डले १४८
मूलम् - १४८
यावज्जीवं तु यो नित्यमयुतं सुसमाहितः
सहस्रं वा शतं वापि होतव्यं वह्निमण्डले १४८
विश्वास-प्रस्तुतिः - १४९
पद्मैर्वा बिल्वपत्रैर्वा समिद्भिः पिप्पलस्य वा
कोमलैस्तुलसीपत्रैरर्चयित्वा सनातनम् १४९
मूलम् - १४९
पद्मैर्वा बिल्वपत्रैर्वा समिद्भिः पिप्पलस्य वा
कोमलैस्तुलसीपत्रैरर्चयित्वा सनातनम् १४९
विश्वास-प्रस्तुतिः - १५०
अनन्तविहगेशानां क्षिप्रमन्यतमो भवेत्
किमत्र बहुनोक्तेन सर्वसिद्धिप्रदो नृणाम् १५०
मूलम् - १५०
अनन्तविहगेशानां क्षिप्रमन्यतमो भवेत्
किमत्र बहुनोक्तेन सर्वसिद्धिप्रदो नृणाम् १५०
विश्वास-प्रस्तुतिः - १५१
श्रीमदष्टाक्षरो मन्त्रो नित्यप्रियतमो हरेः
आसीनो वा शयानो वा तिष्ठन्वा यत्र कुत्रचित् १५१
मूलम् - १५१
श्रीमदष्टाक्षरो मन्त्रो नित्यप्रियतमो हरेः
आसीनो वा शयानो वा तिष्ठन्वा यत्र कुत्रचित् १५१
विश्वास-प्रस्तुतिः - १५२
जपेदष्टाक्षरं मन्त्रं तस्य विष्णुः प्रसीदति
संस्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः १५२
मूलम् - १५२
जपेदष्टाक्षरं मन्त्रं तस्य विष्णुः प्रसीदति
संस्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः १५२
विश्वास-प्रस्तुतिः - १५३
अभितः सर्वदेवानां यो जपेत्सततं मनुम्
ब्रह्मघ्नो वा कृतघ्नो वा महापापयुतोऽपि वा १५३
मूलम् - १५३
अभितः सर्वदेवानां यो जपेत्सततं मनुम्
ब्रह्मघ्नो वा कृतघ्नो वा महापापयुतोऽपि वा १५३
विश्वास-प्रस्तुतिः - १५४
अष्टाक्षरस्य जप्तारं दृष्ट्या पापैः प्रमुच्यते
अष्टाक्षरस्य जप्तारो यथा भागवतोत्तमाः १५४
मूलम् - १५४
अष्टाक्षरस्य जप्तारं दृष्ट्या पापैः प्रमुच्यते
अष्टाक्षरस्य जप्तारो यथा भागवतोत्तमाः १५४
विश्वास-प्रस्तुतिः - १५५
पुनन्ति सकलं लोकं सदेवासुरमानुषम्
अष्टाक्षरस्य जप्तारं प्रणमेद्यस्तु भक्तितः १५५
मूलम् - १५५
पुनन्ति सकलं लोकं सदेवासुरमानुषम्
अष्टाक्षरस्य जप्तारं प्रणमेद्यस्तु भक्तितः १५५
विश्वास-प्रस्तुतिः - १५६
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते
अचिन्त्यमेतन्माहात्म्यं मनोरस्य जगत्पतेः १५६
मूलम् - १५६
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते
अचिन्त्यमेतन्माहात्म्यं मनोरस्य जगत्पतेः १५६
विश्वास-प्रस्तुतिः - ५६२
न हि वक्तुं मया शक्यं ब्रह्मादित्रिदशैरपि
र्
५६२
मूलम् - ५६२
न हि वक्तुं मया शक्यं ब्रह्मादित्रिदशैरपि
र्
५६२
विश्वास-प्रस्तुतिः - १५८
यस्योच्चारणमात्रेण द्वादशाब्दफलं लभेत्
नमो भगवते नित्यं वासुदेवाय शार्ङ्गिणे १५८
मूलम् - १५८
यस्योच्चारणमात्रेण द्वादशाब्दफलं लभेत्
नमो भगवते नित्यं वासुदेवाय शार्ङ्गिणे १५८
विश्वास-प्रस्तुतिः - १५९
प्रणवेन समायुक्तं द्वादशार्णमनुं जपेत्
पूर्ववत्प्रणवस्यार्थं नमसश्च महामनोः १५९
मूलम् - १५९
प्रणवेन समायुक्तं द्वादशार्णमनुं जपेत्
पूर्ववत्प्रणवस्यार्थं नमसश्च महामनोः १५९
विश्वास-प्रस्तुतिः - १६०
ऐश्वर्यं च तथा वीर्यं तेजः शक्तिरनुत्तमा
ज्ञानं बलं यदेतेषां षण्णां भगवदीरितः १६०
मूलम् - १६०
ऐश्वर्यं च तथा वीर्यं तेजः शक्तिरनुत्तमा
ज्ञानं बलं यदेतेषां षण्णां भगवदीरितः १६०
विश्वास-प्रस्तुतिः - १६१
एभिर्गुणैः पूर्ववाक्यैः स एव भगवान् हरिः
नित्या च या भगवती प्रोच्यते मुनिसत्तमैः १६१
मूलम् - १६१
एभिर्गुणैः पूर्ववाक्यैः स एव भगवान् हरिः
नित्या च या भगवती प्रोच्यते मुनिसत्तमैः १६१
विश्वास-प्रस्तुतिः - १६२
ऐश्वर्यरूपा सा देवी सुभगा कमलालया
ईश्वरी सर्वजगतां विष्णुपत्नी सनातनी १६२
मूलम् - १६२
ऐश्वर्यरूपा सा देवी सुभगा कमलालया
ईश्वरी सर्वजगतां विष्णुपत्नी सनातनी १६२
विश्वास-प्रस्तुतिः - १६३
तस्याः पतित्वा धीशस्य भगवानिति चोच्यते
तस्मात्तु भगवान् श्रीमानेकार्थो मुनिभिः स्मृतः १६३
मूलम् - १६३
तस्याः पतित्वा धीशस्य भगवानिति चोच्यते
तस्मात्तु भगवान् श्रीमानेकार्थो मुनिभिः स्मृतः १६३
विश्वास-प्रस्तुतिः - १६४
भगवानिति शब्दोऽयं तथा पुरुष इत्यपि
निरुपाधौ च वर्तेत वासुदेवेऽखिलात्मनि १६४
मूलम् - १६४
भगवानिति शब्दोऽयं तथा पुरुष इत्यपि
निरुपाधौ च वर्तेत वासुदेवेऽखिलात्मनि १६४
विश्वास-प्रस्तुतिः - १६५
वक्ष्यन्ति केचिद्भगवान् ज्ञानवानिति सत्तमाः
तद्वासुदेवेनोक्तं स्यात्सामान्यत्वात्ततोऽन्यथा १६५
मूलम् - १६५
वक्ष्यन्ति केचिद्भगवान् ज्ञानवानिति सत्तमाः
तद्वासुदेवेनोक्तं स्यात्सामान्यत्वात्ततोऽन्यथा १६५
विश्वास-प्रस्तुतिः - १६६
तस्मात्कल्याणगुणवान् श्रीमान् योऽसौ जगत्पतिः
स एव भगवान् विष्णुर्वासुदेवः सनातनः १६६
मूलम् - १६६
तस्मात्कल्याणगुणवान् श्रीमान् योऽसौ जगत्पतिः
स एव भगवान् विष्णुर्वासुदेवः सनातनः १६६
विश्वास-प्रस्तुतिः - १६७
भगवते श्रीमते चेत्येकार्थे हि प्रोच्यते बुधैः
गुणवान् भगवानेव सृष्टिस्थिति विनाशकृत् १६७
मूलम् - १६७
भगवते श्रीमते चेत्येकार्थे हि प्रोच्यते बुधैः
गुणवान् भगवानेव सृष्टिस्थिति विनाशकृत् १६७
विश्वास-प्रस्तुतिः - १६८
द्वौ द्वौ गुणावधिष्ठाय सर्वाद्यमकरोत्प्रभुः
प्रद्युम्नश्चानिरुद्धश्च सङ्कर्षण इतीरितः १६८
मूलम् - १६८
द्वौ द्वौ गुणावधिष्ठाय सर्वाद्यमकरोत्प्रभुः
प्रद्युम्नश्चानिरुद्धश्च सङ्कर्षण इतीरितः १६८
विश्वास-प्रस्तुतिः - १६९
भगवान् वासुदेवोऽसौ सृष्ट्याद्यमकरोत्स्वयम्
ऐश्वर्यवीर्यवान् सर्गे प्रद्युम्नः पर्यपद्यत १६९
मूलम् - १६९
भगवान् वासुदेवोऽसौ सृष्ट्याद्यमकरोत्स्वयम्
ऐश्वर्यवीर्यवान् सर्गे प्रद्युम्नः पर्यपद्यत १६९
५६३
बलज्ञाने तथा द्वे तु सङ्कर्षणो ह्यधिष्ठितः १७०
विश्वास-प्रस्तुतिः - १७१
अकरोद्भगवानेव संहारं जगतः पुनः
एवं षड्गुणपूर्णत्वात्पतित्वात्त्वपि च श्रियः १७१
मूलम् - १७१
अकरोद्भगवानेव संहारं जगतः पुनः
एवं षड्गुणपूर्णत्वात्पतित्वात्त्वपि च श्रियः १७१
विश्वास-प्रस्तुतिः - १७२
सर्गादेः कारणत्वाच्च भगवानिति चोच्यते
सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः १७२
मूलम् - १७२
सर्गादेः कारणत्वाच्च भगवानिति चोच्यते
सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः १७२
विश्वास-प्रस्तुतिः - १७३
ततः स वासुदेवेति विद्वद्भिः परिपद्यते
चतुर्थी पूर्वविद्विद्यात्कैङ्कर्यार्थं महात्मनः १७३
मूलम् - १७३
ततः स वासुदेवेति विद्वद्भिः परिपद्यते
चतुर्थी पूर्वविद्विद्यात्कैङ्कर्यार्थं महात्मनः १७३
विश्वास-प्रस्तुतिः - १७४
एवं ज्ञात्वा मनोरर्थं द्वादशार्णस्य चक्रिणः
संसिद्धिं परमाप्नोति सम्यगावर्त्य चेतसा १७४
मूलम् - १७४
एवं ज्ञात्वा मनोरर्थं द्वादशार्णस्य चक्रिणः
संसिद्धिं परमाप्नोति सम्यगावर्त्य चेतसा १७४
विश्वास-प्रस्तुतिः - १७५
गत्वा गत्वा निवर्तन्ते सर्वक्रतुफलैरपि
तद्गत्वा न निवर्तन्ते द्वादशाक्षरचिन्तकाः १७५
मूलम् - १७५
गत्वा गत्वा निवर्तन्ते सर्वक्रतुफलैरपि
तद्गत्वा न निवर्तन्ते द्वादशाक्षरचिन्तकाः १७५
विश्वास-प्रस्तुतिः - १७६
द्वादशार्णं सकृज्जप्त्वा सर्वपापैः प्रमुच्यते
ब्रह्महत्यादिपापानि तत्संसर्गकृतानि च १७६
मूलम् - १७६
द्वादशार्णं सकृज्जप्त्वा सर्वपापैः प्रमुच्यते
ब्रह्महत्यादिपापानि तत्संसर्गकृतानि च १७६
विश्वास-प्रस्तुतिः - १७७
द्वादशार्णं मनोर्जप्तुर्दहत्यग्निरिवेन्धनम्
सर्वसौभाग्यसुखदं पुत्रपौत्राभिवर्द्धनम् १७७
मूलम् - १७७
द्वादशार्णं मनोर्जप्तुर्दहत्यग्निरिवेन्धनम्
सर्वसौभाग्यसुखदं पुत्रपौत्राभिवर्द्धनम् १७७
विश्वास-प्रस्तुतिः - १७८
सर्वकामप्रदं नॄणामायुरारोग्यवर्द्धनम्
देवत्वममरेशत्वं शिवब्रह्मत्वमेव च १७८
मूलम् - १७८
सर्वकामप्रदं नॄणामायुरारोग्यवर्द्धनम्
देवत्वममरेशत्वं शिवब्रह्मत्वमेव च १७८
विश्वास-प्रस्तुतिः - १७९
द्वादशार्णमनुं जप्त्वा समाप्नोति न संशयः
दुराचारोऽपि सर्वाशी कृतघ्नो नास्तिकोऽपि वा १७९
मूलम् - १७९
द्वादशार्णमनुं जप्त्वा समाप्नोति न संशयः
