-
*
वायुमन्त्रः
शेषः—
नृसिंहमन्त्रराजस्य अङ्गाङ्गानि यथातथम्।
न्यासध्यानादिसंयुक्तं वक्ष्ये मन्त्राणि तत्क्रमात्॥
मारुतमसि मरुतामोजोपान्थारां भिन्दि रमयत मरुत श्येन मायिनं मनोजवसं वृषणं सुवृक्तिम्। येन शर्थ उग्रभवसृष्टमेति तदश्विना परिधत्तं स्वस्ति॥
ऋषिर्ब्रह्मास्य मन्त्रस्य छन्दो गायत्रमुच्यते।
देवता उग्रनुहरिः अं बीजं शक्तिः उं तथा॥
रं कीलकं मं कवचं रं अस्त्रं रक्तवर्णकम्।
बिन्दुवृत्तं स्वस्तिमन्तं कृत्वा तत्तत्पदत्रये॥
स्वरावृत्तिषडङ्गन्तु कुर्यान्न्यासं विचक्षणः।
विभुं तेजोमयं देवं द्वात्रिंशच्चक्रधारिणम्॥
रुद्रारिंविश्वरूपाढ्यं भजे उग्रनृकेसरिम्।
एवं ध्यात्वा जपेत् त्रिस्त्रिर्मन्त्राण्येकादश क्रमात्॥
रुद्रमन्त्रः
मा नस्तोके तनये मा न आयुषि
मा नो गोषु मा नो अश्वेषु रीरिषः।
वीरान्मा नो रुद्र भामितोऽवधी-
र्हविष्मन्तो नमसा विधेम ते॥
ऋषिर्धातास्य मन्त्रस्य छन्दो गायत्रं उच्यते।
देवता वीरनृहरिः मं बीजं शक्तिरों तथा॥
यं कीलकं रं कवचं यं अस्त्रं रक्तवर्णकम्।
रिरिषोवधीर्मते त्रिः कुर्यान्न्यासं पदत्रयैः॥
द्विरावृत्ति सुमन्त्रज्ञो ध्यानमण्डलभेदतः।
रक्ताभरणभूषाढ्यंसर्वायुधधरं विभुम्॥
तेजोमयमुदाराङ्गं भजे वीरनृकेसरिम्।
नित्यसूरिमन्त्रः.
त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः। अतो धर्माणि धारयन्।विष्णोः कर्माणि पश्यत। यतो व्रतानि पस्पृशे। इन्द्रस्य युज्यस्सखा। तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम्। तद्विप्रासो विपन्यवो जागृवांसस्समिन्धते। विष्णोर्यत्परमं पदम्॥
ऋषिर्ब्रंह्मास्य मन्त्रस्य गायत्री खन्द उच्यते।
महाविष्णुर्देवता च त्रं बीजं शक्ति दं ततः॥
लं कीलकं वं कवचं यमस्त्रं रक्तवर्णकम्।
वेदान्तवेद्यं यज्ञेशं सर्वदेवनमस्कृतम्॥
भजामि सततं देवं महाविष्णुं नृकेसरिम्।
ज्वालामन्त्रः
ज्वालामालाकुलं भाति विश्वस्यायतनं महत्॥
सन्ततँ सिराभिस्तुलम्बत्याकोशसन्निभम्।
तस्यान्ते सुषिरँ सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्।
तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः।
सोऽग्रभुग्विभजंस्तिष्ठन्नाहारमजरः कविः॥
सन्तापयति स्वं देहं आपादतलमस्तकम्।
तिर्यगूर्ध्वमधशाखी रश्मयस्तस्य सन्तताः॥
तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः।
स ब्रह्मा स शिवसेन्द्रस्सोऽक्षरः परमः स्वराट्॥
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः॥
वाक्यद्वयैस्सुनेत्रान्तं न्यस्य सम्यक् विचक्षणः।
अन्यवाक्येन तद्ब्रह्मन् कुर्यात् दिग्बन्धनं क्रमात्॥
कालानलसमप्रख्यं षट्कोणान्तःस्थितं विभुम्।
ज्वालामालाधरं देवं भजे ज्वालानृकेसरिम्॥
विश्वरूपमन्त्रः
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात्।
सं बाहुभ्यां नमति सं पतत्रैः द्यावाभूमी जनयन् देव एकः॥
ऋषिः ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते।
देवता विश्वनृहरिः कं बीजं शक्तिमं तथा॥
लं कीलकं यं कवचं यं अस्त्रं रक्तवर्णकम्।
अनन्तमच्युतं धीरं विश्वरूपं प्रभुं विभुम्॥
नृसिंहं देवदेवेशं तं भजे सर्वतोमुखम्।
सिंहमन्त्रः.
