द्वितीयोऽध्यायः
अथ पुण्ड्रसंस्कारवर्णनम्
प्रस्तावः
अम्बरीष उवाच
विश्वास-प्रस्तुतिः - १
भगवन् वैष्णावाः पञ्च
संस्काराः सर्व्वकर्मणाम्
प्रधानमिति यच्चोक्तं
सर्वैरेव महर्षिभिः १
तद्विधानं ममाचक्ष्व
विस्तरेणैव सुव्रत
मूलम् - १
भगवन् वैष्णावाः पञ्च संस्काराः सर्व्वकर्मणाम्
प्रधानमिति यच्चोक्तं सर्वैरेव महर्षिभिः १
तद्विधानं ममाचक्ष्व विस्तरेणैव सुव्रत
विश्वास-प्रस्तुतिः - २
हारीत उवाच
शृणु राजन् प्रवक्ष्यामि
निर्मला वैष्णवाः क्रियाः २
मूलम् - २
हारीत उवाच
शृणु राजन् प्रवक्ष्यामि निर्मला वैष्णवाः क्रियाः २
विश्वास-प्रस्तुतिः - ३
यद् उक्तं ब्रह्मणा पूर्वं
वसिष्ठाद्यैश् च वैष्णवैः
संस्काराणां तु सर्वेषाम्
आद्यं चक्रादि-धारणम् ३
मूलम् - ३
यदुक्तं ब्रह्मणा पूर्वं वसिष्ठाद्यैश्च वैष्णवैः
संस्काराणां तु सर्वेषामाद्यं चक्रादिधारणम् ३
आचार्यः
विश्वास-प्रस्तुतिः - ४
तत् कर्तव्यं हि सर्वेषां
विधीनां वै द्वि-जन्मनाम्
आचार्यं संश्रयेत् पूर्वम्
अन्-अघं वैष्णवं द्विजम् ४
मूलम् - ४
तत्कर्तव्यं हि सर्वेषां विधीनां वै द्विजन्मनाम्
आचार्यं संश्रयेत् पूर्वमनघं वैष्णवं द्विजम् ४
विश्वास-प्रस्तुतिः - ५
शुद्ध-सत्त्व-गुणोपेतं
नवेज्या-कर्म-कारणम्
सत्-सम्प्रदाय-संयुक्तं
मन्त्र-रत्नार्थ-कोविदम् ५
मूलम् - ५
शुद्धसत्वगुणोपेतं नवेज्याकर्मकारणम्
सत्सम्प्रदायसंयुक्तं मन्त्ररत्नार्थकोविदम् ५
५३८
विश्वास-प्रस्तुतिः - ६
ज्ञान-वैराग्य-संपन्नं
वेद-वेदाङ्ग-पारगम्
शासितारं सदाचारैः
सर्व-धर्म-विदां वरम् ॥ ६ ॥
मूलम् - ६
ज्ञानवैराग्यसंपन्नं वेदवेदाङ्गपारगम्
शासितारं सदाचार्यैः सर्वधर्मविदांवरम् ६
विश्वास-प्रस्तुतिः - ७
महा-भागवतं विप्रं
सदाचार-निषेवणम्
आलोक्य सर्व-शास्त्राणि
पुराणानि च वैष्णवान् ॥ ७ ॥
मूलम् - ७
महाभागवतं विप्रं सदाचारनिषेवणम्
आलोक्य सर्वशास्त्राणि पुराणानि च वैष्णवाः ७
विश्वास-प्रस्तुतिः - ८
तद्-अर्थम् आचरेद् यस् तु
स आचार्य उदाहृतः
आस्तिक्य-मानसं सद्भिर्
उपेतं धर्म-वत्सलम् ॥ ८ ॥
मूलम् - ८
तदर्थमाचरेद्यस्तु स आचार्य उदाहृतः
आस्तिक्यमानसं सद्भिरुपेतं धर्मवत्सलम् ८
शिष्य-लक्षणम्
विश्वास-प्रस्तुतिः - ९
श्रद्दधानं सदाचारं
गुरु-शुश्रूषण-तत्परम्
संवत्सरं प्रतीक्ष्यार्थे
तं शिष्यं शासयेद् गुरुः ॥ ९ ॥
मूलम् - ९
श्रद्दधानं सदाचारं गुरुशुश्रूषतत्परम्
सम्वत्सरं प्रतीक्ष्यार्थे तं शिष्यं शासयेद्गुरुः ९
मुद्रा
पूर्वाङ्गम्
विश्वास-प्रस्तुतिः - १०
तस्यादौ पञ्च-संस्कारान्
कुर्यात् सम्यग्-विधानतः
प्रातः स्नात्वा शुचौ देशे
पूजयित्वा जनार्दनम् ॥ १० ॥
मूलम् - १०
तस्याऽऽदौ पञ्च संस्कारान्कुर्यात्सम्यग्विधानतः
प्रातः स्नात्वा शुचौ देशे पूजयित्वा जनार्दनम् १०
विश्वास-प्रस्तुतिः - ११
स्नातं शिष्यं समानीय
तेनैव सह देशिकः
स्नाप्य पञ्चामृतैर् गव्यैश्
चक्रादीन् अर्चयेत् ततः ॥ ११ ॥
मूलम् - ११
स्नातं शिष्यं समानीय तेनैव सह देशिकः
स्नाप्य पञ्चामृतैर्गव्यैश्चक्रादीनर्च्चयेत्ततः ११
विश्वास-प्रस्तुतिः - १२
पुष्पैर् धूपैश् च दीपैश् च
नैवेद्यैर् विविधैर् अपि
तत्-तत्-प्रकाशकैर् मन्त्रैर्
अर्चयेत् पुरतो हरेः ॥ १२ ॥
मूलम् - १२
पुष्पैर्धूपैर्श्च दीपैश्च नैवेद्यैर्विविधैरपि
तत्तत्प्रकाशकैर्मन्त्रैरर्च्चयेत्पुरतो हरेः १२
होमः
विश्वास-प्रस्तुतिः - १३
अग्नौ होमं प्रकुर्वीत
इध्माधानादि-पूर्वकम्
पौरुषेण तु सूक्तेन
पायसं घृत-मिश्रितम् ॥ १३ ॥
मूलम् - १३
अग्नौहोमं प्रकुर्व्वीत इध्माधानादिपूर्वकम्
पौरुषेण तु सूक्तेन पायसं घृतमिश्रितम् १३
विश्वास-प्रस्तुतिः - १४
आज्येन मूल-मन्त्रेण
हुत्वा चाष्टोत्तरं शतम्
वैष्णव्या चैव गायत्र्या
जुहुयात् प्रयतो गुरुः ॥ १४ ॥
मूलम् - १४
आज्येन मूलमन्त्रेण हुत्वा चाष्टोत्तरं शतम्
वैष्णव्या चैव गायत्र्या जुहुयात्प्रयतो गुरुः १४
विश्वास-प्रस्तुतिः - १५
पश्चाद् अग्नौ विनिक्षिप्य
चक्राद्यायुध-पञ्चकम्
पूजयित्वा सहस्रारं
ध्यात्वा तद्-वह्नि-मण्डले ॥ १५ ॥
मूलम् - १५
पश्चादग्नौ विनिक्षिप्य चक्राद्यायुधपञ्चकम्
पूजयित्वा सहस्रारं ध्यात्वा तद्वह्निमण्डले १५
विश्वास-प्रस्तुतिः - १६
षडक्षरेण जुहुयाद्
आज्यं विंशति-संख्यया
सर्वैश् च हेति-मन्त्रैश् च
एकैकाज्याहुतिं क्रमात् ॥ १६ ॥
मूलम् - १६
षडक्षरेण जुहुयादाज्यं विंशतिसंख्यया
सर्वैश्च हेतिमन्त्रैश्च एकैकाज्याहुतिं क्रमात् १६
मुद्रा-धारणम्
विश्वास-प्रस्तुतिः - १७
ततः प्रदक्षिणं कृत्वा
स-शिष्यो वह्निम् आत्मवान्
नमस् कृत्वा ततो विष्णुं
जप्त्वा मन्त्र-वरं शुभम् ॥ १७ ॥
मूलम् - १७
ततः प्रदक्षिणं कृत्वा स शिष्यो वह्निमात्मवान्
नमस्कृत्वा ततो विष्णुं जप्त्वा मन्त्रवरं शुभम् १७
विश्वास-प्रस्तुतिः - १८
प्राङ्-मुखं तु समासीनं
शिष्यम् एकाग्र-चेतसम्
प्रतपेच् चक्र-शङ्खौ द्वौ
हेतिभिर् मन्त्रम् उच्चरन् ॥ १८ ॥
मूलम् - १८
प्राङ्मुखं तु समासीनं शिष्यमेकाग्रचेतसम्
