-
*
मन्त्ररत्नम्
शेषः—
मन्त्ररत्नमहं वक्ष्ये मोक्षधर्मार्थदायकम्।
सर्वबन्धविनाशार्थं पञ्चसंस्कारलक्षणम्॥
न्यासध्यानादिसहितं अङ्गाङ्गादिसमन्वितम्।
प्रणवं पूर्वमुद्धृत्य श्रीमत्पदमनन्तरम्॥
नारायणचरणौ शरणं प्रपद्येऽथ च।
श्रीमते नारायणाय नमोन्तं मनुमुद्धरेत्॥
क्षत्रविट्शूद्रजातीनां अङ्गाङ्गं प्रणवं विना।
भवेन्मोक्षे विप्रवत्स्यात् ताराद्याः क्षत्रवैश्ययोः॥
ताराङ्गाङ्गानादिरहितं प्रपत्तिं योजपेद्द्विजः।
य एव ब्राह्मणो ब्रह्मन् सर्वकर्मबहिष्कृतः॥
तस्मात्सर्वप्रयत्नेन जपेन्न्यासं द्विजोत्तमः।
ऋषिर्ब्रहास्य मन्त्रस्य गायत्री छन्द उच्यते॥
श्रीमन्नारायणो देवो ओंबीजं शक्तिमंतथा।
श्रीं कीलकं ह्रीं कवचं ऐं अस्त्रं रक्तवर्णकम्॥
श्रीमन्नारायणेत्युक्त्वाप्रीत्यर्थे विनियोजयेत्।
प्रणवेन करन्यासं षडङ्गं षट्स्वरैर्न्यसेत्॥
करौ पादौ च जानौ च कट्यां पाणौ च विन्यसेत्।
वामादिनाभौ कुक्षौ च हृदये प्रणवादिकम्॥
भुजे कर्णे तथा वक्रे नासाक्षिश्रुतिमूर्धनि।
व्याप्यं व्यापकसंज्ञाञ्च अक्षरन्यासमुत्तमम्॥
मूर्धादिकरपर्यन्तं सृष्टिन्यास इति स्मृतम् ।
षट्पदैस्तु करन्यासं षडङ्गं विन्यसेत्तथा॥
योगादिपल्लवाद्यैश्च हृदादिन्यासमाचरेत्।
शङ्खचक्रगदापद्मधरं नीलोत्पलप्रभम्॥
पुण्डरीकाक्षममलं किरीटादिविभूषितम्।
श्रीभूमिसहितं देवं पङ्कजासनसंस्थितम्॥
ज्ञानानन्दमयं देवं नारायणमुपास्महे।
ध्यायन्नारायणं भक्तया जपेत्तत्तत्क्रमाच्छुचिः॥
ब्रह्महत्यादिपापानां सकृदुच्चारणं भवेत्।
महारोगादिके सम्यक् अयुतं जपमाचरेत्॥
सर्वपापविनाशार्थं लक्षमेकं जपेद्बुधः।
सर्वबन्धविनाशार्थं जपेल्लक्षत्रयं शुचिः॥
विष्णोस्सायुज्यधर्मार्थं प्रपन्नस्सर्वदा जपेत्।
साङ्गाङ्गसहितं न्यासं जपेद्यो ब्रह्मवित् द्विजः॥
स एव परमैकान्ती स प्रपन्नो जितेन्द्रियः।
स एव ब्रह्मवित् ब्रह्मन् स याति परमं पदम्॥
तस्मात्सर्वप्रयत्नेन प्रपत्तिं सर्वदा जपेत्।
सत्यं सत्यं पुनस्सत्यं इदमेव चतुर्मुख॥
चातुरङ्गविधानेन तर्पयेच्चन्दनाम्भसा।
पूजयेत्कमलैर्भक्तया बिल्वपत्रैश्च चम्पकैः॥
श्रीतुलस्या च बकुलैः करवीरैश्च जातिभिः।
प्रत्येकं मन्त्ररत्नेन पूजयेन्मोक्षचिन्तकः॥
अष्टैश्वर्यादिसिध्यर्थं जुहुयात्कमलैस्तिलैः।
मधुत्रयैरपामार्गैः पायसेन धृतेन च॥
तत्तद्रव्येण जुहुयात् तत्तत्फलमवाप्नुयात्।
वैष्णवान् भोजयेत्सम्यक् सूपौदनरसायनैः॥
पायसान्नैरपूपाद्यैः सधृतैस्सत्फलैस्सदा।
स्रक्चन्दनादिताम्बूलैः दक्षिणाद्यैः प्रियोक्तिभिः॥
अर्चयेन्मनसा वाचा कर्मणा प्रत्यहं द्विजः।
जपधर्मादिसिध्यर्थं मोक्षज्ञानात्मशुद्धये॥
मन्त्ररत्नजपं कुर्यात् चातुरङ्गैस्सदा द्विजः।
अथ यन्त्रः.
