-
*
न्यासाङ्गमन्त्रः.
शेषः-
वक्ष्ये न्यासाङ्गमन्त्राणि न्यासमन्त्रार्थसिद्धये।
तत्त्वज्ञानात्मशुद्धयर्थं यतीनां च द्विजन्मनाम्॥
गायत्रीं मूलमन्त्रं तु विष्णुं तद्वासुदेवकम्।
वाराहं तु हयग्रीवं नृसिंहं चक्रराजकम्॥
रामं कृष्णं पौरुषं च श्रीभूसूक्तप्रयुक्तकम्।
बीजमालां जपेद्भक्त्यापूर्वोक्तक्रमसंख्यया॥
एकाक्षरो बीजमन्त्रः तद्वदेकाक्षराद्बहिः।
तद्वदानुष्टुबन्तं तु पिण्डमन्त्रा इति स्मृताः॥
आनुष्टुभं मनुस्सोयं मालामन्त्रः परात्मकः।
बीजमन्त्रं जपेल्लक्षमयुतं पिण्डमन्त्रकम्॥
संज्ञामन्त्रं सहस्रं तु पदमन्त्रं शतं जपेत्।
चातुरङ्गं तथा कुर्यात् तत्तन्मन्त्रार्थसिद्धये॥
बजिमालास्वरूपन्तु वक्ष्ये तन्न्याससंयुतम्।
प्रणवं पूर्वमुद्धृत्य मायां श्रीं ऐं च मन्मथम्॥
लक्ष्मीं लक्ष्मीनृसिंहं च सुदर्शननृकसरिम्।
हयग्रीवं रामचन्द्रं नृसिंहं च वराहकम्।
पर्यायेण समुद्धृत्य सर्वं सर्वार्थसिद्धिदम्॥
बीजमालामनुं नित्यं जपेद्ब्रह्मविदब्जज।
ऋषिर्ब्रह्मास्य मन्त्रस्य छन्दो गायत्रमुच्यते॥
परब्रह्मा नृसिंहश्च देवता भगवान् हरिः।
ओं बीजं शक्तिहुं चैव श्रीं कीलकमतः परम्।
ह्रीं कवचं क्षौमथास्त्रं रक्तवर्णं स्मरन्न्यसेत्।
बीजद्वयेन सन्मन्त्री षडङ्गं तत्क्रमात् न्यसेत्॥
व्याप्यव्यापकसंज्ञां तु तन्मन्त्रेणैव कारयेत्।
तत्तन्मण्डलभेदेन जपेद्ध्यायन् सुमन्त्रवित्॥
सर्वाभरणभूषाङ्गंसर्वदेवमयं विभुम्।
सर्वायुधधरं देवं भजे ब्रह्मनृकेसरिम्॥
पौरश्चरणकं सर्वं नृसिंहकाक्षरं यथा।
इदं रहस्यं परमं सर्वेषां सम्यगब्जज॥
इति शेषसंहितायां त्रिषष्टितमोऽध्यायः
-
*