प्रतपेच्चक्रशङ्खौ द्वौ हेतिभिर्मन्त्रमुच्चरन् १८
विश्वास-प्रस्तुतिः - १९
दक्षिणे तु भुजे चक्रं
वामांसे शङ्खम् एव च
गदां च भाल-मध्ये तु
हृदये नन्दकं तदा ॥ १९ ॥
मूलम् - १९
दक्षिणे तु भुजे चक्रं वामांशे शङ्खमेव च
गदां च भालमध्ये तु हृदये नन्दकं तदा १९
विश्वास-प्रस्तुतिः - २०
मस्तके तु तथा शार्ङ्गम्
अङ्कयेद् विमलं तदा
पश्चात् प्रक्षाल्य तोयेन
पुनः पूजां समाचरेत् ॥ २० ॥
मूलम् - २०
मस्तके तु तथा शार्ङ्गमङ्कयेद्विमलं तदा
पश्चात्प्रक्षाल्य तोयेन पुनः पूजां समाचरेत् २०
विश्वास-प्रस्तुतिः - २१
होम-शेषं समाप्याथ
वैष्णवान् भोजयेत् ततः
एवं तापः क्रियाः कार्याः
वैष्णव्यः कल्मषापहाः ॥ २१ ॥
मूलम् - २१
होमशेषं समाप्याथ वैष्णवान् भोजयेत्ततः
एवं तापः क्रियाः कार्याः वैष्णव्यः कल्मषापहाः २१
विश्वास-प्रस्तुतिः - २२
प्रधानं वैष्णवं तेषां
ताप-संस्कारम् उत्तमम्
ताप-संस्कार-मात्रेण
परां सिद्धिम् अवाप्नुयात् ॥ २२ ॥
मूलम् - २२
प्रधानं वैष्णवं तेषां तापसंस्कारमुत्तमम्
तापसंस्कारमात्रेण परां सिद्धिमवाप्नुयात् २२
विश्वास-प्रस्तुतिः - २३
केचित् तु चक्र-शङ्खौ द्वौ
प्रतप्तौ बाहु-मूलयोः
धारयन्ति महात्मानश्
चक्रम् एकं तु चापरे ॥ २३ ॥
मूलम् - २३
केचित्तु चक्रशङ्खौ द्वौ प्रतप्तौ बाहुमूलयोः
धारयन्ति महात्मानश्चक्रमेकं तु चापरे २३
विश्वास-प्रस्तुतिः - २४
वैष्णवानां तु हेतीनां
प्रधानं चक्रम् उच्यते
तेनैव बाहु-मूले तु
प्रतप्तेनाङ्कयेद् बुधः ॥ २४ ॥
मूलम् - २४
वैष्णवानां तु हेतीनां प्रधानं चक्रमुच्यते
तेनैव बाहुमूले तु प्रतप्तेनाङ्कयेद्बुधः २४
विश्वास-प्रस्तुतिः - २५
जाते पुत्रे पिता स्नात्वा
होमं कृत्वा विधानतः
तेनाग्निनैव संतप्त-
चक्रेण भुज-मूलयोः ॥ २५ ॥
मूलम् - २५
जात पुत्रे पिता स्नात्वा होमं कृत्वा विधानतः
तेनाग्निनैव सन्तप्रचक्रेण भुजमूलयोः २५
नामकरणेऽपि
विश्वास-प्रस्तुतिः - २६
अङ्कयित्वा शिशोः पश्चान्
नाम कुर्याच् च वैष्णवम्
पश्चात् सर्वाणि कर्माणि
कुर्वीतास्य विधानतः ॥ २६ ॥
मूलम् - २६
अङ्कयित्वा शिशोः पश्चान्नाम कुर्याच्च वैष्णवम्
पश्चात्सर्वाणि कर्माणि कुर्वीतास्य विधानतः २६
तापानिवार्यता
विश्वास-प्रस्तुतिः - २७
अनङ्कयित्वा स चक्रेण
यत् किञ्चित् कर्म सञ्चरेत्
तत् सर्वं याति वैफल्यम्
इष्टा-पूर्तादिकं नृप ॥ २७ ॥
मूलम् - २७
अङ्कयित्वा स चक्रेण यत्किञ्चित्कर्म सञ्चरेत्
तत्सर्वं याति वैकल्यमिष्टापूर्तादिकं नृप २७
विश्वास-प्रस्तुतिः - २८
कारयेन् मन्त्र-दीक्षायां
चक्राद्याः पञ्च हेतयः
चक्रं वै कर्म-सिद्ध्य-र्थं
जातकर्मणि धारयेत् ॥ २८ ॥
मूलम् - २८
कारयेन्मन्त्रदीक्षायां चक्राद्याः पञ्च हेतयः
चक्रं वै कर्मसिध्यर्थं जातकर्मणि धारयेत् २८
विश्वास-प्रस्तुतिः - २९
अचक्र-धारी विप्रस् तु
सर्व-कर्मसु गर्हितः
अवैष्णवः समापन्नो
नरकं चाधिगच्छति ॥ २९ ॥
मूलम् - २९
अचक्रधारी विप्रस्तु सर्वकर्मसु गर्हितः
अवैष्णवः समापन्नो नरकं चाधिगच्छति २९
विश्वास-प्रस्तुतिः - ३०
चक्रादि-चिह्न-रहितं
प्राकृतं कलुषान्वितम्
अवैष्णवस् तु तं दूरात्
श्व-पाकम् इव संत्यजेत् ॥ ३० ॥
मूलम् - ३०
चक्रादिचिह्नरहितं प्राकृतं कलुषान्वितम्
अवैष्णवस्तु तं दूरात् श्वपाकमिव सन्त्यजेत् ३०
विश्वास-प्रस्तुतिः - ३१
अवैष्णवस् तु यो विप्रः
श्व-पाकाद् अधमः स्मृतः
अश्राद्धेयो ह्य् अपाङ्क्तेयो
रौरवं नरकं व्रजेत् ॥ ३१ ॥
मूलम् - ३१
अवैष्णवस्तु यो विप्रः श्वपाकादधमः स्मृतः
अश्राद्धे यो ह्यपाङ्क्तेयो रौरवं नरकं व्रजेत् ३१
विश्वास-प्रस्तुतिः - ३२
अवैष्णवस् तु यो विप्रः
सर्व-धर्म-युतोऽपि वा
गवां षण्ड इति विज्ञेयः
सर्व-कर्मसु नार्हति ॥ ३२ ॥
मूलम् - ३२
अवैष्णवस्तु यो विप्रः सर्वधर्मयुतोऽपि वा
गवां षण्डति विज्ञेयः सर्वकर्मसु नार्हति ३2
निगमनम्
विश्वास-प्रस्तुतिः - ३३
तस्माच् चक्रं विधानेन
तप्तं वै धारयेद् द्विजः
सर्वाश्रमेषु वसतां
स्त्रीणां च श्रुति-चोदनात् ॥ ३३ ॥
मूलम् - ३३
तस्माच्चक्रं विधानेन तप्तं वै धारयेद्द्विजः
सर्वाश्रमेषु वसतां स्त्रीणां च श्रुतिचोदनात् ३३
श्रुतिः
विश्वास-प्रस्तुतिः - ३४
“अनायुधासो असुरा
अदेवा” इति वै श्रुतिः
“चक्रेण तान् अपवप”
इत्य् ऋचा समुदाहृतम् ॥ ३४ ॥
मूलम् - ३४
अनायुधासो असुरा अदेवा इति वै श्रुतिः
चक्रेण तामपवप इत्यचा समुदाहृतम् ३४
विश्वास-प्रस्तुतिः - ३५
तस्माद् वै तप्त-चक्रस्य
चाङ्कनं मुनिभिः श्रुतम्
“पवित्रं विततं ब्राह्मं”
प्रभोर् गात्रे तु धारितम् ॥ ३५ ॥
मूलम् - ३५
तस्माद्वै तप्तचक्रस्य चाङ्कनं मुनिभिः श्रुतम्
पवित्रं विततं ब्राह्मं प्रभोर्गात्रे तु धारितम् ३५
विश्वास-प्रस्तुतिः - ३६
श्रुत्यैव चाङ्कयेद् गात्रे
तद् ब्रह्म-समवाप्तये
“यत् ते पवित्रम् अर्चिष्यम्
अग्नेर् वीतम् अनन्तरा” ॥ ३६ ॥
मूलम् - ३६
श्रुत्यैव चाङ्कयेद्गात्रे तद्ब्रह्मसमवाप्तये
यत्ते पवित्रमर्च्चिष्यमग्नेर्वीतमनन्तरा ३६
विश्वास-प्रस्तुतिः - ३७
“ब्रह्मेति निहितं” नैव??
