-
*
सुदर्शनमन्त्रः
शेषः—
अथ वक्ष्ये विधानेन सुदर्शनमनुं तथा।
न्यासध्यानादियन्त्राद्यैः अङ्गैरङ्गाङ्गसंयुतम्॥
सहस्रारेति संयुक्तं हुंफडुद्धारयेद्बुधः।
मनुःस्याच्चक्रराजस्य सर्वसिद्धिप्रदायकः॥
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते।
चक्रराजो देवता च सं बीजं शक्तिफट् तथा॥
ह्रीं कीलकं ऐं कवचं रं अस्त्रं रक्तवर्णकम्।
प्रणवेन करन्यासं कुर्यान्मन्त्राक्षरैस्सह॥
हृदादिकं तथा कुर्याद्व्याप्यादीन्पूर्ववन्न्यसेत्।
सुचक्राय विचक्राय पञ्चचक्राय संयुतम्।
असुरान्तकचक्राय ज्वालाचक्राय संयुतम्॥
त्रैलोक्यचक्राय चेति षडङ्गं कारयेद्बुधः।
एतत् षडङ्गं तन्त्रेण सर्वसिद्धिं लभेत्सदा।
अनन्तमव्ययं क्रूरं षट्कोणान्तरवर्तिनम्॥
सौदर्शनविभुं देवं भजे रुद्रपितामहम्॥
चतुरङ्गविधानेन तर्पयेच्चन्दनाम्भसा।
पूजयेच्छतपत्रैस्तु जुहुयान्यन्त्रवित्तमः॥
अपामार्गैस्तिलैः पद्मैः खादिरैस्सघृतैः द्विजः।
तत्क्षणाद्ब्रह्मविद्ब्रह्मन् सर्वसिद्धिमवाप्नुयात्॥
यन्त्रोद्धारः.
वक्ष्ये तन्मन्त्रसिद्ध्यर्थं तद्यन्त्रोद्धारणं शुभम्।
षट्कोणं चक्रमालिख्य मध्ये प्रणवसंयुतम्॥
मायया साध्यमालिख्य कर्मनामविदर्हितम्।
कोणे सुदर्शनं लिख्य सन्धौ विष्णुषडक्षरम्॥
माययाऽऽवेष्टयेन्मन्त्री बहिरष्टदलं लिखेत्।
ओंमहाचक्राय स्वाहेति विलिखेत्तद्दलेषु च॥
लिखेत्सन्धौ मूलमन्त्रं श्रीबीजेनैव वेष्टयेत्।
लिखेद्बहिर्द्वादशकं तारतारानुतारकम्॥
महासुदर्शनायेति नमोन्तं मन्त्रमालिखेत्।
वामुदेवं लिखेत्सन्धौ मान्मथेनैव वेष्टयेत्॥
लिखेद्बहिष्षोडशकं तारतारानुतारकम्।
रामं चिन्तामणिं क्रोडं सुदर्शननृसिंकम्॥
ज्वालाचक्राय हुंफट्च तथा स्वाहामनुं लिखेत्।
तत्सन्धौ तु स्वरान् लिख्य तद्बीजेनैव वेष्टयेत्॥
तद्बाहिर्विलिखेन्मन्त्री चतुर्विंशद्दलान् क्रमात्।
तद्गायत्रीं दलेष्वेव सन्धौ सौरं लिखेद्बुधः॥
नृसिंहेन सुसंवेष्ट्य तद्बाहिर्मन्त्रसाधकः।
द्वात्रिंशद्दलमालिख्य तद्दलेषु सुमन्त्रवित्॥
तदनुष्टुभमालिख्य तत्सन्धौ मन्त्रराजकम्।
प्रणवेन सुसंवेष्ट्य हंसहंसेति तद्बहिः॥
रक्षरक्षेति संयोज्य मायया परितो लिखेत्।
पाशाङ्कुशेन संवेष्ट्य इन्द्रादीन्विलिखेद्बुधः॥
प्राणप्रतिष्ठां कृत्वाथ तत्तत्कर्मसु योजयेत्।
क्षत्रविट्शूद्रजातीनां एतद्यन्त्रस्य धारणात्॥
सर्वसिद्धिः भवेत्सत्यं अभिषेकपुरस्सरम्।
मन्त्रशीलगुरुणा त्विदं लभेत् अन्यथा नहि फलं कदाचन॥
मन्त्रशीलगुरुरेव सद्गुरुः मन्त्रहीनगुरु मेरुवद्गुरुः।
तप्तचक्रादिदाता वै शिखावत्कमलासन॥
मन्त्रसंयुक्ततद्दाता प्रतिष्ठागुरुरिष्यते।
विष्णुमन्त्ररतो विप्रो सदामन्त्राश्रयश्शुचिः॥
स एव ब्रह्मविद्ब्रह्मन्मोक्षदाता गुरुर्भवेत्।
अष्टाङ्गयोगयुक्तोवै ब्रह्मनिष्ठागुरुर्भवेत्॥
तद्गुरुं ह्याश्रयेद्धीमान् सर्वबन्धविमुक्तये॥
इति श्रीशेषसंहितायां सप्तचत्वारिंशोध्यायः.