दुराचारोऽपि सर्वाशी कृतघ्नो नास्तिकोऽपि वा १७९
विश्वास-प्रस्तुतिः - १८०
द्वादशार्णमनुं जप्त्वा विष्णुसायुज्यमाप्नुयात्
प्रजापतिः कश्यपश्च मनुः स्वायम्भुवस्तथा १८०
मूलम् - १८०
द्वादशार्णमनुं जप्त्वा विष्णुसायुज्यमाप्नुयात्
प्रजापतिः कश्यपश्च मनुः स्वायम्भुवस्तथा १८०
विश्वास-प्रस्तुतिः - १८१
सप्तर्षयो ध्रुवश्चैते ऋषयस्तस्य कीर्तिताः
वशिष्ठः कश्यपोऽत्रिश्च विश्वामित्रश्च गौतमः १८१
मूलम् - १८१
सप्तर्षयो ध्रुवश्चैते ऋषयस्तस्य कीर्तिताः
वशिष्ठः कश्यपोऽत्रिश्च विश्वामित्रश्च गौतमः १८१
विश्वास-प्रस्तुतिः - १८२
जमदग्निर्भरद्वाजस्त्वेते सप्तमहर्षयः
भगवान्वासुदेवो वै देवतास्य प्रकीर्त्तितः १८२
मूलम् - १८२
जमदग्निर्भरद्वाजस्त्वेते सप्तमहर्षयः
भगवान्वासुदेवो वै देवतास्य प्रकीर्त्तितः १८२
विश्वास-प्रस्तुतिः - ५६४
छन्दश्च परमा दैवी गायत्री समुदाहृता
र्
५६४
मूलम् - ५६४
छन्दश्च परमा दैवी गायत्री समुदाहृता
र्
५६४
विश्वास-प्रस्तुतिः - १८४
दशाङ्गुलीषु तलयोर्द्वादशार्णानि विन्यसेत्
पदैश्चतुर्भिरङ्गेषु विन्यसेत्तदनन्तरम् १८४
मूलम् - १८४
दशाङ्गुलीषु तलयोर्द्वादशार्णानि विन्यसेत्
पदैश्चतुर्भिरङ्गेषु विन्यसेत्तदनन्तरम् १८४
विश्वास-प्रस्तुतिः - १८५
मूर्ध्न्यास्यनेत्रयोर्नासाकर्णयोर्भुजयो तथा
हृदि कुक्षौ तथा गुह्ये ऊर्वोर्जान्वोश्च पादयोः १८५
मूलम् - १८५
मूर्ध्न्यास्यनेत्रयोर्नासाकर्णयोर्भुजयो तथा
हृदि कुक्षौ तथा गुह्ये ऊर्वोर्जान्वोश्च पादयोः १८५
विश्वास-प्रस्तुतिः - १८६
मन्त्रार्णानि तु विन्यस्य क्रमेणैव नृपोत्तम
अचक्राय विचक्राय सुचक्राय तथैव च १८६
मूलम् - १८६
मन्त्रार्णानि तु विन्यस्य क्रमेणैव नृपोत्तम
अचक्राय विचक्राय सुचक्राय तथैव च १८६
विश्वास-प्रस्तुतिः - १८७
तथा त्रैलोक्यचक्राय महाचक्राय वै तथा
असुरान्तकचक्राय स्वहान्तं प्रणवादिकम् १८७
मूलम् - १८७
तथा त्रैलोक्यचक्राय महाचक्राय वै तथा
असुरान्तकचक्राय स्वहान्तं प्रणवादिकम् १८७
विश्वास-प्रस्तुतिः - १८८
हृदयादिषडङ्गेषु यथाशास्त्रं प्रयोजयेत्
क्षीराब्धौ शेषपर्यङ्के समासीनं श्रिया सह १८८
मूलम् - १८८
हृदयादिषडङ्गेषु यथाशास्त्रं प्रयोजयेत्
क्षीराब्धौ शेषपर्यङ्के समासीनं श्रिया सह १८८
विश्वास-प्रस्तुतिः - १८९
नीलजीमूतसङ्काशं तप्तकाञ्चनभूषणम्
पीताम्बरधरं देवं रक्ताब्जदललोचनम् १८९
मूलम् - १८९
नीलजीमूतसङ्काशं तप्तकाञ्चनभूषणम्
पीताम्बरधरं देवं रक्ताब्जदललोचनम् १८९
विश्वास-प्रस्तुतिः - १९०
दीर्घैश्चतुर्भिर्दोर्भिश्च सर्वाभरणभूषितैः
शङ्खचक्रगदाशार्ङ्गान् बिभ्राणं परमेश्वरम् १९०
मूलम् - १९०
दीर्घैश्चतुर्भिर्दोर्भिश्च सर्वाभरणभूषितैः
शङ्खचक्रगदाशार्ङ्गान् बिभ्राणं परमेश्वरम् १९०
विश्वास-प्रस्तुतिः - १९१
नानाकुसुमसम्बद्धनीलकुन्तलशीर्षजम्
श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् १९१
मूलम् - १९१
नानाकुसुमसम्बद्धनीलकुन्तलशीर्षजम्
श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् १९१
विश्वास-प्रस्तुतिः - १९२
समाश्लिष्टं श्रिया दिव्या पद्मया पद्महस्तया
स्तूयमानं विमानस्थैर्देवगन्धर्वकिन्नरैः १९२
मूलम् - १९२
समाश्लिष्टं श्रिया दिव्या पद्मया पद्महस्तया
स्तूयमानं विमानस्थैर्देवगन्धर्वकिन्नरैः १९२
विश्वास-प्रस्तुतिः - १९३
मुनिभिः सनकाद्यैश्च सेवितञ्च सुरर्षिभिः
एवं ध्यात्वा हरिं नित्यं जपेन्मन्त्रं समाहितः १९३
मूलम् - १९३
मुनिभिः सनकाद्यैश्च सेवितञ्च सुरर्षिभिः
एवं ध्यात्वा हरिं नित्यं जपेन्मन्त्रं समाहितः १९३
विश्वास-प्रस्तुतिः - १९४
अर्च्चयित्वा हृषीकेशं सुगन्धकुसुमैः सदा
शालग्रामादिकस्थानेष्वर्चऽमानं जपेद्बुधः १९४
मूलम् - १९४
अर्च्चयित्वा हृषीकेशं सुगन्धकुसुमैः सदा
शालग्रामादिकस्थानेष्वर्चऽमानं जपेद्बुधः १९४
विश्वास-प्रस्तुतिः - १९५
जपित्वा दशसाहस्रं यावज्जीवं समाहितः
वैष्णवं पदमाप्नोति पुनरावृत्तिवर्जितम् १९५
मूलम् - १९५
जपित्वा दशसाहस्रं यावज्जीवं समाहितः
वैष्णवं पदमाप्नोति पुनरावृत्तिवर्जितम् १९५
विश्वास-प्रस्तुतिः - १९६
आयुष्कामी जपेन्नित्यं वत्सरं विजितेन्द्रियः
संख्या द्वादशसाहस्रं होमं तिलसहस्रकम् १९६
मूलम् - १९६
आयुष्कामी जपेन्नित्यं वत्सरं विजितेन्द्रियः
संख्या द्वादशसाहस्रं होमं तिलसहस्रकम् १९६
विश्वास-प्रस्तुतिः - १९७
लभेताऽऽयुः शतसमा दुःखरोगविवर्जितम्
विवाहकामी षण्मासं जपेन्नित्यं जितेन्द्रियः १९७
मूलम् - १९७
लभेताऽऽयुः शतसमा दुःखरोगविवर्जितम्
विवाहकामी षण्मासं जपेन्नित्यं जितेन्द्रियः १९७
विश्वास-प्रस्तुतिः - १९८
आज्यहोमी सहस्रन्तु लभेत्कन्यां सुलक्षणाम्
सम्पत्कामी जपेन्नित्यं वत्सरन्तु सहस्रशः १९८
मूलम् - १९८
आज्यहोमी सहस्रन्तु लभेत्कन्यां सुलक्षणाम्
सम्पत्कामी जपेन्नित्यं वत्सरन्तु सहस्रशः १९८
विश्वास-प्रस्तुतिः - १९९
साज्यैश्च व्रीहिभिर्होमी सहस्रं श्रियमाप्नुयात्
राज्यमिन्द्रपदं वापि शिवत्वं ब्रह्मतामपि १९९
मूलम् - १९९
साज्यैश्च व्रीहिभिर्होमी सहस्रं श्रियमाप्नुयात्
राज्यमिन्द्रपदं वापि शिवत्वं ब्रह्मतामपि १९९
विश्वास-प्रस्तुतिः - २००
बहुकालं बिल्वपत्रैः कमलैर्वा जपेन्मनुम्
जुहुयाच्च जपेन्नित्यं तत्तत्प्राप्नोत्यसंशयम् २००
मूलम् - २००
बहुकालं बिल्वपत्रैः कमलैर्वा जपेन्मनुम्
जुहुयाच्च जपेन्नित्यं तत्तत्प्राप्नोत्यसंशयम् २००
विश्वास-प्रस्तुतिः - २०१
यं यं कामयते चित्ते तत्र तत्र नृपोत्तम
जुहुयान्मालतीपुष्पैरयुतं विजितेन्द्रियः २०१
मूलम् - २०१
यं यं कामयते चित्ते तत्र तत्र नृपोत्तम
जुहुयान्मालतीपुष्पैरयुतं विजितेन्द्रियः २०१
विश्वास-प्रस्तुतिः - २०२
तां तां सिद्धिमवाप्नोति पदं चाप्नोति वैष्णवम्
द्वादशार्णन मनुना पक्षे पक्षे द्विजोत्तमः २०२
मूलम् - २०२
तां तां सिद्धिमवाप्नोति पदं चाप्नोति वैष्णवम्
द्वादशार्णन मनुना पक्षे पक्षे द्विजोत्तमः २०२
विश्वास-प्रस्तुतिः - २०३
द्वादश्यां पूजयेद्विष्णुं कोमलैस्तुलसीदलैः
विष्णुतुल्य वपुः श्रीमान् मोदते परमे पदे २०३
मूलम् - २०३
द्वादश्यां पूजयेद्विष्णुं कोमलैस्तुलसीदलैः
विष्णुतुल्य वपुः श्रीमान् मोदते परमे पदे २०३
विश्वास-प्रस्तुतिः - २०४
द्वादशार्णमनोरेवं विधानं प्रोच्यते नृप
अद्य ते सम्प्रवक्ष्यामि षडक्षरमनोरिदम् २०४
मूलम् - २०४
द्वादशार्णमनोरेवं विधानं प्रोच्यते नृप
अद्य ते सम्प्रवक्ष्यामि षडक्षरमनोरिदम् २०४
विश्वास-प्रस्तुतिः - २०५
विधानं सर्वफलदं जन्ममृत्युविकृन्तनम्
ओंनमो विष्णवे चेति षडक्षरमुदाहृतम् २०५
मूलम् - २०५
विधानं सर्वफलदं जन्ममृत्युविकृन्तनम्
ओंनमो विष्णवे चेति षडक्षरमुदाहृतम् २०५
विश्वास-प्रस्तुतिः - २०६
पूर्ववत्प्रणवस्यार्थं नमःशब्द उदाहृतः
व्याप्तत्वाद्व्यापकत्वाच्च विष्णुरित्यभिधीयते २०६
मूलम् - २०६
पूर्ववत्प्रणवस्यार्थं नमःशब्द उदाहृतः
व्याप्तत्वाद्व्यापकत्वाच्च विष्णुरित्यभिधीयते २०६
विश्वास-प्रस्तुतिः - २०७
अनामयत्वादीशत्वाद्गभस्तत्वाद्घृणित्वतः
यथेष्ठफलदातृत्वाद्विष्णुरित्यभिधीयते २०७
मूलम् - २०७
अनामयत्वादीशत्वाद्गभस्तत्वाद्घृणित्वतः
यथेष्ठफलदातृत्वाद्विष्णुरित्यभिधीयते २०७
विश्वास-प्रस्तुतिः - ५६६
णकारो बलमित्युक्तः षकारः प्राण उच्यते
र्
५६६
मूलम् - ५६६
णकारो बलमित्युक्तः षकारः प्राण उच्यते
र्
५६६
विश्वास-प्रस्तुतिः - २०९
तस्माण्णकारषकारावनुसंहितमुत्तमम्
सप्राणं सबलं देव संहितामुत्तमां तु यः २०९
मूलम् - २०९
तस्माण्णकारषकारावनुसंहितमुत्तमम्
सप्राणं सबलं देव संहितामुत्तमां तु यः २०९
विश्वास-प्रस्तुतिः - २१०
तस्यैवायुष्यमित्युक्तं नेतरस्यैव च श्रुतेः
एतदेव हि विद्वांसो वक्ष्यन्ते ये महर्षयः २१०
मूलम् - २१०
तस्यैवायुष्यमित्युक्तं नेतरस्यैव च श्रुतेः
एतदेव हि विद्वांसो वक्ष्यन्ते ये महर्षयः २१०
