-
*
राममन्त्रः
शेषः —
अथ वक्ष्येविधानेन श्रीराममनुमुत्तमम्।
न्यासयन्त्रादिसहितं अङ्गाङ्गादिसमन्वितम्॥
अग्निबीजं समुद्धृत्य रामाय नम इत्यपि।
मनुमुद्धारयेन्मन्त्री तारकं ब्राह्ममुत्तमम्॥
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते।
श्रीरामो देवता ब्रह्मन् रंबीजं शक्तिमं तथा॥
श्रीं कीलकं ह्रीं कवचं लंअस्त्रं श्यामवर्णकम्।
तद्बीजेन करन्यासं तन्मन्त्रस्य पदत्रयैः॥
षडङ्गं कारयेन्मन्त्री ध्यानकर्मादियोगतः।
व्याप्यं तद्व्यापकं चैव तन्मन्त्रणैव कारयेत्॥
परात्परं विभुं दवं वैशेषपरमात्मकम्।
चापबाणधरं धीरं रामं सीतापतिं भजे॥
चातुरङ्गविधानेन तर्पयेच्चन्दनाम्भसा।
श्वेतपद्मैर्बिल्वपन्त्रैःकरवीरैस्तु चाम्पकैः॥
नन्द्यावर्तैरशोकैश्च पूजयेद्राममादरात्।
राज्यार्थी जुहुयात्पद्मैः कन्यार्थी लाजकैर्यजेत्॥
यजेत्कुन्दैः खादिरैस्तु निंबकाष्ठैस्तु सर्वपैः।
वश्याकृष्यादिमेहे च त्रिमधुं गुग्गुलं स्थितम्॥
तिलपायससंयुक्तं यजेन्मण्डलभेदतः।
तत्तद्द्र्व्यस्य हवनात् तत्तत्फलमवाप्नुयात्॥
यन्त्रः,
जपकर्मादि सिद्ध्यर्थं वक्ष्ये तद्यन्त्रमुत्तमम्।
षट्कोणं पूर्वमालिख्य तन्मध्ये साध्यसंयुतम्॥
तद्बीजन्तु श्रिया ब्रह्मन् कर्मनाम लिखेत्तथा।
तत्कोणेषु लिखेन्मन्त्री श्रीरामस्य षडक्षरम्॥
सीतारामं च तत्संधौ तद्बीजेनैव वेष्टयेत्।
बहिरष्टदलं लिख्य तद्बीजं तु नमोन्तकम्॥
रामचन्द्राय विलिखेत् तद्दलेषु सुमन्त्रवित्।
तत्संधौ रं लमुद्धृत्य लक्ष्मणाय नमो लिखेत्॥
क्रोडबीजेन संवेष्ट्य तद्बहिर्द्वादशं दलम्।
लिखेद्दलेषु ओं श्रीं च जानकीवल्लभाय च॥
स्वाहा लिखेच्च तत्संधौ वासुदेवमनुं लिखेत्।
तद्बहिष्षोडशदलं तद्दलेषु लिखेत्क्रमात्॥
रां नमो भगवते रामभद्राय हुं फट् स्वाहा।
तत्संधौ तु स्वरान् लिख्य लक्ष्मीबीजेन वेष्टयेत्॥
चतुर्विंशद्दलं लिख्य तद्बहिर्मन्त्रवित्तमः।
तद्दलेषु क्रमाद्ब्रह्मन् गायत्रं रामकं लिखेत्॥
तत्संघैौ सौरगायत्रीं लिखेल्लक्ष्म्या च वेष्टयेत्।
द्वात्रिंशद्दलमालिख्य तद्दलेषु लिखेत्क्रमात्॥
श्रीरामानुष्टुभं लिख्य तत्संधौ सौरमालिखेत्।
श्रीबीजेन सुसंवेष्ट्य तद्बहिस्साध्यसंयुतम्॥
रक्षरक्षेति संयोज्य हुंफट् हंसेति च क्रमात्।
पाशाङ्कुशेन संवेष्ट्यरामबीजेन वेष्टयेत्॥
इन्द्राद्यष्ट लिखेद्बीजान् पूर्वादिक्रमतो बुधः।
प्राणप्रतिष्ठां कृत्वाथ धारयेद्यन्त्र मुत्तमम्॥
मान्त्रिको वा द्विजश्रेष्ठः क्षत्रविट्शूद्रजातयः।
अष्टैश्वर्याभिवृद्ध्यर्थं स्वराष्ट्रे शत्रुनिग्रहे॥
महारोगादिसंप्राप्ते संसारे बन्धने भये।
रामयन्त्रं प्रकुर्वीत धारयेदुत्तमोत्तमम्॥
एतद्यन्त्रसमं नास्ति सत्यमेतच्चतुर्मुख॥
इति श्रीशेषसंहितायां त्रिपञ्चाशोध्यायः.