मन्त्ररत्नार्थसिध्यर्थं वक्ष्ये तद्यन्त्रमुत्तमम्॥
षट्कोणं पूर्वमालिख्य तन्मध्ये तारसंयुतम्।
श्रिया भूम्या नीलया च रक्षरक्षेति साध्यकम्॥
विलिख्य तद्दलेष्वेव लिखेद्विष्णुषडक्षरम्।
लिखेत्सन्धौ चक्रराजं प्रणवेनैव वेष्टयेत्॥
बहिरष्टदलं लिख्य तद्दलेषु चतुर्मुख।
मूलमन्त्रं लिखेद्धीमान् तत्सन्धौ तु नृसिंहकम्॥
श्रीबीजेन सुसंवेष्ट्य तद्वहिद्वादशं दलम्।
दलेषु राममालिख्य तत्सन्धौ राममालिखेत्।
भूबीजेन सुसंवेष्ट्य तद्बहिः द्वादशं दलम्॥
लिखेद्दलेषु तन्मन्त्री विलिखेद्द्वादशाक्षरम्॥
सन्धौ वाराहमालिख्य नीलाबीजेन वेष्टयेत्।
तद्बहिःषोडषदलं विलिखेतद्दलेषु च॥
हयग्रीवं समालिख्य तत्सन्धौ तु स्वरान् लिखेत्।
रामबीजेन संवेष्ट्य बहिरष्टादशं दलम्॥
लिखेद्दलेषु विलिखेत् मनुं कृष्णस्य मान्मथम्।
तत्सन्धौ विलिखेद्धीमान् चक्रराजस्य केसरिम्॥
अष्टादशैकार्णमनुं क्रमेणैव स बुद्धिमान्।
लक्ष्मीबीजेन संवेष्ट्य तद्बहिः सम्यगालिखेत्॥
चतुर्विंशद्दलान् लिख्य तद्दलेषु विचक्षणः।
विष्णुगायत्रमालिख्य तत्सन्धौ सौरमालिखेत्॥
हयग्रीवेण संवेष्ट्य तद्बहिर्मन्त्रवित्तमः।
द्वात्रिंशद्दलमालिख्य तद्दलेषु लिखेकमात्॥
पुण्डरीकाक्षस्य मनुं तत्सन्धौ सम्यगब्जज।
मन्त्रराजं समालिख्य रामबीजेन वेष्टयेत्॥
पूर्वाद्यासु लिखेद्बीजान् इन्द्राद्यष्टसु मन्त्रवित्।
परितो हंसहंसेति साध्यं रक्षेति संलिखेत्॥
पाशाङ्कुशेन संवेष्ट्य प्रणवेनैव वेष्टयेत्।
पाशाङ्कुशेन सहितं मन्त्रमेतत्समुद्धरेत्॥
मन्त्राचार्येण कर्तव्यं एतद्यन्त्रं विधानतः।
सदाचार्याय सच्छिष्यो दद्यादाभरणादिकान्॥
उष्णीषपटवस्त्रादीन् छत्रचामरवाहनम्।
ग्रामं च क्षेत्रदानं च दद्याद्भक्त्यनुसारतः॥
तद्धस्तेनैव तद्यन्त्रं धारयेन्मङ्गलादिभिः।
तत्तु मन्त्रेण कर्तव्यं तप्तचक्रादिधारणम्॥
ऊर्ध्वपुण्ड्रादिकं धृत्वा सम्यक्तदुपदेशतः।
ग्राहयेन्मूलमन्त्रं तु मन्त्ररत्नं यथाविधि॥
अयमेव परो धर्मः सर्वेषां मोक्षदायकः।
अन्यथा ये करिष्यन्ति तस्यायुः श्रीश्च नश्यति॥
तस्मात्सर्वप्रयत्नेन मन्त्रतन्त्रादिसंयुतम्।
पञ्चसंस्कारकं कुर्यात् मोक्षधर्मार्थसिद्धये॥
धारयेद्यन्त्रमेतत्तु महारोगादिसंभवे।
सर्वग्रहविनाशे तु सर्वापस्मारनाशने॥
सर्वशत्रुविनाशे च षट्कर्मफलसिद्धये।
अष्टैश्वर्यादिसिद्ध्यर्थं सन्तानार्थे शुभाशुभे॥
एतदेवाभिमुख्यं स्यान्मोक्षोपायकरश्शुचिः।
सर्वेषां सर्वदा सम्यक् गृहस्योत्तममब्जज॥
इति शेषसंहितायां द्विषष्टितमोध्यायः