TODO: परिष्कार्यम्।
Source: TW
अथ प्रथमोऽध्यायः
श्रीमत्तोद गिरेर्मूर्ध्नि श्रीमत्यायतने हरेः । शाण्डिल्य ऋषिमासीनं प्रणम्य मुनयोऽब्रुवन् ॥ १ ॥ श्रीमदेकायनं शास्त्रं श्रुतं गुह्यं सनातनम् । ज्ञातं च सवं वेदानां अन्तस्सारमिदंत्विति ॥२॥ निवृत्तं वैदिकं कर्म यत्प्रोक्तं भवभेषजम् । पक्षकालात्मकं ज्ञानं तच्च ब्रह्मकदैवतम् ॥३॥ कुटुम्बाश्रमनिष्ठानां पञ्चकालनिषेविणाम् ।
आचारं त्वन्मुखाम्भोजाच्छ्रोतुमिच्छामहे वयम् ॥ ४ ॥ शाण्डिल्योऽपि नमस्कृत्य मङ्गलायतनं हरिम् । अब्रवीत्समुनिश्रेष्ठान् श्रेष्ठकर्मा महामुनिः ॥५॥ बहुशः पूर्वमेवायं समाचारो मयेरितः । पदार्थानधिकृत्यैव शास्त्रे सप्त संस्थितान् ॥६॥ महाविस्तररूपोऽयमाचारः पञ्चकालिनाम् । संक्षेपात्प्रब्रवीम्यद्य यथाशास्त्रं यथामति ॥ ७ ॥
[[२७६४]]
शाण्डिल्यस्मृतिः
रहस्यमेतद्विज्ञानं भक्तानां हितमेव च । अतः प्रमाणं भक्तानां सारं सर्वागमेषु च ॥ ८ ॥ कुटुम्वाश्रममाश्रित्य तथा कालक्रमेण च । वक्ष्याम्येव समाचारान् मुख्यास्ते हि कुटुम्बिनः ॥ ६ आचारं मंगलोपेतं संक्षेपात्प्रत्रवीमि वः । अनन्यमनसस्सर्वे शृणुध्वं मुनिपुङ्गवाः ॥१०॥ पञ्चेन्द्रियस्य देहस्य बुद्धश्च मनसस्तथा । द्रव्यदेशक्रियाणां च शुद्धिराचार इष्यते ॥११॥ वक्ष्यमाणस्य सूत्रं हि स्तोके श्लोकोऽयमीरितः । संक्षेपविस्तराभ्यां च व्याख्यानमिदमुच्यते ॥१२॥ प्रतिषिद्ध ष्वसक्तं हि यत्सक्तं शुद्धेषु साधुषु । भगवद्विषयेष्वेव शुद्धं तच्छ्रोत्रमुच्यते ॥१३॥ स्पृश्यमस्पृशन्त्येवास्पृश्यं स्पृश्यमेव च । तत्राप्यलोलुपा सद्भि स्त्वक्शुद्धति निगद्यते ॥१४॥ पाषण्डपतिद्यषु न पतन्ति कदाचन । अरूक्षा संपतंती हक्शुद्धा भागवतादिषु ॥१५॥
भोज्यानेव रसात्रस्याञ्जात्यन्द्व च पलारसे । काले मितं तु सा जिह्वा परिशुद्ध तिकीर्त्यते ॥१६॥ अमेध्य गन्धादाक्षिप्ता मेध्यगन्धेषु योजिता । 11 युक्त ष्वलोलुपानासा सेह शुद्ध ेति कीर्त्यते ॥१७॥ द्विविधा देहशुद्धिश्च कर्मेन्द्रियवशात्तथा । सर्वाङ्गीणा च तद्यग्मं विविध्याद्यानुमन्यते ॥१८॥
।
द्विविधादेहशुद्धिवर्णनम्
परापवादं पारुष्यं विवादमनृतं
तथा ।
अतिवन्धप्रलापं च निजपूजानुवर्णनम् ॥१६॥ असह्यं मर्मवचनं आक्षेपवचनं तथा । असच्छास्त्रानुपठनमसद्भिस्सह भाषणम् ॥२०॥ इत्यादि दुर्वचो हित्वा स्वाध्यायजपतत्पराः । मोक्षधर्मार्थपठने निरता प्रियवादिता
सत्यैः परहितैस्सात्थैर्जप्तैर्लक्षणसङ्गतैः ।
॥२१॥
युक्ताक्षरैस्सुपूता वाङ्मौनरत्नेन मुद्रिता ॥२२॥ केशकेटानुसरणा नखरोमावकृन्तनम् ।
तृणमृच्छेदनं वृक्षगुल्मानां छेदनं तथा
॥२३॥
स्त्रीबालवृद्धातुराणामन्येषां ताडनं क्रुधा । परदारपरद्रव्यपरामर्शं त्वकामतः ॥२४॥ अङ्गुल्यास्फोटनं लीला पाणितालादि हेलनम् । तर्जनं चैवमादीनि बहिष्कार्या शुभानि वै ॥२५॥ अभ्यञ्जनादिव्यापारे युक्तः पित्रोर्गुरोस्तथा । धारकः पुण्यशीलानां वृद्धानां रोगिणामपि ॥२६॥ अस्थिनामिष्टदानेन सर्वदाद्रकृताङ्गुलिः ।
मल्लिका जातितुलसोवर्द्धनादवकुण्ठितः ॥२७॥ भगवन्मन्दिरे नित्यं मार्जनादिक्रियापरः । अलङ्कारादिकरणे कुशलश्च जगद्गुरोः ॥२८॥ भगवत्पादपूजायां चरन् तालवने तथा । प्रसक्तश्शुभशास्त्राणां संस्कारादिक्रियापरः ॥२६॥
[[२७६५]]
[[२७६६]]
शाण्डिल्यस्मृतिः
जपसङ्ख्यानुगणनव्यापारेण पवित्रतः ।
॥३४॥
113 युक्तस्तथा शुभैरन्यैश्शुद्धः पाणितलो मतः ॥३०॥ भगवन्मन्दिरं वृद्धान् पूज्यानन्यांश्च मङ्गलान् । प्रतिप्रसारणं मोहान् भूमिघातं पलायनम् ॥३१॥ सर्वोपकरणानां च सर्वेषां प्राणिनां तथा । स्पर्शनं लङ्घनं चापि तथान्या अपि दुष्क्रियाः ॥३२॥ विसृज्य भगवत्कर्म सिद्धयर्थं गमने रतम् । तथा भागवतस्यार्था सिद्धयर्थं च विशेषतः ॥३३॥ प्रदक्षिणक्रियासक्तः तीर्थयात्रापरं तथा । दर्शनार्थं तथा नित्यं कर्मवानुभवाय च दिव्यायतनयात्रायामभियुक्त मृदुक्रमम् । महाभागवतानां च करसंस्पर्शवर्जितम् ॥३५॥ सद्भक्तानामनन्यानां पूजार्थं दर्शनाय च । सत्वरं चैवमादीनि कुर्वन् पादद्वयं शुभम् ॥३६॥ उच्चारं प्रसनं कुर्वन् कालएव च नान्यथा । गुप्त च सर्वदा शुद्ध पायुस्थानं विदुर्बुधाः ॥३७॥ काले निजस्त्रीसंसर्गरसयोगानुवृत्तिमान् । अन्यदानुद्वणं गुप्तमुपस्थं शुद्धमूत्रितम् ॥३८॥ शिरःकण्ठाक्षिनासादिमलनिर्हरणेऽनया ।
शुद्धिर्देहस्य सा सद्भिस्सर्वाङ्गीणेति कीर्त्यते ॥३६॥ धर्महानिर्न कर्त्तव्या कर्तव्यो धर्म सङ्ग्रहः । धर्माधर्मौ हि सर्वेषां सुखदुःखोपपातकौ ॥४०॥
[[२७६७]]
ज्ञानकर्मभ्यां हरिरेवोपास्यइतिवर्णनम्
इदमेव तु सच्छास्त्रमयं धर्मः सनातनः ।
अन्यानि सर्वशास्त्राणि मोहनानि क्रियास्तथा ॥ ४१२ ॥ भ्रमन्ति सर्वभूतानि न च गच्छन्ति सत्पथम् । तामसं राजसं चान्यमेतत्सात्त्विकमुच्यते ॥४२॥
इदं यमिदं हेयमुपादेयमिदं
परम् ।
एवमुक्तं पुराणेषु वेदेपूपनिषत्स्वपि ॥४३॥ एवं साधुभिराचीर्णमेवमन्याप्यकारिभिः । साक्षाद्ब्रह्म परं धाम सर्वकारणमव्ययम् देवकीपुत्र एवान्ये सर्वे तत्कार्यकारिणः ।
।
॥४४॥
॥४५॥
॥४६॥
देवा मनुष्याः पशवः मृगपक्षिसरीसृपाः सर्वमेतज्जगद्धातुर्वासुदेवस्य विस्तृतिः ।
निवृत्तैश्च स्वर्गदैर्मोक्षदैरपि
प्रवृत्तैश्च
आराध्यो भगवानेव वेदधर्मै स्सनातनैः ।
स एव सर्वथोपास्यो नान्ये संसारतारणाः ॥४७॥
॥४८॥
उभाभ्यां ज्ञानकर्मभ्यां आराध्यो भगवान् प्रभुः । तज्ज्ञानमेव विज्ञानं तत्कर्म परमं शुभम् उभावपि विभक्तौ तौ न तु संप्राप्तिकारकौ । युक्ताभ्यां भगवत्प्राप्तिः संसारफलमन्यथा ॥४६॥ तच्छास्त्रमेव सच्छात्रं तदीया एव पण्डिताः । शोच्या हि भगवत्पादपरिचर्याविधिं विना ॥५०॥ कृतकृत्यधियो मूढाः अहो हतमिदं जगत् । इत्यादिसात्त्विकज्ञाननिश्चयेन दृढीकृताः ॥५१॥
[[२७६८]]
शाण्डिल्यस्मृतिः
अभेद्या परमा बुद्धिश्शुद्ध ेति परिकीर्त्यते । परदारपरद्रव्यपरहिंसानुचिन्तनम
॥५२॥
वैरानुबन्धनं चैर्षमलभ्यत्थानुचिन्तनम् ।
सुदूरं बहुधायातं भोक्तव्यमितिचिन्तनम् ॥५३॥ असत्कथानुसरणमसत्कार्य निरूपणम् ।
इत्यादिदोषरूपाणि हित्वा कर्मणि निश्चलम् ॥५४॥ भगवत्कर्मसिद्ध्यर्थं व्यापृतं भगवत्परम् । अविषण्णमनायस्तमहङ्कारविवर्जितम् ॥५५॥ असद्विषयसक्तानामिन्द्रियाणामहर्निशम् ।
दमकं सर्वयत्नेन वाह्यारंभं विनिस्पृहम् ॥५६॥ सर्वदा भगवद्ध्यानं संसर्गविगतज्वरम् ।
भगवद्भक्तसद्वाक्यगङ्गाजलपवित्रितम्
सदर्थग्राहकं सूक्ष्मज्ञानरूपविचारकम् ।
॥५७॥
समर्थमप्रधृष्यं च धृष्टं तुष्टमसङ्गि च ॥५८॥ एवमादिगुणोपेतं निर्मलं मन इष्यते ।
इन्द्रियाणां सदेहानां बुद्ध ेश्चमनसस्तथा आख्याता शुद्धिरेषाऽत्र द्रव्याणामधुनोच्यते ।
॥५६॥
इच्छया देवदेवस्य प्रकृतिस्त्रिगुणात्मिका जगत्करणभूतान्ता विद्य ेत्याहुर्मनीषिणः । तद्विकारं जगत्सर्वं सदेवासुरमानुषम् तस्याः स्वरूपं सत्त्वं तत् तदोषावितरौ गुणौ । अतएव विकारोऽयमभवत् त्रिगुणात्मकः
॥ ६०॥
॥ ६१॥
॥६२॥सात्विकराजसतामसगुणानां वर्णनम्
[[२७६६]]
विद्यायाः पञ्चभूतानि जायन्ते प्रकृतेः किल । पञ्चभूतान्यधिष्ठाय वर्ज (र्त ) येच्छास्त्रवर्त्मना ॥६३॥ राजसं तामसं चैव तज्ज्ञेयं पण्डितैर्वरैः । द्रव्यं रजस्तमोध्वस्तं वैष्णवैः कर्मवर्त्मनि ॥६४॥ संयोजयति यो मोहात् तस्य साऽपि फलक्रियाः । स्वयं तदश्नीयात् निषिद्धां मुग्धचेतनः ॥६५॥ अजानन् हृदयान्तःस्थं भोक्तारं न स सात्त्विकः । यादृशं द्रव्यमश्नाति तामसं सात्त्विकं तु वा ॥६६॥ तादृशं रूपमाप्नोति ततः क्षमेति ( भवे ) तथा । विशुद्ध भोज्यमुद्दिष्ट अचोष्यैव कर्म सः ॥६७॥ यद्यश्नाति स्वयं मोहात् साक्षात्स्तेनः स पापकृत् । निषिद्धवस्तुतद्रौद्र रक्षाप्रेतादिसम्मतम् ॥६८॥ साक्षाद्द्रव्यविशुद्ध ं यत् सात्त्विकं सद्गुणोज्ज्वलम् । निषिद्धवर्जनादेव वर्द्धते सात्त्विकं परम् ॥६६॥ सात्त्विकस्य विशुद्धयव ज्ञानं भवति निर्मलम् । शास्त्रदृष्टिं समीक्ष्यैव शुद्धानां द्रव्यसम्पदम् ॥७०॥ यत्नस्तु सङ्ग्रहे सद्भिः द्रव्यशुद्धिरपीष्यते । वक्ष्यामि देशशुद्धिं च संक्षेपेण यथागमम् ॥७१॥ या सत्रा(ता)मुपकाराय भवेत्सद्गतिकाङ्क्षिणाम् । म्लेच्छपाषण्डरहितधार्मिकेश्वर पाठितम् ॥७२॥ धार्मिकैस्सेवितं शश्वद् व्याघ्रसिंहादि वर्जितम् । निहन्तृदस्युरहितं सारंग शिखि सेवितम्
॥७३॥
[[२८००]]
शाण्डिल्यस्मृतिः
मोक्षभूमिरितिख्यातमलाभे
साधुसम्मतम् ।
दिव्यापगा देवघातवाप्यादिविमलोदकम् ॥७४॥
प्रभूतकदलीचूतनालिकेरादिमण्डितम् । सुसमृद्धसमित्काष्ठसम्पन्नकुसुमोदकम् ॥७५॥ आसन्नधोजलं रूढपलाशतुलसीकुशम् । गोसहस्रसमाकीर्णं सपुष्पं सोत्पलाम्बुजम् ॥७६॥ एवमादिगुणोपेतं भूतलं यदि लभ्यते । विविक्तदेशभूभागे दृष्टदोषविवर्जिते ॥७७॥ प्रासादं पर्णशालां वा कृत्वा निजबलान्वितम् । अविस्मृतमनिर्बाधं परितोऽपि मनोहरम् ॥७८॥ तत्राप्युच्छिष्टमूत्रासृक् केशकीटादिवर्जितम् । करीषमृज्जलालिप्ते काष्ठताम्रण चेतसः ॥७६॥ संप्रीतिजनके स्थित्वा भूतले भगवत्क्रिया । कर्त्तव्यमिति यत्नेन या शुद्धिर्भू तिगोचरा ॥८० देहाशुद्धिरितिख्याता सेयं सच्छास्त्रवर्त्मनि । अनार्यजनसंरोधवीक्षणादितिवर्जितम् ॥८१॥ श्रद्धातिरेकसंयुक्त दम्भलोभविवर्जितम् । आत्मार्थं त्यक्तसंसिद्धि रूपालोकन तत्परम् ॥८२॥ अचञ्चला विषण्णान्तः करणायत्प्रीति संयुतम् । संकल्पपूर्वकं ध्येयं पदाब्जन्यास योगि च ॥८३॥ द्रव्यमन्त्रे च मन्त्रेषु समाहितमहामति । गुप्तसंसाररहितं शुद्धमौनमवितथम् ॥८४॥
भगवत्पूजनविधिवर्णनम्
पूर्वमन्त्राक्षरं मन्त्रन्तु लयरूपसमाप्ति च ।
[[२८०१]]
रसाद्य त्सृष्टविषये भोगमोक्षमहासुखम् ॥८५॥ एवमादिगुणोपेतं भक्तिज्ञानोज्ज्वलं कृतम् । इष्टमन्त्रेण द्रव्यं च परमं कर्म मङ्गलम् ॥८६॥ देहेन्द्रियान्तःकरणबुद्धिभूम्यर्थसिद्धिकृत् । अत्रोक्तलक्षणोपेतकर्मभागमतः परम् ॥८७॥ सप्तसंशुद्धिसंयुक्ता परिपूर्णा भवेत्क्रिया । सप्तैते विमला भावा श्रद्धावान् प्रारभेत्क्रियाम् ॥८८॥ आधानादतिशुद्धा भा संस्कारैः पञ्चकालिनाम् । कुर्याद् ब्राह्मण एवैतत् त्रैविद्यो वा विशुद्धधीः ॥८६॥ श्रद्धावान् भगवद्धर्मे रागादिरहितेन्द्रियः । ब्राह्मणः पूजयेन्नित्यं पञ्चकालपरायणान् ॥६०॥ वस्त्रगोभूमिदानेन धनधान्यादिभिस्तथा । तोपयेत्परया भक्त्या नित्यं भागवतान्नरान् ॥६१॥ सिद्धिर्भवति वा नेति संशयोऽच्युतसेविनाम् । न संशयोऽत्र तद्भक्तपरिचर्यारतात्मनाम् ॥६२॥ केवलं भगवत्पादसेवया विमलं मनः । नरायते यथा नित्यं सद्भक्तचरणार्चनात् ॥६३॥ विशिष्टकुलसंजातसंस्कारैस्संस्कृतो निजैः ।
