* मदनगोपालमन्त्रः शेषः— वक्ष्ये मान्मथगोपालं अङ्गमन्त्राणि तद्यथा। तन्मन्त्रकर्मसिद्ध्यर्थं जपेत्तन्मन्त्रवित्तमः॥ मन्त्ररत्नं मूलमन्त्रं रामं सौदर्शनं तथा। वराहन्तु हयग्रीवं जपेन्नामत्रयं बुधः॥ इति शेषसंहितायां सप्तपञ्चाशोध्यायः