५६

  •     *
    

गोपालमन्त्रः

शेषः—

वक्ष्ये गोपालमन्त्रस्य विधानं यन्त्रमुत्तमम्।
तदङ्गाङ्गादिसहितं मान्मथं मन्त्रमुत्तमम्॥

मान्मथं पूर्वमुद्धृत्य कृष्णायेति पदं ततः।
गोविन्दाय पदं तद्वत् गोपीजनवल्लभायच॥

वह्निजायान्तमुद्दृत्यजपेन्मन्त्रं बुधोत्तमः।
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते॥

देवता मारगोपालःक्षीं बीजं शक्तिह्रींतथा।
श्री कीलकं ऐंकवचं हुं अस्त्रं श्यामवर्णकम्॥

तद्बीजेन करन्यासं कुर्यात्तन्मन्त्रसिद्धये।
तद्बीजेन हृदि न्यस्य कृष्णायेति न्यसेत्क्रमात्॥

गोविन्दायेति शिरसि बाह्वोःशेषेण विन्यसेत्।
द्विपदे नेत्रयोर्न्यस्य शेषमस्त्रे प्रयोजयेत्॥

व्याप्यं तद्व्यापकं चैव तन्मन्त्रेणैव विन्यसेत्।
पञ्चबाणधरं देवं श्यामलं चक्रधारिणम्॥

चञ्चलं मान्मथं कृष्णं तं भजे सर्वतोमुखम्।
जपेन्मनुं तन्मयं तं ध्यायन्नक्षरसङ्ख्यया॥

चातुरङ्गविधानेन तर्पयेच्चन्द्रनाम्भसा।
कुंकुमागरुसंयुक्तं सकर्पूरं सहाब्जकम्॥

पूजयेत्करवीरैश्च बिल्वपन्तैश्च पङ्कजैः।
सर्वरोगविनाशार्थं सर्वशान्तिप्रसिद्धये॥

सर्वकर्मादिसिद्ध्यर्थं पुत्रपौत्राभिवृद्धये।

अष्टैश्वर्यप्रसिद्ध्यर्थं धर्ममोक्षार्थसिद्धये।
उपद्रवे तु तत्काले रोगादौ ध्यानभेदतः॥

सोमवारे भृगोः वारे सुपूज्यं कुङ्कुमान्वितम्।
मृगनाभिसमायुक्तं कर्पूरनिशिथाम्बुना॥

गोपालं नारसिंहन्तं चक्रराजं वराहकम्।
श्रीरामं गारुडं वापि अभिषिञ्चेद्गृहे तथा॥

देवालये विशेषेण श्रीभूपुरुषसूक्तकैः।
नैवेद्यैः विविधैर्भक्ष्यैः विप्रानाराधयेत्सदा॥

गुरुणा मन्त्रशीलेन विप्रेण शुचिनाब्जज।
एतेनैवाभिषेकेण सर्वं सिद्ध्यति सर्वदा॥

इदं रहस्यं परमं गुह्याद्गुह्यतमं भवेत्।
पूर्वोक्तकृष्णमन्त्रेण जुहुयादयुतं तथा॥

वश्यार्थी जुहुयाद्ब्रह्मन् तिलान् पूतमधुत्रयैः।
मोहने जुहुयाद्दर्वान् बिल्वपत्रं च तत्फलम्॥

कटुत्रयंनिम्बतैलं आकृष्ये तु मधुत्रयैः।
अष्टैश्वर्यप्रसिद्ध्यर्थं कमलैः खादिरैस्तिलै॥

नीलोत्पलैरपामार्गैः करवीरैस्तु लाजकैः।
जुहुयाद्गोघृताक्तेन ध्यानमण्डलभेदतः॥

तत्तद्दव्येण जुहुयात्तत्तत्फलमवाप्नुयात्।
दशांशसंख्यया कुर्यात् सर्वमन्त्रेष्वयं विधिः॥

अथ यन्त्रः,

मन्त्रादिफलसिद्ध्यर्थं तद्यन्त्रं सम्यगुच्यते।
त्रिकोणं पूर्वमालिख्य मध्ये तद्बीजसंयुतम्॥

साध्यनामसदायुक्तं तत्कर्मपदसंयुतम्।
लक्ष्मीमायासमायुक्तं लिखेन्मन्त्रविदुत्तमः॥

बहिष्षट्कोणमालिख्य क्लीं कृष्णाय नमो लिखेत्।
सन्धौ रामं समालिख्य मायाबीजेन वेष्टयेत्॥

बहिरष्टदलं लिख्य तद्दलेषु लिखेत्क्रमात्।
क्लीं ह्रीं गोविन्दाय स्वाहा सन्धौ मूलं लिखेद्बुधः॥

लक्ष्मीबीजेन संवेष्ट्य तद्बहिर्द्वादशं दलम्।
दलेषु विलिखेद्ब्रह्मन् रुक्मिणीवल्लभाय च॥

हुंफट् स्वाहां लिखेत् सन्धौ वासुदेवं महामनुम्।
श्रीबीजेन सुसंवेष्ट्य बहिष्षोडशकं दलम्॥

लिखेद्दलेषु ओह्रीं च श्रीं ऐं लक्ष्मीं च मान्मथम्।
गोपीजनवल्लभाय स्वाहा सम्यक् लिखेद्बुधः॥

तत्सन्धौ तु स्वरान् लिख्य ऐंकारेण च वेष्टयेत्॥

बहिरष्टादशदलं विलिखेत्तद्दलेषु च।
क्रमान्मदनगोपालं तत्संधौ बिलिखेद्बुधः॥

चक्रराजनृसिंहाख्यमनुरष्टादशाक्षरम्।
सहस्रारेतिच तथा तज्ज्वालावर्तिनेति च॥

क्षौं हनहन हुंफट्स्वाहा लिखेन्मन्त्रवित्तमः।
मान्मथेन सुसंवेष्ट्य तद्बहिः परितो लिखेत्॥

चतुर्विंशद्दलान् सम्यक् तद्दलेषु सुमन्त्रवित्।
कृष्णगायत्रमालिख्य तत्संधौ सौरमालिखेत्॥

मायाबीजेन संवेष्ट्यतद्बहिस्सम्यगब्जज।
द्वान्त्रिंशद्दलमालिख्य कृष्णानुष्टुभमालिखेत्॥

देवकीपुत्र गोविन्द वासुदेव जगत्पते।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः॥

एतत्संधौलिखेन्मन्त्री मान्मथेनैव वेष्टयेत्।
पाशाङ्कुशेन संवेष्ट्यमायया वेष्टयेद्बहिः॥

लिखेदिन्द्रादिबीजानि अष्टदिक्षु क्रमात्सुधीः।
पाशाङ्कुशेन सहितं बिलिखेन्मन्त्रवित्तमः॥

प्राणप्रतिष्ठां कृत्वाथ अभिषेकपुरस्सरम्।
धारयेद्यन्त्रमेतत्तु वश्याकृष्यादिसिद्धये॥

सर्वसंपत्प्रदानार्थं सर्वाभीष्टप्रसिद्धये।
सर्वापमृत्युनाशार्थं मोक्षधर्मार्थसिद्धये॥

इदमेव रहस्यन्तु सत्यं सत्यं चतुर्मुख।

इति श्रीशेषसंहितायां षट्पञ्चाशोध्यायः