त्वदितो यदि सिद्धिर्मे चरेत्कृच्छ्राणि दान्तधीः ॥१४॥ तपश्चर्तुमशक्तश्चेद् धनवान्दानमाचरेत् ।
उभयोरप्यशक्तस्सन् नामसंकीर्त्तनं चरेत् ॥६५॥
[[१७६]]
[[२८०२]]
शाण्डिल्यस्मृतिः
यथाशक्ति तपः कृत्वा दत्त्वा चैव यथाबलम् । तथाऽहमास्थि (तो) ध्यात्वा जपेत्सर्वाघशान्तये ॥१६॥ उपवासात्तथादानात् सद्भक्तानां च सेवनात् । सङ्कीर्तनाज्जपात्तापाच्छ्रद्धया शुद्धिमृच्छति ॥६७॥ उपासीत निरस्तोऽपि पञ्चकालपरायणान् । यदीच्छेद्भगवद्धमं सेवया भवशान्तये ॥१८॥ पूर्वोक्ताचारसम्पन्नं युवानं गृहमेधिनम् । उत्तमैवृद्धसख्यं च भवसेवाविवर्जितम् ॥६॥ प्रख्यातशुद्धचरितं सद्द्ब्रह्म कपरायणम् । भगवद्धर्मसंयुक्तमर्थसेन्देहनोदकम् ॥१००॥ प्रतिपादनसामर्थ्य युक्तवत्पुत्रपातिकम् ।
उदारं भक्तिविवशं वशीकृतजगज्जनम् ॥१०१ ॥ हृद्यवाक्यं कृतज्ञ च दयार्द्रीकृतमानसम् । अशूद्र शिष्यश्शूद्राणां ज्ञानदानेष्वनाहतम् ॥१०२॥ अक्रोधनमनुत्सिक्तम तिषण्णं विपत्स्वपि । भगवद्भक्तियुक्तेषु दृष्टमात्रेण सुप्रियम् ॥१०३॥
साधूनामुपकाराय व्यापृतं क्लेशवर्जितम् ।
ज(अ) न्यू (न्तु) नानन्तरक्ताङ्ग विषयग्राहकेन्द्रियम् ॥१०४॥
सौम्यवेषप्रशान्तं च पापरोगविवर्जितम् ।
अदुर्बलाङ्गमाख्येयं अक्त हन्नातिमानिनम् ॥१०५॥ शिष्याणां सङ्ग्रहादेव प्रतिष्ठापनकर्मणि ।
शान्तिके पौष्टिके भीतं गुरुशुश्रूषणे रतम् ॥१०६॥
पराविद्याप्राप्त्यर्थमधिकारिगुरुशिष्यवर्णनम्
[[२८०३]]
एवमादिगुणोपेतमाचार्यं वरयेद्विजः । आचार्यचित्तानुगुणं सिद्धान्तानुगुणा प्रिया ॥१०७॥ अन्यत्र शृणुयाज्ज्ञ ेयमनुज्ञाप्यैव जीवति । यस्मिन् परमविद्यायानचं सिद्धिरबोधतः ॥ १०८॥ गुरोर्वाऽप्यन्यतो ग्राह्या परा विद्या गुणान्वितान् । परिशुद्धकुलोद्भूतं विशुद्धाचारतत्परम् ॥१०६॥ विरतं च महापापात् पितृदारादिपालकम् । दान्तं शान्तं मृदु ं सौम्यं प्रणतं भगवत्परम् ॥११०॥ सन्तप्तहृदयं भक्त्या शक्त्या सर्वार्थसाधकम् । विप्रवाक्यं महाबुद्धिं सत्यं कुशलपाणिकम् १११॥ एवमादिगुणोपेतं शिष्यभावेन संगतम् । संवत्सरं तदर्द्ध वा मासत्रयमथापिवा ॥ ११२ ॥ परीक्ष्य विविधोपायैः कृपया निःस्पृहो भवेत् । ब्रह्मविद्याप्रदानस्य देवैरपि न शक्यते ॥ ११३ ॥ प्रतिप्रदानमपि वा दद्यात् शक्तित आदरात् । न प्रमाद्यद्गुरोश्शिष्यो वाङ्मनः कायकर्मभिः ॥११४॥ अपि भक्त्यात्मनाचार्य वर्त्तेतास्मिन्यथोच्यते ।
आक्रोशकं दुष्टभावं पिशुनं सत्त्वरक्रियम् ॥ ११५॥ स्वार्थैकसाधकं लुब्धमलसं सर्वकर्मसु ।
विचारपरिवादाद्य बहुभाषितमुद्धतम् ॥ ११६॥ परावमानिनं सर्वश्रेष्ठौं वा परिवर्जयेत् ।
मूढैः पापरतैः क्रूरैः सदागमपराङ्मुखैः॥११७॥
[[२८०४]]
शाण्डिल्यस्मृतिः
संबन्धं नाचरेद्भक्ति र्नश्यते तैस्तु सङ्गमे । भगवत्कथानिरतैस्तोत्रपूजाजपादिभिः ॥११८॥ अव्रतग्राहकैस्त्यक्तविवादाल्लाभवर्जितैः । सुशीलैस्स्नानशीलैश्च बाह्यान्तस्तुल्यवेष्टितैः ॥ ११६॥ हृद्यवेषैर्विशुद्धान्तै भगवद्गुणमेलनैः ।
सत्यवाग्भिर्दयासारै स्सदा संगं वसेद्बुधः ॥ १२०॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
कृपया श्रमिणस्सर्वे धर्म
स्वराङ्गने ॥१२१॥
गृहस्थो वाऽपि सर्वेभ्यो धर्म त्रयान्महामतिः ।
परिव्राडपि वा ब्रूयात् सर्वश्रेष्ठो गृहाश्रमी ॥१२२॥
इति श्री शाण्डिल्य धर्मशास्त्रे भगवत्पूजाविधिवर्णनं नाम
प्रथमोऽध्यायः ॥ १॥
अथ द्वितीयोऽध्यायः
अथ प्रातःकृत्यवर्णनम्
ऋषय ऊचुः ।
स्नानं प्रधानं भक्तानां सम्यक् शुद्ध्युपपादकम् ।
श्रोतुकामा विधिं तस्य सहाभिगमनेन च ॥ १॥
प्रातः कृत्यवर्णनम्
मुनिरुवाच ।
सहाभिगमनेनैव प्रातः कालानुयायिना ।
वक्ष्यामि योगादूर्ध्वं यत् कर्तव्यं स्नानपूर्वकम् ॥२॥ उच्चैस्स्वरेण योगान्ते स्तुत्वा स्तोत्रैरनन्यधीः । वासुदेवादिदिव्यानां नाम्नां संकीर्त्तनं चरेत् ॥ ३॥ प्रादुर्भावगुणं चापि संस्मरेत्त्सर्वसिद्धये । कीर्तयेत्तद्गुणान्भक्त्या परमाद्भुतवेष्टितान् ॥४॥ अतन्द्रितस्य स्वाध्याये योगे युक्तात्मनस्सदा । सद्भक्त्या स्विन्नदेहस्स्यावश्यं नाम ( नु) कीर्त्तनम् ॥५॥ आदाय वस्त्रदण्डादि गृहीत्वा च कमण्डलुम् । प्रवृत्तच्छन्नमूर्द्धा च कर्मारंभपरो व्रजेत् ॥ ६ ॥ ग्रामाद्बहिर्विनिर्गत्य विसृजेत्सहचारिणः । अपरिग्रहदेशेषु कुर्यान्मलविसर्जनम् ॥ ७ ॥ मेहने मैथुने स्नाने भोजने दन्तधावने । इज्यया सह होमे च जपेन्मौनं समाचरेत् ॥ ८ ॥ स्वदक्षिणश्रुतिन्यस्य ब्रह्मसूत्रस्समाहितः ।
न श्मशाने न कृष्टेषु न मार्गे न च भस्मनि ॥ ६ ॥ नोपरे न च सस्येषु न गुल्मेषु न च सैकते । न वृक्षमूले नामेध्ये न कीटेषु न चत्वरे ॥१०। नोदकान्ते न गोवासे न हृद्य े न गृहाङ्गणे ।
न देवालयपार्श्वेषु न नद्यां नाप्यसन्निधौ ॥११॥
[[२८०५]]
[[२८०६]]
शाण्डिल्यस्मृतिः
न वल्मीके न रन्ध्रेषु न करीषे न चोपले । न देवतारिशिष्याग्निगुरुवृद्धाङ्गनामुखः ॥१२॥ नगो गगनदिक्तारागृहामेध्यावलोककः । न जल्पन्नस्पृशन्मौनी नचानावृतमस्तकः ॥ १३॥ चिरन्नोपविशन्नाति पीडयन्नार्द्ध वैशसम् । एकाकी मुक्तपवृक्षो यतसर्वेन्द्रियक्रियः ॥१४॥ मेहनादि क्रियां कुर्यान्नवाच्छादितनासिकः । उदङ्मुखो दिवानक्तं दक्षिणामुखसंस्थितः ॥१५॥ दिवेव सन्ध्ययोः कुर्यान्मेहनाद्यं विचक्षणः । वल्मीककृष्णभूतोय कीटाशुद्घादियोगिनम् ॥१६। वर्जयित्वा मृदाशौचं कुर्यादुद्धृतवारिणा । पञ्चधा लिङ्गशौचं स्यात् गुदशौचं त्रिवेष्टितम् ॥१७॥ मनःप्रसादनं कुर्यात् शक्तं मूत्रविलोपनम् । पादयोर्लिङ्गवच्छौचं हस्तयोस्तु चतुर्गुणम् ॥१८॥ दन्तान्तुशोधयेत्प्रातः पलाशवटपिप्पलान् । विहाय स्वशुभैराम्रपूर्वै विधिवदत्वरः ॥१६॥ उत्पादयन्नरक्तं च न पश्यन्सर्वतो दिशम् । समुद्रगापगादेवखातवापीहदाश्रये ॥२०॥ स्नायाज्जलेन देवानां संसर्गपरिवर्जिते । सरसे सेविते सद्भिरृष्टिदोषविवर्जिते ॥२१॥ विशुद्धतीरभूभागे स्नायाल्लघुनि वारिणि । अम्बु न क्षोभयेदङ्गः पादेनोत्सादयेन्न च ॥२२॥
प्रातः कृत्यवर्णनम्
[[२८०७]]
नाचरेत्प्लवनक्रीडां न गण्डूपं जले क्षिपेत् । अन्योऽन्यं नोक्षिपेत्तोयं न देहमलमुत्सृजेत् ॥२३॥ न कुत्सयेदम्बुतीर्थमन्यत्तत्र न कीर्त्तयेत् । शोधयित्वा धृताम्भोभिर्देहं तीरे पुनर्जलैः ॥२४॥ प्रक्षाल्य भूमिं कर्मार्थमवतारं च शोधयेत् । न स्नायात्सहशूद्रण न स्त्रीभिर्नच नास्तिकैः ॥२५॥ न पापण्डैर्न बालैश्च न रोगाशौचिभिर्नरैः । चण्डालं शास्त्रपतितं शास्त्रनिन्दापरायणम् ॥२६॥ परित्रस्तं च नष्ट
ं च दूरतः परिवर्जयेत् । शरीरं निर्मलीकृत्य कर्मारम्भपुरस्सरम् ॥२७॥ शुद्धावगाहनं कृत्वा समाचामेद्यथाविधि । जान्वोरन्तः करौ कृत्त्वा प्राङ्मुखो वाऽप्युदङ्मुखः ॥२८॥
पाणि च संस्पृशन्नद्भिः प्रकृतिस्थाभिरेव च ।
आदाय विमलं तोयं ब्रह्मतीर्थेन वाग्यतः ॥२६॥ हृद्गतं तु चतुःप्राश्य न शब्दमवतारयन् । तत्कालमार्जनं कृत्वा पाणिपादाववेक्ष्य च ॥३०॥ अङ्गुष्ठानामिकाभ्यां तु चक्षुषी संस्पृशेत्ततः । तर्जन्यङ्गुष्ठयोगेन श्रौत्रे चैव समालभेत् ॥३१॥ सर्वाभिरङ्गुलीभिश्च बाहुमूले उपस्पृशेत् । हृदयं च मूर्ध्नि जलं स्पृष्ट्वान्तरान्तरा ॥३२॥ न तिष्ठन्नैकहस्तेन न शूद्रावर्जितेन च ।
शुद्धां मृदं समादाय जप्त्वा मन्त्रचतुष्टयम् ॥३३॥
[[२८०८]]
शाण्डिल्यस्मृतिः
चतुर्धा विभजेत्तां तु वामपाणितलोदरे । चतुर्मन्त्रैः परामृश्य मुखबाहुकलेवरान् ॥३४॥ पदौ यथाक्रमं लिपेत् चतुर्मन्त्रेण मन्त्रवित् । तत्रस्थं भावयेद्द ेवं समयैर्भोगराशिभिः ॥ ३५॥ आसनाद्यर्यथाशक्ति समभ्यर्च्य जगद्गुरुम् । ध्यात्वा गङ्गां हरेः पादात्पतमानां स्वमूर्द्धनि ॥३६॥ पवित्राद्यन्तकाभिज्ञाः मन्त्रैस्सिञ्चेत्करात्करात् । ध्यायन्देवं परं ब्रह्म यथाशक्ति निमज्य च ॥३७॥ चतुर्निमज्य विधिवद् आचम्यादाय वाससा । खण्डद्वयं शिरश्चाङ्ग प्रत्येकं परिमर्द्दयेत् ॥३८॥ अन्तराच्छाद्य कौपीनं वाससी परिधाय च । ध्यानमौनपरो मन्त्री सम्यगाचमनं चरेत् ॥३६॥ भोजनाद्य’ तयोर्मू शौचान्तेयज्ञकर्मणि ।
द्विद्विराचमनं कार्यं वाससा परिवर्तते ॥४०॥ पुण्यक्षेत्रे समुद्भूतां मृदमादाय वैष्णवीम् । प्रणवाद्यव (च) मूलेन कर्मारम्भं पुनर्जपेत् ॥४१॥ आहृत्याम्बु पवित्रेण कृत्वा सव्यकरोदरे । कर्मारम्भेण मन्त्रेण मृदमालोडयेद्वशी ॥४२॥ ब्रह्मणा तत्समीकृत्य ध्यायेद्ददेवं सनातनम् । प्रदेशिन्या समादाय किञ्चिच्चिरसि धारयेत् ॥४३॥ ललाटबाहुहृदयेष्वार्जवेन प्रदीपवत् ।
कृत्वोर्ध्वपुण्ड्र नाम्नां च चतुर्नान्या समाचरेत् ॥४४॥प्रातःकृत्यवर्णनम्
पाठयेद्द्वादशनाम्नां तत्तत्स्थानेपु यो द्विजः । भवेत्स्नानफलं तस्य मृदा तत्र दिने दिने ॥ ४५ ॥ तत आचम्य विधिवदभिज्ञाभिश्च तर्पयेत् । नमोऽन्तः प्रणवाद्य श्च पितॄणां केवलं स्वकैः ॥४६॥ चतुमंत्रेण संप्रोक्ष्य पीत्वा तेनाभिमन्त्रितम् । जलमाचम्य मूलेन दद्यादर्घ्य परात्मने ॥४७॥ मर्त्य खान्तपि वा स्नायादापद्य द्धृत्य तन्मृदृम् । ध्यात्वा क्षीरां नवं तच्च नित्यशिष्टनिषेविते ॥४८ ॥ कूप तोयैरपि स्नायात् सर्वालाभे समुद्धृतैः । स्नानन्तु न घटैः कार्यं नासाच्छिद्रविवर्जितैः ॥४६॥ आरनालं न सेवेत कदाचिद्भगवत्परः । सुराकल्पं हि तज्ज्ञ ेयं तस्माद्यत्नेन वर्जयेत् ॥५०॥ सप्तमीदशमी (चैव) त्रयोदश्यष्टमीषु च ।
द्वितीयायां नवम्यां च स्नायान्नामलकोदकैः ॥५१॥ ग्राहादिसेविते रूक्ष नीचावाससमीपगे । श्मशान पार्श्व के ज्ञाते न स्नायान्नोपरोधतः ॥ ५२ ॥ न भुक्त्वा नातुरो जीर्णो नान्यकामी न कामतः न निशायां तथैकाकी न चिरं तोयमध्यतः ॥ ५३ ॥ अज्ञानाच्चरिते पापे दृष्ट्वा च शवसूत्रके । वमने च व्यवाये च दुःस्वप्ने स्नानमाचरेत् ॥५४॥ मुक्ता श्रू शोकाच्छ्र ुत्वा च न्यस्ताङ्गः पाञ्चकालिकम् । स्पृष्ट्वा विकारं वर्मस्थं स्नायाद्रोगिणमेव च ॥५५॥
[[२८०६]]
[[२८१०]]
शाण्डिल्यस्मृतिः
