०१ पञ्च-संस्कार-प्रतिपादनम्

प्रथमोऽध्यायः
अथ पञ्चसंस्कारप्रतिपादनवर्णनम्

विश्वास-प्रस्तुतिः - १

अम्बरीषस्तु तं गत्वा हारीतस्याश्रमं नृपः
ववन्दे तं महात्मानं बालार्कसदृशप्रभम् १

मूलम् - १

अम्बरीषस्तु तं गत्वा हारीतस्याश्रमं नृपः
ववन्दे तं महात्मानं बालार्कसदृशप्रभम् १

विश्वास-प्रस्तुतिः - २

संपृष्टः कुशलस्तेन पूजितः परमासने
उपविष्टस्ततो विप्रमुवाच नृपनन्दनः २

मूलम् - २

संपृष्टः कुशलस्तेन पूजितः परमासने
उपविष्टस्ततो विप्रमुवाच नृपनन्दनः २

विश्वास-प्रस्तुतिः - ३

भगवन् सर्वधर्म्मज्ञ तत्ववेदविदाम्वर
पृच्छामि त्वां महाभाग परमं धर्ममव्ययम् ३

मूलम् - ३

भगवन् सर्वधर्म्मज्ञ तत्ववेदविदाम्वर
पृच्छामि त्वां महाभाग परमं धर्ममव्ययम् ३

विश्वास-प्रस्तुतिः - ४

ब्रूहि वर्णाश्रमाणान्तु नित्यनैमित्तिकक्रियाः
कर्तव्या मुनिशार्द्दूल नारीणाञ्च नृपस्य च ४

मूलम् - ४

ब्रूहि वर्णाश्रमाणान्तु नित्यनैमित्तिकक्रियाः
कर्तव्या मुनिशार्द्दूल नारीणाञ्च नृपस्य च ४

विश्वास-प्रस्तुतिः - ५

स्वरूपं जीवपरयोः कथं मोक्षपथस्य च
तत्प्राप्ते साधनं ब्रह्मन् वक्तुमर्हसि सुव्रत ५

मूलम् - ५

स्वरूपं जीवपरयोः कथं मोक्षपथस्य च
तत्प्राप्ते साधनं ब्रह्मन् वक्तुमर्हसि सुव्रत ५

विश्वास-प्रस्तुतिः - ६

एवमुक्तस्तु विप्रर्षिस्तेन राजर्षिणा तदा
उवाच परमप्रीत्या नमस्कृत्य जनार्दनम् ६

मूलम् - ६

एवमुक्तस्तु विप्रर्षिस्तेन राजर्षिणा तदा
उवाच परमप्रीत्या नमस्कृत्य जनार्दनम् ६

हारीत उवाच
विश्वास-प्रस्तुतिः - ७

शृणु राजन् प्रवक्ष्यामि सर्वं वेदोपवृंहितम्
यदुक्तं ब्रह्मणा पूवं पृच्छतो मम भूपते ७

मूलम् - ७

शृणु राजन् प्रवक्ष्यामि सर्वं वेदोपवृंहितम्
यदुक्तं ब्रह्मणा पूवं पृच्छतो मम भूपते ७

विश्वास-प्रस्तुतिः - ८

तद्ब्रवीमि परं धर्मं शृणुष्वैकाग्रमानसः
सर्वेषामेव देवानामनादिः पुरुषोत्तमः ८

मूलम् - ८

तद्ब्रवीमि परं धर्मं शृणुष्वैकाग्रमानसः
सर्वेषामेव देवानामनादिः पुरुषोत्तमः ८

विश्वास-प्रस्तुतिः - ९

ईश्वरस्तु स एवान्ये जगतो विभुरव्ययः
नारायणो वासुदेवो विष्णुर्ब्रह्मात्मनो हरिः ९

मूलम् - ९

ईश्वरस्तु स एवान्ये जगतो विभुरव्ययः
नारायणो वासुदेवो विष्णुर्ब्रह्मात्मनो हरिः ९

विश्वास-प्रस्तुतिः - १०

स्रष्टा धाता विधाता च स एव परमेश्वरः
हिरण्यगर्भः सविता गुणधृङ् निर्गुणोऽव्ययः १०

मूलम् - १०

स्रष्टा धाता विधाता च स एव परमेश्वरः
हिरण्यगर्भः सविता गुणधृङ् निर्गुणोऽव्ययः १०

५३६
विश्वास-प्रस्तुतिः - ११

परमात्मा परं ब्रह्म परं ज्योतिः परात्परः
इन्द्रः प्रजापतिः सूर्यः शिवो वह्निः सनातनः ११