ब्रह्मणः श्रुति-बृंहितम्
“पवित्रम्” इति चैवाग्निर्
“अग्निर्” वै चक्रम् उच्यते ॥ ३७ ॥
मूलम् - ३७
ब्रह्मेति निहितन्नैव ब्रह्मणो श्रुतिवृंहितम्
पवित्रमिति चैवाग्निरग्निर्वै चक्रमुच्यते ३७
विश्वास-प्रस्तुतिः - ३८
अग्निर् एव सहस्रारः
सहस्रा नेमिर् उच्यते
नेमि-तप्त-तनुः सूर्यो
ब्रह्मणा समतां व्रजन् ॥ ३८ ॥
मूलम् - ३८
अग्निरेव सहस्रारः सहस्रा नेमिरुच्यते
नेमितप्ततनुः सूर्यो ब्रह्मणा समतां व्रजन् ३८
विश्वास-प्रस्तुतिः - ३९
“यत् ते पवित्रम् अर्चिष्यम्
अग्नेस् तु न सुनिहितः”
दक्षिणे तु भुजे विप्रो
बिभृयाद् वै सुदर्शनम् ॥ ३९ ॥
मूलम् - ३९
यत्ते पवित्रमर्च्चिष्यमग्नेस्तु न सुनिहितः
दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ३९
विश्वास-प्रस्तुतिः - ४०
सव्ये तु शङ्खं बिभृयाद्
इति ब्रह्म-विदो विदुः
इत्य्-आदि-श्रुतिभिः प्रोक्तं
विष्णोश् चक्रस्य धारणम् ॥ ४० ॥
मूलम् - ४०
सव्ये तु शङ्खं विभृयादिति ब्रह्मविदो विदुः
इत्यादिश्रुतिभिः प्रोक्तं विष्णोश्चक्रस्य धारणम् ४०
पुराणादिषु
विश्वास-प्रस्तुतिः - ४१
पुराणेष्व् इतिहासेषु
सात्त्विकेषु स्मृतिष्व् अपि
शङ्ख-चक्रोर्ध्व-पुण्ड्रादि-
रहितं ब्राह्मणं नृप ॥ ४१ ॥
मूलम् - ४१
पुराणेष्वितिहासेषु सात्विकेषु स्मृतिष्वपि
शङ्खचक्रोर्द्धपुण्ड्रादिरहितं ब्राह्मणं नृप ४१
विश्वास-प्रस्तुतिः - ४२
यः श्राद्धे भोजयेद् विप्रः
पितॄणां तस्य दुर्गतिः
शङ्ख-चक्रोर्ध्व-पुण्ड्रादि-
चिह्नैः प्रियतमैर् हरेः ॥ ४२ ॥
मूलम् - ४२
यः श्राद्धे भोजयेद्विप्रः पितृणां तस्य दुर्गतिः
शङ्खचक्रोर्ध्वपुण्ड्रादिचिह्नैः प्रियतमैर्हरेः ४२
विश्वास-प्रस्तुतिः - ४३
रहितः सर्व-धर्मेभ्यश्
च्युतो नरकम् आप्नुयात्
रुद्रार्चनं त्रिपुण्ड्रस्य
धारणं यत्र दृश्यते ॥ ४३ ॥
मूलम् - ४३
रहितः सर्वधर्मेभ्यश्च्युतो नरकमाप्नुयात्
रुद्रार्चनं त्रिपुण्ड्रस्य धारणं यत्र दृश्यते ४३
विश्वास-प्रस्तुतिः - ४५
पूजनीया यथार्हेण
बिल्व-चन्दन-धारिणाम्
यक्ष-राक्षस-भूतानि
विद्याधर-गणस् तदा ॥ ४५ ॥
मूलम् - ४५
पूजानीया यथार्हेण विल्वचन्दनधारिणम्
यक्षराक्षसभूतानि विद्याधरगणस्तदा ४५
विश्वास-प्रस्तुतिः - ४६
चण्डालानाम् अर्चनीया
मद्य-मांस-निषेविणाम्
स्व-वर्ण-विहितं धर्मम्
एवं ज्ञात्वा समाचरेत् ॥ ४६ ॥
मूलम् - ४६
चण्डालानामर्चनीया मद्यमांसनिषेवणाम्
स्ववर्णविहितं धर्ममेवं ज्ञात्वा समाचरेत् ४६
विश्वास-प्रस्तुतिः - ४७
रुद्रार्चनाद् ब्राह्मणस् तु शूद्रेण समतां व्रजेत्
यक्ष-भूतार्चनात् सद्यश् चण्डालत्वम् अवाप्नुयात् ॥ ४७ ॥
मूलम् - ४७
रुद्रार्च्चनाद्ब्राह्मणस्तु शूद्रेण समतां व्रजेत्
यक्षभूतार्च्चनात्सद्यश्चण्डालत्वमवाप्नुयात् ४७
विश्वास-प्रस्तुतिः - ४८
न भस्म धारयेद् विप्रः
परमापद्-गतोऽपि वा
मोहाद् वै बिभृयाद् यस् तु
स सुरा-पो भवेद् ध्रुवम् ॥ ४८ ॥
मूलम् - ४८
न भस्म धारयेद्विप्रः परमापद्गतोऽपि वा
मोहाद्वै विभृयाद्यस्तु ससुरापो भवेद्ध्रुवम् ४८
पुण्ड्रम्
विश्वास-प्रस्तुतिः - ४९
तिर्यक्-पुण्ड्र-धरं विप्रं
पट्टाम्बर-धरं तथा
श्वपाक इव वीक्षेत
न संभाषेत कुत्रचित्
तस्माद् द्विजातिभिर् धार्यम्
ऊर्ध्व-पुण्ड्रं विधानतः ॥ ४९ ॥
मूलम् - ४९
तिर्यक्-पुण्ड्र-धरं विप्रं पट्टाम्बर-धरं तथा
श्वपाक इव वीक्षेत न सम्भाषेत कुत्रचित्
तस्माद्द्विजातिभिर्धार्य्य मूर्द्धपुण्ड्रंविधानतः ४९
विश्वास-प्रस्तुतिः - ५०
मृदा शुभ्रेण सततं
सान्तरालं मनोहरम्
स्नात्वा शुद्धेऽह्नि पूर्वाह्णे
विष्णुम् अभ्यर्च्य देशिकः ॥ ५० ॥
मूलम् - ५०
मृदा शुभ्रेण सततं सान्तरालं मनोहरम्
स्नात्वा शुद्धेऽपि पूर्वाह्णे विष्णुमभ्यर्च्य देशिकः ५०
विश्वास-प्रस्तुतिः - ५१
स्नातं शिष्यं समाहूय
होमं कुर्वीत पूर्ववत्
“परो मात्रयेति” सूक्तेन
पायसं मधु-मिश्रितम् ॥ ५१ ॥
मूलम् - ५१
स्नातं शिष्यं समाहूय होमं कुर्वीत पूर्ववत्
परोमात्रेति सूक्तेन पायसं मधुमिश्रितम् ५१
विश्वास-प्रस्तुतिः - ५२
हुत्वाथ मूल-मन्त्रेण
शतम् अष्टोत्तरं घृतम्
स्थण्डिले तु ततः पश्चान्
मण्डलानि यथा-क्रमात् ॥ ५२ ॥
मूलम् - ५२
हुत्वाऽथमूलमन्त्रेण शतमष्टोत्तरं घृतम्
स्थण्डिले तु ततः पश्चान्मण्डलानि यदा क्रमात् ५२
विश्वास-प्रस्तुतिः - ५३
दिक्ष्व् अष्ट मध्ये चत्वारि
विन्यसेत् पुरतो हरेः
विलिखेत् तत्र पुण्ड्राणि
विस्तारायाम-भेदतः ॥ ५३ ॥
मूलम् - ५३
दीक्ष्वष्टमध्ये चत्वारि विन्यसेत् पुरतो हरेः
विलिखेत्तत्र पुण्ड्रादि विस्तारायामभेदतः ५३
विश्वास-प्रस्तुतिः - ५४
तेष्व् अर्चयेत् ततो धीमान्
केशवादीन् अनुक्रमात्
तत्र तत्र च तन्-मूर्तिं
ध्यात्वा मन्त्रैः समर्चयेत् ॥ ५४ ॥
मूलम् - ५४
तेष्वर्चयेत्ततो धीमान् केशवादीननुक्रमात्
तत्र तत्र च तन्मूर्तिं ध्यात्वा मन्त्रैः समर्च्चयेत् ५४
विश्वास-प्रस्तुतिः - ५५
गन्ध-पुष्पादि सकलं
मन्त्रेणैवार्चयेद् गुरुः
प्रदक्षिणम् अनुव्रज्य
स शिष्यः प्रणमेत् तथा ॥ ५५ ॥
मूलम् - ५५
गन्धपुष्पादि सकलं मन्त्रेणैवार्चयेद्गुरुम्
प्रदक्षिणामनुव्रज्य स शिष्यः प्रणमेत्तथा ५५
विश्वास-प्रस्तुतिः - ५६
तद्-बाह्वोर् निक्षिपेच् छिष्ये
केशवादीन् अनुक्रमात्
हृदि विन्यस्य पुण्ड्राणि
गुरूक्तानि स वैष्णवः ॥ ५६ ॥
मूलम् - ५६
तद्वाहौ निक्षिपेच्छिष्यः केशवादीननुक्रमात्