उक्तांमर्मगतंवाक्यं त्वङ्काराद्यञ्जने गुरौ । विवादं च जपस्नाननमस्कारैः पुनःश्शुचिः ॥ ५६॥ शिरो विवर्ज्य न स्नायान्निमज्जेतासुना सह । न स्नानशाटी पाणिभ्याम्मर्दयेदपि वा शिरः ॥५॥ न कुर्यादाद्रवस्त्रेण कर्म भागवतं बुधः । न दक्षिणामुखो शुद्धः पैशाचं तदुदाहृतम् ॥५८ ॥ प्रक्षाल्याजानुचरणौ मृज्जलैः कूर्परावधि । हस्तौ विमृज्य वदनं विद्वानाचमनं चरेत् ॥ ५६॥ सुप्त्वा क्षिप्त्वा च निष्ठीव्य स्पृष्ट्वा नासापुटादिकम् । पादोदरं च भक्ष्यांश्च संभक्ष्याचमनं चरेत् ॥६०॥ स्नात्वा संप्रोक्ष्य पतितांश्चण्डालाद्यांश्च गर्हितान् । पाषण्डिनश्च स्वाचान्तः पवित्रं ध्यानवान् जपेत् ॥ ६१॥ पूजायां स्नानकाले च भोजने जपकर्मणि । अवैष्णवानां जन्तूनां दर्शनाद्य ं विवर्जयेत् ॥६२॥ नित्यं तीर्थोदकस्नायी तर्पयंस्तत्र तज्जलैः । श्रद्धया भगवन्मन्त्रैः सिद्धस्स्यादचिराद्विजः ॥ ६३॥ कर्मारम्भेण मन्त्रेण सर्वं कर्म समारभेत् । पवित्रीकरणञ्चापि पवित्रेणैव सर्वतः ॥६४॥ अभिगच्छेच्च देवेशं सुस्नातस्सोर्ध्वपुण्ड्रकः । सुप्रक्षालितपादश्च स्वाचान्तस्संयतेन्द्रियः ॥६५॥ सन्ध्ययोरुभयोर्नित्यं यावदर्कर्क्षदर्शनम् ।
ध्यायेद् ब्रह्म जपेन्मौनी तत्राभिगमनक्रियाः ॥६६॥
प्रातःकृत्यवर्णनम्
[[२८११]]
नैकवस्त्रो न खिन्नश्च न क्रुद्धो मलिनोऽपि वा । नाक्षालिताङ्घ्रिर्नाभ्यक्तो नातुरो न वदन्वहु ॥६७॥ न रक्तकृष्णमलिनं वासोऽपि परिधाय च । न च शून्यकच्छश्शास्त्री न यायाद्भगवद्गृहम् ॥६८॥ प्रणम्य दण्डवद्भूमौ उत्थायोत्थाय तन्मनाः । स्वाध्यायवदनः कुर्याद् अष्टाङ्ग ेन नमस्त्रियाम् ॥६६॥! नमस्कुर्वन् प्रतिदिशं वाग्यतो ध्यानतत्परः । असंसक्तकरैः कैश्चिन्मन्दं कुर्यात्प्रदक्षिणम् ॥७०॥ द्विचतुष्षड् दशाष्टाद्यः कुर्यादेव प्रदक्षिणम् । देवस्य निकटे कार्यं सम्यग्जानुप्रदक्षिणम् ॥७१॥ चक्रवभ्रमयेन्नाङ्गः पृष्ठभागं न दर्शयेत् । सन्निधौ देवदेवस्य नचोच्चैः प्रलपेत्तथा ॥ ७२ ॥ निधाय दण्डवद्द हैं प्रसार्य चरणौ करौ । बद्ध्वा मुकुलवत्पाणिं प्रणामो दण्डसंज्ञितः ॥ ७३ ॥ पादौ शिरस्तथा हस्तौ निकुञ्च्य मुकुलाकृतिः । मनोबुद्धचभिमानैश्च प्रणामोऽष्टाङ्गसंज्ञितः ॥७४॥ मस्तकं संपुटं चैव प्रह्लादं च त्रयं बुधैः । कृतयोरन्ययोः कार्यमन्यथा विकलो भवेत् ॥७५॥ सर्वत्र दृष्ट्वा देवेशं जितं त इति मन्त्रकम् । द्वादशार्णं जपेन्मन्त्रं भीतवत्पूर्वमानतः ॥ ७६॥ मत्कृतानि च कर्माणि मदीयमहमप्युत । तथैव नममेतीष्ट नमो भगवतैरिह ॥७७॥
[[२८१२]]
शाण्डिल्यस्मृतिः
प्रदक्षिणानमस्कारं जपध्यानार्चनास्तुतिम् । मत्कर्मतद्गुणोद्घोषैर्विना नान्नान्यदाचरेत् ॥७८॥ पादप्रक्षालनं व्याविष्टरं चावकुण्ठनम् ।
न कुर्याद् भगवद् गेहे भासं कण्ठध्वनिं तथा ॥७६॥ भोजनं स्वापमुद्धोपं ताम्बूलं केशशोधनम् । छत्राद्यं च तथान्यांश्च न कुर्यान्नुल्बणक्रियाः ॥८०॥ प्रदक्षिणे प्रणामे च पूजायां हसने तथा । न कण्ठगतवस्त्रस्स्यात् दर्शने गुरुदेवयोः ॥८१॥ भगवन्मन्दिरे वृद्धान् पूज्यानपि विशेषतः । विना भागवतश्रेष्ठ प्रणामाद्यर्नचार्चयेत् ॥८२॥ गुरोर्गृहे देवगृहे पु ( प ) ण्यवाट्यां गवां कुले । कृपणं चोल्वणं कर्म वर्जयेदपि संसदि ॥८३ ॥ जप्त्वाभिगमनं मन्त्रत्रं वर्जयित्वा यथाविधि । आसनार्ध्यादिभिर्भोगैर्भक्त्या परमपावनैः ॥८४॥ अभिगम्य जगन्नाथं ध्यायन्नेव सनातनम् । जपेद्यथाबलं प्रातः सहस्रशतसङ्ख्यया ॥८५॥ कनिष्ठादि समारभ्य दर्शपर्वभरात्परः । पद्माक्षैस्स्फाटिकैर्वाऽपि जपेदुक्तादिभिस्तदा ॥८६॥ आचार्य देवभक्तं च भगवन्मन्दिरं जलम् । अग्निमर्क च सोमं च पृष्ठकृत्य जपेन्न च ॥८७॥ आपीठान्मौलिपर्यन्तं पश्यतः पुरुषोत्तमम् ।
जपतः पातकान्याशु नश्यन्ति सफलाः क्रियाः ॥८८॥
प्रातः कृत्यवर्णनम्
[[२८१३]]
आभिमुख्यं जपादीनां प्रशस्तं सर्वकर्मणि । उदङ्मुखः प्राङ्मुखो वा कुर्याद्भागवतः क्रियाम् ॥८६॥ अग्नींश्च जुहुयात्प्रातः मेध्यैरेव समिद्गणैः । । वैशेषिकं च जुहुयान्नित्यं वा पापशान्तये ॥६०॥ आमुहूर्त्तात्तु वै ब्राह्मादमृतं प्रहरात्सुधीः । स्नानार्चन जपस्तोत्रपाठः कालं विनोदयात् ॥ ६१॥
इति श्री शाण्डिल्यधर्मशास्त्रे प्रातः कृत्यवर्णनं नाम द्वितीयोऽध्यायः ।
अथ तृतीयोऽध्यायः उपादानविधिवर्णनम्
ऋषय ऊचुः ।
उपादानविधिं सम्यक् श्रोतुमिच्छामहे वयम् । योग्यायोग्यविभागेन भगवत्कर्मसिद्धये
मुनिरुवाच ।
॥ १॥
उपादानविधिं वक्ष्ये योग्यायोग्यविभागशः । द्वितीयकालकर्त्तव्यं कर्म यन्मुनिपुङ्गवाः ॥२॥
[[२८१४]]
शाण्डिल्यस्मृतिः
वक्ष्यामि वस्समासेन कथम ज्ञानां शुद्धिमृच्छति । कर्मण्यमेवोपादाय वर्जयित्वा तथेतरत् ॥ ३ ॥ क्रियमाणानि कर्माणि सफलानि भवन्ति हि । . स्वकीयारामजातानि वन्यान्यन्यानिवादरात् ॥ ४ ॥ पुष्पपत्रोदकादीनि प्रातरेव समाहरेत् । क्रयेण वा हरेत्सर्वमपक्वं योगसाधनम् ॥ ५ ॥ फलपुष्पाम्बुकाष्ठाद्य विक्रोणीयं न किञ्चन । विक्रीणान्ब्राह्मणो द्रव्यं क्रीणान्वामृद्धिकांक्षया ॥ ६ ॥ खिन्नवृत्तिर्विकर्मस्थस्सत्पथाश्वपते (श्च्यवते) पुनः ।
[[1]]
वाधु ष्यमुपजीवन्ति ये द्विजा लोभमोहिताः ॥ ७ ॥ अभोज्यान्नानपाङ्क्त ेयाः क्रियास्तेषां च निष्फलाः । पुष्पपत्र फलादीनि शाकानि विविधानि च ॥ ८ ॥ स्वेषु स्वेषु च कालेषु श्रद्धया वर्धयेद् गृही । मण्ट (ण्ड)पानि सरम्याणि पद्मोत्पलवनानि च ॥ ६ ॥ क्रीडाथं देवकीसूनो श्रद्धां भक्त्या प्रकल्पयेत् । तुलसीवाटिका यत्र यत्र वा कमलालया ॥ १०॥ पञ्चकालपरा यत्र तत्रासौ भगवान्हरिः । सर्वैरक्षतैर्नित्यं अश्य(१) कुसुमद्रुमान् ॥११॥ तुलसीं चाहरेत्पत्रपुष्पाद्यं वाग्यतश्शुचिः । स्वयं संवद्र्ध्य तुलसीं द्वादशाक्षरचिन्तया ॥ १२॥ अर्धयन्ति जगन्नाथं श्वेतद्वीपं प्रयान्ति ये । दण्डप्रणाममपि वा कारयेत्पुष्पवाटिकाम् ॥१३॥
भगवदुद्द ेश्यककर्मवर्णनम्
अथवा तुलसीं पुन्नां कृतकृत्यस्सनातनः । अङ्कयेच्छङ्खचक्राभ्यां चूताद्यांश्चम्पकादिकान् ॥१४॥ तुलसीवाटिकाः कुर्यात् शङ्खचक्राम्बुजाकृतिः । वृक्षगुल्मलतादीनां अच्युतारामजन्मनाम् ॥१५॥ कुर्यान्नामानि देवस्य देव्यालक्ष्म्यास्तथा हरेः । ईहमानश्चरेन्नित्यं कदाचिन्नालसो भवेत् ॥ १६ ॥ अयाचितं शिलोच्यैस्तु शिष्यदत्तः क्रमागतैः । कुर्यात्कर्मविशुद्धेभ्यः पुत्रग्राह्यापिवाधनम् ॥१७॥ कुलटाषण्डपतितवैरिभ्यः काकिणीमपि ।
उद्यतत्वे विगृह्णीयादापद्यपि कदाचन ॥१८। महापातकिनश्चोरादम्बष्ठरहितस्तथा ।
मृगयोः पिशुनाच्चैव नादद्यादुद्यतं त्वपि ॥१६॥ याचनेनाऽपि वर्त्तेत दैन्यं हित्वागमस्ततः । दानेन वा नित्यं प्रतिगेहातामतन्द्रितः ॥२०॥ आपद्यपि न याचेत ज्ञातिसम्बन्ध्यरीनपि । भिक्षार्थं न व्रजेत्तेषां गेहं कुर्यान्नचाप्रियम् ॥२१॥ राज्ञा न प्रतिगृह्णीयात् उपपातकिनस्तथा । पुरोधा गणिकाध्यक्ष कदर्येभ्योऽपि नाहरेत् ॥२२॥ श्वित्रिणो हैतुकेभ्यश्च विकर्मस्तेभ्य एवच । स्त्रीजिताच्च तथान्नेयात् स्वस्तिवद्दिग्भ्य एवच ॥२३॥ शास्त्रावमानिनश्चैव परद्रव्यापहारिणः । सांयात्रिकाद्विषद्द्भ्यश्च गणकेभ्यस्तथैव च ॥२४॥
[[२८१५]]
[[२८१६]]
शाण्डिल्यस्मृतिः
दधिक्षीरघृतादीनां लवणस्य मधोस्तथा । विक्रयिभ्योऽपि नादद्यादश्वविक्रयिणस्तथा ॥२५॥ नाचरन्ति यथोक्त ं ये तेभ्योऽपि भृतकार्चकात् । बीजप्रहारिणश्चैव बलीवर्दस्य साक्षिणः ॥२६॥ अयथार्थस्य नादद्यादश्वानां दमकात्तथा । अभक्ताच्च त्रयी विद्यादुदक्यागमकात्तथा ॥२७॥ कौसीदकास्तथाभोक्तुः श्राद्धस्य सततं तथा । न ग्रामयाजकेभ्यश्च नागम्यागमनात्तथा ॥२८॥ वणिग्भिश्च तथा शूद्रादुत्सृष्टाग्नेस्तथा शठात् । अगारदाहकेभ्यश्च परिवित्तेभ्य एव च ॥२६॥ बिम्बप्रस्थापकाच्चैव तथा शिल्पोपजीविनः । परिहस्ताच्च नष्टाच्च शूद्रशिष्यात्तथैव च ॥३०॥ श्वपाकेभ्यः श्ववृत्तिभ्यः प्राड्विवाकात्तथैव च । भगवन्तं तथा विप्रान् पञ्चकालपरायणान् ॥३१॥ भगवन्मन्दिरं चैव पुण्यतीर्थानि सर्वदा । द्विपदश्चैव नादद्यान्निक्षिप्तस्यापहारिणः ॥३२॥ प्रतिलोम्याच्च जातेभ्यस्तथा चानृतजीविनः । उद्यतं त्वपि नादद्यादन्यदेवावलम्बिनः ॥३३॥ क्रमागतैर्धनैर्वापि स्वक्षेत्रारामसंभवैः । भगवद्भक्तिपूतेभ्यो विप्रेभ्यो याचितैस्तु वा ॥ ३४ ॥ आवासोपार्जितैर्वाऽपि कर्मकुर्यादतन्द्रितः । वन्यैर्वा पत्रपुष्पाद्य सर्वाभावे समर्चयेत् ॥३५॥
भक्तिलाभोऽपवर्गरसज्ञस्यैवेतिवर्णनम्
[[२८१७]]
अलाभे सर्वभोगानां जलं प्रतिनिधिः स्मृतम् । अलब्धयान्यो विप्रेषु कपत्रयं वापि योऽर्चयेत् ॥३६॥ विना मूर्द्धावसिक्तन्तु वैश्यं वाऽपि महापदि । अलब्धो याचनादेव तेषां वा वृत्तिमाश्रयेत् ॥३७॥ तिलं मांसं तथाऽन्नं च लवणं च तथाऽजिनम् । रक्तकृष्णादिकं वस्त्रं दधिक्षीरघृतादिकम् ॥३८॥ साधनं चैव हिंसाया विषोल्वणकराणि च । सुवर्णं चैव गां चैव विक्रीणन्नश्वमेव च ॥३६॥ श्रोत्रियाध्यापको भूत्त्वा वृत्तिं वा लभते द्विजः । स्त्रीबालवृद्धसंयुक्तः सर्वेभ्यो वा समाहरेत् ॥४०॥ भगवद्भक्तियुक्तभ्यो दद्यात्स्वस्तिको भवेत् । उपादित्सुर्यथालाभं कर्मारम्भं प्रयोजयेत् ॥४१॥ प्रतिग्रहाद्भवेदे (दो) षः चिरादेव (वि) नश्यति । भिक्षयित्वाऽपि वर्त्तेत स्वाश्रमानुगुणं तथा ॥४२॥ अपक्वं वाऽपि पक्कं वा सर्वश्रेष्ठा हि सा स्मृता । भिक्षित्वा (?) वर्त्तमानानां योगिनां सिद्धिकाङ्क्षिणाम् ॥४३॥ मदमात्सर्यमानाद्या दोषा गच्छन्ति संक्षयम् ।
यथा यथा हि खिन्नं स्यात् सांसारिक सुखोदये ॥ ४४ ॥ । तथा तथा दृढं योगी निर्वाणपदमृच्छति । अपवर्गरसज्ञो हि सन्मना दुःखवर्जितः ॥ ४५॥ मोक्षधर्ममना नित्यं सुखं चरति मुक्तवत् । . योगिनामवमानं च शरीरक्लेश एव च ॥४६॥
[[१७७]]
[[२८१८]]
शाण्डिल्यस्मृतिः
अर्थहानिश्च विज्ञानं वर्द्धयत्यग्निमाज्यवत् ।
