-
*
रामाङ्गमन्त्रः
शेषः—
वक्ष्ये श्रीराममन्त्रस्य अङ्गाङ्गानि तथैवच।
तत्तन्मन्त्रैः तदङ्गानि जपेत्पूर्वोक्तसंख्यया॥
भं भरतायेति तथा मनुरिष्टार्थदायकः।
शं शत्रुघ्नायेति मनुः सर्वाभीष्टप्रदायकः॥
मं मर्कटायेति मनुः तथा काम्यार्थदायकः।
पक्षिराजं जपेन्मन्त्री तदङ्गानि च तज्जपेत्॥
इति शेषसंहितायां पञ्चपञ्चाशोध्यायः