हृदि विन्यस्य पुण्ड्राणि गुरूक्तानि स वैष्णवः ५६
विश्वास-प्रस्तुतिः - ५७
शुभ्रेणैव मृदा पश्चाद्
बिभृयात् सुसमाहितः
त्रि-सन्ध्यासु मृदा विप्रो
याग-काले विशेषतः ॥ ५७ ॥
मूलम् - ५७
शुभ्रेणैव मृदा पश्चाद् बिभृयात्सुसमाहितः
त्रिसन्ध्यासु मृदा विप्रो यागकाले विशेषतः ५७
नित्य-धार्यता
विश्वास-प्रस्तुतिः - ५८
श्राद्धे दाने तथा होमे
स्वाध्याये पितृ-तर्पणे
श्रद्धालुर् ऊर्ध्व-पुण्ड्राणि
बिभृयाद् द्विज-सत्तमः ॥ ५८ ॥
मूलम् - ५८
श्राद्धे दाने तथा होमे स्वाध्याये पितृतर्पणे
श्रद्धालुरूर्द्ध्वपुण्ड्राणि विभृयाद्द्विजसत्तमः ५८
विश्वास-प्रस्तुतिः - ५९
श्राद्धो होमस् तथा दानं
स्वाध्यायः पितृ-तर्पणम्
भस्मी-भवति तत् सर्वम्
ऊर्ध्व-पुण्ड्रं विना कृतम् ॥ ५९ ॥
मूलम् - ५९
श्राद्धो होमस्तथा दानं स्वाध्यायः पितृतर्पणम्
भस्मीभवति तत्सर्वमूर्ध्वपुण्ड्रम्विना कृतम् ५९
विश्वास-प्रस्तुतिः - ६०
ऊर्ध्व-पुण्ड्रं विना यस् तु
श्राद्धं कुर्वीत स द्विजः
सर्वं तद् राक्षसैर् नीतं
नरकं चाधिगच्छति ॥ ६० ॥
मूलम् - ६०
ऊर्ध्वपुण्ड्रं विना यस्तु श्राद्धं कुर्व्वीत स द्विजः
सर्वं तद्राक्षसैर्नीतं नरकं चाधिगच्छति ६०
विश्वास-प्रस्तुतिः - ६१
ऊर्ध्व-पुण्ड्र-विहीनं तु
यः श्राद्धे भोजयेद् द्विजम्
अश्नन्ति पितरस् तस्य
विण्-मूत्रं नात्र संशयः ॥ ६१ ॥
मूलम् - ६१
ऊर्ध्वपुण्ड्रविहीनन्तु यः श्राद्धे भोजयेद्द्विजम्
अश्नन्ति पितरस्तस्य विण्मूत्रं नात्र संशयः ६१
विश्वास-प्रस्तुतिः - ६२
तस्मात् तु सततं धार्यम्
ऊर्ध्व-पुण्ड्रं द्विजन्मना
धारयेन् न तिर्यक्-पुण्ड्रम्
आपद्य् अपि कदाचन ॥ ६२ ॥
मूलम् - ६२
तस्मात्तु सततं धार्यमूर्ध्वपुण्ड्रं द्विजन्मना
धारयेन्न तिर्यक्पुण्ड्रमापद्यपि कदाचन ६२
विश्वास-प्रस्तुतिः - ६३
तिर्यक्-पुण्ड्र-धरं विप्रं
चण्डालम् इव संत्यजेत्
सो ऽनर्हः सर्व-कृत्येषु
सर्व-लोकेषु गर्हितः ॥ ६३ ॥
मूलम् - ६३
तिर्यक्पुण्ड्रधरं विप्रं चण्डालमिव सन्त्यजेत्
सोऽनर्हः सर्वकृत्येषु सर्वलोकेषु गर्हितः ६३
विश्वास-प्रस्तुतिः - ६४
ऊर्ध्व-पुण्ड्र-विहीनः सन्
सन्ध्या-कर्म समाचरेत्
सर्वं तद् राक्षसैर् नीतं
नरकं च स गच्छति ॥ ६४ ॥
मूलम् - ६४
ऊर्ध्वपुण्ड्रविहीनः सन्सन्ध्याकर्म्म समाचरेत्
सर्वं तद्राक्षसैर्नीतं नरकञ्च स गच्छति ६४
विश्वास-प्रस्तुतिः - ६५
यदि स्यात् तु मनुष्याणाम्
ऊर्ध्व-पुण्ड्र-विवर्जितम्
द्रष्टव्यं नैव तत् किञ्चिच्
छ्मशानम् इव तद् भवेत् ॥ ६५ ॥
मूलम् - ६५
यदि स्यात्तु मनुष्याणामूर्ध्वपुण्ड्रविवर्जितम्
द्रष्टव्यन्नव तत्किञ्चित् श्मशानमिव तद्भवेत् ६५
प्रशस्तिः
विश्वास-प्रस्तुतिः - ६६
ऊर्ध्व-पुण्ड्रं मृदा शुभ्रं
ललाटे यस्य दृश्यते
चण्डालोऽपि हि शुद्धात्मा
विष्णु-लोके महीयते ॥ ६६ ॥
मूलम् - ६६
ऊर्ध्वपुण्ड्रं मृदा शुभ्रं ललाटे यस्य दृश्यते
चण्डालोऽपि हि शुद्धात्मा विष्णुलोके महीयते ६६
विश्वास-प्रस्तुतिः - ६७
ऊर्ध्व-पुण्ड्रस्य मध्ये
तु ललाटे सुमनोहरे
लक्ष्म्या सह समासीनो
रमते तत्र वै हरिः ॥ ६७ ॥
मूलम् - ६७
ऊर्ध्वपुण्ड्रस्य मध्ये तु ललाटे सुमनोहरे
लक्ष्म्या सह समासीनो रमते तत्र वै हरिः ६७
विश्वास-प्रस्तुतिः - ६८
निरन्तरालं यः कुर्याद्
ऊर्ध्व-पुण्ड्रं द्विजाधमः
स हि तत्र स्थितं विष्णुं
श्रियं चैव व्यपोहति ॥ ६८ ॥
मूलम् - ६८
निरन्तरालं यः कुर्य्यादूर्ध्वपुण्ड्रं द्विजाधमः
स हि तत्र स्थितं विष्णुं श्रियञ्चैव व्यपोहति ६८
विन्यासः
विश्वास-प्रस्तुतिः - ६९
अवेदम्?? ऊर्ध्व-पुण्ड्रं तु
यः करोति द्विजाधमः
कल्प-कोटि-सहस्राणि
रौरवं नरकं व्रजेत् ॥ ६९ ॥
मूलम् - ६९
??अथेदमूर्ध्वपुण्ड्रन्तु यः करोति द्विजाधमः
कल्पकोटिसहस्राणि रौरवं नरकं व्रजेत् ६९
विश्वास-प्रस्तुतिः - ७०
तस्माद् रागान्वितं पुण्ड्रं
धरेद् विष्णु-पदाकृति
ललाटादिषु चाङ्गेषु
सर्व-कर्मसु वैष्णवः ॥ ७० ॥
मूलम् - ७०
तस्माद्रागान्वितं पुण्ड्रन्धरेद्विष्णुपदाकृति
ललाटादिषु चाङ्गेषु सर्व्वकर्मसु वैष्णवः ७०
स्थानानि
विश्वास-प्रस्तुतिः - ७१
नासिका-मूलम् आरभ्य
ललाटान्तेषु विन्यसेत्
अङ्गुल-द्वय-मात्रं तु
मध्य-च्छिद्रं प्रकल्पयेत् ॥ ७१ ॥
मूलम् - ७१
नासिकामूलमारभ्य ललाटान्तेषु विन्यसेत्
अङ्गुलद्वयमात्रन्तु मध्यच्छिद्रं प्रकल्पयेत् ७१
विश्वास-प्रस्तुतिः - ७२
पार्श्वे चाङ्गुल-मात्रं तु
विन्यसेद् द्विज-सत्तमः
पुण्ड्राणाम् अन्तराले तु
हरिद्रां धारयेच् छ्रियम् ॥ ७२ ॥
मूलम् - ७२
पार्श्वे चाङ्गुलमात्रन्तु विन्यसेद्द्विजसत्तमः
पुण्ड्राणामन्तराले तु हारिद्रां धारयेच्छ्रियम् ७२
विश्वास-प्रस्तुतिः - ७३
ललाटे पृष्ठयोः कण्ठे
भुजयोर् उभयोर् अपि
चतुरङ्गुल-मात्रं तु
बिभृयाद् आयतं द्विजः ॥ ७३ ॥
मूलम् - ७३
ललाटे पृष्ठयोः कण्ठे भुजयोरुभयोरपि
चतुरङ्गुलमात्रन्तु विभृयादायकं द्विजः ७३
विश्वास-प्रस्तुतिः - ७४
उरस्य् अष्टाङ्गुलं धार्यं
भुजयोर् आयतं तदा
उदरे पार्श्वयोर् नित्यम्
आयतं तु दशाङ्गुलम् ॥ ७४ ॥
मूलम् - ७४
उरस्यष्टाङ्गुलं धार्यं भुजयोरायतं तदा
उदरे पार्श्वयोर्न्नित्यमायतन्तु दशाङ्गुलम् ७४
विश्वास-प्रस्तुतिः - ७५
केशवादि-नमोऽन्तैश् च
प्रणवाद्यैर् अनुक्रमात्
ललाटे केशवं रूपं
कुक्षौ नारायणं न्यसेत् ॥ ७५ ॥
मूलम् - ७५
केशवादि नमोऽन्तैश्च प्रणवाद्यैरनुक्रमात्