यस्य सांसारिकं सौख्यं योगिनो नेह संभवेत् ॥१७॥ अनायासेन लभ्यं स्यात् तस्य तत्परमं पदम् । अविज्ञातमना नित्यं तापैरभिहतोऽपि सन् ॥४८॥ अफ्लेशेन चरेत् तृप्तो विशुद्धद्रव्यतत्परः । अमार्गेण धनं लोभात् सम्पाद्य सुखमावसन् ॥४६॥ न संसिद्धो भवेत्तस्मात् शुद्धद्रव्यपरोभवेत् । अकर्मण्यानि सिद्धानि यदि द्रव्याणि कामतः ॥५०॥ तेषां विनिमयेनैव शुद्धिस्त्यागेन वा भवेत् । अलाभे सर्वभोगानामुदकेनापि पूजितम् ॥५१॥ प्रयच्छत्यमलं लोकं भक्तिपूतान्तरात्मनाम् । जातया शुद्धवंशेषु भार्यया स्वानुकूलया ॥५२॥ सद्भक्तिपूतया नित्यं कारयेद् द्रव्यसाधनम् । शाकाम्बुभिर्वा न्यायात्तैर्भक्त्या संपूजयेद्धरिम् ॥५३॥ मन्त्रो मन्त्रेश्वरश्शास्त्रं मन्त्रसिद्धिस्तथैव च । सिद्धान्तमक्षसूत्रं च गोप्यं धान्यं धनायुषी ॥५४॥ अवमानमसामर्थ्यं हृद्रोगं रोगमान्तरम् । अनर्थतृणमायासमकृत्यं न प्रकाशयेत् ॥५५॥ धान्यबन्धुविनाशेन नैर्धन्योपद्रवेण च ।
मूढैः कृतावमानेन खिन्नस्स्यान्न कदाचन ॥१६॥ प्रातस्नातोऽपि विधिवत् स्नानं माध्यन्दिनं चरेत् । शक्तश्चेदन्यथा रोगात् शाट्या सम्मार्जनं चरेत् ॥ ५७॥वाह्याभ्यन्तरशुद्धिवर्णनम्
[[२८१६]]
शुद्धिं कुर्यात्सदा विद्वान् मलानामङ्गजन्मनाम् । कृत्तकेशनखश्मश्रू स्त्रीपक्षेषु हृपी को ?) भवेत् ॥५८॥ दिने दिने स्नानकाले कुर्यादभ्यञ्जनं गृही ।
अथवा शस्तकालेषु शक्तः कुर्याद्दिवैव तु ॥ ५६॥ विशुद्धदन्तवदनो निर्मलीकृतविग्रहः ।
E
॥ ६१॥
शुद्धोदरः प्रसन्नात्मा यथाव्यैस्समर्चयेत् ॥ ६०॥ सतीनां योषितां देहो यागोपकरणं भवेत् । भर्तणां भगवद्भक्तदेहस्तद्वज्जगद्गुरोः कर्मान्तरेष्वसंसक्तिफलकाङ्क्षाविवर्जनम् । भक्तिद्रवीकृतं चित्तं विरक्तिस्सर्ववस्तुषु ॥६२॥ अभ्यासस्सततं सर्वप्रकारैस्सत्क्रियाविधौ । आलस्यवर्जनं श्रद्धापरमं दम्भवर्जनम् ॥ ६३ ॥ अकार्पण्यमलोभश्च क्रोधमोहजयोभयम् । देहस्य सेन्द्रियस्यापि विशुद्धिद्रव्यदेशयोः ॥ ६४॥ अकाले वर्जनं निद्रामैथुनाशनकर्मणि । सर्वदा शास्त्रशिक्षा च शास्त्रदृष्टेषु कर्मसु ॥ ६५॥ पारवश्यप्रमाणं च नित्यं शास्त्रे हढंपरे । निषिद्धवर्जने यत्नस्संसिद्धान्ननिषेवणम् ॥६६॥ मार्दवंहीर्द या क्षान्तिरद्रोहर सर्वजन्तुषु ।
एवमादिगुणाः पुंसां यदास्युस्सत्त्वसंभवाः ॥६७॥ जातीर्यद्योगमात्मानं तदा भागवताविधौ । उत्सृज्य भगवत्कर्म बाह्यकर्मपरायणः ॥६८॥
[[२८२०]]
शाण्डिल्यस्मृतिः
कुटुम्बसक्तो मूढात्मा राजसो नेह सम्मतः । रजसा तमसा वाऽपि यो यदा कलुषीकृतः ॥६६॥ अमेभ्यद्रव्यवन्नार्हस्सदाकर्मणि वैष्णवे ।
एवं सद्गुणसम्पन्ना महाभागवतप्रिया ॥ ७० ll कुटुम्बिन्यपि कर्त्तव्यं कर्म कुर्यादतन्द्रिता । उत्थाय पूर्वं गृह्णीत सुनाता यतमानसा ॥७१॥ स्नुषादुहितृपुत्राद्यान्यथाद्यं शुचितां नयेत् । ऊर्ध्वपुण्ड्रधराश्शुद्धा वस्त्राभरणभूषिताः ॥७२ ॥ स्वाचान्तः प्रयतोदेवमभिगच्छेयुराहताः । त्रिसन्ध्यां कारयेद्वालान् प्रणामं देवपादयोः ॥७३॥ पुत्रः प्रेष्यस्तथा शिष्य इत्येवं विनिवेदयेत् । गृह्णीतं प्रमुखास्सर्वा यजन्त्यः पुरुषोत्तमम् ॥७४ ॥ बालक्रीडादिचरितैः कर्म कुर्युरतन्द्रिताः । पशुपुत्रादिकं सर्वं गृहोपकरणानि च ॥७५॥ अङ्कयेच्छङ्खचक्राभ्यां नाम कुर्याच्च वैष्णवम् । कारयित्वा सुवर्णेन. पञ्चायुधगणं हरेः ॥७६॥ बनीयात्कण्ठदेशे नु बालानां सूतिकागृहे । न पुत्रं ये दास्यन्ति शयनानि महीतले ॥७७॥ स्थापयेत्क्षेत्रमध्येषु शिलां चक्रादिमुद्रिताम् । मुक्तामणिसुवर्णाद्यः कृत्वा चक्रादिभूषणम् ॥७८॥ यथाहं विभृयुस्सर्वे पुमांसं स्त्रीजनोऽपि वा । वृद्धबालाङ्गनादीनां पूर्वाह्न भोजनं भवेत् ॥७६॥
भोजनस्याग्निदेवस्यसमर्पणवर्णनम्
यथाबलं समभ्यर्च्य साग्निं देवं ततोऽशनम् । घृतस्थालीं विना सर्वं जलक्षीरान्नसंश्रयम् ॥८०॥ कर्तव्यं दिवसं भाण्डमारुतातपतापितम् । कर्मण्यनघयुक्त ेषु पूर्वस्मिन्दिवसेऽनिशम् ॥८१॥ परस्मिन्दिवसे कुर्यात् पात्रेषु पचनादिकम् । गृहोपकरणं सर्वं मुसलोलूखलादिकम् ॥८२॥ प्रक्षा (लये ) जगन्नाथं यागोपकरणानि च । यागार्थं देवदेवस्य पाकार्थं चाम्बुपावनम् ॥८३॥ स्थापयेत्पादहस्तादि शुद्धयर्थं च पृथक्पृथक् । वस्त्रेण बहुशश्शोध्य त्रिविधं चाम्बुपावनम् ॥८४॥ इज्याङ्गमेवमेवाद्य स्संस्कृतं क्षालयेत्पुनः । कर्मण्यं त्रिविधं वारि शुद्धभाजनसंभृतम् ॥८५॥ कृच्छ्राद्यं स्थापयेच्छीते निर्बाधे परिवर्जिते । अग्न्यगारं च संशोध्य यागोपकरणानि च ॥ ८६ ॥ उद्धृत्य भस्म सम्मार्ज्य वह्नि काष्ठस्समिन्धयेत् । करीषकवलं क्षिप्तौ कुसुमाद्यैस्समर्चयेत् ॥८७॥ श्रद्धयाच्छाद्य गृहिणी पुत्रवत्परिरक्षयेत् । शोषयेच्छुद्रभूभागे त्रीहिमुद्गतिलादिकान् ॥८८॥ पाकपश्वादिभूतानामप्राप्ये संवृताम्बरे ।
उपलिप्तौ शुचौ देशे शुद्ध शूर्पादिसाधने ॥८६॥ व्रीहिमुद्गादिकं सर्वमपहन्युः कुलाङ्गनाः । अस्पृशन्त्यो निजं देहमजल्पन्त्यस्तथा स्त्रियः ॥ ६०॥
[[२८२१]]
[[२८२२]]
शाण्डिल्यस्मृतिः
अवन्त्युग्रमापूर्यु जीर्णवस्त्रैर्निमृज्य च । निर्मलीकृतकर्त्ताभं विशुद्धीकृत्य तण्डुलम् ॥१॥ विकीर्य फलकापृष्ठ शर्कराधान् समाहरेत् । न पचेयुर्बीहियवान् नावहन्युरतापितान् ॥१२॥ पचेयुर्वाऽपितानन्नं ए (ते) पां न हृदयंगमः । शस्त्रेण फलमूलानि निकृत्यालोक्य यत्नतः ॥ ६३॥ कृमिकण्टकदोषाणि निर्हरेद्वाग्यतो सति । यत्नेन सर्वशाकानां कृमिकीटादिवीक्षणम् ६४॥ विधायाहत्य बहुशः पुनः पुनरुदीक्षयेत् । सतण्डुलानि मुद्गानि शाकानि च फलानि च ॥६५॥ चतुः प्रक्ष्यालय शुद्धाभिरद्भिश्च क्षालयेत्तथा । हव्यं मुद्गं च शाल्यन्नं शस्तं शाके तुलस्यपि ॥६६॥ तण्डुलांभःकरणं तद्वद् अन्नस्रावणमेव च । संविभागात्पुरासर्वमुपयोगं नार्हति ॥६७॥ अपर्युषिततप्तेषु तापितेष्वातपाग्निभिः । मृण्मयेषु च ताम्रषु पचेयुः क्षालितेषु च ॥६८॥ मृण्मयेन नचेष्वेव शक्तश्चेत्पाचयेद्धविः । पक्षादूर्ध्वं न कर्तव्या मृण्मये पचनक्रिया ॥६॥। भिन्नानि विकलाङ्गानि विकटानि तथैव च । शर्करास्थिसमेतानि भाण्डानि परिवर्जयेत् ॥१००॥ पक्षादूध्वं न संग्राह्यं मुद्गसारं घृतं तिलम् । ताम्बूलं तण्डुलं चैव मासा दूध्वं न संचयेत् ॥१०१॥
पाके निषिद्धवृक्षाणामिन्धनदानेनिषेधः
अग्नावोदनपचने पाचयेदोदनादिकम् ।
[[२८२३]]
वस्त्रं केशं हृषीकं वा स्पृष्ट्वा प्रक्षालयेत्करौ ॥१०२॥ नासोदकं नेत्रवारि स्वेदाम्बूनि तथैव च । न स्पृशेत् न च वस्त्रेण मार्जयेच्छोधयेद् बहिः ॥ १०३ ॥ नोपशाम्योपशाम्याग्निं न मन्दं नापि सत्त्वरम् । नावतार्यावतार्याधो नान्यबुद्धिः पचेदपि ॥ १०४॥ तालमश्वत्थकाष्ठ च पलाशं बिल्वमेव च । मरीचकं मदनकं तैलमुन्मत्तकं तथा ॥ १०५ ॥ बाधकं च करञ्जञ्च करीषं व्याधिपातकम् । निम्बं तथा कपित्थं च पारिजातकमेव च ॥१०६ ॥ एरण्डमरुवं चैव कोविदारंविभीतकम् ।
हरीतकं च शाल्मलिं च श्लेष्मातकमथापि च ॥ १०७॥
वर्जयेदिन्धनार्थं तु यच्चान्यत्कीटसंयुतम् ।
विषद्रुमाणि सर्वाणि कण्टकानि तथैव च ॥ १०८॥ दुर्गन्धधूमयोनीति (नि) यत्नेन परिवर्जयेत् ।
व्यञ्जनानि च तानि शाकादीन्यपि पाचयेत् ॥१०६॥ कदली जातयस्सर्वा (श्) चूतं च पनसद्वयम् । उर्वारुकं च बृहती कारवल्लीत्रयं तथा ॥११०॥ कर्कन्धुक्षुद्रबृहती कूष्माण्डं तिन्त्रिणीं तथा । नालिकेरं च सिंहीं च कार्कोटं वत्सरं तथा ॥ १११॥ अलकं क्षुद्रकन्दं च महाकन्दं तथैव च ।
कन्दं पिन्धूयुतां चैव सूरणं तूलमेव च
॥ ११२ ॥
[[२८२४]]
शाण्डिल्यस्मृतिः
मरीचं शीरकं चैव निष्पावं राजमाषकम् । महामापं सर्वपं च कृष्णमापं तथैव च ॥ ११३॥ माषमुद्गं महामुद्गं मुरसीं शाकिनीं तथा । शकटं शिगुकं चैव जीवन्त्यागस्त्य पथ्यवाक् ॥११४ ॥
‘गिवेरं कुलत्थं च व्याघ्र सिंहं तथैव च । शतान्यन्यानि दुष्टानि सुभृतं कारयेद्बुधः ॥११५॥ कोशातकमलाबुं च दूरतः परिवर्जयेत् । जीरकाद्यवि मिश्राणि नालिकेरयुतानि च ॥ ११६॥ समरीचानि कार्याणि व्यञ्जनानि रसैस्सह । पयोमिश्राणि शाकानि हिङ्ग्वमित्राणि साधयेत् ॥११७॥ आसुरं स्याद्विदग्धं यदपक्वं रौद्रमेव च । दैवं शृगु तमेवातः कर्म शृगु च तद्हविः ॥ ११८ केशकीटादिभिदुष्ट विदग्धमशृतं तु वा । शाकौदनादिकं सर्वं सर्वथा परिवर्जयेत् ॥ ११६॥ मुद्गान्नं च गुडान्नं च पायसान्नं विशेषतः । शक्तश्चेदानयेन्नित्यमपूपान्भक्ष्यमेव च ॥१२०॥ पर्वणि श्रपयेदन्नं पायसं द्वादशीषु च । सर्वेषां पयसां शुद्ध गव्यं चेति निगद्यते ॥ १२१ ॥ अशुद्धस्तु दशाहानि प्रसूतायाश्च गोपयः । पलाण्डुलशुनामेव्यं खादयन्त्या पयस्तथा ॥ १२२॥ अनुज्ञारहितायाश्च निक्षिप्तायाश्च गोः पयः । तथैवाधिकृतायाश्च लाभं प्राप्तं पयस्तथा ॥ १२३॥
निषिद्धपयोविवरणम्
[[२८२५]]
देशकालातिवृत्त्या च यस्या ऊधसि संस्थितम् । क्षीरं तस्यास्त्वकर्मण्यं विना वत्सं च दुह्यते ॥ १२४॥ विद्धौजामध्यकर्मण्यं प्रसलंते (?) निवृत्तितः । वृषस्यन्त्यास्तथा क्षीरं वाहार्थे या च कल्पिता ॥ १२५॥ तं कर्मण्यमासां च वत्सो यस्यावमन्यते । रुद्रादिव्यपदेशिन्यो याश्च गावस्तदङ्किताः ॥१२६॥ पयस्तासामकर्मण्यं लीलं यत्सविषैरपि ।
कर्मण्यं पय आहृत्य पायसं कारयेद्धविः ॥१२७॥ अपूपं च गुला (डा) न्नं च नन्दायां सगुणं हविः । वैशेषिकेषु कुर्वन्ति दिवसेषु विशेषवत् ॥ १२८॥ पाकं पायस पूर्वाणां सन्त्येषां च यथाबलम् । सङ्क्रान्तिर्जन्मनक्षत्रं श्रवणं द्वादशीव्रतम् ॥ १२६॥ पर्वद्वयं समुद्दिष्ट सविशेषक्रियाविधौ । चन्द्रसूर्योपरागे च प्रादुर्भाव दिनेषु च ॥१३०॥ मासर्क्षेषु महाहर्पे विशेषाराधनं हरेः ।
विदुदुर्निमित्ते च दुःस्वप्ने संजातेऽपि महाभये ॥ १३१॥
आगतेषु च भक्तषु कुर्याद्वैशेषिकीं क्रियाम् । द्रव्यहीना यदि भवेत् कर्म वैशेषिकं वृथा ॥१३२॥ निर्धनोऽपि यथाशक्ति कुर्याद्भुक्त पु विस्तृतम् । केवलेनोदनेनापि शाकान्नस्वशृतेन च ॥ १३३॥ नैत्यं कर्म विधेयं वै भक्तानां शुद्धचेतसाम् । सुपक्षेषु च सर्वेषु परिमृज्याम्बुनाखिलम् ॥१३४॥
[[२८२६]]
शाण्डिल्यस्मृतिः
ऊर्ध्वपुण्ड्र रलङ्कृत्य नयेद्यागालयं हविः । पाकस्थानं गृहं संव विमृज्याभ्युक्ष्य वारिणा ॥ १३५ ॥ आच्छाद्य वस्त्रमन्यच्च समाचामेत्कुटुम्बिनी । प्रविश्य भगवद्गेहं दीप प्रज्वाल्य गेहिनी ॥१३६॥ काङ्क्षन्ति भर्तु रायानं तिष्ठेत्सपरिचारिका । जघन्यशायिनी नित्यं पूर्वोत्थानपरा तथा ॥ १३७॥ अन्तर्बहिश्च संशुद्धिः गृहकर्मसु सोद्यमा । मङ्गलाचारशीलाश्च भृत्यबन्धुजनप्रिया ॥१३८॥ हृद्यवेषा सदाभतु रानुकूल्यप्रयोजना । यथालब्धेन संप्रीता कुशला पाककर्मणि ॥ १३६॥ र (म्य) वस्तुषु निस्स्नेहा काले मेध्यान्नभोजने । भगवद्भक्तियुक्ता च तथा भागवतप्रिया ॥१४०॥ मितभाषिणी हासरोदनोद्धोषवर्जिता । गृहान्तरद्वारदेशस्थानासनविवर्जिता ॥१४१॥ निद्रालस्यविवादासद्भाषणासत्यवर्जिता ।