मूलम् - ११

परमात्मा परं ब्रह्म परं ज्योतिः परात्परः
इन्द्रः प्रजापतिः सूर्यः शिवो वह्निः सनातनः ११

विश्वास-प्रस्तुतिः - १२

सर्व्वात्मकः सर्वसुहृत्सर्वभृद्भूतभावनः
यमी च भगवान्कृष्णो मुकुन्दोऽनन्त एव च १२

मूलम् - १२

सर्व्वात्मकः सर्वसुहृत्सर्वभृद्भूतभावनः
यमी च भगवान्कृष्णो मुकुन्दोऽनन्त एव च १२

विश्वास-प्रस्तुतिः - १३

यज्ञो यज्ञपतिर्यज्वा ब्रह्मण्यो ब्रह्मणः पतिः
स एष पुण्डरीकाक्षः श्रीशो नाथोऽधिपो महान् १३

मूलम् - १३

यज्ञो यज्ञपतिर्यज्वा ब्रह्मण्यो ब्रह्मणः पतिः
स एष पुण्डरीकाक्षः श्रीशो नाथोऽधिपो महान् १३

विश्वास-प्रस्तुतिः - १४

सहस्रमूर्द्धा विश्वात्मा सहस्रकरपादवान्
यद्गत्वा न विवर्तन्ते तद्धाम परमं हरेः १४

मूलम् - १४

सहस्रमूर्द्धा विश्वात्मा सहस्रकरपादवान्
यद्गत्वा न विवर्तन्ते तद्धाम परमं हरेः १४

विश्वास-प्रस्तुतिः - १५

चतुर्भिः शोभनोपायैः साध्योऽयं सुमहात्मनः
तुरीयपदयोर्भक्त्या सुसिद्धोऽयमुदाहृतः १५

मूलम् - १५

चतुर्भिः शोभनोपायैः साध्योऽयं सुमहात्मनः
तुरीयपदयोर्भक्त्या सुसिद्धोऽयमुदाहृतः १५

विश्वास-प्रस्तुतिः - १६

तं स्वीकुर्वन्ति विद्वांसः स्वस्वरूपतया सदा
नैसर्गिकं हि सर्वेषां दास्यमेव हरेः सदा १६

मूलम् - १६

तं स्वीकुर्वन्ति विद्वांसः स्वस्वरूपतया सदा
नैसर्गिकं हि सर्वेषां दास्यमेव हरेः सदा १६

विश्वास-प्रस्तुतिः - १७

स्वाम्यं परस्वरूपं स्याद्दास्यं जीवस्य सर्वदा
प्रकृत्या त्वात्मनो रूपं स्वाम्यं दास्यमिति स्थितिः १७

मूलम् - १७

स्वाम्यं परस्वरूपं स्याद्दास्यं जीवस्य सर्वदा
प्रकृत्या त्वात्मनो रूपं स्वाम्यं दास्यमिति स्थितिः १७

विश्वास-प्रस्तुतिः - १८

दास्यमेव परं धर्मं दास्यमेव परं हितम्
दास्येनैव भवेन्मुक्तिरन्यथा निरयं भवेत् १८

मूलम् - १८

दास्यमेव परं धर्मं दास्यमेव परं हितम्
दास्येनैव भवेन्मुक्तिरन्यथा निरयं भवेत् १८

विश्वास-प्रस्तुतिः - १९

विष्णोर्दास्यं परा भक्तिमेषां तु न भवेत् क्वचित्
तेषामेव हि संसृष्टं निरयं ब्रह्मणा नृप १९