ललाटे केशवं रूपं कुक्षौ नारायणं न्यसेत् ७५
विश्वास-प्रस्तुतिः - ७६
वक्षः-स्थले माधवं च
गोविन्दं कण्ठ-देशतः
विष्णुं च दक्षिणे पार्श्वे
बाह्वोश् च मधुसूदनम् ॥ ७६ ॥
मूलम् - ७६
वक्ष स्थले माधवञ्च गोविन्दं कण्ठदेशतः
विष्णुञ्च दक्षिणे पार्श्वे वाह्वोश्च मधुसूदनम् ७६
विश्वास-प्रस्तुतिः - ७७
त्रिविक्रमं तु वामांसे
वामनं वाम-पार्श्वतः
श्रीधरं वाम-बाहौ तु
हृषीकेशं तदा भुजे ॥ ७७ ॥
मूलम् - ७७
त्रिविक्रमन्तु वामांसे वामनं वामपार्श्वतः
श्रीधरं वामवाहौ तु हृषीकेशं तदा भुजे ७७
विश्वास-प्रस्तुतिः - ७८
पृष्ठे च पद्मनाभं तु
ग्रीवे दामोदरं तदा
तत्-प्रक्षालन-तोयेन
“वासुदेवेति” मूर्धनि ॥ ७८ ॥
मूलम् - ७८
पृष्ठे च पद्मनाभन्तु ग्रीवे दामोदरं तदा
तत्प्रक्षालनतोयेन वासुदेवेति मूर्धनि ७८
देवताः
विश्वास-प्रस्तुतिः - ७९
केशवस् तु सुवर्णाभः
शङ्ख-चक्र-गदाधरः
शुक्लाम्बर-धरः सौम्यो
मुक्ताभरण-भूषितः ॥ ७९ ॥
मूलम् - ७९
केशवस्तु सुवर्णाभः शङ्खचक्रगदाधरः
शुक्लाम्बरधरः सौम्यो मुक्ताभरणभूषितः ७९
विश्वास-प्रस्तुतिः - ८०
नारायणो घन-श्यामः
शङ्ख-चक्र-गदासि-भृत्
पीत-वासा मणिमयैर्
भूषणैर् उपशोभितः ॥ ८० ॥
मूलम् - ८०
नारायणो घनश्यामः शङ्खचक्रगदासिभृत्
पीतवासा मणिमयैर्भूषणैरुपशोभितः ८०
विश्वास-प्रस्तुतिः - ८१
माधवश् चोत्पल-प्रख्यश्
चक्र-शार्ङ्ग-गदासि-भृत्
चित्र-माल्याम्बर-धरः
पुण्डरीक-निभेक्षणः ॥ ८१ ॥
मूलम् - ८१
माधवश्चोत्पलप्रख्यश्चक्रशार्ङ्गगदासिभृत्
चित्रमाल्याम्बरधरः पुण्डरीकनिभेक्षणः ८१
विश्वास-प्रस्तुतिः - ८२
गोविन्दः शशि-वर्णः स्यात्
पद्म-शङ्ख-गदासि-भृत्
रक्तारविन्द-पादाब्जस्
तप्त-काञ्चन-भूषणः ॥ ८२ ॥
मूलम् - ८२
गोविन्दः शशिवर्णः स्यात्पद्मशङ्खगदासिभृत्
रक्तारविन्दपादाब्जस्तप्तकाञ्चनभूषणः ८२
विश्वास-प्रस्तुतिः - ८३
गौर-वर्णो भवेद् विष्णुश्
चक्र-शङ्ख-हलासि-भृत्
क्षौमाम्बर-धरः स्रग्वी
केयूराङ्गद-भूषितः ॥ ८३ ॥
मूलम् - ८३
गौरवर्णो भवेद्विष्णुश्चक्रशङ्खहलासिभृत्
क्षौमाम्बरधरः स्रग्वी केयूराङ्गदभूषितः ८३
विश्वास-प्रस्तुतिः - ८४
अरविन्द-निभः श्रीमान्
मधुजित् कमलाननः
चक्रं शार्ङ्गं च मुसलं पद्मं
दोर्भिर् बिभर्त्य् असौ ॥ ८४ ॥
मूलम् - ८४
अरविन्दनिभः श्रीमान् मधुजित्कमलाननः
चक्रं शार्ङ्गञ्च मुसलं पद्मं दोर्भिर्विभर्त्यसौ ८४
विश्वास-प्रस्तुतिः - ८५
त्रिविक्रमो रक्त-वर्णः
शङ्ख-चक्र-गदासि-भृत्
किरीट-हार-केयूर-
कुण्डलैश् च विराजितः ॥ ८५ ॥
मूलम् - ८५
त्रिविक्रमो रक्तवर्णः शङ्खचक्रगदासिभृत्
किरीटहारकेयूरकुण्डलैश्च विराजितः ८५
विश्वास-प्रस्तुतिः - ८६
वामनः कुन्द-वर्णः स्यात्
पुण्डरीकायतेक्षणः
दोर्भिर् वज्रं गदां चक्रं
पद्मं हैमं बिभर्त्य् असौ ॥ ८६ ॥
मूलम् - ८६
वामनः कुन्दवर्णः स्यात् पुण्डरीकायतेक्षणः
दोर्भिर्वज्रं गदां चक्रं पद्मं हैमं विभर्त्यसौ ८६
विश्वास-प्रस्तुतिः - ८७
श्रीधरः पुण्डरीकाभश्
चक्र-शार्ङ्गी च पद्म-धृक्
रक्तारविन्द-नयनो
मुक्ता-दाम-विभूषितः ॥ ८७ ॥
मूलम् - ८७
श्रीधरः पुण्डरीकाख्यश्चक्रशार्ङ्गी च पद्मधृक्
रक्तारविन्दनयनो मुक्तादामविभूषितः ८७
विश्वास-प्रस्तुतिः - ८८
विद्युद्-वर्णो हृषीकेशश्
चक्र-शार्ङ्ग-हलासि-भृत्
रक्त-माल्याम्बर-धरः
पुण्डरीकावतंसकः ॥ ८८ ॥
मूलम् - ८८
विद्युद्वर्णो हृषीकेशश्चक्रशार्ङ्गहलासिभृत्
रक्तमाल्याम्बरधरः पुण्डरीकावतंसकः ८८
विश्वास-प्रस्तुतिः - ८९
पद्मनाभः पीत-वासाश्
चित्र-माल्यानुलेपनः
दामोदरः सार्वभौमः
पद्म-शार्ङ्गासि-शङ्ख-भृत् ॥ ८९ ॥
मूलम् - ८९
पद्मनाभः पीतवासाश्चित्रमाल्यानुलेपनः
दामोदरः सार्वभौमः पद्मशार्ङ्गासिशङ्खभृत् ८९
विश्वास-प्रस्तुतिः - ९०
पीत-वासा विशालाक्षो
नाना-रत्न-विभूषितः
एवं पुण्ड्राणि सततं
धारयेद् वैष्णवोत्तमः ॥ ९० ॥
मूलम् - ९०
पीतवासा विशालाक्षो नानारत्नविभूषितः
एवं पुण्ड्राणि सततं धारयेद्वैष्णवोत्तमः ९०
विश्वास-प्रस्तुतिः - ९१
पुण्ड्र-संस्कार इत्य् एवं
शिष्येणापि च कारयेत्
मन्त्र-शेषं समाप्याथ
वैष्णवान् भोजयेत् ततः ॥ ९१ ॥
मूलम् - ९१
पुण्ड्रसंस्कार इत्येवं शिष्येणापि च कारयेत्
मन्त्रशेषं समाप्याथ वैष्णवान् भोजयेत्ततः ९१
नाम
(अथ वैष्णवानां नाम-संस्कार-वर्णनम्)
विश्वास-प्रस्तुतिः - ९२
तृतीयं नाम-संस्कारं
कुर्वीत शुभ-वासरे ॥ ९२ ॥
मूलम् - ९२
तृतीयं नाम संस्कारं कुर्व्वीत शुभवासरे ९२
विश्वास-प्रस्तुतिः - ९३
स्नात्वा संपूज्य देवेशं
गन्ध-पुष्पादिभिर् गुरुः
नामाधि-दैवतं पश्चात्
पूजयेत् प्रयतात्मवान् ॥ ९३ ॥
मूलम् - ९३
स्नात्वा संपूज्य देशेशं गन्धपुष्पादिभिर्गुरून्
नामाधिदैवतं पश्चात्पूजयेत्प्रयतात्मवान् ९३
विश्वास-प्रस्तुतिः - ९४
द्वादशैव तु मासास् तु
केशवाद्यैर् अधिष्ठिताः
आरभ्य मार्गशीर्षं तु
यथा-संख्यां द्विजोत्तम ॥ ९४ ॥
मूलम् - ९४
द्वादशैव तु मासास्तु केशवाद्यैरधिष्ठिताः
आरभ्य मार्गशीर्षं तु यदा संख्या द्विजोत्तमः ९४
विश्वास-प्रस्तुतिः - ९५
यस्मिन् मासि भवेद् दीक्षा
तन्-मूर्तेर् नाम चोदितम्
नृसिंह-राम-कृष्णाख्यं
दास-नाम प्रकल्पयेत् ॥ ९५ ॥
मूलम् - ९५
यस्मिन्मासि भवेद्दीक्षा तन्मूर्त्तेर्नाम चोदितम्
नृसिंहरामकृष्णाख्यं दासनाम प्रकल्पयेत् ९५
विश्वास-प्रस्तुतिः - ९६
शक्त्या दशावताराणां
वर्धयेन् नाम वैष्णवः
नाम दद्यात् प्रयत्नेन