विश्वास-प्रस्तुतिः - २११
एवं वक्ष्यामहे किन्तु किमुत व्याख्यामहे वयम्
इमौ णकारषकारावसुसंहितमेति यत् २११
मूलम् - २११
एवं वक्ष्यामहे किन्तु किमुत व्याख्यामहे वयम्
इमौ णकारषकारावसुसंहितमेति यत् २११
विश्वास-प्रस्तुतिः - २१२
तदेव विष्णुः कृष्णेति जिष्णुरित्यभिधीयते
विष्णवे नम इत्येष मन्त्रः सर्वफलप्रदः २१२
मूलम् - २१२
तदेव विष्णुः कृष्णेति जिष्णुरित्यभिधीयते
विष्णवे नम इत्येष मन्त्रः सर्वफलप्रदः २१२
विश्वास-प्रस्तुतिः - २१३
ऐश्वर्यं तु विकारः स्यात्तादात्म्याण्णद्वयं स्मृतम्
ऐश्वर्य्यद्वयबीजं स्याद्विष्णुमन्त्रमनुत्तमम् २१३
मूलम् - २१३
ऐश्वर्यं तु विकारः स्यात्तादात्म्याण्णद्वयं स्मृतम्
ऐश्वर्य्यद्वयबीजं स्याद्विष्णुमन्त्रमनुत्तमम् २१३
विश्वास-प्रस्तुतिः - २१४
तत् षडर्णविधानेन केवलं वै जपेमहि
इत्युक्त्वा मुनयः सर्वे वेदवेदान्तपारगाः २१४
मूलम् - २१४
तत् षडर्णविधानेन केवलं वै जपेमहि
इत्युक्त्वा मुनयः सर्वे वेदवेदान्तपारगाः २१४
विश्वास-प्रस्तुतिः - २१५
परित्यज्येतरं धर्मं तदेकशरणं गताः
एवं महामनुं जप्त्वा विधानेनाच्युतं गताः २१५
मूलम् - २१५
परित्यज्येतरं धर्मं तदेकशरणं गताः
एवं महामनुं जप्त्वा विधानेनाच्युतं गताः २१५
विश्वास-प्रस्तुतिः - २१६
तस्मादेतन्महामन्त्रं सर्वसिद्धिप्रदं नृप
सकृदुच्चारणेनास्य हरिस्तत्र प्रसीदति २१६
मूलम् - २१६
तस्मादेतन्महामन्त्रं सर्वसिद्धिप्रदं नृप
सकृदुच्चारणेनास्य हरिस्तत्र प्रसीदति २१६
विश्वास-प्रस्तुतिः - २१७
ब्रह्माद्याः सनकाद्याश्च मुनयश्च जपन्ति हि
छन्दस्तु तस्य गायत्री देवता विष्णुरच्युतः २१७
मूलम् - २१७
ब्रह्माद्याः सनकाद्याश्च मुनयश्च जपन्ति हि
छन्दस्तु तस्य गायत्री देवता विष्णुरच्युतः २१७
विश्वास-प्रस्तुतिः - २१८
स्यादोम्बीजं नमः शक्तिर्मनोरस्य प्रकीर्तितम्
त्रिभिः पदैः षडङ्गेषु यथासंख्यं सुविन्यसेत् २१८
मूलम् - २१८
स्यादोम्बीजं नमः शक्तिर्मनोरस्य प्रकीर्तितम्
त्रिभिः पदैः षडङ्गेषु यथासंख्यं सुविन्यसेत् २१८
विश्वास-प्रस्तुतिः - २१९
अङ्गुलीष्वपि चाङ्गेषु मन्त्रार्णानि यथाक्रमात्
मूर्ध्न्यास्ये हृदये वाह्वोः पृष्ठे गुह्ये यथाक्रमम् २१९
मूलम् - २१९
अङ्गुलीष्वपि चाङ्गेषु मन्त्रार्णानि यथाक्रमात्
मूर्ध्न्यास्ये हृदये वाह्वोः पृष्ठे गुह्ये यथाक्रमम् २१९
विश्वास-प्रस्तुतिः - २२०
विन्यस्य चक्रन्यासं च पश्चाद्ध्यानेषु तन्मयम्
प्रणवेनोन्मुखीकृत्य हृत्पङ्कजमधोमुखम् २२०
मूलम् - २२०
विन्यस्य चक्रन्यासं च पश्चाद्ध्यानेषु तन्मयम्
प्रणवेनोन्मुखीकृत्य हृत्पङ्कजमधोमुखम् २२०
५६७
तस्योपरि च वह्न्यर्कसोमबिम्बानि चिन्तयेत् २२१
विश्वास-प्रस्तुतिः - २२२
तत्र रत्नमयं पीठं तन्मध्येऽष्टदलाम्बुजम्
तस्मिन् कोटिशशाङ्काभं सर्वलक्षणलक्षितम् २२२
मूलम् - २२२
तत्र रत्नमयं पीठं तन्मध्येऽष्टदलाम्बुजम्
तस्मिन् कोटिशशाङ्काभं सर्वलक्षणलक्षितम् २२२
विश्वास-प्रस्तुतिः - २२३
चतुर्भुजं सुन्दराङ्गं युवानं पद्मलोचनम्
कोटिकन्दर्पलावण्यं नीलभ्रूलतिकालकम् २२३
मूलम् - २२३
चतुर्भुजं सुन्दराङ्गं युवानं पद्मलोचनम्
कोटिकन्दर्पलावण्यं नीलभ्रूलतिकालकम् २२३
विश्वास-प्रस्तुतिः - २२४
श्लक्ष्णनासं रक्तगण्डं बिम्बितोज्ज्वलकुण्डलम्
शङ्खचक्रगदापद्मधारणं दोर्भिरुज्वलैः २२४
मूलम् - २२४
श्लक्ष्णनासं रक्तगण्डं बिम्बितोज्ज्वलकुण्डलम्
शङ्खचक्रगदापद्मधारणं दोर्भिरुज्वलैः २२४
विश्वास-प्रस्तुतिः - २२५
केयूराङ्गदहाराद्यैर्भूषणैश्चन्दनैरपि
अलङ्कृतं गन्धपुष्पै रक्तहस्ताङ्घ्रिपङ्कजम् २२५
मूलम् - २२५
केयूराङ्गदहाराद्यैर्भूषणैश्चन्दनैरपि
अलङ्कृतं गन्धपुष्पै रक्तहस्ताङ्घ्रिपङ्कजम् २२५
विश्वास-प्रस्तुतिः - २२६
मुक्ताफलाभदन्तालिं वनमालाविभूषितम्
श्रीवत्सकौस्तुभोरस्कं दिव्यपीताम्बरं हरिम् २२६
मूलम् - २२६
मुक्ताफलाभदन्तालिं वनमालाविभूषितम्
श्रीवत्सकौस्तुभोरस्कं दिव्यपीताम्बरं हरिम् २२६
विश्वास-प्रस्तुतिः - २२७
तप्तकाञ्चनवर्णाभं पद्मया पद्महस्तया
समाश्लिष्टममुं देवं ध्यात्वा विष्णुमयो भवेत् २२७
मूलम् - २२७
तप्तकाञ्चनवर्णाभं पद्मया पद्महस्तया
समाश्लिष्टममुं देवं ध्यात्वा विष्णुमयो भवेत् २२७
विश्वास-प्रस्तुतिः - २२८
मनसैवोपचाराणि कृत्वा मन्त्रं जपेत्ततः
त्रिसन्ध्यासु जपेन्नित्यं सहस्रं साष्टकं द्विजः २२८
मूलम् - २२८
मनसैवोपचाराणि कृत्वा मन्त्रं जपेत्ततः
त्रिसन्ध्यासु जपेन्नित्यं सहस्रं साष्टकं द्विजः २२८
विश्वास-प्रस्तुतिः - २२९
विष्णोर्लोकमवाप्नोति पुनरावृत्तिवर्जितम्
पूर्ववज्जपहोमाज्यं कृत्वा सिद्धिं नरो लभेत् २२९
मूलम् - २२९
विष्णोर्लोकमवाप्नोति पुनरावृत्तिवर्जितम्
पूर्ववज्जपहोमाज्यं कृत्वा सिद्धिं नरो लभेत् २२९
विश्वास-प्रस्तुतिः - २३०
भगवत्सन्निधौ वापि तुलसीकाननेऽपि वा
समाहितमना जप्त्वा षडर्णं नियतेन्द्रियः २३०
मूलम् - २३०
भगवत्सन्निधौ वापि तुलसीकाननेऽपि वा
समाहितमना जप्त्वा षडर्णं नियतेन्द्रियः २३०
विश्वास-प्रस्तुतिः - २३१
तिलहोमायुतं कृत्वा सर्वसिद्धिमवाप्नुयात्
एवं विष्णुमनोः प्रोक्तं विधानं नृपसत्तम २३१
मूलम् - २३१
तिलहोमायुतं कृत्वा सर्वसिद्धिमवाप्नुयात्
एवं विष्णुमनोः प्रोक्तं विधानं नृपसत्तम २३१
विश्वास-प्रस्तुतिः - २३२
विधानैरधुनाऽमुष्य मस्त्रस्यापि ब्रवीमि ते
षडक्षरं दाशरथेस्तारकब्रह्म कथ्यते २३२
मूलम् - २३२
विधानैरधुनाऽमुष्य मस्त्रस्यापि ब्रवीमि ते
षडक्षरं दाशरथेस्तारकब्रह्म कथ्यते २३२
विश्वास-प्रस्तुतिः - २३३
सर्वैश्वर्यप्रदं नॄणां सर्वकामफलप्रदम्
एतमेव परं मन्त्रं ब्रह्मरुद्रादिदेवताः २३३
मूलम् - २३३
सर्वैश्वर्यप्रदं नॄणां सर्वकामफलप्रदम्
एतमेव परं मन्त्रं ब्रह्मरुद्रादिदेवताः २३३
विश्वास-प्रस्तुतिः - ५६८
ऋषयश्च महात्मानो मुक्त्वा जप्त्वा भवाम्बुधौ
र्
५६८
मूलम् - ५६८
ऋषयश्च महात्मानो मुक्त्वा जप्त्वा भवाम्बुधौ
र्
५६८
विश्वास-प्रस्तुतिः - २३५
ब्रह्मत्वं काश्यपो जप्त्वा कौशिकस्त्वमरेशताम्
कार्त्तिकेयो मनुत्वञ्च इन्द्रार्कौ गिरिनारदौ २३५
मूलम् - २३५
ब्रह्मत्वं काश्यपो जप्त्वा कौशिकस्त्वमरेशताम्
कार्त्तिकेयो मनुत्वञ्च इन्द्रार्कौ गिरिनारदौ २३५
विश्वास-प्रस्तुतिः - २३६
बालखिल्यादिमुनयो देवतात्वं प्रपेदिरे
एष वै सर्वलोकानामैश्वर्यस्यैव कारणम् २३६
मूलम् - २३६
बालखिल्यादिमुनयो देवतात्वं प्रपेदिरे
एष वै सर्वलोकानामैश्वर्यस्यैव कारणम् २३६
विश्वास-प्रस्तुतिः - २३७
इममेव जपेन्मन्त्रं रुद्रस्त्रिपुरघातकः
ब्रह्महत्यादि निर्मुक्तः पूज्यमानोऽभवत्सुरैः २३७
मूलम् - २३७
इममेव जपेन्मन्त्रं रुद्रस्त्रिपुरघातकः
ब्रह्महत्यादि निर्मुक्तः पूज्यमानोऽभवत्सुरैः २३७
विश्वास-प्रस्तुतिः - २३८
अद्यापि काश्यां रुद्रस्तु सर्वेषां त्यक्तजीविनाम्
दिशत्येतन्महामन्त्रं तारकब्रह्मनामकम् २३८
मूलम् - २३८
अद्यापि काश्यां रुद्रस्तु सर्वेषां त्यक्तजीविनाम्
दिशत्येतन्महामन्त्रं तारकब्रह्मनामकम् २३८
विश्वास-प्रस्तुतिः - २३९
तस्य श्रवणमात्रेण सर्व एव दिवं गताः
श्रीरामाय नमो ह्येष तारकब्रह्मनामकः २३९
मूलम् - २३९
तस्य श्रवणमात्रेण सर्व एव दिवं गताः
श्रीरामाय नमो ह्येष तारकब्रह्मनामकः २३९
विश्वास-प्रस्तुतिः - २४०
अनन्तो भगवन्मत्रो नानेव तु समाः कृताः
श्रियो रमणसामर्थ्यात्सौकर्यगुणगौरवात् २४०
मूलम् - २४०
अनन्तो भगवन्मत्रो नानेव तु समाः कृताः
श्रियो रमणसामर्थ्यात्सौकर्यगुणगौरवात् २४०
विश्वास-प्रस्तुतिः - २४१
श्रीराम इति नामेदं तस्य विष्णोः प्रकीर्तितम्
रमया नित्ययुक्तत्वाद्राम इत्यभिधीयते २४१
मूलम् - २४१
श्रीराम इति नामेदं तस्य विष्णोः प्रकीर्तितम्
रमया नित्ययुक्तत्वाद्राम इत्यभिधीयते २४१
विश्वास-प्रस्तुतिः - २४२
रकारमैश्वर्यबीजं मकारस्तेन संयुतः
अवधारणयोगेन रामेत्यस्मान्मनोः स्मृतः २४२
मूलम् - २४२