निस्पृहा परकार्येषु स्थिबुद्धिर्ह ढव्रता ॥१४२॥ अलब्धानुद्व (व) णा स्निग्धा सलज्जा मधुरस्वना । कुशला लोकयात्रासु दुष्टादु क्रियापरा ॥ १४३ ॥ व्यये च मुक्तहस्ता च दोषश्रवणभीषिता । नास्तिवाक्येऽतिसंत्रस्ता संचारे छन्नविग्रहा ॥ १४४ ॥ नचवक्त्र (?) च लाभा च वेश्यालावण्यनिस्पृहा । गुप्तवेष रहस्यार्थ कर्मभोज्यान्नभोजना ॥ १४५ ॥
भोजन परिवेषणेश्रेष्ठनारीलक्षणम्
एवमादिगुणोपेत (1) नारीणामुत्तमा सती ।
भर्तृकर्म स्वनुरूपास्याः (१) कृतकृत्यस्सचेतनः ॥१४६॥ श्लाघयन्ती स्वसामर्थ्यं भर्तृ निन्दापरायणा । असमक्षं समक्षं वा दुष्टां तां वर्जयेद्बुधः ॥ १४७॥ भर्तुर्धनं च लोभात्खी क्लिश्यमानेऽपि भर्तरि । गोपयन्त्यर्थशीलां तां कुर्यात्कर्म वहिष्कृताम् ॥१४८॥ निजोदरं पूरयन्ती भृत्यवर्गं तथाऽतिथिम् । न्यूनस्वस्राति स्त्री वा तथा पाकं विवर्जयेत् ॥ १४६ ॥ श्वश्चां विवदमानायां स्नुषाया स्वेन वा सुतैः । वारयेत्तां प्रयत्नेन विना तां कर्म कारयेत् ॥ १५०॥ धर्महानिर्यथा न स्याद्यथा सज्जनगर्हणा ।
[[२८२७]]
सर्वं तथा समीक्षं (क्ष्यं) द्रागाचरेद् बुद्धिमान्नरः ॥ १५१॥ स्वाधीनां कारयेन्नारीं सर्वकर्मसु नात्मवान् । सर्वकर्मानुसन्दध्यात् स्निग्धः किल तयावसन् ॥१५२॥ स्त्रीकृतेषु न विश्वासः कर्तव्यः सत्क्रियापरैः । मायाचारेण निपुणा मोहयन्त्यविचक्षणान् ॥१५३॥ अपराधो यदि भवेत् प्रमादान्निजयोषिताम् । मुखभङ्गस्स्मृतस्तासां दण्डस्सन्तप्तचेतसाम् ॥१५४॥ न ताडयेन्नातिमात्रं पुण्येन कृशतां नयेत् । स्त्रियं भर्त्ता नचान्येषां दोषं तस्याः प्रकाशयेत् ॥ १५५॥ भोजनाच्छादनैः पुष्पभूषणाद्य र्निजस्त्रियम् । आलापैस्सरसैर्नित्यं तोषयेत्तां सयेन्न च ॥ १५६॥
[[२८२८]]
शाण्डिल्यस्मृतिः
विलोभयन्सदा पृष्टदृष्टार्थवचनैः स्त्रिया । भगवत्कर्मसिद्धयर्थं नयेदात्मानुकूलताम् ॥१५७॥
पुत्रान् भृत्यान् कलत्रं च भक्तमाश्रितमेव च । नित्यं कुर्यादुपायेन भगवद्भक्तिभावितान् ॥ १५८॥ अपुत्रा वा सपुत्रा वा भक्ता दक्षा च कर्मसु । या स्त्री तां वर्जयेद्भर्ता न कदाचिदपि प्रियाम् ॥ १५ ॥ पुत्रार्थं नोद्वहेदन्यां कर्म पुत्रा हि योगिनः । अपुत्रोऽपि परं याति कामी नान्योऽपि सत्सुतः ॥ १६०॥ न स्त्रीजितो भवेद्भर्ता नचाशक्येषु (दाप) येत् । भुक्तां न कथयेत्स्त्रीणां असक्तरसक्तवद्वसेत् ॥ १६१॥ निर्भयास्सुहृदोलोको यथास्युस्सर्वजन्तवः । सिधाभीत (?) स्वकुलंतत्तथाचरेत् ॥ १६२॥ यथाशास्त्रमुपादानमाचमेद्भोगनिस्पृहः । भगवद्धर्मलाभेन तृप्तो वस सुखी भवेत् ॥ १६३॥
इति शाण्डिल्यधर्मशास्त्रे उपादानाचरणं नाम
तृतीयोऽध्यायः ॥३॥अथ चतुर्थोऽध्यायः
इज्याचारवर्णनम्
उपादानप्रकारो यः सम्यगुक्तः समासतः । इज्याचारं च वक्ष्यामि यथावदनुपूर्वशः ॥ १ ॥ भोगानुपाज्ययागाधर्म विधिवत्स्नानमाचरेत् । प्रक्षाल्य पादौ स्वाचामेत् (नित्यंयः) स्वोर्ध्वपुडुकः ॥ २ ॥ सप (वि)त्रकरञ्चैव प्रसन्नो यागमारभेत् । व्यक्त` वेद्यामायतने व्योम्न्यन्तर्हृ दयाम्बुजे ॥ ३॥ एकस्मिन्नेव देवेशं यथायोगं समर्चयेत् । युक्तमायतनं वाऽपि प्रथमं यत्समाश्रितम् ॥ ४ ॥ आदेहपातात्तद्धित्त्वा नान्यद्विम्बं समाश्रयेत् । उपचारेषु भक्तत्सन् स एष इति निश्चितम् ॥ ५ ॥ व्यक्तायतनयोः पूजां कुर्याद्भक्तिविवृद्धये । वेद्यन्तरिक्षवन्मौढ्याद्वृत्तिस्थानं प्रपश्यति ॥ ६ ॥ व्यक्तायतनसंस्थानं नार्हस्तत्रार्चनाविधौ । कर्मिणःसर्वथा नित्यमस्वाधीनप्रवृत्तयः ॥ ७ ॥ इति उग्रहयोगेन वेदिर्वेदप्रचोदिता ।
लब्धं गुरोः प्रसादेन क्रमागतमथाऽपि वा ॥ ८ ॥ उद्यतं याचितं वास्यात् निम्नं गौणमतोऽन्यथा । भक्तानां सर्वविषयव्यावृत्तदृढचेतसाम् ॥६॥
[[२८३०]]
शाण्डिल्यस्मृतिः
सर्वेषामादिपूर्तिस्तु मङ्गलं वेदवादिनाम् । कुटुम्बी वर्जयेद् बिम्बं दावं शैवं च मृण्मयं ॥ १० ॥ गृहेषु भित्तिसंस्थं च योगनिद्वारसोत्सुकम् । कुटुम्बाश्रमनिष्ठस्य नित्यं स्वाधीनकर्मणः ॥ ११ ॥ अच्छिद्र कारिणश्शान्तं व्यक्त द्धयस्य पूजनम् । चरतः कर्मणो यत्र वेदिः कर्तुं न शक्यते ॥१२॥ अम्बुप्रायास्तथा भोगा स्तत्रेष्ट व्योम्नि पूजनम् । विवेकसिद्धा ये सन्तः पक्त्रयोगा गुणातिगाः ॥ १३ ॥ केवलज्ञानसन्तृप्तास्ते यजेयुः परं हृदि । अन्येऽपि सर्वभोगानामभावे यत्र जायते ॥ १४ ॥ यजेयुर्हृदयाम्भोजे भोगैर्मानस कल्पितैः । सिद्धये तु महात्मानो विवेकज्ञानयोगिनः ॥ १५ ॥ वर्जयित्वा कृतानन्ये यजेयुर्द्रव्यसंपदा ।
[[1]]
सर्वभूतेषु देवेषु नरः प्रकृतो (…?) तथा ॥१६॥ मनुष्याकृतिदेवेषु न कार्यं पूजनं बुधैः ।
(केचिद्) धनामुखाः केचित् दमनप्रतिशक्तयः ॥१७॥ मनुष्याकृतयो देवा नोपास्यास्ते कदाचन । प्रादुर्भावादिभिर्देवैः मत्स्यः कूर्मादिभिर्विना ॥१८॥ अशुद्ध ष्वर्चयन्मूढो नाप्नोति परमं पदम् । तिर्यक्त्वं मानुषत्वं वा मत्स्याद्यं स्वेच्छया हरिः ॥१६॥ यथास्थितस्सएवासौ दीपाद्दीप इवोदितः । व्यक्तायतनयो नित्यमर्चयेत्पुरुषोत्तमम् ॥२०॥
भगवद्भक्तिविषयक नियमवर्णनम्
सावधानो भवेद्भक्त्या भृत्यो नृपमिवान्तिके । अन्यत्राप्यर्चयन्मन्त्री पूजाकाले जनार्दनम् ॥२१॥ तत्रस्थं भावयेदवं सर्वैश्वर्यसमन्वितम् । परीक्ष्य भोगानादाय तीर्त्वाऽप्यमृतरूपताम् ॥२२॥ प्रह्वाङ्गो भीतवद्भोगैस्तन्मयैस्तन्मयोचितैः । तत्राभिगमने पूर्व दिव्य मन्त्रार्थदर्शनात् ॥२३॥ साक्षादभिमुखं देवं भावयित्वाऽर्चयेद्वशी । भगवद्वनाम्भोजस्यन्दमानामृतोदधिः ॥२४॥ पिबन्निवमहाह्लादमध्यस्थः पूजयेत्प्रभुम् । भक्तसन्दर्शनप्रीत्या नानाभूतैरिवावृतः ॥२५॥ नेत्रपातैर्भगवता स्वात्मानं शुचितां नयेत् । नातिपूतं नातिमन्दं नोच्चैर्मन्त्रानुदीरयेत् ॥२६॥ अत्वरः सुमनाः क्रोधकामं हित्वा यजेत च । न शब्दयन्स्त्रात्मसङ्घमम्बुनानाद्र’ यन्महीम् ॥२७॥ नन्तु कु ( ? ) ञ्जजल्पंश्च शुद्धमौनो भवेद्वशी । सम्पूज्याङ्गरुपाङ्गश्च त्रद्धोष्ठ नासिकाक्षरैः ॥२८। अव्यक्तरप्यशुद्धं तन्मौनवद्वर्जनं शुभम् ।
यथा युवानं राजानं यदाचं महस्तिनम् ॥२६। यथाप्रियातिथिं योग्यं भगवन्तं तथार्चयेत् । सम्यक्साधितमेवापि यत्स्यान्न हृदयंगमम् ॥३०॥ वर्जयेद् दृष्टदुष्ट च हस्तात्स्खलितमेवच । पुराभिगमनं मन्त्रैः प्रणवाद्यर्यथाविधि ॥३१॥
[[२८३१]]
[[२८३२]]
शाण्डिल्यस्मृतिः
अभिगम्यैव देवेशं मानसाद्य समर्चयेत् । अष्टधा विहितैर्मन्त्रैश्चातुराश्च पदस्थितैः ॥३२॥ भगवत्प्रापकैश्शुद्ध रिज्यामन्त्रैस्समर्चयेत् । स्नान भौगैस्समभ्यर्च्य दिव्यालङ्कारादिमण्डितम् ॥३३॥ अलङ्कारासनं दत्त्वा दिव्यैस्स्रक्चन्दनादिभिः भोगैस्सुसंस्कृतैर्देवमर्चितं भावयेत्परम् ॥३४॥ सतीवप्रियभर्त्तारं जननीव स्तनन्धयम् । आचार्य शिष्यवन्मित्रं मित्रवल्लालयेद्धरिम् ॥३५॥ स्वामित्त्वेन सुहृत्त्वेन गुरुत्वेन च सर्वदा । पितृत्वेन समाभाव्यो मातृभावेन माधवः ॥३६॥ सुस्नातं स्वनुलिप्तं च स्रग्विणं च खलङ्कृतम् । संस्तुतं विविधैस्स्तोत्रैर्भोज्यासनगतं प्रभुम् ॥३७॥ अवश्यं मधुपर्केण मध्वाज्यदधियोगिना । अर्चयेदुदकेनाऽपि त्वातिथ्येन फलादिभिः ॥३८॥ मध्वाज्यं दधि संयोज्य यजते यो जनार्दनम् । अयं संसृज्यते तेन श्रीमता मधुपर्कवत् ॥३६॥ मधुराणां तु सम्पर्को मधुपर्कः प्रकीर्तितः । सम्पर्कसरसस्तेन मधुपर्केण जायते ॥४०॥ संपूज्य मधुपर्केण गां निवेद्य च दक्षिणाम् । गवार्थं द्रव्यमेवापि ततोऽग्नौ च समर्पयेत् ॥४१॥ शाककन्दफलोपेतै गुड़दध्याज्यसंयुतैः ।
अन्नैः प्रभूतैर्देवेशं विविधैः पृथगर्चयेत् ॥४२॥
भांगवतानां पूजा
मधुपर्कस्तथान्नाद्य यद्भुक्तं परमेष्ठिनम् । प्राणवद्रक्षणीयं तद्विनियोगावसानिकम् ॥४३॥ प्राप्तान् भावगतांस्तत्र गुरुपूर्वं यथाविधि । अर्चयेत्परया भक्त्या द्रव्यैरर्ध्यादिभिश्शुभैः ॥१४॥ वासोभिर्भू पणैर्भक्ष्यै धनधान्यादिभिस्तथा । श्रद्धया व (मूर्ति) तिमभ्यर्च्य दद्यातो देवसन्निधौ ॥४५॥ इज्यामध्ये तथा होमे योगे च जपकर्मणि । आगतं पञ्चकालज्ञ संपूज्यैवाचरेत्परम् ॥४६॥ सुवर्णं गां गुणवतीं भूमिं वृत्तिकरीमपि दद्याद्भागवताभ्यो भोगमोक्षार्थये सुधीः ॥ ४७॥ उदकुम्भैः पवित्रान्तैः फलमूलादिभिस्तिलैः । गन्धाद्यरुपयोगार्हेस्तोपयेत्सात्त्वतोत्तमान् ॥४८॥ प्रियंवदात्मनो नित्यं यत्ख्यातं सद्गुणोज्ज्वलम् । तन्निवेद्य जगद्धात्रे दद्यात्सत्कर्म योगिने ॥४६॥ यस्मिन् कुम्भे प्रियं यत्स्यादम्बुवस्त्रोदनादिकम् । तस्मिन्काले प्रदातव्यं तेनेष्ट्वा पुरुषोत्तमम् ॥५० विशिष्ट वस्तु संपाद्य हृद्यं पुष्पोदनादिकम् । अनिष्ट्वा तद्दत्त्वा च समश्मन्नरसूकरः ॥५१ ॥ अन्नं सुसंस्कृतं हृद्य ं भगवद्ब्राह्मणाग्निभिः । भृत्यवगैस्तथा भुक्त भोज्यं विषमतोऽन्यथा ॥१२॥ रत्नौघमपि वा स्तोयं प्रभूतं स्वल्पमेव वा । भगवत्प्रीतये नित्यं दद्याच्छुद्धाय योगिने ॥१३॥
[[१७८]]
[[२८३३]]
[[२८३४]]
शाण्डिल्यस्मृतिः
ये तोषयन्ति निरतं पञ्चकालपरायणान् । सकामास्तत्फलं यान्ति निष्कामाः परमं पदम् ॥५४॥ गृहे भागवते प्राप्ते तदिष्टमुपलक्ष्य च । अञ्जसा तत्प्रियं कार्यं यथा श्रमनुत्तये ॥३५॥ आसनैरर्ध्यपाद्याद्यर्व्यजनैरुचितोक्तिभिः । पादसंवाहनाभ्यङ्गरतिथिः पूजयेत्प्रियम् ॥५६॥ प्रहृष्टवदनं दत्त्वा वाक्यं प्रियमथासनम्। प्रदेयमञ्जसा नित्यं संप्राप्ते भगवत्परे ॥ ५७ पूज्या नित्यं भगवतस्सन्निधाने विशेषतः । अनन्याः पञ्चकालज्ञा न कदाचिदथेतरे ॥ ५८॥ अन्नमम्बूनिवस्त्राणि पात्राणि स्रक्फलादिकम् । इष्टमिष्टावशिष्टं वा दद्यान्ना पञ्चकालिने ॥ ५६ ॥ सर्वपापप्रशमनं सर्वदुःख निवारणम् । भगवद्भुक्तमन्नाद्यमयोग्येभ्यो न योजयेत् ॥६०॥ अयोग्ययोजनादेव योग्ये चाप्यनियोजयेत् । भगवद्भुक्त भा(ण्डा) नां प्रायश्चित्ती भवेन्नरः ॥६१॥ भगवद्भुक्तमन्नाद्यमज्ञानाद्योऽवमन्यते ।
इह निकतां प्राप्य जायते स पुरीषभुक् ॥ ६२ ॥ पवित्रं भगवद्भुक्तं सेवयाभ्युपयुञ्जते । भवन्त्यरोगास्सुखिनः पापदोषविवर्जितम् ॥६३॥ आराध्यैव जगन्नाथं तच्छेषं नापरा अपि । त्यक्तभक्ताचंना व्यर्था अरसा ऊषराम्बुवत् ॥६४॥
विष्णुभक्तानां गृहमेधिनां धर्मः