वैष्णवं पाप-नाशनम् ॥ ९६ ॥
मूलम् - ९६
शक्त्या दशावताराणां वर्जयेन्नाम वैष्णवः
नामदद्यात्प्रयत्नेन वैष्णवं पापनाशनम् ९६
विश्वास-प्रस्तुतिः - ९७
यस्य वै वैष्णवं नाम
नास्ति चेत् तु द्विजन्मनः
अनामिकः स विज्ञेयः
सर्व-कर्मसु गर्हितः ॥ ९७ ॥
मूलम् - ९७
यस्य वै वैष्णवं नाम नास्ति चेत्तु द्विजन्मनः
अनामिकः स विज्ञेयः सर्वकर्मसु गर्हितः ९७
विश्वास-प्रस्तुतिः - ९८
तत्र वै मास-नामापि
दद्याद् विप्रो विधानतः
ध्यात्वा समर्चयेन् नाम-
मूर्तिं मन्त्रेण देशिकः ॥ ९८ ॥
मूलम् - ९८
तत्र वै मासनामापि दद्याद्विप्रो विधानतः
ध्यात्वा समर्च्चयेन्नाम मूर्ति मन्त्रेण देशिकः ९८
विश्वास-प्रस्तुतिः - ९९
धूपं दीपं च नैवेद्यं
ताम्बूलं च समर्पयेत्
प्रदक्षिणम् अनुव्रज्य
भक्त्या सम्यक् प्रणम्य च ॥ ९९ ॥
मूलम् - ९९
धूपं दीपञ्च नैवेद्यं ताम्बूलञ्च समर्पयेत्
प्रदक्षिणमनुव्रज्य भक्त्या सम्यक्प्रणम्य च ९९
विश्वास-प्रस्तुतिः - १००
तन्-मन्त्रं मूल-मन्त्रं वा
जपेत् साहस्र-संख्यया
पश्चाद् धोमं प्रकुर्वीत
शतम् अष्टोत्तरं हविः ॥ १०० ॥
मूलम् - १००
तन्मत्रं मूलमन्त्रं वा जपेत्साहस्रसङ्ख्यया
पश्चाद्धोमं प्रकुर्वीत शतमष्टोत्तरं हविः १००
विश्वास-प्रस्तुतिः - १०१
वैष्णवैर् अनुवाकैश् च
जुहुयात् सर्पिषा तदा
नाम दद्यात् ततः शिष्यं
मन्त्र-तोये समाप्लुतम् ॥ १०१ ॥
मूलम् - १०१
वैष्णवैरनुवाकैश्च जुहुयात्सर्पिषा तदा
नाम दद्यात्ततः शिष्यं मन्त्रतोये समाप्लुतम् १०१
विश्वास-प्रस्तुतिः - १०२
ततः पुष्पाञ्जलिं दत्त्वा
होम-शेषं समापयेत्
वैष्णवान् भोजयेत् पश्चाद्
दक्षिणाद्यैश् च तोषयेत् ॥ १०२ ॥
मूलम् - १०२
ततः पुष्पाञ्जलिं दत्वा होमशेषं समापयेत्
वैष्णवान्भोजयेत्पश्चाद्दक्षिणाद्यैश्च तोषयेत् १०२
विश्वास-प्रस्तुतिः - १०३
एवं हि नाम-संस्कारं
कुर्वीत द्विज-सत्तमः
गुण-योगेन चान्यानि
विष्णोर् नामानि लौकिके ॥ १०३ ॥
मूलम् - १०३
एवं हि नामसंस्कारं कुर्वीत द्विजसत्तमः
गुणयोगेन चान्यानि विष्णोर्नामानि लौकिके १०३
विश्वास-प्रस्तुतिः - १०४
विशिष्टं वैष्णवं नाम
सर्व-कर्मसु चोदितम्
हरेः परं पितुर् नाम
यो ददात्य् अपरं सुतः ॥ १०४ ॥
मूलम् - १०४
विशिष्टं वैष्णवं नाम सर्वकर्मसु चोदितम्
हरेः परं पितुर्न्नाम यो ददात्यपरं सुतम् १०४
विश्वास-प्रस्तुतिः - १०५
अतिरोचनकं दिव्यं
तृतीयं श्रुति-चोदितम्
तस्माद् भगवतो नाम
सर्वेषां मुनिभिः स्मृतम् ॥ १०५ ॥
मूलम् - १०५
अतिरोचनकं दिव्यं तृतीयं श्रुतिचोदितम्
तस्माद्भगवतो नाम सर्वेषां मुनिभिः स्मृतम् १०५
इति नाम-संस्कारस् तृतीयः॥
मन्त्र-संस्कारः
अथ वैष्णवानां मन्त्र-संस्कार-वर्णनम्॥
[[P546]]
विश्वास-प्रस्तुतिः - १०६
एवं तृतीय-संस्कारं
कृत्वा वै वैदिकोत्तमः
चतुर्थं मन्त्र-संस्कारं
कुर्वीत द्विज-सत्तमः ॥ १०६ ॥
मूलम् - ५४६
एवं तृतीयसंस्कारं कृत्वा वै वैदिकोत्तमः
चतुर्थं मन्त्रसंस्कारं
कुर्वीत द्विजसत्तमः ॥ १०६ ॥
विश्वास-प्रस्तुतिः - १०७
ततः स्नात्वा विधानेन
पूजयेज् जगतां पतिम्
अष्टोत्तर-सहस्रं तु
मन्त्र-रत्नं जपेद् गुरुः ॥ १०७ ॥
मूलम् - १०७
ततः स्नात्वा विधानेन पूजयेत् जगतां पतिम्
अष्टोत्तरसहस्रं तु मन्त्ररत्नं जपेद्गुरुः १०७
कलशः
विश्वास-प्रस्तुतिः - १०८
स्नातं शिष्यं समाहूय
सु-वेषं समलङ्कृतम्
आदाय कलशं रम्यं
पवित्रोदक-पूरितम् ॥ १०८ ॥
मूलम् - १०८
स्नातं शिष्यं समाहूय सुवेषं समलङ्कृतम्
आदाय कलशं रम्यं पवित्रोदकपूरितम् १०८
विश्वास-प्रस्तुतिः - १०९
पञ्च-त्वक्-पल्लव-युतं
पञ्च-रत्न-समन्वितम्
मङ्गल-द्रव्य-संयुक्तं
मन्त्रेणैवाभिमन्त्रयेत् ॥ १०९ ॥
मूलम् - १०९
पञ्चत्वक्पल्लवयुतं पञ्चरत्नसमन्वितम्
मङ्गलद्रव्यसंयुक्तं मन्त्रेणैवाभिमन्त्रयेत् १०९
विश्वास-प्रस्तुतिः - ११०
सम्मार्जयेत् ततः शिष्यं
तज्-जलेन कुशैः शुभैः
सूक्तैश् च विष्णु-देवत्यैः
पावमानैस् तदैव च ॥ ११० ॥
मूलम् - ११०
सम्मार्जयेत्ततः शिष्यं तज्जलेन कुशैः शुभैः
सूक्तैश्च विष्णुदेवत्यैः पावमानैस्तदैव च ११०
विश्वास-प्रस्तुतिः - १११
अष्टोत्तर-शतं पश्चान्
मन्त्र-रत्नेन मार्जयेत्
अभिषिच्य ततो मूर्ध्नि
शुक्ल-वस्त्र-धरं शुचिम् ॥ १११ ॥
मूलम् - १११
अष्टोत्तरशतं पश्चान्मन्त्ररत्नेन मार्जयेत्
अभिषिच्य ततो मूर्ध्नि शुक्लवस्त्रधरं शुचिम् १११
होमः
विश्वास-प्रस्तुतिः - ११२
स्वलङ्कृतं समाचान्तम्
ऊर्ध्व-पूण्ड्र-धरं तदा
पवित्र-हस्तं पद्माक्ष-
मालया समलङ्कृतम् ॥ ११२ ॥
मूलम् - ११२
स्वलङ्कृतं समाचान्तमूर्ध्वपूण्ड्रधरं तदा
पवित्रहस्तं पद्माक्षमालया समलङ्कृतम् ११२
विश्वास-प्रस्तुतिः - ११३
निवेश्य दक्षिणे स्वस्य
आसने कुश-निर्मिते
स्व-गृह्योक्त-विधानेन
पुरतोऽग्निं प्रकल्पयेत् ॥ ११३ ॥
मूलम् - ११३
निवेश्य दक्षिणे स्वस्य आसने कुशनिर्मिते
स्वगृह्योक्तविधानेन पुरतोऽग्निं प्रकल्पयेत् ११३
विश्वास-प्रस्तुतिः - ११४
पौरुषेण तु सूक्तेन
श्री-सूक्तेन तथैव च
मध्वाज्य-मिश्रितं रम्यं
पायसं जुहुयाद् गुरुः ॥ ११४ ॥
मूलम् - ११४
पौरुषेण तु सूक्तेन श्रीसूक्तेन तथैव च
मध्वाज्यमिश्रितं रम्यं पायसं जुहुयाद्गुरुः ११४
विश्वास-प्रस्तुतिः - ११५
अष्टोत्तर-शतं पश्चाद्
आज्यं मन्त्र-द्वयेन च
मूल-मन्त्रेण जुहुयाच्
चरुं घृत-विमिश्रितम् ॥ ११५ ॥
मूलम् - ११५