रकारमैश्वर्यबीजं मकारस्तेन संयुतः
अवधारणयोगेन रामेत्यस्मान्मनोः स्मृतः २४२
विश्वास-प्रस्तुतिः - २४३
शक्तिः श्रीरुच्यते राजन् सर्व्वाभीष्टफलप्रदा
श्रियो मनोरमो योऽसौ स राम इति विश्रुतः २४३
मूलम् - २४३
शक्तिः श्रीरुच्यते राजन् सर्व्वाभीष्टफलप्रदा
श्रियो मनोरमो योऽसौ स राम इति विश्रुतः २४३
विश्वास-प्रस्तुतिः - २४४
चतुर्थ्या नमसश्चैव सोऽर्थः पूर्ववदेव हि
ब्रह्मा विष्णुश्च रुद्रश्च अगस्त्याद्या महर्षयः २४४
मूलम् - २४४
चतुर्थ्या नमसश्चैव सोऽर्थः पूर्ववदेव हि
ब्रह्मा विष्णुश्च रुद्रश्च अगस्त्याद्या महर्षयः २४४
विश्वास-प्रस्तुतिः - २४५
छन्दश्च परमा देवी गायत्री समुदाहृता
श्रीरामो देवता प्रोक्तः सर्वैश्वर्यप्रदो हरिः २४५
मूलम् - २४५
छन्दश्च परमा देवी गायत्री समुदाहृता
श्रीरामो देवता प्रोक्तः सर्वैश्वर्यप्रदो हरिः २४५
विश्वास-प्रस्तुतिः - २४६
अङ्गुलीष्वपि चाङ्गेषु न्यासकर्माद्यवीजतः
मूर्ध्न्यास्ये हृदये पृष्ठे गुह्ये चरणयोस्तथा २४६
मूलम् - २४६
अङ्गुलीष्वपि चाङ्गेषु न्यासकर्माद्यवीजतः
मूर्ध्न्यास्ये हृदये पृष्ठे गुह्ये चरणयोस्तथा २४६
विश्वास-प्रस्तुतिः - २४७
वैष्णवाच्च गुरोः पञ्चसंस्कारविधिपूर्वकम्
अधीत्य मन्त्रं विधिना पश्चाद्देवं जपेद्बुधः २४७
मूलम् - २४७
वैष्णवाच्च गुरोः पञ्चसंस्कारविधिपूर्वकम्
अधीत्य मन्त्रं विधिना पश्चाद्देवं जपेद्बुधः २४७
विश्वास-प्रस्तुतिः - २४८
ब्राह्मणाः क्षत्त्रिया वैश्याः स्त्रियः शूद्रास्तथेतराः
मन्त्राधिकारिणः सर्वे ह्यनन्यशरणा यदि २४८
मूलम् - २४८
ब्राह्मणाः क्षत्त्रिया वैश्याः स्त्रियः शूद्रास्तथेतराः
मन्त्राधिकारिणः सर्वे ह्यनन्यशरणा यदि २४८
विश्वास-प्रस्तुतिः - २४९
स्नानादिकृतकृत्यः सन्नूर्ध्वपुण्ड्रः पवित्रधृत्
कृष्णाजिने समासीनः प्राणायामी च न्यासकृत् २४९
मूलम् - २४९
स्नानादिकृतकृत्यः सन्नूर्ध्वपुण्ड्रः पवित्रधृत्
कृष्णाजिने समासीनः प्राणायामी च न्यासकृत् २४९
विश्वास-प्रस्तुतिः - २५०
ध्यायेत्कमलपत्राक्षं जानकीसहितं हरिम्
नैव ध्यानं प्रकुर्वीत विग्रहे सति शार्ङ्गिणः २५०
मूलम् - २५०
ध्यायेत्कमलपत्राक्षं जानकीसहितं हरिम्
नैव ध्यानं प्रकुर्वीत विग्रहे सति शार्ङ्गिणः २५०
विश्वास-प्रस्तुतिः - २५१
चन्दनागुरुकर्पूरवासिते रत्नमण्डपे
वितानैः पुष्पमालाद्यैर्धूपैर्दिव्यैर्विराजिते २५१
मूलम् - २५१
चन्दनागुरुकर्पूरवासिते रत्नमण्डपे
वितानैः पुष्पमालाद्यैर्धूपैर्दिव्यैर्विराजिते २५१
विश्वास-प्रस्तुतिः - २५२
तन्मध्ये कल्पवृक्षस्य छायायां परमासने
नानारत्नमये दिव्ये सौवर्ण सुमनोहरे २५२
मूलम् - २५२
तन्मध्ये कल्पवृक्षस्य छायायां परमासने
नानारत्नमये दिव्ये सौवर्ण सुमनोहरे २५२
विश्वास-प्रस्तुतिः - २५३
तस्मिन् बालार्क सङ्काशे पङ्कजेऽष्टदले शुभे
वीरासने समासीनं वामाङ्काश्रितसीतया २५३
मूलम् - २५३
तस्मिन् बालार्क सङ्काशे पङ्कजेऽष्टदले शुभे
वीरासने समासीनं वामाङ्काश्रितसीतया २५३
विश्वास-प्रस्तुतिः - २५४
सुस्निग्धशाद्बलश्यामं कोटिवैश्वानरप्रभम्
युवानं पद्मपत्राक्षं कनकाम्बरशोभितम् २५४
मूलम् - २५४
सुस्निग्धशाद्बलश्यामं कोटिवैश्वानरप्रभम्
युवानं पद्मपत्राक्षं कनकाम्बरशोभितम् २५४
विश्वास-प्रस्तुतिः - २५५
सिंहस्कन्धानुरूपांसं कम्बुग्रीवं महाहनुम्
पीनवृत्तायतस्निन्धमहाबाहुचतुष्टयम् २५५
मूलम् - २५५
सिंहस्कन्धानुरूपांसं कम्बुग्रीवं महाहनुम्
पीनवृत्तायतस्निन्धमहाबाहुचतुष्टयम् २५५
विश्वास-प्रस्तुतिः - २५६
विशालवक्षसं रक्तहस्तपादतलं शुभम्
बिन्धूकस्मितमुक्ताभदन्तौष्ठद्वयशोभितम् २५६
मूलम् - २५६
विशालवक्षसं रक्तहस्तपादतलं शुभम्
बिन्धूकस्मितमुक्ताभदन्तौष्ठद्वयशोभितम् २५६
विश्वास-प्रस्तुतिः - २५७
पूर्णचन्द्राननं स्निग्धं भ्रूयुगं घननासिकम्
रम्भोरुद्वयमानीलकुन्तलं स्मितचन्द्रनम् २५७
मूलम् - २५७
पूर्णचन्द्राननं स्निग्धं भ्रूयुगं घननासिकम्
रम्भोरुद्वयमानीलकुन्तलं स्मितचन्द्रनम् २५७
विश्वास-प्रस्तुतिः - २५८
तरुणादित्यसङ्काशकुण्डलाभ्यां विराजितम्
हारकेयूरकटकैरङ्गुलीयैश्च भूषणैः २५८
मूलम् - २५८
तरुणादित्यसङ्काशकुण्डलाभ्यां विराजितम्
हारकेयूरकटकैरङ्गुलीयैश्च भूषणैः २५८
विश्वास-प्रस्तुतिः - २५९
श्रीवत्सकौस्तुभाभ्याञ्च वैजयन्त्या विभूषितम्
हरिचन्दनलिप्ताङ्गं कस्तुरीतिलकाञ्चितम् २५९
मूलम् - २५९
श्रीवत्सकौस्तुभाभ्याञ्च वैजयन्त्या विभूषितम्
हरिचन्दनलिप्ताङ्गं कस्तुरीतिलकाञ्चितम् २५९
५७०
विश्वास-प्रस्तुतिः - २६०
शङ्खचक्रधनुर्वाणान् विभ्राणं दोर्भिरायतैः
वामाङ्के सुस्थितां देवीं तप्तकाञ्चनसन्निभाम् २६०
मूलम् - २६०
शङ्खचक्रधनुर्वाणान् विभ्राणं दोर्भिरायतैः
वामाङ्के सुस्थितां देवीं तप्तकाञ्चनसन्निभाम् २६०
विश्वास-प्रस्तुतिः - २६१
पद्माक्षीं पद्मवदनां नीलकुन्तलशीर्षजाम्
आरूढयौवनां नित्यां पीनोन्नतपयोधराम् २६१
मूलम् - २६१
पद्माक्षीं पद्मवदनां नीलकुन्तलशीर्षजाम्
आरूढयौवनां नित्यां पीनोन्नतपयोधराम् २६१
विश्वास-प्रस्तुतिः - २६२
दुकूलवस्त्रसम्बीतां भूषणैरुपशोभिताम्
भजन्तां कामदां पद्महस्तां सीतां विचिन्तयेत् २६२
मूलम् - २६२
दुकूलवस्त्रसम्बीतां भूषणैरुपशोभिताम्
भजन्तां कामदां पद्महस्तां सीतां विचिन्तयेत् २६२
विश्वास-प्रस्तुतिः - २६३
लक्ष्मणं पश्चिमे भागे धृतच्छत्रं महाबलम्
पार्श्वे भरतशत्रुघ्नौ बालव्यजनपाणिनौ २६३
मूलम् - २६३
लक्ष्मणं पश्चिमे भागे धृतच्छत्रं महाबलम्
पार्श्वे भरतशत्रुघ्नौ बालव्यजनपाणिनौ २६३
विश्वास-प्रस्तुतिः - २६४
अग्रतस्तु हनूमन्तं बद्धाञ्जलिपुटं तथा
सुग्रीवं जाम्बवन्तञ्च सुषेणञ्च विभीषणम् २६४
मूलम् - २६४
अग्रतस्तु हनूमन्तं बद्धाञ्जलिपुटं तथा
सुग्रीवं जाम्बवन्तञ्च सुषेणञ्च विभीषणम् २६४
विश्वास-प्रस्तुतिः - २६५
नीलं नलञ्चाङ्गदञ्च ऋषभं दिक्षु पूजयेत्
वशिष्ठो वामदेवश्च जाबालिरथ कश्यपः २६५
मूलम् - २६५
नीलं नलञ्चाङ्गदञ्च ऋषभं दिक्षु पूजयेत्
वशिष्ठो वामदेवश्च जाबालिरथ कश्यपः २६५
विश्वास-प्रस्तुतिः - २६६
मार्कण्डेयश्च मौद्गल्यस्तथा पर्वतनारदौ
द्वितीयावरणं प्रोक्तं रामस्य परमात्मनः २६६
मूलम् - २६६
मार्कण्डेयश्च मौद्गल्यस्तथा पर्वतनारदौ
द्वितीयावरणं प्रोक्तं रामस्य परमात्मनः २६६
विश्वास-प्रस्तुतिः - २६७
धृष्टिर्जयतो विजयः सुराष्ट्रो राष्ट्रवर्धनः
अलको धर्मपालश्च सुमन्तुश्चाष्टमन्त्रिणः २६७
मूलम् - २६७
धृष्टिर्जयतो विजयः सुराष्ट्रो राष्ट्रवर्धनः
अलको धर्मपालश्च सुमन्तुश्चाष्टमन्त्रिणः २६७
विश्वास-प्रस्तुतिः - २६८
तृतीयावरणं तस्य तत्र चन्द्रादिदेवताः
कुमुदाद्याश्च चण्डाद्या विमाने चान्तरीयकाः २६८
मूलम् - २६८
तृतीयावरणं तस्य तत्र चन्द्रादिदेवताः
कुमुदाद्याश्च चण्डाद्या विमाने चान्तरीयकाः २६८
विश्वास-प्रस्तुतिः - २६९
एवं ध्यात्वा जगन्नाथं पूजयेन्मनसाऽपि वा
षट्सहस्रं जपेन्मन्त्रं जुहुयाच्च सहस्रकम् २६९
मूलम् - २६९
एवं ध्यात्वा जगन्नाथं पूजयेन्मनसाऽपि वा
षट्सहस्रं जपेन्मन्त्रं जुहुयाच्च सहस्रकम् २६९
विश्वास-प्रस्तुतिः - २७०
जुहुयाच्चरुणा वापि शतं पुष्पाञ्जलिं न्यसेत्
एवं संपूज्य देवेशं यावज्जीवमतन्द्रितः २७०
मूलम् - २७०
जुहुयाच्चरुणा वापि शतं पुष्पाञ्जलिं न्यसेत्
एवं संपूज्य देवेशं यावज्जीवमतन्द्रितः २७०
विश्वास-प्रस्तुतिः - २७१
तद्देहपतने तस्य सारूप्यं परमे पदे
विद्या स्त्री राज्यवित्ताद्यं यं यं कामयते हृदि २७१
मूलम् - २७१
तद्देहपतने तस्य सारूप्यं परमे पदे
विद्या स्त्री राज्यवित्ताद्यं यं यं कामयते हृदि २७१
विश्वास-प्रस्तुतिः - २७२
अन्यं देवं नमस्कृत्वा सर्वसिद्धिमवाप्नुयात्
विना वै वैष्णवं मन्त्रमन्यमन्त्रान्विसर्जयेत् २७२
मूलम् - २७२
अन्यं देवं नमस्कृत्वा सर्वसिद्धिमवाप्नुयात्
विना वै वैष्णवं मन्त्रमन्यमन्त्रान्विसर्जयेत् २७२
विश्वास-प्रस्तुतिः - २७३
