५४

  •    *
    

रामाङ्गमन्त्रः.

शेषः—

वक्ष्ये रामाङ्गमन्त्राणि राममन्त्रार्थसिद्धये।
रहस्यं सर्वशास्त्राणां दुर्लभं साम्यमुत्तम्॥

स्वाहान्तं तु श्रियादौ तु सीतायै मनुरुत्तमः।
श्रीरामस्यार्धाङ्गमन्त्रस्सर्वसिद्धिप्रदायकः॥

लं लक्ष्मणायेति तथा मनुं तद्वज्जपेद्बुधः।
वराहैकाक्षरं तद्वत् नारसिंहं सुदर्शनम्॥

हयग्रीवं मूलमन्त्रं मन्त्ररत्नं जपेत्सदा।
श्रीराममन्त्रसिद्ध्यर्थं जपेदङ्गानि तत्तथा॥

इति श्रीशेषसंहितायां चतुःपञ्चाशोघ्यायः.