अष्टोत्तरशतं पश्चादाज्यं मन्त्रद्वयेन च
मूलमन्त्रेण जुहुयाच्चरुं घृतविमिश्रितम् ११५
विश्वास-प्रस्तुतिः - ११६
केशवादीन् समुद्दिश्य
नित्यान् मुक्तांस् तथैव च
एकैकाम् आहुतिं हुत्वा
होम-शेषं समापयेत् ॥ ११६ ॥
मूलम् - ११६
केशवादीन्समुद्दिश्य नित्यान्मुक्तांस्तथैव च
एकैकमाहुतिं हुत्वा होमशेषं समापयेत् ११६
गुरु-नतिः
विश्वास-प्रस्तुतिः - ११७
ततः प्रदक्षिणं कृत्वा
नमस् कृत्वा जनार्दनम्
आचार्यः स्व-गुरुं नत्वा
जपेद् गुरु-परम्पराम् ॥ ११७ ॥
मूलम् - ११७
ततः प्रदक्षिणं कृत्वा नमस्कृत्वा जनार्दनम्
आचार्यः स्वगुरुं नत्वा जपेद्गुरुपरम्पराम् ११७
श्री-नतिः
विश्वास-प्रस्तुतिः - ११८
मातरं सर्व-जगतां
प्रपद्येत श्रियं ततः
“त्वं माता सर्व-लोकानां
सर्व-लोकेश्वर-प्रिये” ॥ ११८ ॥
मूलम् - ११८
मातरं सर्वजगतां प्रपद्येत श्रियं ततः
त्वं माता सर्वलोकानां सर्वलोकेश्वरप्रिये ११८
विश्वास-प्रस्तुतिः - ११९
“अपराध-शतैर् जुष्टं
नमस् तेन मम च्युतम्”
एवं प्रपद्य लक्ष्मीं तां
श्रियं सद्-गुरु-भावतः ॥ ११९ ॥
मूलम् - ११९
अपराधशतैर्जुष्टं नमस्तेन मम च्युतम्
एवं प्रपद्य लक्ष्मीं तां श्रियं सद्गुरुभावतः ११९
रक्षा-याचना द्वाभ्याम्
विश्वास-प्रस्तुतिः - १२०
“नित्य-युक्तं तया देव्या
वात्सल्यादि-गुणान्वितम्
शरण्यं सर्व-लोकानां
प्रपद्ये तं सनातनम्
नारायण दया-सिन्धो
वात्सल्य-गुण-सागर” ॥ १२० ॥
मूलम् - १२०
नित्ययुक्तं तया देव्या वात्सल्यादिगुणान्वितम्
शरण्यं सर्वलोकानां प्रपद्ये तं सनातनम्
नारायण दयासिन्धो वात्सल्यगुणसागर १२०
विश्वास-प्रस्तुतिः - १२१
“एनं रक्ष जगन्नाथ
बहु-जन्मापराधिनम्”
इत्य् आचार्येण सन्दिष्टः
+++(शिष्यः)+++ प्रपद्येत जनार्दनम् ॥ १२१ ॥
मूलम् - १२१
एनं रक्ष जगन्नाथ बहुजन्मापराधिनम्
इत्याचार्येण सन्दिष्टः प्रपद्येत जनार्दनम् १२१
विश्वास-टिप्पनी
According to this, AchArya should do prapatti to shrI,
then recommend janArdana to protect the shiShya,
and the shiShya should do prapatti (presumably asking for mantra).
Very doubtful if that’s followed in lokAchArya tradition.
गुरौ प्रपत्तिः
विश्वास-प्रस्तुतिः - १२२
प्रपद्येत ततः शिष्यो
गुरुम् एव दया-निधिम्
“गुरो त्वम् एव मे देवस्
त्वम् एव परमा गतिः ॥ १२२ ॥
मूलम् - १२२
प्रपद्येत ततः शिष्यो गुरुमेव दयानिधिम्
गुरो त्वमेव मे देवस्त्वमेव परमागतिः १२२
विश्वास-प्रस्तुतिः - १२३
त्वम् एव परमो धर्मस्
त्वम् एव परमं तपः”
इति प्रपन्नम् आचार्यो
निवेश्य पुरतो हरेः ॥ १२३ ॥
मूलम् - १२३
त्वमेव परमो धर्मस्त्वमेव परमं तपः
इति प्रपन्नमाचार्यो निवेश्य पुरतो हरेः १२३
मन्त्रोपदेशः
विश्वास-प्रस्तुतिः - १२४
प्राग्-अग्रेषु समासीनं
दर्भेषु सुसमाहितः
स्वाचार्यं पुरतो ध्यात्वा
नमस्कृत्वाथ भक्तिमान् ॥ १२४ ॥
मूलम् - १२४
प्रागग्रेषु समासीनं दर्भेषु सुसमाहितः
स्वाचार्यं पुरतो ध्यात्वा नमस्कृत्वाथ भक्तिमान् १२४
विश्वास-प्रस्तुतिः - १२५
गुरोः परम्परां जप्त्वा
हृदि ध्यात्वा जनार्दनम्
कृपया वीक्षितं शिष्यं
दक्षिणं ज्ञान-दक्षिणम् ॥ १२५ ॥
मूलम् - १२५
गुरोः परम्परां जप्त्वा हृदि ध्यात्वा जनार्दनम्
कृपया वीक्षितं शिष्यं दक्षिणं ज्ञानदक्षिणम् १२५
विश्वास-प्रस्तुतिः - १२६
निक्षिप्य हस्तं शिरसि
वामं हृदि च विन्यसेत्
पादौ गृहीत्वा शिष्यस् तु
गुरोः प्रयत-मानसः ॥ १२६ ॥
मूलम् - १२६
निक्षिप्य हस्त शिरसि वामं हृदि च विन्यसेत्
पादौ गृहीत्वा शिष्यस्तु गुरोः प्रयतमानसः १२६
विश्वास-प्रस्तुतिः - १२७
“भो गुरो ब्रूहि, मन्त्रं मे
ब्रूयाद्” इति दया-निधे
अध्यापयेत् ततस् तस्मै
मन्त्र-रत्नं शुभाह्वयम् ॥ १२७ ॥
मूलम् - १२७
भो गुरो ब्रूहि मन्त्रं मे ब्रूयादिति दयानिधे
अध्यापयेत्ततस्तस्मै मन्त्ररत्नं शुभाह्वयम् १२७
विश्वास-प्रस्तुतिः - १२८
स-न्यासं च समुद्रं च
स-ऋषि-छन्दोऽधिदैवतम्
सार्थम् अध्यापयेच् छिष्यं
प्रयतं शरणागतम् ॥ १२८ ॥
मूलम् - १२८
सन्न्यासञ्च समुद्रञ्च सर्पिषण्डोऽधिदैवतम्
सार्थमध्यापयेच्छिष्यं प्रयतं शरणागतम् १२८
विश्वास-प्रस्तुतिः - १२९
अष्टाक्षरं द्वादशार्णं
षट्-कुक्षीं वैष्णवीं+++(=??-)+++ तदा
राम-कृष्ण-नृसिंहाख्यान्
मन्त्रान् तस्मै निवेदयेत् ॥ १२९ ॥
मूलम् - १२९
अष्टाक्षरं द्वादशार्णं षट्कुक्षीं वैष्णवीं तदा
रामकृष्णनृसिंहाख्यान् मन्त्रान् तस्मै निवेदयेत् १२९
आचार्य-चितिः
विश्वास-प्रस्तुतिः - १३०
न्यासे वाप्य् अर्चने वापि
मन्त्रम् एकान्तिनं श्रयेत्
अ-वैष्णवोपदिष्टेन
मन्त्रेण नरकं व्रजेत् ॥ १३० ॥
मूलम् - १३०
न्यासे वाप्यर्चने वापि मन्त्रमेकान्तिनं श्रयेत्
अवैष्णवोपदिष्टेन मन्त्रेण नरकं व्रजेत् १३०
विश्वास-प्रस्तुतिः - १३१
अवैष्णवाद् गुरोर् मन्त्रं
यः पठेद् वैष्णवो द्विजः
कल्प-कोटि-सहस्राणि
पच्यते नरकाग्निना ॥ १३१ ॥
मूलम् - १३१
अवैष्णवद् गुरोर्मन्त्रं यः पठेद्वैष्णवो द्विजः
कल्पकोटिसहस्राणि पच्यते नरकात्मना १३१
शिष्य-नियमः
विश्वास-प्रस्तुतिः - १३२
अ-चक्र-धारिणे यस् तु
मन्त्रम् अध्यापयेद् गुरुः
रौरवं नरकं प्राप्य
चाण्डालीं योनिम् आप्नुयात् ॥ १३२ ॥
मूलम् - १३२
अचक्रधारिणं यस्तु मन्त्रमध्यापयेद्गुरुः
रौरवं नरकं प्राप्य चाण्डालीं योनिमाप्नुयात् १३२
विश्वास-प्रस्तुतिः - १३३