तमेव पूजयेद्रामं तन्मन्त्रं वै जपेत्सदा
अन्यथा नाशमाप्नोति इह लोके परत्र च २७३
मूलम् - २७३
तमेव पूजयेद्रामं तन्मन्त्रं वै जपेत्सदा
अन्यथा नाशमाप्नोति इह लोके परत्र च २७३
विश्वास-प्रस्तुतिः - २७४
अद्वितीयं यदा मन्त्रं तारकब्रह्मतामकम्
जपित्वा सिद्धिमाप्नोति अन्यथा नाशमाप्नुयात् २७४
मूलम् - २७४
अद्वितीयं यदा मन्त्रं तारकब्रह्मतामकम्
जपित्वा सिद्धिमाप्नोति अन्यथा नाशमाप्नुयात् २७४
विश्वास-प्रस्तुतिः - २७५
सावित्री मन्त्ररत्नञ्च तथा मन्त्रद्वयं शुभम्
सर्वमन्त्रं जपेत्पूर्वं संसिध्यर्थं जपेत्सदा २७५
मूलम् - २७५
सावित्री मन्त्ररत्नञ्च तथा मन्त्रद्वयं शुभम्
सर्वमन्त्रं जपेत्पूर्वं संसिध्यर्थं जपेत्सदा २७५
विश्वास-प्रस्तुतिः - २७६
अजप्यैतान्महामन्त्रान्न तु संसिद्धिमाप्नुयात्
तस्माच्छक्त्या जपित्वैतान् पश्चान्मन्त्रं प्रयोजयेत् २७६
मूलम् - २७६
अजप्यैतान्महामन्त्रान्न तु संसिद्धिमाप्नुयात्
तस्माच्छक्त्या जपित्वैतान् पश्चान्मन्त्रं प्रयोजयेत् २७६
विश्वास-प्रस्तुतिः - २७७
विद्यास्त्रीवित्तराज्यादिरूपारोग्यजयार्थिनः
पुष्पाज्यबिल्वरक्ताब्ज जातिदूर्वाङ्कुरैस्तथा २७७
मूलम् - २७७
विद्यास्त्रीवित्तराज्यादिरूपारोग्यजयार्थिनः
पुष्पाज्यबिल्वरक्ताब्ज जातिदूर्वाङ्कुरैस्तथा २७७
विश्वास-प्रस्तुतिः - २७८
आरक्तकरवीरैश्च हुत्वा सिद्धिमवाप्नुयुः
सर्वसिद्धिमवाप्नोति तिलहोमेन वैष्णवः २७८
मूलम् - २७८
आरक्तकरवीरैश्च हुत्वा सिद्धिमवाप्नुयुः
सर्वसिद्धिमवाप्नोति तिलहोमेन वैष्णवः २७८
विश्वास-प्रस्तुतिः - २७९
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा
सायं प्रातश्च जुहुयात्षण्मासं विजितेन्द्रियः २७९
मूलम् - २७९
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा
सायं प्रातश्च जुहुयात्षण्मासं विजितेन्द्रियः २७९
विश्वास-प्रस्तुतिः - २८०
यावज्जीवं जपेद्यस्तु भक्त्या राममनुस्मरन्
सदारपुत्रः सगणः प्रेत्य स्वर्गे महीयते २८०
मूलम् - २८०
यावज्जीवं जपेद्यस्तु भक्त्या राममनुस्मरन्
सदारपुत्रः सगणः प्रेत्य स्वर्गे महीयते २८०
विश्वास-प्रस्तुतिः - २८१
षट्कारयुक्तं स्वाहान्तं रामास्त्रं सम्प्रकीर्तितम्
सर्वापत्सु जपेन्मन्त्रं रामं ध्यात्वा महाबलम् २८१
मूलम् - २८१
षट्कारयुक्तं स्वाहान्तं रामास्त्रं सम्प्रकीर्तितम्
सर्वापत्सु जपेन्मन्त्रं रामं ध्यात्वा महाबलम् २८१
विश्वास-प्रस्तुतिः - २८२
चोराग्निशत्रुसम्बाधे तथा रागभयेषु च
तोयवातग्रहादिभ्यो भयेषु च सभक्तिकम् २८२
मूलम् - २८२
चोराग्निशत्रुसम्बाधे तथा रागभयेषु च
तोयवातग्रहादिभ्यो भयेषु च सभक्तिकम् २८२
विश्वास-प्रस्तुतिः - २८३
शङ्खचक्रधनुर्वाणपाणिनं सुमहाबलम्
लक्ष्मणानुचरं रामं ध्यात्वा राक्षसनाशनम् २८३
मूलम् - २८३
शङ्खचक्रधनुर्वाणपाणिनं सुमहाबलम्
लक्ष्मणानुचरं रामं ध्यात्वा राक्षसनाशनम् २८३
विश्वास-प्रस्तुतिः - २८४
सहस्रन्तु जपेन्मन्त्रं सर्वापद्भ्यो विमुच्यते
सूर्योदये यथा नाशमुपैति ध्वान्तमाशु वै २८४
मूलम् - २८४
सहस्रन्तु जपेन्मन्त्रं सर्वापद्भ्यो विमुच्यते
सूर्योदये यथा नाशमुपैति ध्वान्तमाशु वै २८४
विश्वास-प्रस्तुतिः - २८५
तथैव रामस्मरणाद्विनाशं यान्त्युपद्रवाः
एवं श्रीराममन्त्रस्य विधानं ज्ञायते नृप २८५
मूलम् - २८५
तथैव रामस्मरणाद्विनाशं यान्त्युपद्रवाः
एवं श्रीराममन्त्रस्य विधानं ज्ञायते नृप २८५
५७२
विश्वास-प्रस्तुतिः - २८६
विधानं कृष्णमन्त्रस्य वक्ष्यामि शृणु पार्थिव
श्रीकृष्णाय नमो ह्येष मन्त्रः सर्वार्थसाधकः २८६
मूलम् - २८६
विधानं कृष्णमन्त्रस्य वक्ष्यामि शृणु पार्थिव
श्रीकृष्णाय नमो ह्येष मन्त्रः सर्वार्थसाधकः २८६
विश्वास-प्रस्तुतिः - २८७
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्त्तते
भस्मीभवन्ति राजेन्द्र मह्यपातककोटयः २८७
मूलम् - २८७
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्त्तते
भस्मीभवन्ति राजेन्द्र मह्यपातककोटयः २८७
विश्वास-प्रस्तुतिः - २८८
सकृत्कृष्णेति यो ब्रूयाद्भक्त्या वापि च मानवः
पापकोटिविनिर्मुक्तो विष्णुलोकमवाप्नुयात् २८८
मूलम् - २८८
सकृत्कृष्णेति यो ब्रूयाद्भक्त्या वापि च मानवः
पापकोटिविनिर्मुक्तो विष्णुलोकमवाप्नुयात् २८८
विश्वास-प्रस्तुतिः - २८९
अश्वमेधसहस्राणि राजसूयशतानि च
भक्त्या कृष्णमनुं जप्त्वा समाप्नोति न संशयः २८९
मूलम् - २८९
अश्वमेधसहस्राणि राजसूयशतानि च
भक्त्या कृष्णमनुं जप्त्वा समाप्नोति न संशयः २८९
विश्वास-प्रस्तुतिः - २९०
गवाञ्च कन्यकानाञ्च ग्रामाणाञ्चायुतानि च
दत्त्वा गोदावरी कृष्णा यमुना च सरस्वती २९०
मूलम् - २९०
गवाञ्च कन्यकानाञ्च ग्रामाणाञ्चायुतानि च
दत्त्वा गोदावरी कृष्णा यमुना च सरस्वती २९०
विश्वास-प्रस्तुतिः - २९१
कावेरी चन्द्रभागादिस्नानं कृष्णेति योऽसमम्
कृष्णेति पञ्चकृज्जप्त्वा सर्वतीर्थफलं लभेत् २९१
मूलम् - २९१
कावेरी चन्द्रभागादिस्नानं कृष्णेति योऽसमम्
कृष्णेति पञ्चकृज्जप्त्वा सर्वतीर्थफलं लभेत् २९१
विश्वास-प्रस्तुतिः - २९२
कोटिजन्मार्जितं पापं ज्ञानतोऽज्ञानतः कृतम्
भक्त्या कृष्णमनुं जप्त्वा दह्यते तूलराशिवत् २९२
मूलम् - २९२
कोटिजन्मार्जितं पापं ज्ञानतोऽज्ञानतः कृतम्
भक्त्या कृष्णमनुं जप्त्वा दह्यते तूलराशिवत् २९२
विश्वास-प्रस्तुतिः - २९३
अगम्यागमनात्पापादभक्ष्याणाञ्च भक्षणात्
सकृत्कृष्णमनुं जप्त्वा मुच्यते नात्र संशयः २९३
मूलम् - २९३
अगम्यागमनात्पापादभक्ष्याणाञ्च भक्षणात्
सकृत्कृष्णमनुं जप्त्वा मुच्यते नात्र संशयः २९३
विश्वास-प्रस्तुतिः - २९४
सकृद्भूवाचकः शब्दो णश्च निर्वृतिवाचकः
उभयोः सङ्गतिर्यत्र तद्ब्रह्मेत्यभिधीयते २९४
मूलम् - २९४
सकृद्भूवाचकः शब्दो णश्च निर्वृतिवाचकः
उभयोः सङ्गतिर्यत्र तद्ब्रह्मेत्यभिधीयते २९४
विश्वास-प्रस्तुतिः - २९५
णकारश्च षकारश्च बलप्राणा वुभौ स्मृतौ
आत्मन्येतौ समायुक्तौ जगतोऽस्यापि कृष्णतः २९५
मूलम् - २९५
णकारश्च षकारश्च बलप्राणा वुभौ स्मृतौ
आत्मन्येतौ समायुक्तौ जगतोऽस्यापि कृष्णतः २९५
विश्वास-प्रस्तुतिः - २९६
तस्मात्कृष्णेति मन्त्रोऽयं वाचकः परमात्मनः
कृष्णेति परमो मन्त्रः सर्ववेदाधिकः स्मृतः २९६
मूलम् - २९६
तस्मात्कृष्णेति मन्त्रोऽयं वाचकः परमात्मनः
कृष्णेति परमो मन्त्रः सर्ववेदाधिकः स्मृतः २९६
विश्वास-प्रस्तुतिः - २९७
श्रियः सतः प्राणपदात् श्रीकृष्ण इति वै स्मृतः
एवमर्थं विदित्वैव पश्चान्मन्त्रं जपेद्बुधः २९७
मूलम् - २९७
श्रियः सतः प्राणपदात् श्रीकृष्ण इति वै स्मृतः
एवमर्थं विदित्वैव पश्चान्मन्त्रं जपेद्बुधः २९७
विश्वास-प्रस्तुतिः - २९८
सर्वकामप्रदत्वाच्च बीजं कान्दर्पमुच्यते
नित्यानपाया श्रीशक्तिर्मनोरस्य प्रयुज्यते २९८
मूलम् - २९८
सर्वकामप्रदत्वाच्च बीजं कान्दर्पमुच्यते
नित्यानपाया श्रीशक्तिर्मनोरस्य प्रयुज्यते २९८
विश्वास-प्रस्तुतिः - २९९
देवर्षिर्नारदस्तस्य गायत्री छन्द उच्यते
देवता रुक्मिणी भर्त्ता कृष्णः सर्वफलप्रदः २९९
मूलम् - २९९
देवर्षिर्नारदस्तस्य गायत्री छन्द उच्यते
देवता रुक्मिणी भर्त्ता कृष्णः सर्वफलप्रदः २९९
विश्वास-प्रस्तुतिः - ३००
पूर्ववद्विधिना मन्त्रं गृहीत्वा वैष्णवाद्गुरोः
स्नानवस्त्रादिभिः शुद्धः कृत्यं कृत्वोर्ध्वपुण्ड्रधृत् ३००
मूलम् - ३००
पूर्ववद्विधिना मन्त्रं गृहीत्वा वैष्णवाद्गुरोः
स्नानवस्त्रादिभिः शुद्धः कृत्यं कृत्वोर्ध्वपुण्ड्रधृत् ३००
विश्वास-प्रस्तुतिः - ३०१
तुलसीकानने रम्ये देशे वा प्राङ्मुखः शुभे
कुशे कृष्णाजिने वापि पुष्पे वा शुभवासरे ३०१
मूलम् - ३०१
तुलसीकानने रम्ये देशे वा प्राङ्मुखः शुभे
कुशे कृष्णाजिने वापि पुष्पे वा शुभवासरे ३०१
विश्वास-प्रस्तुतिः - ३०२
समासीनस्तु कुर्वीत प्राणायामांश्च पूर्ववत्
आदिबीजेन कुर्वीत षडङ्गेषु यथाक्रमम् ३०२
मूलम् - ३०२
समासीनस्तु कुर्वीत प्राणायामांश्च पूर्ववत्
