* नृसिंहराजाङ्गमन्त्रः शेषः— नृसिंहराजमन्त्रस्य अङ्गमन्त्रोऽपि चोच्यते। मोक्षधर्मादिसिद्ध्यर्थं जपेत्पूर्वोक्तसंख्यया॥ मूलमन्त्रं मन्त्ररत्नं रामं कृष्णं वराहकम्। सुदर्शनहयग्रीवं पक्षिराजं जपेत्सदा॥ इति श्रीशेषसंहितायां पञ्चचत्वारिंशोध्यायः