तस्माद् दीक्षा-विधानेन
शिष्यं भक्ति-समन्वितम्
मन्त्रम् अध्यापयेद् विद्वान्
वैष्णवं पाप-नाशनम् ॥ १३३ ॥
मूलम् - १३३
तस्माद्दीक्षाविधानेन शिष्यं भक्तिसमन्वितम्
मन्त्रमध्यापयेद्विद्वान्वैष्णवं पापनाशनम् १३३
द्वयम्
विश्वास-प्रस्तुतिः - १३४
अनधीत्य द्वयं मन्त्रं
योऽन्यं वैष्णवम् उत्तमम्
अधीत्य मन्त्र-संसिद्धिं
न प्राप्नोति न संशयः ॥ १३४ ॥
मूलम् - १३४
अनधीत्य वृयं मन्त्रं योऽन्यवैष्णवमुत्तमम्
अधीत्यमन्त्रसंसिद्धिं न प्राप्नोति न संशयः १३४
कालः
विश्वास-प्रस्तुतिः - १३५
जातकर्मणि वा चौले
तदा मौञ्जी-निबन्धने
चक्रस्य धारणं यत्र
भवेत् तस्य तु तत्र वै ॥ १३५ ॥
मूलम् - १३५
जातकर्मणि वा चौले तदा मौञ्जीनिबन्धने
चक्रस्य धारणं यत्र भवेत्तस्य तु तत्र वै १३५
विश्वास-प्रस्तुतिः - १३६
उपनीय गुरुः शिष्यं
गृह्योक्त-विधिना ततः
अध्यापयेच् च सावित्रीं
ततो मन्त्र-द्वयं शुभम् ॥ १३६ ॥
मूलम् - १३६
उपनीय गुरुः शिष्यं गृह्योक्तविधिना ततः
अध्यापयेच्च सावित्रं तपोमन्त्रं द्वयं शुभम् १३६
उत्तराङ्गम्
विश्वास-प्रस्तुतिः - १३७
प्राप्त-मन्त्रस् ततः शिष्यः
पूजयेच् छ्रद्धया गुरुम्
गो-भू-हिरण्य-रत्नाद्यैर्
वासोभिर् भूषणैर् अपि ॥ १३७ ॥
मूलम् - १३७
प्राप्तमन्त्रस्ततः शिष्यः पूजयेच्छ्रद्धया गुरुम्
गोभूहिरण्यरत्नाद्यैः वासोभिर्भूषणैरपि १३७
विश्वास-प्रस्तुतिः - १३८
सद्-वक्ता शासयेच् छिष्यम्
आचार्यः संशित-व्रतः
स्वरूपं साधनं साध्यं
मन्त्रेणास्मै निवेदयेत् ॥ १३८ ॥
मूलम् - १३८
सद्वक्ता शासयेच्छिष्यमाचार्यः संशितव्रत
स्वरूपं साधनं साध्यं मन्त्रेणास्मै निवेदयेत् १३८
वृत्तिः
विश्वास-प्रस्तुतिः - १३९
द्वयेन वृत्ति-याथात्म्यं
सम्यग् अस्मै निवेदयेत्
आचार्याधीन-वृत्तिस् तु
संयतस् तु वसेत् सदा ॥ १३९ ॥
मूलम् - १३९
द्वयेन वृत्तियाथात्म्यं सम्यगस्मै निवेदयेत्
आचार्याधीनवृत्तिस्तु संयतस्तु वसेत् सदा १३९
विश्वास-प्रस्तुतिः - १४०
कर्मणा मनसा वाचा
हरिम् एव भजेत् सुधीः
यावच् छरीर-पातन् तु
द्वयम् आवर्तयेत् सदा ॥ १४० ॥
मूलम् - १४०
कर्मणा मनसा वाचा हरिमेव भजेत्सुधीः
यावच्छरीरपातन्तु द्वयमावर्तयेत्सदा १४०
विश्वास-प्रस्तुतिः
एवं हि विधिना सम्यङ्
मन्त्र-संस्कार-संस्कृतः ॥ १४१ ॥
मूलम्
एवं हि विधिना सम्यङ् मन्त्र-संस्कार-संस्कृतः ॥ १४१ ॥
इति मन्त्र-संस्कारश् चतुर्थः
इज्योपदेशः
अथ पञ्चम-संस्कार-विधि-वर्णनम्
होमः
विश्वास-प्रस्तुतिः - १४२
मन्त्रार्थ-तत्त्व-विदुषं
याग-तन्त्रे नियोजयेत्
पूर्वाह्णे पूजयेद् देवं
तस्य प्रियतरं शुभम् ॥ १४२ ॥
मूलम् - १४२
मन्त्रार्थतत्त्वविदुषं यागतन्त्रे नियोजयेत्
पूर्वाह्णे पूजयेद्देवं तस्य प्रियतरं शुभः १४२
विश्वास-प्रस्तुतिः - १४३
मन्त्र-रत्न-विधानेन
गन्ध-पुष्पादिभिर् गुरुः
अर्चयित्वाच्युतं भक्त्या
होमं पूर्ववद् आचरेत् ॥ १४३ ॥
मूलम् - १४३
मन्त्ररत्नविधानेन गन्धपुष्पादिभिर्गुरुः
अर्चयित्वाच्युतं भक्त्या होमं पूर्ववदाचरेत् १४३
विश्वास-प्रस्तुतिः
सर्वैश् च वैष्णवैः सूक्तैः
पायसं घृत-मिश्रितम्
आज्यं मन्त्रेण होतव्यं
शतम् अष्टोत्तरं तदा ॥ १४४ ॥
मूलम्
सर्वैश् च वैष्णवैः सूक्तैः पायसं घृत-मिश्रितम्
आज्यं मन्त्रेण होतव्यं शतम् अष्टोत्तरं तदा ॥ १४४ ॥
विश्वास-प्रस्तुतिः - १४५
शक्त्या च वैष्णवैर् मन्त्रैः
सर्वैर् होमं समाचरेत्
एकैकाम् आहुतिं हुत्वा
सर्वावरण-देवताः ॥ १४५ ॥
मूलम् - १४५
शक्त्या च वैष्णवैर्मन्त्रैः सर्वैर्होमं समाचरेत्
एकैकमाहुतिं हुत्वा सर्वाधरणदेवता १४५
विश्वास-प्रस्तुतिः - १४६
प्रणवादि-चतुर्थ्यन्तैस्
तेषां वै नामभिर् यजेत्
होम-शेषं समाप्याथ
वैष्णवान् भोजयेत् तदा ॥ १४६ ॥
मूलम् - १४६
प्रणवादिचतुर्थ्यन्तैस्तेषां वै नामभिर्यजेत्
होमशेषं समाप्याथ वैष्णवान् भोजयेत्तदा १४६
बिम्ब-दानम्
विश्वास-प्रस्तुतिः - १४७
मन्त्र-रत्नेन तद्-बिम्बं
पुष्पाञ्जलि-शतं यजेत्
प्रणम्य भक्त्या देवेशं
जप्त्वा मन्त्रम् अनुत्तमम् ॥ १४७ ॥
मूलम् - १४७
मन्त्ररत्नेन तद्बिम्बं पुष्पाञ्जलिशतं यजेत्
प्रणम्य भक्त्या देवेशं जप्त्वा मन्त्रमनुत्तमम् १४७
विश्वास-प्रस्तुतिः - १४८
आहूय प्रणतं शिष्यं
तद्-बिम्बं दर्शयेद् गुरुः
कृपयाथ ततस् तस्मै
दद्याद् बिम्बं हरेर् गुरुः ॥ १४८ ॥
मूलम् - १४८
आहूय प्रणतं शिष्यं तद्बिम्बं दर्शयेद्गुरुः
कृपयाथ ततस्तस्मै दद्यद्बिम्बं हरेर्गुरुः १४८
विश्वास-प्रस्तुतिः - १४९
“एनं रक्ष जगन्नाथ
केवलं कृपया तव
अर्चनं यत् कृतं तेन
विभो स्वीकर्तुम् अर्हसि” ॥ १४९ ॥
मूलम् - १४९
एनं रक्ष जगन्नाथ केवलं कृपया तव
अर्चनं यत्कृतं तेन विभो स्वीकर्त्तुमर्हसि १४९
उत्तरकृत्यम्
विश्वास-प्रस्तुतिः - १५०
एवं लब्ध्वा गुरोर् बिम्बं
पूजयेत् तं प्रयत्नतः
हिरण्य-वस्त्राभरण-
यान-शय्यासनादिभिः ॥ १५० ॥
मूलम् - १५०
एवं लब्ध्वा जुरोर्बिम्बं पूजयेत्तं प्रयत्नतः
हिरण्यवस्त्राभरणयानशय्यासनादिभिः १५०
विश्वास-प्रस्तुतिः - १५१
ततः प्रभृति देवेशम्
अर्चयेद् विधिना सदा
श्रौत-स्मार्तागमोक्तानां
ज्ञात्वा ऽन्यतमम् अच्युतम् ॥ १५१ ॥
मूलम् - १५१
ततः प्रभृति देवेशमर्च्चयेद्विधिना सदा
श्रौतस्मार्त्तागमोक्तानां ज्ञात्वान्यतममच्युतम् १५१
इति वृद्धहारीतस्मृत्यां विशिष्टधर्मशास्त्रे पञ्चसंस्कार-
विधानं नाम द्वितीयोऽध्यायः