-
*
अङ्गाङ्गमन्त्रः
शेषः—
वक्ष्ये तन्मूलमन्त्रस्य अङ्गाङ्गानि मनून् तथा।
जपेत्तन्मन्त्रसिद्ध्यर्थं मन्त्रादौ पूर्वसंख्यया॥
वैष्वक्सेनं गारुडं च मर्कटेशं नवग्रहान्।
मूलमन्त्रविधानज्ञो जपेन्मन्त्राङ्गसंख्यया॥
तत्तन्मन्त्रविधानेन तत्तन्मन्त्रप्रयोगतः।
तत्तदस्त्रेण संयोज्य होमाद्यैस्तु प्रयोजयेत्॥
इति शेषसंहितायां एकषष्टितमोऽध्यायः