मूलम् - १९

विष्णोर्दास्यं परा भक्तिमेषां तु न भवेत् क्वचित्
तेषामेव हि संसृष्टं निरयं ब्रह्मणा नृप १९

विश्वास-प्रस्तुतिः - २०

नारायणस्य दासा ये न भवन्ति नराधमाः
जीवन्त एव चाण्डाला भविष्यन्ति न संशयः २०

मूलम् - २०

नारायणस्य दासा ये न भवन्ति नराधमाः
जीवन्त एव चाण्डाला भविष्यन्ति न संशयः २०

विश्वास-प्रस्तुतिः - २१

तस्माद्दास्यं परां भक्तिमालब्भ्य नृपसत्तम
नित्यं नैमित्तिकं सर्वं कुर्य्यात्प्रीत्यै हरेः सदा २१

मूलम् - २१

तस्माद्दास्यं परां भक्तिमालब्भ्य नृपसत्तम
नित्यं नैमित्तिकं सर्वं कुर्य्यात्प्रीत्यै हरेः सदा २१

विश्वास-प्रस्तुतिः - २२

तस्य स्वरूपं रूपञ्च गुणांश्चापि विभूतयः
ज्ञात्वा समर्च्चयेद्विष्णुं यावज्जीवमतन्द्रितः २२

मूलम् - २२

तस्य स्वरूपं रूपञ्च गुणांश्चापि विभूतयः
ज्ञात्वा समर्च्चयेद्विष्णुं यावज्जीवमतन्द्रितः २२

विश्वास-प्रस्तुतिः - २३

तमेव मनसा ध्यायेद्वाचा सङ्कीर्तयेत्प्रभुम्
जपेच्च जुहुयाद्भक्तो तद्वानेकविलक्षणः २३

मूलम् - २३

तमेव मनसा ध्यायेद्वाचा सङ्कीर्तयेत्प्रभुम्
जपेच्च जुहुयाद्भक्तो तद्वानेकविलक्षणः २३

शङ्खचक्रोर्ध्व पुण्ड्रादिधारणं दास्यलक्षणम्

५३७

तन्नामकरणञ्चैव वैष्णवन्तदिहोच्यते २४

विश्वास-प्रस्तुतिः - २५

अवैष्णवाश्च ये विप्रा हर्षदास्ते नराधमाः
तेषां तु नरके वासः कल्पकोटिशतैरपि २५

मूलम् - २५

अवैष्णवाश्च ये विप्रा हर्षदास्ते नराधमाः
तेषां तु नरके वासः कल्पकोटिशतैरपि २५

विश्वास-प्रस्तुतिः - २५

तदादि वर्षसञ्चारी मन्त्ररत्नार्थतत्ववित्
वैष्णवः स जगत्पूज्यो याति विष्णोः परं पदम् २५

मूलम् - २५

तदादि वर्षसञ्चारी मन्त्ररत्नार्थतत्ववित्
वैष्णवः स जगत्पूज्यो याति विष्णोः परं पदम् २५

विश्वास-प्रस्तुतिः - २६

अचक्रधारी यो विप्रो बहुवेदश्रुतोऽपि वा
स जीवन्नेव चण्डालो मृतो निरयमाप्नुयात् २६

मूलम् - २६

अचक्रधारी यो विप्रो बहुवेदश्रुतोऽपि वा
स जीवन्नेव चण्डालो मृतो निरयमाप्नुयात् २६

विश्वास-प्रस्तुतिः - २७

तस्मात्ते हरिसंस्काराः कर्त्तव्या धर्मकाङ्क्षिणाम्
अयमेव परं धर्म्मः प्रधानं सर्वकर्म्मणाम् २७

मूलम् - २७

तस्मात्ते हरिसंस्काराः कर्त्तव्या धर्मकाङ्क्षिणाम्
अयमेव परं धर्म्मः प्रधानं सर्वकर्म्मणाम् २७

इति वृद्धहारीतस्मृत्यां विशिष्टधर्म्मशास्त्रे पञ्चसंस्कार-प्रतिपादनं नाम प्रथमोऽध्यायः