आदिबीजेन कुर्वीत षडङ्गेषु यथाक्रमम् ३०२
विश्वास-प्रस्तुतिः - ३०३
अङ्गुलीष्वपि तेनैव न्यासकर्म समाचरेत्
मुखे वाह्वोश्च हृदये ध्वजे जान्वोश्च पादयोः ३०३
मूलम् - ३०३
अङ्गुलीष्वपि तेनैव न्यासकर्म समाचरेत्
मुखे वाह्वोश्च हृदये ध्वजे जान्वोश्च पादयोः ३०३
विश्वास-प्रस्तुतिः - ३०४
विन्यस्य मन्त्रवर्णानि चक्रं न्यासं ततः कृतम्
पूर्ववन्मन्त्रपादीनि स्मरेच्छाभरणानि च ३०४
मूलम् - ३०४
विन्यस्य मन्त्रवर्णानि चक्रं न्यासं ततः कृतम्
पूर्ववन्मन्त्रपादीनि स्मरेच्छाभरणानि च ३०४
विश्वास-प्रस्तुतिः - ३०५
विचित्रशुभपर्यङ्के दिव्यकल्पतरोरधः
सुगन्धपुष्पसङ्कीर्ण सर्वतः सुविचित्रिते ३०५
मूलम् - ३०५
विचित्रशुभपर्यङ्के दिव्यकल्पतरोरधः
सुगन्धपुष्पसङ्कीर्ण सर्वतः सुविचित्रिते ३०५
विश्वास-प्रस्तुतिः - ३०६
तस्मिन् देव्या समासीनं रुक्मिण्या रुक्मवर्णया
नीलोत्पलाभं कन्दर्पलावण्यं पद्मलोचनम् ३०६
मूलम् - ३०६
तस्मिन् देव्या समासीनं रुक्मिण्या रुक्मवर्णया
नीलोत्पलाभं कन्दर्पलावण्यं पद्मलोचनम् ३०६
विश्वास-प्रस्तुतिः - ३०७
चन्द्राननं जपापुष्परक्तहस्तपदाम्बुजम्
नीलकुञ्चितकेशं च सुकपोलं सुनासिकम् ३०७
मूलम् - ३०७
चन्द्राननं जपापुष्परक्तहस्तपदाम्बुजम्
नीलकुञ्चितकेशं च सुकपोलं सुनासिकम् ३०७
विश्वास-प्रस्तुतिः - ३०८
सुभ्रूयुगं सुबिम्बोष्ठं सुदन्तालिविराजितम्
उन्नतांसं दीर्घबाहुं पीनवक्षसमव्ययम् ३०८
मूलम् - ३०८
सुभ्रूयुगं सुबिम्बोष्ठं सुदन्तालिविराजितम्
उन्नतांसं दीर्घबाहुं पीनवक्षसमव्ययम् ३०८
विश्वास-प्रस्तुतिः - ३०९
निरङ्कचन्द्रनखरं सर्वलक्षणलक्षितम्
श्रीवत्सकौस्तुभोद्भासं वनमालामहोरसम् ३०९
मूलम् - ३०९
निरङ्कचन्द्रनखरं सर्वलक्षणलक्षितम्
श्रीवत्सकौस्तुभोद्भासं वनमालामहोरसम् ३०९
विश्वास-प्रस्तुतिः - ३१०
पीताम्बरं भूषणाढ्यं बालार्काभं सुकुण्डलम्
हारकेयूरकटकैरङ्गुलीयैश्च शोभितम् ३१०
मूलम् - ३१०
पीताम्बरं भूषणाढ्यं बालार्काभं सुकुण्डलम्
हारकेयूरकटकैरङ्गुलीयैश्च शोभितम् ३१०
विश्वास-प्रस्तुतिः - ३११
मौक्तिकान्वितनासाग्रं कस्तूरीतिलकाञ्चितम्
हरिचन्दनलिप्ताङ्गं सदैवाऽऽरूढयौवनम् ३११
मूलम् - ३११
मौक्तिकान्वितनासाग्रं कस्तूरीतिलकाञ्चितम्
हरिचन्दनलिप्ताङ्गं सदैवाऽऽरूढयौवनम् ३११
५७४
विश्वास-प्रस्तुतिः - ३१२
मन्दारपारिजातादिकुसुमैः कबरीकृतम्
अनर्घ्यमुक्ताहारश्च तुलसी वनमालया ३१२
मूलम् - ३१२
मन्दारपारिजातादिकुसुमैः कबरीकृतम्
अनर्घ्यमुक्ताहारश्च तुलसी वनमालया ३१२
विश्वास-प्रस्तुतिः - ३१३
चक्रशङ्खसमेताभ्यामुद्बाहुभ्यां विराजितम्
इतराभ्यां तथा देवीं समाश्लिष्टं निरन्तरम् ३१३
मूलम् - ३१३
चक्रशङ्खसमेताभ्यामुद्बाहुभ्यां विराजितम्
इतराभ्यां तथा देवीं समाश्लिष्टं निरन्तरम् ३१३
विश्वास-प्रस्तुतिः - ३१४
अलङ्कृताभिः सत्यादिमहिषीभिः समाघृतम्
कालिन्दी सत्यभामा च मित्रविन्दा च सत्यवित् ३१४
मूलम् - ३१४
अलङ्कृताभिः सत्यादिमहिषीभिः समाघृतम्
कालिन्दी सत्यभामा च मित्रविन्दा च सत्यवित् ३१४
विश्वास-प्रस्तुतिः - ३१५
सुनन्दा च सुशीला च जाम्बवती सुलक्षणा
एता महिष्यः संप्रोक्ताः कृष्णस्य परमात्मनः ३१५
मूलम् - ३१५
सुनन्दा च सुशीला च जाम्बवती सुलक्षणा
एता महिष्यः संप्रोक्ताः कृष्णस्य परमात्मनः ३१५
विश्वास-प्रस्तुतिः - ३१६
ताभिश्च राजकन्यानां सहस्रैः परिसेवितम्
तारकावृत्तराजेव शोभितं निधिभिर्वृतम् ३१६
मूलम् - ३१६
ताभिश्च राजकन्यानां सहस्रैः परिसेवितम्
तारकावृत्तराजेव शोभितं निधिभिर्वृतम् ३१६
विश्वास-प्रस्तुतिः - ३१७
एवं ध्यात्वा हरिं नित्यमर्च्चयित्वा जपेन्मनुम्
शालग्रामे च तुलसीवने वा स्थण्डिले हृदि ३१७
मूलम् - ३१७
एवं ध्यात्वा हरिं नित्यमर्च्चयित्वा जपेन्मनुम्
शालग्रामे च तुलसीवने वा स्थण्डिले हृदि ३१७
विश्वास-प्रस्तुतिः - ३१८
स्मृत्वा जपेत्त्रिसन्ध्यासु षट्सहस्रं मनुं द्विजः
विष्णुतुल्यवपुः श्रीमान्विष्णुलोकमवाप्नुयात् ३१८
मूलम् - ३१८
स्मृत्वा जपेत्त्रिसन्ध्यासु षट्सहस्रं मनुं द्विजः
विष्णुतुल्यवपुः श्रीमान्विष्णुलोकमवाप्नुयात् ३१८
विश्वास-प्रस्तुतिः - ३१९
सर्वसिद्धिमवाप्नोति इह लोके परत्र च
विद्यार्थी वेणुगायन्तं जपेत् ध्यायन् ऋतुत्रयम् ३१९
मूलम् - ३१९
सर्वसिद्धिमवाप्नोति इह लोके परत्र च
विद्यार्थी वेणुगायन्तं जपेत् ध्यायन् ऋतुत्रयम् ३१९
विश्वास-प्रस्तुतिः - ३२०
जुहुयात्कुसुमैः शुभ्रैर्विद्यासिद्धिमवाप्नुयात्
आयुष्कामी तु पूर्वाह्णे वत्सरान् ह्ययुतं जपेत् ३२०
मूलम् - ३२०
जुहुयात्कुसुमैः शुभ्रैर्विद्यासिद्धिमवाप्नुयात्
आयुष्कामी तु पूर्वाह्णे वत्सरान् ह्ययुतं जपेत् ३२०
विश्वास-प्रस्तुतिः - ३२१
ध्यायेच्छिशुतनुं कृष्णं तिलैर्हुत्वाऽऽयुराप्नुयात्
कन्यार्थी तु जपेत्सायं षोडशं त्र्ययुतं हरिम् ३२१
मूलम् - ३२१
ध्यायेच्छिशुतनुं कृष्णं तिलैर्हुत्वाऽऽयुराप्नुयात्
कन्यार्थी तु जपेत्सायं षोडशं त्र्ययुतं हरिम् ३२१
विश्वास-प्रस्तुतिः - ३२२
ध्यात्वा सहस्रं जुहुयाल्लाजैर्मधुविमिश्रितः
स्त्रियं लभेत्स्वाभिमतां रूपौदार्यवतीं सतीम् ३२२
मूलम् - ३२२
ध्यात्वा सहस्रं जुहुयाल्लाजैर्मधुविमिश्रितः
स्त्रियं लभेत्स्वाभिमतां रूपौदार्यवतीं सतीम् ३२२
विश्वास-प्रस्तुतिः - ३२३
सम्पत्कामी जपेन्नित्यं मध्याह्ने तु ऋतुत्रयम्
द्वारकायां सुधर्मायां रत्नसिंहासने स्थितम् ३२३
मूलम् - ३२३
सम्पत्कामी जपेन्नित्यं मध्याह्ने तु ऋतुत्रयम्
द्वारकायां सुधर्मायां रत्नसिंहासने स्थितम् ३२३
विश्वास-प्रस्तुतिः - ३२४
शङ्खादिनिधिभी राजकुलैरपि सुसेवितम्
हारादिभूषणैर्युक्तं शङ्खाद्यायुधधारिणम् ३२४
मूलम् - ३२४
शङ्खादिनिधिभी राजकुलैरपि सुसेवितम्
हारादिभूषणैर्युक्तं शङ्खाद्यायुधधारिणम् ३२४
विश्वास-प्रस्तुतिः - ३२५
ध्यात्वा संपूज्य होमं च जपश्चायुत संख्यया
अब्जबिल्वदलैर्वाऽपि होमं मधुविमिश्रितम् ३२५
मूलम् - ३२५
ध्यात्वा संपूज्य होमं च जपश्चायुत संख्यया
अब्जबिल्वदलैर्वाऽपि होमं मधुविमिश्रितम् ३२५
विश्वास-प्रस्तुतिः - ३२६
शाश्वतीं श्रियमाप्नोति कुबेरसदृशो भवेत्
रूपलावण्यकामी तु राममण्डलमध्यगम् ३२६
मूलम् - ३२६
शाश्वतीं श्रियमाप्नोति कुबेरसदृशो भवेत्
रूपलावण्यकामी तु राममण्डलमध्यगम् ३२६
विश्वास-प्रस्तुतिः - ३२७
ध्यायन् स्त्रिमासमयुतं जप्त्वा लावण्यवान् भवेत्
एवं कृष्णमनोरस्य माहात्म्यं परिकीर्तितम् ३२७
मूलम् - ३२७
ध्यायन् स्त्रिमासमयुतं जप्त्वा लावण्यवान् भवेत्
एवं कृष्णमनोरस्य माहात्म्यं परिकीर्तितम् ३२७
विश्वास-प्रस्तुतिः - ३२८
अनन्तान् भगवन्मत्रान् वक्तुं शक्यं न ते मया
वाराहं नारसिंहञ्च वामनं तुरगाननम् ३२८
मूलम् - ३२८
अनन्तान् भगवन्मत्रान् वक्तुं शक्यं न ते मया
वाराहं नारसिंहञ्च वामनं तुरगाननम् ३२८
विश्वास-प्रस्तुतिः - ३२९
क्रमेणैव तु वक्ष्यामि यथावच्छृणु पार्थिव
हुङ्कारं प्रथमं बीजमाद्यं वाराहमुच्यते ३२९
मूलम् - ३२९
क्रमेणैव तु वक्ष्यामि यथावच्छृणु पार्थिव
हुङ्कारं प्रथमं बीजमाद्यं वाराहमुच्यते ३२९
विश्वास-प्रस्तुतिः - ३३०
पश्चात्तु धरणीबीजं लक्ष्मीबीजं ततः परम्
त्रीन् बीजानादितः कृत्वा पश्चान्मन्त्रप्रयोजनम् ३३०
मूलम् - ३३०
पश्चात्तु धरणीबीजं लक्ष्मीबीजं ततः परम्
त्रीन् बीजानादितः कृत्वा पश्चान्मन्त्रप्रयोजनम् ३३०
विश्वास-प्रस्तुतिः - ३३१
ओं नमो भगवते पश्चाद्वराहरूपाय भूर्भुवः
स्वः पतयेति भूपतित्वं मे देहीति तदाप्यायस्वेति ३३१
मूलम् - ३३१
ओं नमो भगवते पश्चाद्वराहरूपाय भूर्भुवः
स्वः पतयेति भूपतित्वं मे देहीति तदाप्यायस्वेति ३३१
विश्वास-प्रस्तुतिः - ३३२
अङ्गुलीषु यथाऽङ्गेषु बीजेनाऽऽद्येन वै क्रमात्
यथा सन्न्यासवद्भूत्वा पश्चाद्ध्यानं समाचरेत् ३३२
मूलम् - ३३२
अङ्गुलीषु यथाऽङ्गेषु बीजेनाऽऽद्येन वै क्रमात्
यथा सन्न्यासवद्भूत्वा पश्चाद्ध्यानं समाचरेत् ३३२