अभावे कारिणं कारि मनसाचार्यमर्चयेत् । तत्तन्मन्त्रैस्तथाद्रव्यैस्तृणं कृत्वा महीतले ॥६५॥ आचार्यस्य पितुश्चैव स्वामिनो द्रव्यमर्हति । शिष्यः पुत्रस्तथा दास इति तद्भोक्तुमर्हति ॥ ६६ ॥ ब्राह्मणं क्षत्रियं वैश्यं शूद्रं स्त्रियमथेतरम् । पूजयेत्तान् यथायोगं भगवद्योगभावितान् ॥६७। दिव्यशास्त्रानभिज्ञोऽपि भक्तिमान्पुरुषोत्तमे । अभ्यसूयाविरहितश्शास्त्रे पूज्यस्स सात्त्वतैः ॥ ६८ ॥ अकृत्रिमा भगवति प्रीतिर्यस्मिन् प्रदृश्यते । भक्तेषु वाच्य एवायं वाह्यलिङ्गधरोऽपि वा ॥६६॥ वैष्णवोsहं प्रदो (दे) हीति याचिते येन केनचित् । नावमन्येत तं विद्वान् तपैयेदन्यथाऽपि च ॥७०ll अविज्ञाता अनर्हाः सामान्या ये गृहमेधिनः । देवानिवेदितैद्रव्यैस्तर्पयेत्तदसन्निधौ ॥७१॥
भुक्तं भगवता यद्यद् गुरुशेषमथापि वा । हुतशेषं ततोच्छिष्टं भक्तिहीने न योजयेत् ॥७२॥ अवश्यं भोजनीयानामभागवतवेदिनाम् । . लौकिकाग्निषु पक्वेन कार्यमन्येन तर्पणम् ॥७३॥ प्रापणं साधितुं नित्यमशक्तस्सकृदग्निना । योग्यगेहाहृतेनापि साधयेज्जुहुयादिह ॥७४॥ प्रापणं भगवद्भुक्तं लब्धा भागवतेन तत् । पुनरिष्टेव भोक्तव्यं दानं तस्य न चेष्यते ॥७५॥
[[२८३५]]
[[२८३६]]
शाण्डिल्यस्मृतिः
अनर्पितं भगवते स्वाराध्यायं स्वतन्त्रतः । यद्भुक्त्वा कुरुते कर्म तद्द्द्रव्यं यस्य तस्य तत् ॥७६॥ कर्मणा मनसा वाऽपि यथाकालं यथाबलम् । स्वाराध्याथ निवेद्य व सर्व भुञ्जीत बुद्धिमान् ॥७॥ शुद्ध न्यायेन संप्राप्त साधितं साधुयत्नतः । अभोज्यमेव जानीयान्निजमन्त्रानिवेदितम् ॥७८॥ मूर्त्यन्तरेण संयुक्त अयत्नेन समागतम् । स्वमन्त्रमूर्त्तिं सञ्चिन्त्य मनसा तत्समर्पयेत् ॥७६॥ स्वत आत्मनि देवेश शेषभूतोऽप्यहं गतैः । तवास्तीति वदञ्छुद्वस्तथा स्वेन समन्वितः ॥८८ll मुमूर्पवस्तथा बाला भगवत्पादयोः परैः । समर्प्यन्ते तथाशक्त भोज्यमन्नं निवेदितम् ॥८१॥ तथा स्वाराधनेनैव न प्रीतो भगवान् हरिः । यथा भागवतश्रेष्ठपादाम्बुरुहपूजनात् ॥८२॥ यथा कु(कौ) टुम्बिक श्रीमान् कुमारैरनुमोदिते । मोदिते भगवान् तैस्तैस्तथा नियतमानसैः ॥८३॥ अनाहतसुतं गेही पुरुपं नाभिनन्दति । तथाऽनचितसद्भक्त भगवन्नाभिनन्दति ॥८४॥ यस्य यस्याधिकं दृष्ट्वा भक्तिज्ञानक्रियामपि । तं तं समर्चयेत्पूर्वं यथाहं क्रमयोगतः ॥८५॥ निर्धनांश्चरतो लोके वृत्त्यर्थमिव स ( सात्त्वतान् । नावमन्येत तैर्लोक मपात्री कुरुते हरिः ॥८६ ॥
विष्णुभक्तानां गृहमेधिनां धर्मः
ये पाचयन्ति धरणीं चरन्तो पाञ्चकालिकः । दर्शनाद्भाषणात्तेषां कृतार्थाः सर्वजन्तवः ॥८७॥ अभ्यर्च्य श्रद्धया प्राप्तान् सर्वानभ्यागतातिथीन् । पापण्डवर्ण्यमन्नाद्य रग्निकार्यं समारभेत् ॥८८॥ लवणं चोदकं हित्वा कर्मण्यं यद्यदाहृतम् । तत्सर्वं जुहुयाद्ग्नौ तिलपुष्पौदनादिकम् ॥८६॥ यदन्नं साधितं साधु प्रापणार्थं प्रयत्नतः । भगवद्भुक्तशेषेण तेनैव भगवत्क्रिया ॥६०॥ यथा व्योम्नि यथा वेद्यां योगे ध्याने यथोदितम् । कुटुम्बाश्रमनिष्ठानां तद्वदग्निषु पूजनम् ॥१॥ पापक्षय क्रियापूर्त्तिस्सर्वोपद्रवनिग्रहः । शुद्धिश्चित्तप्रसादश्च तस्माद्धोमं न लोपयेत् ॥६२॥ निषिद्धद्रव्ययोगेन पञ्चकाले निषेवणाम् । श्रद्धया जुह्वतां नित्यं नाराध्यमिह किंचन ॥३॥ आवाह्यानौ जगन्नाथं मनसाभ्यर्च्य शक्तितः । जुहुयात्काष्ठपुष्पान्नं घृतक्षीरतिलादिकम् ॥१४॥ श्रद्धया परया हुत्त्वा यथाविधि विधानवित् । संविभागं च भूतानां कुर्याद्भगवदतः ॥५॥ भृत्याश्च द्विविधा ज्ञेया प्रेता जीवास्तथैव च । प्रेता मृतास्स्ववंशेषु जीवा जीवन्ति वै गृहे ॥६६॥ पितृपुत्रकलत्राद्या दासीदाससमाश्रिताः ।
रक्षणीया गृहे ये स्युभृत्या जीवा इमे स्मृताः ॥६७॥
[[२८३७]]
[[२८३८]]
शाण्डिल्यस्मृतिः
यथाहं च यथाशक्ति सुविभज्यान्नमम्बु च । दद्यात्पितॄन् समुद्दिश्य भगवज्ज्ञानयोगिने ॥१८॥ चत्वारो बहवो द्वौ वा सम्यग्ज्ञान्येक एव वा । पूज्या नित्यं प्रयत्नेन पित्रथं भोज्यसंपदा ॥६॥ स्वल्पैरप्यन्नपानाद्यः पादोदकविमिश्रितैः । भुक्तर्भगवता सन्तं तोपयेत्पितृ तृप्तये ॥१००॥ भिक्षां वा भिक्षवे दद्यात् पित्रर्थ शक्तिवर्जितः । प्रत्याचक्षीत नाल्पान्नं पानीयं लवणं सति ॥१०१ ॥ पितरं मातरं पुत्रान् कलत्रं मित्रमेव च । त्रिभर्ति वा यथागेही प्रेतभूतांस्तथैव सः ॥ १०२॥ कृशान् भागवतान् प्राप्तान् दरिद्रानध्वकर्शितान् । तैलान्नवस्त्रपानाद्यः पुरस्तान् वासयेद् गृही ॥१०३॥ निन्दन्ति ये भागवतानज्ञानात्पापचेतसः । न दद्यात्सर्वथा तेभ्यो वाचं वार्यापि वाङ्मुखम् ॥१०४॥ गृहे भागवतं प्राप्तमज्ञानाद्योऽवमन्यते ।
नष्टश्रीको भवेत्सद्यः क्षीणायुः पुण्यसञ्चयः ॥ १०५॥ भोजयेद्भोजनीयांस्तान् गुरुपूर्व’ कुटुम्बिकः । पितृमातृक्रमेणैव दासान्तं प्रीतमानसः ॥ १०६॥ कांस्यं कुम्भीदलं पाद्मं पालाशवटपल्लवम् । अश्वत्थपल्लवं चैव पात्रं कुर्यान्न भोजने ॥ १०७॥ नातिदोषावहं कांस्यं भोजनेऽश्वत्थ एव च । कुटुम्बिनामकामानामितीच्छन्ति हि केचन ॥ १०८॥गृहमेधिनां धर्मवर्णनम्
पानंदार्व च शैलं च मृण्मयं पाणिमेव च । आयसं वर्जयेद्योगी भूपृष्ठ वस्त्रमेव च ॥ १०६ ॥ हैमं रौप्यं च ताम्रं च कदलीनालिकेरकम् । कारयेद्भोजने पात्रमन्यत्कर्मण्यवृक्षकम् ॥ ११०॥ कर्मण्येष्वपि भिन्नेषु नाश्नीयात्तैजसेषु च । निक्षिपेन्नच ताम्र ेषु दधिक्षीरघृतादिकम् ॥१११॥ चतुरश्रेषु शुद्ध ेषु सद्यः प्रक्षालितेषु च ।
भूमि संस्पृष्टपार्श्वषु विष्टरेषु क्रमाविशेत् ॥ ११२ ॥ पालाशवटतालानामश्वत्थस्य च काष्ठजम् । चक्रादिलाञ्छितं भिन्नं वर्जयेदुच्चमासनम् ॥११३॥ वेत्रचर्मकृतं चैव तालपत्रकृतं कुशम् ।
आसनं वर्जयेद्भुक्तौ यागयोगोपयोगि च ॥ ११४॥ स्पृष्ट्वा भुवं पदाप्र ेण पात्रं सव्येन पाणिना । अश्नीयान्मन्दमावृत्त्य पादौ वस्त्रान्तरेण च ॥ ११५ ॥ अङ्क नारोहयेत्पादं पाणिना नाक्रमेद् भुवि ।
अङ्ग
ं वा न स्पृशेत्पद्भ्यां पादं पादान्तरेण वा ॥ ११६॥ उपलिप्य शुचौ देशे निश्छिद्र चतुरश्रकम् । सविताने सदीपे च भोक्तव्यं भगवन्मयैः ॥११७॥ वेत्रासनस्थे पात्रे च नाश्नीयान्नासने स्थिते । नाकं स्थे दारुसंस्थे च नाकेशेनाद्ध कारिते ॥११८॥ नाश्नीयाच्छ्यनारूढो न दीपे निहते पुनः ।
न दृष्ट्वा केशकीटाद्यं नचावैष्णवदर्शने ॥ ११६॥
[[२८३६]]
[[२८४०]]
शाण्डिल्यस्मृतिः
पानीयं न पिबेद्योगी शङ्खचक्रादिमुद्रितैः । शङ्ख ेन वायसेनापि पद्मपत्रादिभिस्तथा ॥ १२०॥ कुर्वन् सुभोजनं कर्म्म सर्वेषु गृहमेध्यपि । प्रसाद्यस्ताननुज्ञाप्य सहाश्नीयात्प्रहृष्टधीः ॥ १२१ ॥ बालवृद्धातुरान्दासानाश्रितान् मातरं गुरुम् । पितरं चागतां ज्ञात्वा गृही भोजनमारभेत् ॥१२२॥ प्रक्षाल्य पादावाचम्य द्विरार्द्रा मुखवत्करः । इज्या प्रदेशाभिमुखं समश्नीयात्प्रसन्नधीः ॥ १२३॥ जपभोजनहोमांस्तु देवस्याभिमुखं चरेत् 1 भगवत्पादयोर्योज्य ( : ) शिरश्शयनमाचरेत् ॥ १२४॥ विशुद्धकोष्ठवृद्धाग्निः पादाम्बु कुसुमादिभृत् । पवित्रवेषश्शुद्धात्मा भुञ्जीतान्नपवित्रितम् ॥ १२५ ॥ कर्म्मारंभपवित्रं च प्रणवं च षडक्षरम ।
जप्त्वा ध्यानपरोऽश्नीयात् तन्मयोऽन्नमनाकुलः ॥१२६॥ संविभागावशिष्टेन कारिदत्तावशेषितैः ।
हुतशेषेण संयुक्तं यदन्नममृतं तु तत् ॥१२७॥ नावश्यं भोजने मौनं कुटुम्बाश्रमवासिनाम् । वाचोपचारः कर्त्तव्यो भोजने भुञ्जता सह ॥ १२८॥ भगवत्पादतोयेन मोक्षयित्वाऽमृतोदनः । ध्यायन्नन्नगतं देवं जपन्मूलं चतुर्गुणः ॥ १२६ ॥ अर्येण परिषिच्यान्नं कर्मारम्भेण मन्त्रवित् । इदमन्नं जपेन्मन्त्रत्रं स्पृष्ट्वा भोज्यामनाकुलः ॥ १३०॥
गृहमेधिनां धर्मवर्णनम्
धातारं हृदयान्तस्थं ध्यात्वा पादाम्बुजपूर्वकं । तदास्ये जुहुयादन्नं तत्तन्मन्त्रैस्समोहितैः ॥ १३१॥ ध्यायन्नेव परंब्रह्म भोक्तारं हृदये स्थितम् । अश्नीयादत्वरो मन्त्री भोज्यं सर्वमकुत्सयन् ॥१३२॥ विशिष्टभोज्यमायातमनिवेदितमन्तरा । अर्चापयेदनेनान्तस्सुर्ता शिष्यादिभिः परम् ॥१३३॥ क्षुद्र वस्तु समायातं मनसा तन्निवेद्य च । अश्नीयान्मिश्रितं कृत्वा साक्षात्पूर्वनिवेदितैः ॥१३४॥ निष्कल्मपो भवेन्मर्त्य एवं शुद्धान्नभोजनात् । प्रसीदन्ती इन्द्रियाण्याशु सत्त्वं च परिवर्द्ध ते ॥१३५॥ अन्नशुद्धचैव सत्त्वस्य विवृद्धिस्सर्वदेहिनाम् । सत्त्ववृद्ध्यैव सत्कर्म निरते वर्जयेत्त्यसन् ॥१३६॥ आरोग्यं रूपवक्ता च कीर्तिः श्रीज्ञानमेव च । शान्तिस्सत्कर्मणि श्रद्धा शुद्धान्नेन भवन्ति हि ॥ १३७॥ कामः क्रोधस्तथालोभः परहिंसारुचिस्तथा । निद्रालस्यादयो दोषा अमेध्यान्न निषेवणात् ॥१३८॥ अशुद्धान्नाशनात् पुंसां रोगावाह्यास्तथान्तरा । शत्रुवृद्धिग्रहद्रोहस्तामसीगतिरेव च ॥१३६॥ परदारपरद्रव्यसव्य( : ) संसक्ति दुष्टभोजनात् । कार्यबुद्ध्येव कालेन क्रियन्ते ते कुहेतिभिः ॥ १४०॥ शनैश्शनैः क्रिया साध्वी विगलय्य यथादि वा । अत्यन्तामेव भोज्यानि भोक्तुं मृगयते नरः ॥ १४१॥
[[२८४१]]
[[२८४२]]
शाण्डिल्यस्मृतिः
गलेऽसत्कर्मणां रूपादमेध्यस्य निषेवणात् । विषयेष्वभिषक्तानामायुः प्रक्षीयतेऽन्तरा ॥ १४२ ॥ पथ्यं मितं च शुद्धं च रस्यं हृदयनन्दनम् ।
स्निग्धं दृष्टिप्रियं चोष्ण मन्नं भोज्यं मनीषिभिः ॥ १४३ ॥
भगवद्यागयोग्यं यत्तदेवाशनकर्मणि ।
भोजनार्हमिदं देव यागाङ्ग इति नेष्यते ॥ १४४ ॥ न भर्त्सयन् बालपुत्रान् नावदन् न च भार्यया । अन्येभ्यो दापयज्ञस्या नश्नीयात्सहबान्धवैः ॥ १४५॥ शक्तिहीनो यथाशक्ति दापयन्नन्नमम्बु च । भृत्यवर्ग समाश्नीयात् तेभ्यो दत्वा कदाचन ॥ १४६ ॥ पिबेद्भोजनपात्रेण पाणिना पानभोजने ।
प्रभूतं न पिबेत्तोयं नापिबन् वाशनं चरेत् ॥ १४७॥ पीत्वावशिष्टं चपके पुनस्तान्न पिबेज्जलम् । शाकाद्य नोत्सृजेत्तथाल्यः पाणिना वापि भुञ्जताम् ॥१४८॥ आद्यादाद्यन्तयोरार्द्रा मध्ये स्विन्नमिवोदनम् । अन्नोपदंशपानीयै स्त्रिभागमुदरं भवेत् ॥१४६॥ ये भुञ्जते समीपस्था ये भोक्ष्यन्ति ततः परम् । सर्वं तन्मनसा बुद्ध्या तदर्हमशनं चरेत् ॥ १५०॥ भगवद्भुक्तशेषं यद् भुक्तं भागवता तथा । तदेव भोज्यमुद्दिष्ट’ भगवद्योगसेविभिः ॥ १५१ ॥ वासोभूषणपुष्पाणि गन्धं तैलं तदौषधम् ।
सर्वं भगवते नित्यमुपयुज्यान्निवेदितम् ॥१५२॥
भगवत्पूजाप्रकारः
