५९

  •      *
    

मूलमन्त्रः

शेषः-

मूलमन्त्रमथो वक्ष्ये न्यासमन्त्रादिसंयुतम्।
मोक्षश्रीसर्वलाभार्थं अङ्गमन्त्रैर्यथातथम्॥

प्रणवं पूर्वमुच्चार्य नमोनारायणाय च।
जपेन्मन्त्रीममं सौम्यं दृष्टादृष्टार्थदायकम्॥

मूलमन्त्रस्य हे ब्रह्मन् नरः नारायणः तथा।
ऋषिरित्युच्यते छन्दो देवी गायत्रमुच्यते॥

श्रीमन्नारायणो देवः ओं बीजं शक्तियं तथा।
ह्रीं कीलकं श्रीं कवचं ऐं अस्त्रंरक्तवर्णकम्॥

प्रणवेन करन्यासं षडङ्गं षट्स्वरैर्न्यसेत्।
तद्वन्न्यसेत् षडङ्गन्तु मूलमन्त्रपदत्रयैः॥

व्याप्यं तद्व्यापकं चैव मूलमन्त्रेण कारयेत्।
शङ्खचक्रधरं देवं गदापद्मधरं विभुम्॥

श्रीभूनीलादिसहितं नारायणमहं भजे।
अष्टायुतं जपेद्भक्त्याचातुरङ्गादिभिस्सह॥

पूजयेच्छ्रीतुलस्याऽथ करवीरैश्च चम्पकैः।
कमलैर्बिल्वपत्रैश्च मोक्षधर्मार्थसिद्धये॥

गोक्षीरेण सकर्पूरैस्तर्पयेच्चन्दनाम्भसा।
लक्ष्मीनिवाससिद्ध्यर्थं घृताक्तकमलैर्यजेत्॥

अष्टैश्वर्यादिसिद्ध्यर्थं बिल्वपत्रमधुत्रयैः।
वश्याकृष्यादिमोहे च करवीरैस्तिलैर्घृतम्॥

मधुत्रयं गुग्गुलं च दूर्वाश्वत्थकुशैर्गुडम्।
जुहुयान्मन्त्रविद्ब्रह्मन् कदल्यौदुम्बरार्ककैः॥

स्तम्भनोच्चाटकरणे यजेन्मन्डलभेदतः।
निम्बनक्षत्रकाष्ठैश्च खादिरार्ककटुत्रयैः॥

भोजयेद्वैष्णवान् सम्यक् सूपपायससंयुतम्।
सघृतं शर्कराढ्यं च अपूपैर्दधिना सह॥

प्रियोक्त्याद्यैस्तथा ब्रह्मन् सर्वमन्त्रेष्वयं विधिः।

मूलयन्त्रः

मोक्षधर्मार्थसिद्ध्यर्थं यन्त्रः मूलस्य चोच्यते॥

षट्कोणं चक्रमालिख्य तन्मध्ये प्रणवं श्रियः।
साध्यादिकां भूं नीलां च कर्मनामपदान्विताम्॥

तत्कोणेषु क्रमाद्विद्वान् लिखेद्विष्णुषडर्णकम्।
तत्सन्धौकृष्णमालिख्य श्रीबीजेनैव वेष्टयेत्॥

बहिरष्टदलं लिख्य लिखेन्मूलं दलेषु च।
सन्धौ नृसिंहं बिलिखेत् भूवीजेनैव वेष्टयेत्॥

तद्बहिर्द्वादशदलं दलेषु द्वादशाक्षरम्।
लिखेत्सन्धौ लिखेद्धीमान् सीताराममनुं क्रमात्॥

नीलाबीजेन संवेष्ट्य तद्बहिः षोडशं दलम्।
विलिखेत्तद्दलेष्वेव पूर्वोक्तं चक्रराजकम्॥

तत्सन्धौ तु स्वरान् लिख्य मान्मथेन सुवेष्टयेत्।
चतुर्विंशद्दलान् लिख्य तद्बहिस्तद्दलेषु च॥

विष्णुगायत्रकं लिख्य तत्सन्धौ सौरमालिखेत्।
वराहेण सुसंवेष्ट्य तद्बहिर्बिलिखेद्बुधः॥

द्वात्रिंशद्दलकं सम्यक् तद्दलषु क्रमाल्लिखेत्।
पुण्डरीकाक्षस्य मनुं सन्धौ सौदर्शनं लिखेत्॥

लक्ष्मीबीजेन संवेष्ट्य तद्बहिस्साध्यसंयुतम्।
हंसहंसेतिसंयुक्तं कर्मनामसमन्वितम्॥

परितो विलिखेन्मन्त्री प्रणवेन तु वेष्टयेत्।
पाशाङ्कुशेन संवेष्ट्यअष्टदिक्षु लिखेत्क्रमात्॥

इन्द्रादेरष्टबीजानि पाशाङ्कुशसमन्वितम्।
एतन्मन्त्रं लिखेद्भक्त्यामन्त्रवित्साधकोत्तमः॥

सृष्टिस्थित्यन्तमोक्षार्थधर्मकर्मार्थसिद्धये।
विप्राद्यः धारयेद्ब्रह्मन् क्षत्रविट्शूद्रजातयः॥

यन्त्रोत्तममिदं सौम्यं पूजयेद्विधिना सदा।

इति शेषसंहितायां एकोनषष्टितमोऽध्यायः