मृगो न भीमः कुचरो गिरिष्ठाः। परावत आजगाम परस्याः।
सृकंसंशायपविमिन्द्रतिग्मम्। विशत्रून्ताधिविमृधोनुदस्व।
विशत्रून्विमृधोद।विवृत्रस्यहनूरुज।विमन्युमिन्द्रभामितो मित्रस्याभिदासतः॥
एतद्वाक्यैः षडङ्गन्तु कुर्यान्न्यासं स मन्त्रवित्।
आदिमध्यान्तरहितं सच्चिदानन्दरूपिणम्॥
नमामि नरसिंहं तं सर्वशत्रुविनाशनम्।
भयहरमन्त्रः.
भीषास्माद्वातः पवते भीषोदेति सूर्यः।
भीषास्मादग्निश्चेन्द्रश्च मृत्युर्थावति पञ्चमः॥
ऋषिर्धाताऽस्य मन्त्रस्य गायत्री छन्द उच्यते।
देवता भीमनृहरिः अं बीजं शक्तिमं तथा॥
यं कीलकं रं कवचं रं अस्त्रं रक्तवर्णकम्।
सूर्यान्तः पञ्चमस्त्रिस्त्रः त्रिरावृत्त्य षडङ्गकम्॥
न्यासं कुर्यात्सुमन्त्रज्ञो विक्रमार्थी विचक्षणः।
महाभयंकरं भीमं विश्वेशं तं गदाधरम्॥
घीरं नारायणं देवं भजेमहि नृकेसरिम्।
भद्रमन्त्रः,
भद्रं कर्णेभिश्श्रृणुयाम देवाः। भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवांसः तनूभिः। व्यशेम देवहितं यदायुः॥
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते।
देवता भद्रनृहरिः हं बीजं शक्तियं तथा॥
लं कीलकं यं कवचं रं अस्त्रं रक्तवर्णकम्।
यजत्रान्तपदार्घंत्रिरुच्चार्य च षडङ्गकम्॥
न्यासं कुर्यात्तदा ध्यायन् तत्तन्मण्डलभेदतः।
श्रीभूनीलादिसहितं सर्वाभरणभूषितम्॥
विरूपाक्षं महाविष्णुं भजे भद्रनृकेसरिम्।
मृत्युमन्त्रः.
त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्।
उर्वारुकमिव बन्धनात् भृत्योर्मुक्षीय मामृतात्॥
ऋषिर्धाताऽस्य मन्त्रस्य गायत्री छन्द उच्यते।
देवता मृत्युनृहरिः स्त्रीं बीजं शक्ति तां तथा॥
यं कीलकं रं कवचं रं अस्त्रं रक्तवर्णकम्।
बन्धनान्तामृतान्ताच्च त्रिरावृत्त्या षडङ्गकम्॥
न्यासं कुर्यात् हृदादेर्दिग्बन्धनान्तं सुबुद्धिमान्।
शिवेशं सर्वलोकेशं विश्वरूपं त्रियम्बकम्॥
भजे मृत्युनृसिंहं तं चक्रसाहस्रधारिणम्।
बृहन्मन्त्रः.
