५०

पक्षिराजमन्त्रः.

पक्षिराजमनुं वक्ष्ये न्यासध्यानादिभेदतः।
मन्त्रहोमादिसंयुक्तं तदङ्गाङ्गादिकं तथा॥

व्यत्यस्तपक्षिसंयुक्तं तारं स्वाहान्तसंयुतम्।
एतद्धि पक्षिराजस्य मनुस्स्याच्छत्रुनाशकः॥

ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते।
गरुडो देवता प्रोक्तो क्षीं बीजं शक्ति हुं तथा॥

वं कीलकं ठं कवचं यमस्त्रं श्वेतवर्णकम्।
अङ्गुष्ठादिकनिष्ठान्तं मन्त्रवर्णान्न्यसेत्क्रमात्॥

पादे करे च हृदये वक्रे मूर्ध्नि च तत्क्रमात्।
मन्त्रवर्णान्न्यसेन्मन्त्री व्याप्यादीन् पूर्ववन्न्यसेत्॥

हृदि स्वकर्णयोर्मूर्ध्नि पादाग्रे गण्डपूर्वके।
तारं तु क्षिपसंयुक्तं स्वाहान्तं प्रणवान्तकम्॥

एतन्मन्त्रेणैव कुर्यात् हृदादिन्यासकं स्थितः।
एतत् षडङ्गकं ब्रह्मन् गुह्याद्गुह्यतमं शुभम्॥

श्वेतवर्णं विभुं शान्तं श्वेतपद्मोपरिस्थितम्।
विश्वरूपधरं देवं पक्षिराजं भजाम्यहम्॥

चातुरङ्गविधानेन तर्पयेत्कुङ्कुमाम्भसा।
पूजयेत् श्वेतपद्मैश्च जुहुयान्मन्त्रवित्तमः॥

अपामार्गस्य हवनात् सर्वसिद्धिं लभेत्सदा।
निम्बकाष्ठस्य हवनात् शीघ्रमुच्चाटनं भवेत्॥

तिलाज्यकञ्जहवनात् लक्ष्मीलाभं लभेत्सदा।
तत्तद्द्र्व्येण हवनात् तत्तत्फलमवाप्नुयात्॥

यन्त्रः.

पञ्चकोणं समालिख्य मध्ये तद्भीजसंयुतम्।
कर्मनामसमायुक्तं लिखेत्साध्यं चतुर्मुख॥

तार्क्ष्यपञ्चाक्षरं सम्यक् कोणेषु बिलिखेत्ततः।
तत्संधावमृतं लिख्य तद्बीजेनैव वेष्टयेत्॥

बहिरष्टदलं लिख्य लिखेन्मूलं दलेषु च।
नृसिंहाष्टाक्षरं संधौ लिखेत्तद्वेष्टयेत् श्रिया॥

बहिर्लिखेत्सुमन्त्रज्ञो द्वादशं दलमुत्तमम्।
ओंनमः पक्षिराजाय हुंफट्स्वाहामनुं लिखेत्॥

लिखेत्संधौ वासुदेवं मायया वेष्टयेत् शुचिः।
तद्भाहिःषोडषदलं लिखेत्तन्मनुरुच्यते॥

ओन्नमः प्रचण्डगरुडाय हनहनहुंफट्।
तस्य संधौ स्वरान् लिख्य लक्ष्मीबीजेन वेष्टयेत्॥

बहिर्लिखेच्चतुर्विंशद्दलान् तत्र दलेषु च।
लिखेद्गरुडगायत्रीं तत्संधौ सौरकं लिखेत्॥

प्रणवेन सुसंवेष्ट्यद्वात्रिंशारं बहिर्लिखेत्।
तार्क्ष्यानुष्टुप् तद्दलेषु लेख्यः संधौ नृसिंहकम्॥

मायया वेष्टयेद्धीमान् तद्बहिस्साध्यसंयुतम्॥

हंसहंसेति संयोज्य रक्षरक्षेति संयुतम्।
तत्तत्कुरुष्वेति तत्तत्पदवीधीर्लिखेत् शुभाः॥

पाशाङ्कुशेन संवेष्ट्य इन्द्राद्यष्ट बहिर्लिखेत्।
प्राणप्रतिष्ठां कृत्वाऽथ यन्त्रं कर्मसु योजयेत्॥

धारयेयुस्सदा सर्वे राज्यश्रीमोक्षकांक्षिणः।
यन्त्राणामुत्तमं ब्रह्मन् एतद्यन्त्रंभवेच्छुभम्॥

इति श्री शेषसंहितायां पञ्चाशोध्यायः.