स्नानाचमनपानार्थमर्हणाद्य यदम्बुवत् ।
उपयुक्त भगवता पानीयं तत्प्रकल्पयेत् ॥ १५३॥ भोजनाद्यं तथाद्दिव्यं पादाम्बेकं समन्त्रकम् ।
[[२८४३]]
पीत्वे (पिवे) दवश्यं सद्भक्तो मिश्रितं वार्हणादिभिः ॥ १५४ ॥ भोजनं भगवत्कर्म यद्यपि स्यान्मनीषिभिः ।
न कार्यं भगवद्गेहे विशेषाद वसन्निधौ ॥ १५५ ॥ तनयोऽहमिति ज्ञात्वा पात्रं शय्यासनादिकम् । उपयुञ्जन् भगवतः पातिन्या यत्प्रकल्प्यते ॥ १५६॥ तन्मयत्वेऽपि पुत्रस्य पितुः पुत्रो यदाभवेत् । नित्यं भिन्नश्च स यथा तथा भागवतो हरेः ॥१५७॥ भुक्तोत्सृष्ट’ भगवता स्वात्थं तस्मै निवेदितम् । उपयोज्यं भवेत्सर्वं नासां कार्यं समाचरेत् ॥ १५८॥ फलत्रयमपूपं च गुडान्नं पायसं तथा ।
सर्वं भगवते दत्तं भोज्यं तन्मन्त्रमूर्त्तये ॥ १५६ ॥ चन्दनं गन्धपुष्पं च खण्डं कर्पूरमेव च ।
नोपयुञ्जीत राजाईमन्यच्च न समर्पितम् ॥१६८॥ श्वसूकरहतं यत्स्यादुच्छिष्टं यच्च मानुषम् ।
नावद्यपि तदश्नीयात् दद्याद्वातापि कर्मिणे ॥ १६१ ॥ माषादिचूर्णैर्मृ द्भिर्वा प्रक्षाल्यं करयोर्द्वयोः ।
प्रक्षाल्य जानुपादौ च दन्तान्काष्ठैर्विशोधयेत् ॥ १६२ ॥ विशुद्धवदनो मन्त्री स्वाचान्तो द्विरनाकुलः । प्रविश्य भगवद्गेहं नत्वा पुष्पाञ्जलिं चरेत् ॥ १६३॥
[[२८४४]]
शाण्डिल्यस्मृतिः
आदाय तुलसीं त्यक्तौ भगवत्पादमण्डिताम् । भक्षयेच्छोधयेद्द हं भगवत्पादवारिणा ॥ १६४ ॥ भक्षितं भगवत्पादसंस्पृष्ट तुलसीदलम् । आरोग्यं भक्तिवृद्धिं च पापहानिं करोत्यपि ॥१६५॥ अष्टाङ्गयोगप्रीतिं च कृत्वा ध्यानपरो वशी । स्वाध्यायमपि सङ्कल्प्य यथाशक्ति जपेन्मनुम् ॥१६६॥ स्तोत्रपाठैश्च सन्तोष्य शक्तश्चेद् गानविद्यया । स्वरयोगेन देवेशं तोषयेद्भक्तिवृद्धये ॥ १६७॥ पञ्चकालक्रमपरा गानविद्या विशारदाः ।
शुद्धाचारा महात्मानः पूज्या भागवताह्वयम् ॥१६८॥ सुस्निग्ध कण्ठास्तालज्ञारस्वराचारादिवेदिनः । मागधाभिनयाः पूज्या अनिन्द्याभगवानिह ॥१६६॥ भक्त्या पुलकितस्वाङ्ग आनन्दश्रुपरिप्लुतः । गद्गदस्वरयोगश्च यथा हि स्यात्तथा चरेत् ॥ १७०॥ अतिवेला यदि भवेत् भक्तिसंकीर्त्तनादिभिः । तदा नोपरमेत्तस्माद्यत्र याक्रियते मुदा ॥ १७१॥ ततस्स जडतां प्राप्तस्त्यक्तलज्जो गतक्लमः । अनुभूय हरिं भक्तया शनेरुपरमन्यथा ॥ १७२ ॥ गानविद्यासमर्थस्सन् गानेन पुरुषोत्तमम् । तोपयेत्तु यथाकालं मनस्यसन्निधौ हरेः ॥ १७३ ॥ अलङ्काराधनस्यान्ते स्वाध्यायाद्यं तयोस्तथा । मध्यरात्रे च योगान्ते गानेनाराधयेद्धरिम् ॥ १७४॥
सच्छास्त्रश्रवणनपठन महत्त्ववर्णनम्
उपरम्येच्छनैविद्वान् स्तुतिगीति जपादिकान् । तोषयेदच्युतं भक्त्या भक्ष्यापूपफलादिभिः ॥ १७५৷৷ समालिप्य जगन्नाथं कर्पूरागुरुचन्दनैः । कर्पटैर्व्यञ्जनैर्वाऽपि यथाकालं समर्चयेत् ॥१७६॥ भावयन्तो जगन्नाथं बोधयन्तं परस्परम् ।
[[२८४५]]
सुसंभूय कथाः कुर्यात् सच्छास्त्राणि विलोकयेत् ॥ १७७!! सत्कर्मसततं कुर्यादऽसत्सर्वं च वर्जयेत् ।
एकमेकायनं शास्त्रं साक्षाद् ब्रह्मप्रकाशकम् ॥१७८॥ अन्यानि सर्वशास्त्राणि वदन्त्याच्छाद्य तत्परम् । सच्छास्त्रपठनैस्सद्भिश्शास्त्रार्थस्यापि शिक्षया ॥ १७६ ॥ शास्त्रार्थज्ञापनैर्वाऽपि शिक्षयेच्छास्त्रमादरात् । व्याख्यायालेखने नापि ग्रन्थनिर्माणकर्मणा ॥ १८० ॥ शिष्याणां शिक्षया वाऽपि स्वाध्यायार्थेन मुच्यते । न स्मर्त्तव्यो विनीतेन वेदमन्त्रोऽप्यवैष्णवम् ॥१८१॥ काव्यालापोऽपि जप्योऽसौ यत्र संकीर्त्यतेऽच्युतः । गन्तव्यं यदि तीर्थार्थमुपादानार्थमेव वा ॥ १८२॥ स्वाध्यायकाले गमनं प्रारम्भोऽथ यथासुखम् । अवश्यमिष्ट्वा हुत्वा च दत्त्वा चैव यथाबलम् ॥१८३॥ गन्तव्यमिष्टसिद्धयर्थं भगवद्योगसेविभिः ।
शुभेऽनुकूले नक्षत्रे मुहूर्त्तेऽपि च मङ्गले ॥१८४॥
दीर्घाध्वानं व्रजेद्विद्वान् ससहायोऽप्रमत्तधीः ।
व्योम्नि देवं यजेन्नित्यं बाहुभ्यां न नदीं तरेत् ॥१८५॥
[[२८४६]]
शाण्डिल्यस्मृतिः
सन्दिग्धान्नाश्रमे नावन्निवेद्यारोहयेद् बुधः । प्रयाणारम्भसमये मध्ये विश्रम्य चोत्थिते ॥ १८६॥ आचम्य पुनरुत्थाने कर्मारम्भं जपेद् बुधः । वल्मीकं गोमयं चैव छायामश्वत्थतालयोः ॥ १८७॥ न लङ्घयन्त्रजेद्विप्रो गवां नित्यमनापदि ।
छायायां विश्रमेन्नाऽपि कलिस्तस्यां हि तिष्ठति ॥१८८॥ शास्त्राभ्यासपरस्यापि शास्त्रे भक्तिः सुदुर्लभा । शास्त्रे भक्तिमतामेव ह्यलभं शाश्वतं पदम् ॥१८६॥ श्रवणं श्रावणंचिन्ता तदर्थे तस्य सङ्ग्रहः । चोदितानामनुष्ठानं शास्त्रे भक्तस्य लक्षणम् ॥१६०॥ शास्त्राभ्यासपराणां च कर्मचाप्यनुतिष्ठताम् । हृदये भक्तिहीनानां न शास्त्रत्रं तु प्रकाशते ॥ १६१॥
अभक्तानामनर्हाणां सच्छास्त्रं श्रूयतेऽपि वा । अन्यथा प्रतिभात्येव विषाक्तानां यथा पयः ॥ १६२ ॥ प्रकाशयितुमात्मानं भक्तानां हितकाम्यया । अवतीर्णो जगन्नाथः शास्त्ररूपेण वै प्रभुः ॥ १६३॥ तस्माच्छास्त्र े दृढा कार्या भक्तिर्मोक्षपरायणैः । अभक्तस्य परे शास्त्रे भगवान्न प्रकाशते ॥ १६४॥ तामसानां विमूढानां पतितानां भवार्णवे । विपरीतं च सकलं धर्मज्ञानं प्रकाशते ॥ १६५ ॥ उत्कीर्ण इव माणिक्यो विरलाम्बरवेष्टितः ।
दृश्यते विवरैरेव भक्तान्तः संस्थितो हरिः ॥१६६॥
योगविधिवर्णनम्
निष्प्रदीपस्यगेहस्य द्वारैरिव दुरात्मनाम् । दृश्यते करणैरन्तरन्धकारसमं निशि ॥ १६७॥ हृदयस्थे जगन्नाथे कार्यकारी प्रियं भवेत् ।
[[२८४७]]
कालयोग्यं च कृत्वैव योगं भोजनमाचरेत् ॥ १६८॥ राज्यामजस्रयोगस्सन् यथाकामं समाचरेत् । भगवत्सन्निधाने वा विविक्तोऽन्यत्र वा स्थले ॥१६६॥ योगं कुर्यात्समाधाय यथास्थानासनो वशी । उपलिप्ते शुचौ देशे कुशानास्तीर्य भूतले ॥२००॥ शुद्धयासनं समाधाय वस्त्रेणास्तृणुयाच्च तत् । चीरशुक्लकृतं चर्म मागं वेत्रकृतं तथा ॥ २०१ ॥ अजिनमेकवस्त्रं च योगेस्यादासनं दृढम् । ईदृशः परमात्मा यः प्रत्यगात्मा तथेदृशः ॥२०२॥ सद्धर्मानुसन्धानमिति योगः प्रकीर्त्तितः । योगानामिन्द्रियैर्वश्यै बुद्ध े ब्रह्मणि संस्थितः ॥ २०३ ॥ वदन्ति न तथा ज्ञेयं त्रयमेकं विदुर्बुधाः । भक्तिवन्न वियोगेन यथाचित्रं न लभ्यते ॥२०४॥ कर्मज्ञानं तथा योगं विना योगो न लभ्यते । अज्ञस्त्वेकायनाचारं कर्मयोगं वदन्ति हि ॥२०५॥ सम्यग्ज्ञानमिदं प्राज्ञा वदन्त्यच्युतयोगिनः । योगो धर्म इति (प्रोक्त) साक्षाद्भगवतो विधिः ॥ २०६॥ सर्वेन्द्रियैरपि सदा योगो युज्यत इत्यतः । अनुसन्धानविज्ञानयोगेन ब्रह्मशाश्वतम् ॥ २०७॥
[[२८४८]]
शाण्डिल्यस्मृतिः
अथार्हमिन्द्रियैरात्मा सेव्यते सत्क्रियापरैः ।
॥२०८॥
स्वामिन्यवस्थिते गेहे भृत्यवर्ग इवान्तरः । यथा यथा हरिं भक्त्या जानाति पुरुषोत्तमम् ॥२०॥ तथा तथा समुत्सृज्य पापानि कुरुते शुभम् । सदाचारस्य वैकल्यमल्पं वा यत्र दृश्यते ॥२१८॥ विकलां भक्तिरत्रेति बोद्धव्यं तमसाञ्जनान् । रजस्तमः क्षयादेव शुद्ध सत्त्वं ततोऽमलम् ॥२११॥ ज्ञानं भवति विज्ञानात् भक्तिः पुंसां प्रजायते । कर्मणा ज्ञानमिश्रेण स्थिरप्रज्ञो भवेत्पुमान् ॥ २१२॥ सत्प्रकाशे तु न तमो रजो वा वर्त्तते क्वचित् । शुद्वाचारपरत्वं हि शुद्धसत्त्वस्य लक्षणम् ॥ २१३॥ निषिद्धकाम्ययोगश्च सत्त्वेतरगुणोद्भवः । सच्छास्त्रनिरतायैव शुद्धसत्त्वा हि योगिनः ॥२१४॥ अक्लेशेन सुमुक्तिर्य भवाब्धि याति तत्परम् । वेदशास्त्रार्थतत्त्वज्ञ शश्वत्स्वाध्याय तत्परः ॥ २१५॥ योगधर्मैकनिरतो ब्रह्मभूयाय कल्पते ।
सकृदेवार्त्तितोऽप्येषः स्वाध्यायोद्वादशाक्षरम् ॥२१६॥ भक्तानां पातकान्याशु नाशयत्यवशादिव । नित्यं स्वाध्यायशीलानां स्वाधीनेन्द्रियवृत्तिनाम् ॥२१७॥ यजतां जुह्वतां चैव जीवन्मुक्तिर्व्यवस्थिता । उपवासंविनैवायं महापातकनाशनम् ॥२१८॥उपवासप्रशंसावर्णनम्
निषिद्धकर्मणि संप्राप्ते सोपवासं जपेन्मनुम् । परिहृत्य तु पापानि जपन् कुर्वन् सदा क्रियाम् ॥२१६ उपवासपरो भूयः स कृच्छ्राणि समाचरेत् । उपवासपराणां तु कदाचिन्नेन्द्रियभ्रमः ॥२२०॥ इन्द्रियभ्रमहीनानामचिराद्ब्रह्म सिद्ध्यति । अक्षतर्पणयुक्तानां यततामपि योगिनाम् ॥२२१॥ नित्यं पार्श्वगतो मृत्युः सर्वसंजीविनामिव । अवश्यं भवसन्तारमिच्छन्नविजितेन्द्रियः ॥२२२॥ शरीरं शोषयेन्नित्यं कृच्छ्रचान्द्रायणादिभिः । उपवासपराणां तु केवलं नाक्षनिग्रहः ॥२२३॥ क्रियमाणं कृतं यद्वा सर्वं पापं विनश्यति । एकरात्रं द्विरात्रं वा त्रिरात्रमपि पक्षयोः ॥२२४॥ यथाशक्त्युपवासी स्याद्यतवाक्कायमानसः । एकादशीमुपवसेद्दिनपट्कं तु शक्तिमान् ॥ २२५॥ श्रवणैकादशीसवं कृष्णाष्टम्याख्यमादरात् । उपोष्यैकादशीं वाऽपि भगवत्प्रीतये बुधः ॥२२६॥ स्वाध्यायतत्परश्शश्वत् द्वादश्यां पारणं चरेत् । उपोष्य विधिवद्ददेवमभ्यर्च्य च पदेऽहनि ॥२२७॥ भक्त रसहाश्नतां तुष्टिर्न श्वेतद्वीपवासिनाम् । उपवासदिने विद्वानात्मयागं विनैव तु ॥२२८॥ अन्यत्समाचरेत्सर्वं यथापूर्वं तु विज्वरः । अथवा जपनिष्ठानां दातॄणां मितभोजिनां ॥ २२६ ॥ १७६
[[२८४६]]
[[२८५०]]
शाण्डिल्यस्मृतिः
अच्छिद्रकारिणां नित्यं पाश्वकाल्यमलं भवेत् । स्वाध्यायमभ्यसेन्नित्यं मनसा मौनमावहेत् ॥२३०॥ अविरोधेन भूतानां मुच्चेद्वाचमनाकुलः । यदुद्व ेगकरं वाक्यं अन्याथार्थावबोधनम् ॥२३१॥ असत्यं निहतार्थं च नोच्चरेदपि गर्हिताम् । अर्थयुक्तं (च) सत्यं च श्राव्यं प्रियकरं मृदु ॥ २३२॥ शुद्ध मितं च सिद्ध च कालयोग्यं वदेद्वचः । वेदविद्याव्रतस्नातैर्बाह्यान्तस्समचेष्टितैः ॥२३३॥ असूयारहितैरस्मिन्छास्त्रे भक्तस्समाचरेत् ।
मूर्खाश्च पण्डितंमन्या अधर्म्या ह्यास्तिका इव ॥ २३४॥ धर्मयुक्तान् प्रबाधन्ते साधूनां लिङ्गमास्थितः । एकतस्त्वपवर्गार्थमनुष्ठानादिकौशलम् ॥२३५॥ लोकानुसारस्त्वेकत्र गुरुः पश्चादुदीरितः । भवन्ति बहवो मूर्खाः कचिदेकोऽपि शुद्धधीः ॥२३६॥ त्रासितोऽपि यथा मूर्खेरचलो यस्सबुद्धिमान् । न विश्वासः क्वचित्कार्यो विशेषात्तु कलौ युगे ॥२३७॥ पापिष्ठा वादवर्षेण मोहयन्त्यविचक्षणान् । गोपयन्नाचरेद्धर्मान् नापृष्टः किञ्चिदुच्चरेत् ॥२३८॥ पृष्टोऽपि न वदेदर्थं गुह्यं सिद्धान्तमेव च । आश्रितायातिभक्ताय शास्त्रश्रद्धापराय च ॥२३६॥ न्यायेन पृच्छते सर्वं वक्तव्यं शौचयोगिने । आत्म पूजार्थमर्थार्थं दम्भार्थमपिं खिन्नधीः ॥२४॥
.