नमो ब्रह्मणे। नमो अस्त्वग्नये। नमः पृथिव्यै।नम ओषधीभ्यः। नमो वाचे। नमो वाचस्पतये।नमो विष्ण्ववे बृहते करोमि॥
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते।
वासुदेवनृसिंहश्च देवतेति स्मरन् द्विजः॥
ओं बीजं शक्तिश्रीं चैव ध्यानमण्डलभेदतः।
ह्रीं कीलकं ऐं कवचं यं अस्त्रं रक्तवर्णकम्॥
ब्रह्मणे नमः पृथिव्यै तु धीभ्योऽतो चे करोमि च।
एतत्पदैष्षडङ्गं तु कुर्यान्मन्त्रविचक्षणः॥
नीलकण्ठेशमानन्दं नारायणमनामयम्॥
सर्वान्तर्यामिणं वन्दे वासुदेवनृकेसरिम्।
स्तम्भनोच्चाटमरणे जपेद्रक्षोगणं स्मरन्॥
रक्षोहणो वलगहनः कृणुष्वपाज एवच।
वश्याकृष्ये च मोहे च विष्णुसूक्तं जपेत्तथा॥
विष्णोर्योन्याद्यक्षिभ्यान्तमनामावृतिष्ठान्त शान्तिकान्।
ज्योतिर्मन्त्रः
आद्रं ज्वलति ज्योतिरहमस्मि। ज्योतिर्ज्वलति ब्रह्माहमस्मि।
योऽहमस्मि ब्रह्माहमस्मि। अहमेवाहं मां जुहोमि स्वाहा॥
पदत्रयैष्षडङ्गन्तु कुर्यान्न्यासं चतुर्मुख।
तत्तन्मन्त्रैः जपेत्तत्तत् व्याप्यांदीन्कारयेत्तथा॥
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज॥
मन्त्रराजं जपेत्सम्यक् एतदङ्गादिकं जपेत्।
मोक्षधर्मादिसिद्ध्यर्थं कर्ममन्त्रार्थसिद्धये॥
चण्डवाय्वागमे सम्यक् अग्निचोराद्युपद्रवे।
गारुडं पूर्वमुच्चार्य मन्त्रराजं ततः परम्॥
वायव्यँश्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता।
वायुमेव स्वेन भागधेयेनोपधावति। स एवास्मै इति संयुतम्॥
षट्कोणं स्वकरे ध्यात्वा दर्शनाभिमुखं स्मरन्।
पार्थिवं मण्डलं तत्र जपेद्ध्यायन्निवर्तके॥
तत्क्षणात् स्तम्भनं याति ब्रह्मा रुद्रादयस्तथा।
महारोगादिभूताद्याः वन्यसत्त्वद्युपद्रवाः॥
स्तम्भनोच्चाटनं याति सत्यमेव चतुर्मुख।
वक्ष्येऽथान्यद्रहस्यं तु समाहितमनाश्शृणु॥
पूर्वं गारुडमुच्चार्य ततश्चक्रनृकेसरिम्।
रामकृष्णादिकं वापि जपेद्यायन् ततः परम्॥
पथस्पथःपरिपतिं वचस्याकामेनकृतोअभ्यानडर्कंसनोरासच्छुरुधश्चन्द्राधियंधियंसीषधातिप्रपूषा।क्षेत्रस्यपतिनावयं। हितेनेव जयामसि। गामश्वंपोषयित्न्वासनोमृडातीदृशे॥
पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि।
विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व॥
कामः समृध्यतामह्यमपराजितमेवमेयंकामंकामयेदेवतन्मेवायोसमर्थय। अनुहवं परिहवं परीवादं परिक्षपं दुःस्वप्नं दारुदितं तद्विषद्भ्यो दिशाम्यहम्॥
अनुहूतं परिहूतं अपरिहूतं शकुनैर्यदशाकुनम्।
मृगस्यसृतमक्षणया तद्विषद्भ्योदिशाम्यहम्॥
समध्वरायोषसोनमन्तदधिक्रावेवशुचयेपदाय।
अर्वाचीनं वसुविदं भगन्नोरथमिवाश्वावाजिनआवहन्तु॥
अश्वावतीर्गोमतीर्णउषासोवीरवतीस्सदमुच्छन्तुभद्राः।
घृतंदुहानाविश्वतः प्रपीनायूयंपातस्वस्तिभिःसदानः॥
इति ध्यानं प्रकुर्वीत जपे गच्छन् द्विजोत्तमः।
प्रातःकाले प्रयाणे च जपे होमार्चनादिषु॥
संग्रामे व्यवहारेषु गमनागमनेषु च।
गच्छन् जपेदिदं सौम्यं ध्यानमण्डलभेदतः॥
इदं रहस्यं सर्वेषां चतुर्मुख जयार्थिनाम्।
इति श्रीशेषसंहितायां षट्जत्वारिशाध्यायः.