विश्वास-प्रस्तुतिः - ३३३
बृहत्तनुं बृहद्ग्रीवं बृहद्दंष्ट्रं सुशोभनम्
समस्तवेदवेदाङ्गसाङ्गोपाङ्गयुतं हरिम् ३३३
मूलम् - ३३३
बृहत्तनुं बृहद्ग्रीवं बृहद्दंष्ट्रं सुशोभनम्
समस्तवेदवेदाङ्गसाङ्गोपाङ्गयुतं हरिम् ३३३
विश्वास-प्रस्तुतिः - ३३४
रजताद्रिसमप्रख्यं शतबाहुं शतेक्षणम्
उद्धृत्य दंष्ट्रया भूमिं समालिङ्ग्य भुजैर्मुदा ३३४
मूलम् - ३३४
रजताद्रिसमप्रख्यं शतबाहुं शतेक्षणम्
उद्धृत्य दंष्ट्रया भूमिं समालिङ्ग्य भुजैर्मुदा ३३४
विश्वास-प्रस्तुतिः - ३३५
ब्रह्मादित्रिदशैः सर्वैः सनकाद्यैर्मुनीश्वरः
स्तूयमानं समन्ताच्च गीयमानञ्च किन्नरैः ३३५
मूलम् - ३३५
ब्रह्मादित्रिदशैः सर्वैः सनकाद्यैर्मुनीश्वरः
स्तूयमानं समन्ताच्च गीयमानञ्च किन्नरैः ३३५
विश्वास-प्रस्तुतिः - ३३६
एवं ध्यात्वा हरिं नित्यं प्रातरष्टोत्तरं शतम्
जप्त्वा लभेच्च भूपत्वं ततो विष्णुपुरं व्रजेत् ३३६
मूलम् - ३३६
एवं ध्यात्वा हरिं नित्यं प्रातरष्टोत्तरं शतम्
जप्त्वा लभेच्च भूपत्वं ततो विष्णुपुरं व्रजेत् ३३६
विश्वास-प्रस्तुतिः - ३३७
नमो यज्ञवराहाय यित्यष्टाक्षरको मनुः
उक्तबीजत्रयं पूर्वं कृत्वा मन्त्रं जपेद्बुधः ३३७
मूलम् - ३३७
नमो यज्ञवराहाय यित्यष्टाक्षरको मनुः
उक्तबीजत्रयं पूर्वं कृत्वा मन्त्रं जपेद्बुधः ३३७
५७६
विश्वास-प्रस्तुतिः - ३८
मूलमन्त्रमिदं प्राहुर्वाराहं मुनिपुङ्गवाः
एतमेव परं मन्त्रं जप्त्वा भूमिपतिर्भवेत् ३८
मूलम् - ३८
मूलमन्त्रमिदं प्राहुर्वाराहं मुनिपुङ्गवाः
एतमेव परं मन्त्रं जप्त्वा भूमिपतिर्भवेत् ३८
विश्वास-प्रस्तुतिः - ३३९
नित्यमष्टसहस्रं तु जपेद्विष्णुं विचिन्तयन्
कमलैर्बिल्पपत्रैर्वा जुहुयाच्च दशांशकम् ३३९
मूलम् - ३३९
नित्यमष्टसहस्रं तु जपेद्विष्णुं विचिन्तयन्
कमलैर्बिल्पपत्रैर्वा जुहुयाच्च दशांशकम् ३३९
विश्वास-प्रस्तुतिः - ३४०
एवं संवत्सरं जप्त्वा सार्वभौमो भवेद्ध्रुवम्
राज्यं कृत्वा च धर्मेण पश्चाद्विष्णुपदं व्रजेत् ३४०
मूलम् - ३४०
एवं संवत्सरं जप्त्वा सार्वभौमो भवेद्ध्रुवम्
राज्यं कृत्वा च धर्मेण पश्चाद्विष्णुपदं व्रजेत् ३४०
विश्वास-प्रस्तुतिः - ३४१
विधानं नारसिंहस्य मनोर्वक्ष्यामि सुव्रत
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ३४१
मूलम् - ३४१
विधानं नारसिंहस्य मनोर्वक्ष्यामि सुव्रत
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ३४१
विश्वास-प्रस्तुतिः - ३४२
नृसिंहं भीषणं भद्रं मृत्योर्मृत्युं नमाम्यहम्
आर्षं ब्रह्माऽनुष्टुप्च्छन्दो देवता च नृकेसरी ३४२
मूलम् - ३४२
नृसिंहं भीषणं भद्रं मृत्योर्मृत्युं नमाम्यहम्
आर्षं ब्रह्माऽनुष्टुप्च्छन्दो देवता च नृकेसरी ३४२
विश्वास-प्रस्तुतिः - ३४३
चतुश्चतुश्च षट् षट्च षट्चतुश्च यथाक्रमात्
शिरो ललाटनेत्रेषु मुखवाह्वङ्घ्रिसन्धिषु ३४३
मूलम् - ३४३
चतुश्चतुश्च षट् षट्च षट्चतुश्च यथाक्रमात्
शिरो ललाटनेत्रेषु मुखवाह्वङ्घ्रिसन्धिषु ३४३
विश्वास-प्रस्तुतिः - ३४४
साग्रेषु कुक्षौ हृदये गले पार्श्वं द्वयेऽपि च
अपराङ्गे ककुद्मे च न्यसेद्वर्णान्यनुक्रमात् ३४४
मूलम् - ३४४
साग्रेषु कुक्षौ हृदये गले पार्श्वं द्वयेऽपि च
अपराङ्गे ककुद्मे च न्यसेद्वर्णान्यनुक्रमात् ३४४
विश्वास-प्रस्तुतिः - ३४५
वायोर्दशाक्षरं यत्तु बहूङ्कारं जपेत् सकृत्
विन्दुना सहितं यत्तु नृसिंहं बीजमुच्यते ३४५
मूलम् - ३४५
वायोर्दशाक्षरं यत्तु बहूङ्कारं जपेत् सकृत्
विन्दुना सहितं यत्तु नृसिंहं बीजमुच्यते ३४५
विश्वास-प्रस्तुतिः - ३४६
अङ्गुलीषु तथाङ्गेषु न्यासन्तेनैव चोदितम्
तद्बीजमादितः कृत्वा मन्त्रं पश्चात्प्रयोजयेत् ३४६
मूलम् - ३४६
अङ्गुलीषु तथाङ्गेषु न्यासन्तेनैव चोदितम्
तद्बीजमादितः कृत्वा मन्त्रं पश्चात्प्रयोजयेत् ३४६
विश्वास-प्रस्तुतिः - ३४७
श्रीकारपूर्वो नृसिंहो द्विर्जयादुपरि स्थितः
त्रिःसप्तकृत्वो जप्तुः स्यान्महाभयनिवारणम् ३४७
मूलम् - ३४७
श्रीकारपूर्वो नृसिंहो द्विर्जयादुपरि स्थितः
त्रिःसप्तकृत्वो जप्तुः स्यान्महाभयनिवारणम् ३४७
अस्य ब्रह्मा च रुद्रश्च प्रह्लादश्च महर्षयः
विश्वास-प्रस्तुतिः - ३४८
तथैव जगति च्छन्दो देवता च नृकेसरी
न्यासं बीजेन कुर्वीत ततो ध्यानं नृपोत्तम ३४८
मूलम् - ३४८
तथैव जगति च्छन्दो देवता च नृकेसरी
न्यासं बीजेन कुर्वीत ततो ध्यानं नृपोत्तम ३४८
विश्वास-प्रस्तुतिः - ३४९
बाहुभ्यां धृतशङ्खचक्रमनिशं दंष्ट्रोल्लसत्स्वाननम्
ज्वालाजिह्वमुदग्रकेशनिचयं वन्दे नृसिंहं प्रभुम् ३४९
मूलम् - ३४९
बाहुभ्यां धृतशङ्खचक्रमनिशं दंष्ट्रोल्लसत्स्वाननम्
ज्वालाजिह्वमुदग्रकेशनिचयं वन्दे नृसिंहं प्रभुम् ३४९
विश्वास-प्रस्तुतिः - ३५०
निर्भिन्नासुरनायकन्तु शशभृत्सूर्य्याग्निनेत्रत्रयम्
विद्युद्जिह्वसटाकलापभयदं वह्निं वहन्तं भजे ३५०
मूलम् - ३५०
निर्भिन्नासुरनायकन्तु शशभृत्सूर्य्याग्निनेत्रत्रयम्
विद्युद्जिह्वसटाकलापभयदं वह्निं वहन्तं भजे ३५०
विश्वास-प्रस्तुतिः - ३५१
चक्रं शङ्खं सपाशाङ्कुशमुसलगदाशार्ङ्ग वाणान्वहन्तम्
भीमं तीक्ष्णाग्रदंष्ट्रं मणिमयविविधाकल्पमीडे नृसिंहम् ३५१
मूलम् - ३५१
चक्रं शङ्खं सपाशाङ्कुशमुसलगदाशार्ङ्ग वाणान्वहन्तम्
भीमं तीक्ष्णाग्रदंष्ट्रं मणिमयविविधाकल्पमीडे नृसिंहम् ३५१
विश्वास-प्रस्तुतिः - ३५२
महाभयेष्विदं ध्यानं सौम्यमभ्युदयेषु च
सौवर्णं मण्डपान्तस्थं पद्मं ध्यायेत्सकेसरम् ३५२
मूलम् - ३५२
महाभयेष्विदं ध्यानं सौम्यमभ्युदयेषु च
सौवर्णं मण्डपान्तस्थं पद्मं ध्यायेत्सकेसरम् ३५२
विश्वास-प्रस्तुतिः - ३५३
पञ्चास्यवदनं भीमं सोमसूर्य्याग्निलोचनम्
तरुणादित्यदित्यसङ्काशं कुण्डलाभ्यां विराजितम् ३५३
मूलम् - ३५३
पञ्चास्यवदनं भीमं सोमसूर्य्याग्निलोचनम्
तरुणादित्यदित्यसङ्काशं कुण्डलाभ्यां विराजितम् ३५३
विश्वास-प्रस्तुतिः - ३५४
उपेयन्यासं सुमुखं तीक्ष्णदंष्ट्रविराजितम्
व्यात्तास्य मरुणोष्ठञ्च भीषणैर्नयनैर्युतम् ३५४
मूलम् - ३५४
उपेयन्यासं सुमुखं तीक्ष्णदंष्ट्रविराजितम्
व्यात्तास्य मरुणोष्ठञ्च भीषणैर्नयनैर्युतम् ३५४
विश्वास-प्रस्तुतिः - ३५५
सिंहस्कन्धानुरूपांसं वृत्तायतचतुर्भुजम्
जपासमाङ्घ्रिहस्ताब्जं पद्मासनसुसंस्थितम् ३५५
मूलम् - ३५५
सिंहस्कन्धानुरूपांसं वृत्तायतचतुर्भुजम्
जपासमाङ्घ्रिहस्ताब्जं पद्मासनसुसंस्थितम् ३५५
विश्वास-प्रस्तुतिः - ३५६
श्रीवत्सकौस्तुभोरस्कं वनमालाविराजितम्
केयूराङ्गदहाराढ्यं नूपुराभ्यां विराजितम् ३५६
मूलम् - ३५६
श्रीवत्सकौस्तुभोरस्कं वनमालाविराजितम्
केयूराङ्गदहाराढ्यं नूपुराभ्यां विराजितम् ३५६
विश्वास-प्रस्तुतिः - ५७८
चक्रशङ्खाभयवरचतुर्हस्तं विभुं स्मरेत्
र्
५७८
मूलम् - ५७८
चक्रशङ्खाभयवरचतुर्हस्तं विभुं स्मरेत्
र्
५७८
विश्वास-प्रस्तुतिः - ३५८
दिव्यचन्दनलिप्ताङ्गीं दिव्यपुष्पोपशोभिताम्
गृहीतपद्मयुगलमातुलिङ्गकरां चलाम् ३५८
मूलम् - ३५८
दिव्यचन्दनलिप्ताङ्गीं दिव्यपुष्पोपशोभिताम्
गृहीतपद्मयुगलमातुलिङ्गकरां चलाम् ३५८
विश्वास-प्रस्तुतिः - ३५९
एवं देवीं नृसिंहस्य वामाङ्कोपरिसंस्थिताम्
ध्यात्वा जपेज्जपं नित्यं पूजयेच्च यथाविधि ३५९
मूलम् - ३५९
एवं देवीं नृसिंहस्य वामाङ्कोपरिसंस्थिताम्
ध्यात्वा जपेज्जपं नित्यं पूजयेच्च यथाविधि ३५९
विश्वास-प्रस्तुतिः - ३६०
इमं लक्ष्मीनृसिंहस्य जपेत्सर्वार्थदं मनुम्
अष्टोत्तरसहस्रं वा जपेत्सन्ध्यासु वाग्यतः ३६०
मूलम् - ३६०
इमं लक्ष्मीनृसिंहस्य जपेत्सर्वार्थदं मनुम्
अष्टोत्तरसहस्रं वा जपेत्सन्ध्यासु वाग्यतः ३६०
विश्वास-प्रस्तुतिः - ३६१
अखण्डबिल्वपत्रैश्च जुहुयादाज्यमिश्रितैः
सर्वसिद्धिमवाप्नोति षण्मासं प्रयतो भवेत् ३६१
मूलम् - ३६१
अखण्डबिल्वपत्रैश्च जुहुयादाज्यमिश्रितैः
सर्वसिद्धिमवाप्नोति षण्मासं प्रयतो भवेत् ३६१
विश्वास-प्रस्तुतिः - ३६२
देवत्वममरेशत्वं गन्धर्वत्वं तथा नृप
प्राप्नुवन्ति नराः सर्वे स्वर्गं मोक्षञ्च दुर्लभम् ३६२