रात्रौ योगकालेकृत्यवर्णनम्
अयोग्येषु वदच्छास्त्रं सन्मार्गात् प्रच्युतो भवेत् । ऊपरे निपतेद् बीजं षण्ढे कन्यां प्रयोजयेत् ॥ २४१॥
२.८५१
सृजेद्वाचा नरेमालां नापात्रे शास्त्रमुत्सृजेत् । अच्छिद्रकर्मनिरतः शास्त्राभ्यास परस्सदा । स्वाध्यायाभ्यासयोगेन नयेत्कालमतन्द्रितः ॥२४२॥
इति शाण्डिल्यधर्मशास्त्रे व्रतादिविधाननिरूपणं नाम
चतुर्थोऽध्यायः ।
अथ पञ्चमोऽध्यायः
रात्रावन्त्यायमे योगकृत्यवर्णनम्
यामिन्यां योगकाले तु यत्कार्य योगिभिर्नरैः । वक्ष्यामि वस्समासेन शृगुध्वं मुनिपुङ्गवाः ॥ १ ॥ अथ वृक्षप्रमाणेन दृश्यमाने दिवाकरे । विधाय देहशुद्धिं च वासोऽपि परिधाय च ॥ २॥ प्रोक्षणाचमने कृत्वा दद्यादर्घ्यं च पूर्ववत् । ध्यायन्नेवापरं ब्रह्म यावन्नक्षत्रदर्शनम् ॥ ३ ॥ जपेद् ब्रह्म पवित्रं वा मानसं मौनमास्थितः । अभिगम्य यथापूर्वमर्चयित्वा यथाविधि ॥ ४ ॥
[[२८५२]]
शाण्डिल्यस्मृतिः
हुत्वा जप्त्वा तथा स्तुत्वा योगं कुर्यादतन्द्रितः । पुष्पानुलेपनैर्दीपैरर्ध्य पूर्वैर्यथाविधि ॥५॥ सन्ध्ययोरुभयोः कार्या पूजा परमपावनैः । त्रिकालं द्रव्ययागेन तथा नैमित्तिकार्चनात् ॥ ६ ॥ भक्तिज्ञानक्रियावृद्धिरविघ्नेनैव सिध्यति ।
नक्तं कुटुम्बिकोऽश्नीयात् हितं पथ्यं सुतृप्तिमान् ॥ ७ ॥ सर्वं च तिलसंबन्धं दधिशाकं च वर्जयेत् । मुद्गसम्बन्धसर्वं च शुक्तं कालान्तरे भवेत् ॥ ८ ॥ अपूपवर्जं तच्चापि वर्ज्यमेव दिनान्तरे । शुष्कपर्क तथा वस्तु सघृतं शाकमेव च ॥ ६॥ बुरी (गुरु) भूतं च गर नीरं न पर्युषितदोषभाक् । दुध्यन्नपायसान्नं च गुडान्नं च घृतोदनम् ॥१०॥ अपूपानि च वर्ज्यानि न पर्युषितदोषतः । तद्र पेण पुनःपक्कारसगन्धान्तरान्वितम् ॥११॥ अन्योपयुक्तशेषं च वर्ज्यं स्याद् गव्यवर्जितम् । भक्ष्यापूपफलादीनां शय्यानामपि पू ( र्व्य ?) शः ॥१२॥ तत्संबन्धानुसन्धानमिति योगः प्रकीर्तितः । योगान्नामेन्द्रियैर्वश्यै शुद्ध ब्रह्मणिसंस्थितः ॥१३॥ प्रयुक्तरप्रयुक्तैर्वा भगवत्कर्मविस्तरैः ।
आभास ज्ञानिनो ज्ञानं योगकर्मपृथक्ततः (पृथक् पृथक् ) १४
वदन्ति न तथा ज्ञ ेयं त्रयमेकं विदुर्बुधाः ।
भित्तिवर्णवियोगेन यथा चित्रं न लभ्यते ॥१५॥
योगधर्मवर्णनम्
कर्मज्ञानं तथा योगं विना योगान्न लभ्यते । यज्ञास्त्वेकायनाचारं कर्मयोगं वदन्ति हि ॥१६॥
सन्ध्यज्ञानमिति प्राज्ञा वदन्त्य ( १ ) योगिनः ।
?
[[२८५३]]
योगधर्म इति ख्यातः साक्षाद्भागवतो विधिः ॥१७॥ सर्वेन्द्रियैरपि सदा योगो युज्यत इत्यतः । अनुसन्धानुविज्ञान योगेन ब्रह्म शाश्वतम् ॥१८॥ यथाऽहमिन्द्रियैरात्मा सेव्यते सत्क्रियापरैः । बुद्धिं संस्थं परं ज्ञानं बुद्धिर्बुद्ध्यति तत्परम् ॥१६॥ विशुद्ध रिन्द्रियैरेव बोद्धु ं तच्छक्यते न वा । इन्द्रियाणां विशुद्धित्वं भगवत्कर्म योगिता ॥२०॥ सर्वकर्म निवृत्तिर्वा दुर्लभा सा शरीरिणाम् । असद्विषयसंसृष्टै (रि) इन्द्रियै (विं?) हतामतिः ॥२१॥ न शक्नोति परं हन्तु अविधेयाश्वमेधवित् । भगवत्कर्मसंसक्तं रिन्द्रियैर्विमला मतिः ॥२२॥ प्रयाति तत्परं दीपैः पदार्थादिव निशि । यथाच्छिद्रघटस्यान्तः प्रदीपे स्थापिते निशि ॥२३॥ ज्योतिर्मयानि छिद्राणि तथा द्वाराणि योगिनः । अज्ञानतमसा पूर्वे हृदयं मूढचेतसाम् ॥२४॥ द्वाराण्यपि ततः पूर्णान्यकृत्वान्येव कुर्वते । सर्वदा योग एवायमेवमेकायनो मुनिः ॥२५॥ मनसा केवलं रात्र्यां सेन्द्रियेण तथान्यदा । इन्द्रियेण कृ साः हि मनो ब्रह्मणि बद्धयते ॥२६॥
[[२८५४]]
शाण्डिल्यस्मृतिः
निबद्धयते तन्निर्मूलं पारतद्रव विन्दुवत् । अस्थिरे मनसि स्रोतो विषयाने (व) य (धा) वति ॥२७॥ मनस्तदाहृदं मुग्धं रमते सत्प्रवृत्तिभिः ।
नियोज्य सत्क्रियास्वेव खानि बद्ध परे मनः ॥२८॥ रमते तत्परेणैव स्वाधीना ( ? ) गुणं ( : सद्) सुखम् । सम्यक् सद्विषयेष्वेव निवृत्तैरिन्द्रियैर्मनः ॥२६॥ सत्त्वं ब्रह्मणि कालेन निष्ठितैरेव तिष्ठति । यदा तु भगवत्पादसरसीरुहयोर्मनः ॥३०॥ निश्चलं रमते चित्तं कामकृत्यस्तथा बुधः । अनिर्जितेन्द्रियो सिद्धो भगवद्योगएव सः ॥३१॥ जहाति भगवत्कर्म पतितो याति रौरवम् । योगोऽयमेव यागश्च बाह्या ये व्याधयोऽभवन् ॥३२॥ सर्व शरीरक्लेशाय येषु कृष्णो न चिन्त्यते । उत्सृज्य भगवत्कर्म सन्न्यासे हतसंशयः ॥३३॥ निष्प्रयोजनदेहानां तेषां न सुलभो हरिः । इन्द्रियाणि प्रवृत्तानि कर्मस्विति न हीयते ॥३४॥ हीयते सातियाज्ञानि निषिद्ध ष्वनृतो यथा । भगवन्तं समुद्दिश्य तदेकशरणा नराः ॥३५॥ कदाचिन्न च हीयन्ते कार्म्य (काम्य) कर्मरता अपि । उत श्रुतं स्मृतं दृष्ट स्पृष्ट रसितमेव यत् ॥३६॥ अवश्याद्याति तच्चित्तमथ कस्माद्विवर्जयेत् । यथा यथा परिचयं यत्र यत्र करोत्ययम् ॥३७॥
भगवद्भक्तिशीलस्याचारवर्णनम्
तथा तथा स तन्निष्टो रमते तत्र तत्र च ।
अभागवत भागस्था क्षीयते वासना यथा ॥३८॥ तथा यतेत पुरुषो मनोवाक्कायकर्मभिः ।
[[२८५५]]
सर्वत्र मैत्रीं कुर्वीत विवादं नाचरेत्कचित् ॥३६॥ न नासाचपलः कर्मी न जिह्वाचपलो भवेत् । अन्येषामिन्द्रियाणां च चापल्यं वर्जयेद् बुधः ॥४०॥ नान्यैरवमतोदह्यान्नान्यभक्तान्समाश्रयेत् ।
॥४३॥
अधीतं नोत्सृजेच्छास्त्र’ न ब्रूयादनृते क्वचित् ॥४१॥ शपथं नाचरेत्पादं संस्पृश्य गुरुदेवयोः । वाचि कर्मणि चित्ते च सर्वदा यश्शुचिर्भवेत् ॥४२॥ अतन्द्रितश्च शास्त्रार्थे योगसिद्धिं स गच्छति । अनुद्वणच्छत्र वासा नियतासनभोजनः अनुद्धतजनैर्युक्तो योगसिद्धिं स गच्छति । नक्त न संचरेद्योगी संचरेद्यदि दण्डधृक् ॥४४॥ ससहायस्सावकाशः संचरेत्कार्यगौरवात् । कूपं च वृक्षमूलं च सभावासं रिपोर्गृहम् ॥४५॥ शून्यायतनमेवापि न पश्येन्नक्तमञ्जसा । नक्तमुक्तर्न वक्तव्यं विवादं न स्मरेद्बुधः ॥४६ । निष्प्रदीपे न भुञ्जीत विशेषान्निवृते पुनः । प्राप्रात्रो ( ? ) मास्थाय भुक्त्वा च मितमत्वरः ॥४७॥ प्रोक्षितं सपवित्राद्भिराविशेच्चयनोत्तमम् ।
यावन्निद्रा समभ्येति तावद्धि मनसा जपेत् ॥४८॥
[[२८५६]]
शाण्डिल्यस्मृतिः
निद्रान्तरे प्रबुद्धस्सन् कीर्त्तयेद्भगवद्गुणान् । सुवस्त्रवेषधरया स्नातया दुर्विचित्तया ॥४६॥ अरोगया दयितया स्वयमेवं विनिवेशयेत् (सदावसेत् ) या तुक्षयो रोग वृद्धिरश्रीसत्कर्मविप्लवः ॥५० सौभाग्यायुर्यशो नाशः पुंसा स्त्रीष्वपि सर्गिणां । गायतां भगवद्गाथां कुर्वतां स्तोत्र मुच्चकैः ॥५१॥ शृण्वन् श्रोत्रसुखं नादं निद्रामनुभवेद्बुधः । स्वप्नेषु चैव दृष्टेषु प्रियां भार्य ं गुरुं तथा ॥५२॥ विना न कथयेत्स्वप्नं अन्येषा ( ? ) नमेव वा । दुःस्वप्नदर्शने सद्यः उत्थायाम्बुकृतक्रियः ॥५३॥ प्रणम्य पादयोर्देवं जप्त्वा स्तोत्राणि कीर्त्तयेत् । दुःस्वप्नानुगुणं प्रातः स्नानदानार्चनादिभिः ॥५४॥ कुर्याद्विशेषवत्कर्म यथा वित्तं प्रसीदति । सुखनिद्रारतः काले भवत्युत्थाय सत्वरः ॥५५॥ प्रक्षाल्य पादावाचम्य युञ्जीतापि यथाविधि । आद्यन्तवर्ज’ निद्राया योग्यं यामद्वयं निशि ॥ ५६ ॥ चतुर्थं याममुत्थाय योगी योगं समाचरेत् । साक्षात्परमयोगस्तद्द्वादशाक्षरविद्यया ॥५७॥ भगवद्वासुदेवस्य पादाम्बुरुह चिन्तनम् । ओमित्येकाक्षरं साक्षात्. वासुदेवस्य वाचकः ॥५८॥
ओमित्युच्चारणेनैव वाच्यमानीयते परम् ।
ओमित्यानीय तद्ब्रह्म नमस्कार प्रदेन तु ॥५॥
भगवदर्पणबुद्ध वजन्मनः साफल्यवर्णनम्
तदीयं तत्क्रिया च तवैवेति निगद्यते । अव्यक्तार्थतया तस्य प्रणवस्य विशेषतः ॥ ६०॥ तदर्थद्योतनादेतमुदितं भगवत्पदम् ।
अन्यत्रापि च तद्दृष्टमित्यनन्यपरं वचः ॥ ६१ ॥ वासुदेव ( ? ) इतिदन्तस्य चोपरि ।
नमः परपदं योगादुपरिस्थपदद्वयम् ॥६२॥ चतुर्थ्यन्तमभून्नित्यं योगिनां योगसिद्धये । ओङ्कारपदमेवैकं योगिनां योगसिद्धये ॥३३॥ द्वादशाक्षररूपेण परिणाममुपागतम् । मन्त्रान्तरेष्वपि बुधा देवतान्तरभागिषु ॥६४॥ प्रयुञ्जते तदोङ्कारं मन्त्राणां प्राणसिद्धये । मन्त्रान्तरे प्रयुक्तत्वाद्द देवतान्तरगोचरे ॥६५॥ अवक्त्रर्थस्तथोङ्कारः केवलेनैव धारकं । पक्कयोगशरीराणामेवं ज्ञानवतामपि ॥ ६६ ॥ समासन्नेऽपि तज्ज्ञाने तन्मात्रं नैव साधनं । अपक्कयोगज्ञानानामपि वेदविदां नृणाम् ॥६७॥ द्वादशाक्षरयोगेन दूरस्थं तदिहान्तिके । स्मृतमात्रे महामन्त्रे सुसूक्ष्मे द्वादशाक्षरे ॥६८ ॥ चित्तदर्पणसङ्क्रान्तः ससुखं लक्ष्यते हरिः । अतश्च द्वादशान्तेन स्वाध्यायेन जनार्दनम् ॥६६॥ आसन्नतां प्रयात्याशु ब्रह्मण्यर्पितकर्मणां ।
[[२८५७]]
स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत् ॥७०॥
[[२८५८]]
शाण्डिल्यस्मृतिः
स्वाध्याय योगसम्पत्त्या परमात्मा प्रकाशते । पाञ्चेन्द्रियस्य मर्त्यस्य च्छिद्रञ्चे (कै) कमिन्द्रिया (म्) ॥ ७१ ततोऽस्य स्रवति प्रज्ञा (?) तेः पादादिवोदकम् । यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ॥७२॥
बुद्धिश्च न विचेष्टेत तमाहुः परमं हितम् । देवानामपि सर्वेषां समानायो जनार्दनः ॥ ७३ ॥
I
द्वादशाक्षरमन्त्रोऽयं मन्त्राणां नाथ उच्यते । यथौषधीनाममृतं मणीनां कौस्तुभो यथा ॥७४ ॥ सर्वेषामेव धर्माणां श्रेष्ठो भागवतो विधिः । सर्वधर्मान् समुत्सृज्य पाञ्च कालमनुव्रताः ॥५। व्यामिश्रयागनिर्मुक्ता गच्छन्ति पुरुषोत्तमम् । व्यामिश्रयाजिनां ब्रह्मणि नर्पिलतसुवृत्तिनाम् ॥७६॥ यततामपि वा नित्यं पदमेषां परं स्थितं । अकर्मकर्तृ चैवस्याज्ज्ञानं वा कर्म संभवेत् ॥७॥ कर्मयोगस्तथा वास्याद्योगः कर्मपरं तथा । तस्मात्परमकं शास्त्रं नास्मत्कर्मपरं तथा ॥७८॥
नास्मात्परमकं ज्ञानं नास्मात्परमकं सुखम् । ऋग्यजुस्सामसंज्ञेषु वेदशब्दः प्रयुज्यते ॥७६॥ इदं सदागमाख्यां तु वेदशास्त्र मितीरितम् । इति संक्षेपतः प्रोक्तः सदाचारो यथागमम् ॥८०॥शास्त्रप्रशंसावर्णनम्
तथा शास्त्रस्य माहात्म्यं विशेषश्चैकयाजिनां । इदं शास्त्रमधीयानो ब्राह्मणो भगवत्परः ॥ श्रियं यशश्च विपुलं दीर्घमायुरवाप्नुयात् ॥८१॥
इति श्रीशाण्डिल्यधर्मशात्रेशास्त्रप्रशंसावर्णनं नाम पञ्चमोऽध्यायः ॥ ५॥
॥ शुभम्भूयात् ॥
[[२८५६]]