६४

प्रपत्त्यङ्गमन्त्रः

शेषः—

प्रपत्त्यङ्गाङ्गमन्त्राणि वक्ष्ये तन्मन्त्रसिद्धये।
मोक्षधर्मप्रसिद्ध्यर्थं तत्त्वज्ञानात्मशुद्धये।
नित्यकर्माङ्गमन्त्राणि तथा नैमित्तिकानि च॥

सत्त्वानि विष्णुमन्त्राणि गारुडञ्च चतुमुर्ख।
नामत्रयं हनूमन्तं विष्वक्सेनमनुं तथा॥

चरममन्त्रः.

चरमं तु जपेन्नित्यं वक्ष्ये तच्चरमं शुभम्।
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज॥

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।
ऋषिर्ब्रह्मास्य मन्त्रस्य छन्दोऽनुष्टुभ एव च॥

श्रीमन्नारायणो देवः ओं बीजं शक्तिश्रीं तथा।
ह्रीं कीलकं ऐं कवचं क्षौं अस्त्रं श्वेतवर्णकम्॥

श्रीमन्नारायणेत्युक्त्वा प्रीत्यर्थै विनियोगतः।
प्रणवेन करन्यासं षडङ्गं षट्स्वरैर्न्यसेत्॥

व्याप्यादीन् प्रणवेनैव कुर्याद्ध्यायन् सुमन्त्रवित्।
सहस्रशीर्षं देवं विश्वाक्षं विश्वतोमुखम्॥

विश्वं नारायणं देवं अक्षरं परमं भजे।
जपेन्नित्यं द्विजश्रेष्ठो ह्यङ्गमन्त्रोक्तसंख्यया॥

एतदेव गतिस्सम्यक् गतिरन्यत्र नान्यथा।
एवं नियमयुक्तानां प्रपन्नानां चतुर्मुख॥

सत्यं मुक्तिं प्रदास्मामि सत्यमेव तु सर्वदा।
वैष्णवो वाथ पाषण्डी मण्त्राण्यागमनानि च॥

जपेन्नित्यादिकर्माणि क्वचिद्वा दूषयन्ति ये।
स एव ब्रह्महन्ता च सर्वकर्मबहिष्कृतः॥

मन्मन्त्रदूषकं बध्वा राजा सद्धर्मपालकः।
चक्षुर्दण्डं श्वानपादं कृत्वा तद्दूषकं त्यजेत्॥

उपेक्षितश्चेत् तद्राष्ट्रं रोगाद्यैर्नश्यति ध्रुवम्।
दुर्भिक्षं चोरभूपालैः सत्यमेव चतुर्मुख॥

सङ्करस्पृष्टदोषादीन् मम कुर्वन्ति ये द्विजाः।
दण्डं च पूर्ववत्तेषां नाशः तद्वत्सुनिश्चियः॥

तस्मात्सर्वप्रयत्नेन परिहृत्य च सङ्करान्।
अनाचारान् तथा नीचान् तद्विप्रान् परिहृत्य च॥

नित्यनैमित्तिकान् सर्वैर्नृपाद्यैः कुरु चाब्जज।
इदं रहस्यं परमं गुह्याद्गुह्यतमं भवेत्॥

यः पठेदाचरेद्भक्त्याएतच्छास्त्रोक्तमार्गतः।
इह भोगान् स वै प्राप्य स याति परमं पदम्॥

इति शेषसंहितायां चतुष्षष्टितमोऽध्याय.

इति श्रीमति भगवच्छास्त्रे पाञ्चरात्राभिधाने सर्वसंहिता- सारभूता शेषसंहिता समाप्ता॥

श्रीवासुदेवार्पणमस्तु.