मूलम् - ३६२
देवत्वममरेशत्वं गन्धर्वत्वं तथा नृप
प्राप्नुवन्ति नराः सर्वे स्वर्गं मोक्षञ्च दुर्लभम् ३६२
विश्वास-प्रस्तुतिः - ३६३
यं यं कामयते चित्ते तं तमेवाऽऽप्नुयाद्ध्रुवम्
ब्रह्मर्षी तत्र गायत्री नरसिंहश्च देवता ३६३
मूलम् - ३६३
यं यं कामयते चित्ते तं तमेवाऽऽप्नुयाद्ध्रुवम्
ब्रह्मर्षी तत्र गायत्री नरसिंहश्च देवता ३६३
विश्वास-प्रस्तुतिः - ३६४
तदेव बीजं शक्तिः श्रीर्मनोरस्य विधीयते
न्यासमध्येन बीजेन चार्चनं तुलसीदलैः ३६४
मूलम् - ३६४
तदेव बीजं शक्तिः श्रीर्मनोरस्य विधीयते
न्यासमध्येन बीजेन चार्चनं तुलसीदलैः ३६४
विश्वास-प्रस्तुतिः - ३६५
पूर्वोक्तविधिना पीठे पूजयित्वा समाहितः
परितः पूजयेद्दिक्षु गरुडं शङ्करं तथा ३६५
मूलम् - ३६५
पूर्वोक्तविधिना पीठे पूजयित्वा समाहितः
परितः पूजयेद्दिक्षु गरुडं शङ्करं तथा ३६५
विश्वास-प्रस्तुतिः - ३६६
शेषञ्च पद्मयोनिञ्च श्रियं मायां धृतिं तथा
पुष्टिं समर्च्चयद्दिक्षु ततो लोकेश्वरान् यजेत् ३६६
मूलम् - ३६६
शेषञ्च पद्मयोनिञ्च श्रियं मायां धृतिं तथा
पुष्टिं समर्च्चयद्दिक्षु ततो लोकेश्वरान् यजेत् ३६६
विश्वास-प्रस्तुतिः - ३६७
महाभागवतं दैत्यनाशकं देवमग्रतः
एवं सम्पूज्य देवेशं नारसिंहं सनातनम् ३६७
मूलम् - ३६७
महाभागवतं दैत्यनाशकं देवमग्रतः
एवं सम्पूज्य देवेशं नारसिंहं सनातनम् ३६७
विश्वास-प्रस्तुतिः - ३६८
तत्पदं समवाप्नोति मुदितः सजनैः सह
कर्पूरधवलं देवं दिव्यकुण्डलभूषितम् ३६८
मूलम् - ३६८
तत्पदं समवाप्नोति मुदितः सजनैः सह
कर्पूरधवलं देवं दिव्यकुण्डलभूषितम् ३६८
विश्वास-प्रस्तुतिः - ३६९
किरीटकेयूरधरं पीताम्बरधरं प्रभुम्
पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम् ३६९
मूलम् - ३६९
किरीटकेयूरधरं पीताम्बरधरं प्रभुम्
पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम् ३६९
विश्वास-प्रस्तुतिः - ३७०
सूर्य्यकोटिप्रतीकाशं पूर्णचन्द्रनिभाननम्
मेखलाजिनदण्डादिधारणं बटुरूपिणम् ३७०
मूलम् - ३७०
सूर्य्यकोटिप्रतीकाशं पूर्णचन्द्रनिभाननम्
मेखलाजिनदण्डादिधारणं बटुरूपिणम् ३७०
विश्वास-प्रस्तुतिः - ३७१
कलधौतमयं पात्रं दधानं वसुपूजितम्
पीयूषकलशं वामे दधानं द्विभुजं हरिम् ३७१
मूलम् - ३७१
कलधौतमयं पात्रं दधानं वसुपूजितम्
पीयूषकलशं वामे दधानं द्विभुजं हरिम् ३७१
विश्वास-प्रस्तुतिः - ३७२
सनकाद्यैः स्तूयमानं सर्वदेवैरुपासितम्
एवं ध्यात्वा जपेनित्यं स्वासने च समाहितः ३७२
मूलम् - ३७२
सनकाद्यैः स्तूयमानं सर्वदेवैरुपासितम्
एवं ध्यात्वा जपेनित्यं स्वासने च समाहितः ३७२
विश्वास-प्रस्तुतिः - ३७३
विष्णवे वामनायेति प्रणवादिनमोऽन्तकः
इन्द्रार्षञ्च विराट्छन्दो देवता वामनः स्वयम् ३७३
मूलम् - ३७३
विष्णवे वामनायेति प्रणवादिनमोऽन्तकः
इन्द्रार्षञ्च विराट्छन्दो देवता वामनः स्वयम् ३७३
विश्वास-प्रस्तुतिः - ३७४
सुधाबीजं सुदीर्घन्तु बीजमाद्यन्तु वामनम्
तेनैव तु षडङ्गाद्यं न्यासं कुर्व्वीत वैष्णवः ३७४
मूलम् - ३७४
सुधाबीजं सुदीर्घन्तु बीजमाद्यन्तु वामनम्
तेनैव तु षडङ्गाद्यं न्यासं कुर्व्वीत वैष्णवः ३७४
विश्वास-प्रस्तुतिः - ३७५
दध्यन्नं पायसं वाऽऽपि जुहुयात्प्रत्यहं द्विजः
औपासनाग्नौ जुहुयादष्टोत्तरशतं गृही ३७५
मूलम् - ३७५
दध्यन्नं पायसं वाऽऽपि जुहुयात्प्रत्यहं द्विजः
औपासनाग्नौ जुहुयादष्टोत्तरशतं गृही ३७५
विश्वास-प्रस्तुतिः - ३७६
कुबेरसदृशः श्रीमान्भवेत्सद्यो न संशयः
ओंनमो विष्णवे पतये महाबलाय स्वाहा ३७६
मूलम् - ३७६
कुबेरसदृशः श्रीमान्भवेत्सद्यो न संशयः
ओंनमो विष्णवे पतये महाबलाय स्वाहा ३७६
विश्वास-प्रस्तुतिः - ३७७
इति वामनमन्त्रः–
स्मृत्वा त्रैविक्रमं रूपं जपेन्मन्त्रमनन्यधीः ३७७
मूलम् - ३७७
इति वामनमन्त्रः–
स्मृत्वा त्रैविक्रमं रूपं जपेन्मन्त्रमनन्यधीः ३७७
विश्वास-प्रस्तुतिः - ३७८
ब्रह्मार्षं चैव गायत्री देवता च त्रिविक्रमः
न्यासं बीजेन जपवानष्टोत्तरसहस्रकम् ३७८
मूलम् - ३७८
ब्रह्मार्षं चैव गायत्री देवता च त्रिविक्रमः
न्यासं बीजेन जपवानष्टोत्तरसहस्रकम् ३७८
विश्वास-प्रस्तुतिः - ३७९
इति वामनमन्त्रस्य जपादन्नपतिर्भवेत्
उद्गीथप्रणवोद्गीथ सर्ववागीश्वरेश्वर ३७९
मूलम् - ३७९
इति वामनमन्त्रस्य जपादन्नपतिर्भवेत्
उद्गीथप्रणवोद्गीथ सर्ववागीश्वरेश्वर ३७९
विश्वास-प्रस्तुतिः - ३८०
नित्यार्षं चैव गायत्री हयग्रीवोऽस्य देवता
न्यासं बीजेन कृत्वाऽथ पश्चाद्ध्यानं समाचरेत् ३८०
मूलम् - ३८०
नित्यार्षं चैव गायत्री हयग्रीवोऽस्य देवता
न्यासं बीजेन कृत्वाऽथ पश्चाद्ध्यानं समाचरेत् ३८०
५८०
विश्वास-प्रस्तुतिः - ३८१
शरच्छशाङ्कप्रभमश्ववक्त्रं मुक्तामयैराभरणैरुपेतम्
रथाङ्गशङ्खाञ्चितबाहुयुग्मं जानुद्वयं न्यस्तकरं भजामः ३८१
मूलम् - ३८१
शरच्छशाङ्कप्रभमश्ववक्त्रं मुक्तामयैराभरणैरुपेतम्
रथाङ्गशङ्खाञ्चितबाहुयुग्मं जानुद्वयं न्यस्तकरं भजामः ३८१
विश्वास-प्रस्तुतिः - ३८२
आसीनः पुण्डरीके तुरगवरशिराः पूरुषो मे पुराणः
श्रीमानज्ञानहारी मनसि निवसता मृग्यजुःसामरूपः ३८२
मूलम् - ३८२
आसीनः पुण्डरीके तुरगवरशिराः पूरुषो मे पुराणः
श्रीमानज्ञानहारी मनसि निवसता मृग्यजुःसामरूपः ३८२
विश्वास-प्रस्तुतिः - ३८३
एवं ध्यात्वा जपेन्मत्रं सन्ध्यासु विजितेन्द्रियः
सर्ववेदार्थतत्त्वज्ञो भवेदत्र न संशयः ३८३
मूलम् - ३८३
एवं ध्यात्वा जपेन्मत्रं सन्ध्यासु विजितेन्द्रियः
सर्ववेदार्थतत्त्वज्ञो भवेदत्र न संशयः ३८३
विश्वास-प्रस्तुतिः - ३८४
अष्टोत्तरसहस्रं वा शतमष्टोत्तरन्तु वा
जपेच्च जुहुयाच्चैवं साज्यैः शुभ्रैः सतण्डुलैः ३८४
मूलम् - ३८४
अष्टोत्तरसहस्रं वा शतमष्टोत्तरन्तु वा
जपेच्च जुहुयाच्चैवं साज्यैः शुभ्रैः सतण्डुलैः ३८४
विश्वास-प्रस्तुतिः - ३८५
विद्यासिद्धिमवाप्नोति षण्मासं द्विजसत्तमः
अष्टादशानां विद्यानां बृहस्पतिसमो भवेत् ३८५
मूलम् - ३८५
विद्यासिद्धिमवाप्नोति षण्मासं द्विजसत्तमः
अष्टादशानां विद्यानां बृहस्पतिसमो भवेत् ३८५
विश्वास-प्रस्तुतिः - ३८६
सहस्रारं हुं फडित्येवं मूलं सौदर्शनं मनुम्
अहिर्बुध्न्योऽनुष्टुभस्य देवता च सुदर्शनम् ३८६
मूलम् - ३८६
सहस्रारं हुं फडित्येवं मूलं सौदर्शनं मनुम्
अहिर्बुध्न्योऽनुष्टुभस्य देवता च सुदर्शनम् ३८६
विश्वास-प्रस्तुतिः - ३८७
अचक्राय विचक्राय सुचक्राय तथैव च
विचक्राय सुचक्राय ज्वालाचक्राय वै क्रमात् ३८७
मूलम् - ३८७
अचक्राय विचक्राय सुचक्राय तथैव च
विचक्राय सुचक्राय ज्वालाचक्राय वै क्रमात् ३८७
विश्वास-प्रस्तुतिः - ३८८
षडङ्गेषु च विन्यस्य पश्चाद्ध्यानं समाचरेत्
नमश्चकाय स्वाहेति दशादिक्षु यथाक्रमम् ३८८
मूलम् - ३८८
षडङ्गेषु च विन्यस्य पश्चाद्ध्यानं समाचरेत्
नमश्चकाय स्वाहेति दशादिक्षु यथाक्रमम् ३८८
विश्वास-प्रस्तुतिः - ३८९
चक्रेण सह बध्नामीत्युक्त्या प्रतिदिशेत्ततः
त्रैलोक्यं रक्ष रक्ष हुं फट् स्वाहा इति वै क्रमात् ३८९
मूलम् - ३८९
चक्रेण सह बध्नामीत्युक्त्या प्रतिदिशेत्ततः
त्रैलोक्यं रक्ष रक्ष हुं फट् स्वाहा इति वै क्रमात् ३८९
विश्वास-प्रस्तुतिः - ३९०
अग्निप्रकारमन्त्रोऽयं सर्वरक्षाकरः परः
ओं मूर्ध्नि स भ्रूमध्ये हं मुखे स्त्राहमधीत्यतः ३९०
मूलम् - ३९०
अग्निप्रकारमन्त्रोऽयं सर्वरक्षाकरः परः
ओं मूर्ध्नि स भ्रूमध्ये हं मुखे स्त्राहमधीत्यतः ३९०
विश्वास-प्रस्तुतिः - ५८१
रक्ताक्षं पिङ्गकेशं रिपुकुलभयदम्भीमदंष्ट्राजहासम्
शङ्खं चक्रं गदाब्जं पृथुतरमुशलं चापपाशाङ्कुशाढ्यम्
५८१
मूलम् - ५८१
रक्ताक्षं पिङ्गकेशं रिपुकुलभयदम्भीमदंष्ट्राजहासम्
शङ्खं चक्रं गदाब्जं पृथुतरमुशलं चापपाशाङ्कुशाढ्यम्
५८१
विश्वास-प्रस्तुतिः - ३९२
ओं नमो भगवते महासुदर्शनाय हुं फट्
इति षोडशाक्षरमिति सुदर्शनविधानम् ३९२
मूलम् - ३९२
ओं नमो भगवते महासुदर्शनाय हुं फट्
इति षोडशाक्षरमिति सुदर्शनविधानम् ३९२