४४

  •      *
    

मन्त्रराजः,

शेषः —

मन्त्रराजं तथा वक्ष्ये भुक्तिमुक्तिप्रदायकम्।
यन्त्रतन्त्रादिसहितं राज्यश्रीकाङ्क्षिणां तथा॥

उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्॥

ऋषिर्ब्रह्मास्य मन्त्रस्य छन्दो गायत्रमुच्यते।
श्रीनृसिंहो देवता च उं बीजं शक्ति गं तथा॥

लं कीलकं ह्री कवचं यं अस्त्रं रक्तवर्णकम्।
नृसिंहैकाक्षरेणैव करन्यासं समाचरेत्॥

पादैरर्धैप्षडङ्गं तु मन्त्रराजेन कारयेत्।
कुर्यात्तन्मन्त्रराजेन व्याप्यं तद्व्यापकं स्मरन्॥

अनन्तबाहूदरवक्तूनेत्रं अनेककोट्यर्कनिकाशरूपम्।
अभेद्यमानन्दमयं सुरेशं भजामि रुद्रारिविभुं नृसिंहम्ं॥

गोक्षीरेणाम्भसा सम्यक् तर्पयेदङ्गसङ्ख्यया।
पूजयेद्बिल्वपत्रैश्च जुहुयात्कमलासन॥

बिल्वप्रसूनहवनात् राज्यमृच्छति वाञ्छितम्।
घृताक्तकञ्चहवनात् अष्टैश्वर्यमवाप्नुयात्॥

अपामार्गस्य हवनात् सर्वं सिव्यति सर्वदा।

मन्त्रराजयन्त्रः.

मन्त्रार्थज्ञानसिध्यर्थं यन्त्रोद्धारः तदुच्यते॥

षट्कोणं पूर्वमालिख्य तन्मध्ये साध्यसंयुतम्।
नृसिंहैकाक्षरं मायांलिखेत्कर्मादिसंयुतम्॥

क्ष्मौंनृसिंहेतिहुंफट्च षट्कोणेषु लिखेत्क्रमात्।
तत्सन्धौ विलिखेन्मन्त्री सौदर्शनषडक्षरम्॥

तद्बहिर्माययावेष्ट्यबहिरष्टदलं लिखेत्।
ओं जयजयनृसिंहेति तद्दलेषु लिखेत्तथा॥

तत्सन्धौ मूलमालिख्य वेष्टयेद्रमया बुधः।
तद्बहिर्द्वादशदलं दलेषु परितः क्रमात्॥

तारतारानुतारं च महामायां रमामपि।
नारसिंहाय नम इति विलिखेन्मन्त्रवित्तमः॥

तत्सन्धौ वासुदेवाख्यमनुं तद्वादशाक्षरम्।
श्रीबीजेन सुसंवेष्ट्य तद्बहिः षोडशं दलम्॥

दलेषु विलिखेन्मन्त्री क्ष्रौंनमो भगवतेति च।
नारसिंहाय हुं फट् स्वाहा मनुमिदं क्रमात्॥

तद्बहिर्माययावेष्ट्यद्विर्द्वादशदलं लिखेत्।

दलेषु विलिखेन्मन्त्री गायत्रीं नारसिंहकम्॥

तत्सन्धौ सौरगायत्रीं वेष्टयेन्मायया लिखेत्।
द्वात्रिंशद्दलमालिख्य मन्त्रराजं दलेषु च॥

चक्रस्यानुष्टुभं सन्धौ वेष्टयेन्मायया लिखेत्।
तद्बहिः पुरतः सम्यक् हंसहंसेतिसंयुतम्॥

तत्साध्यं रक्षरक्षेति कर्मनामविदर्हितम्।
पाशाङ्कुशेन संवेष्ट्य अष्टदिक्षु लिखेत्क्रमात्॥

तदिन्द्राद्यष्टबीजादीन् विलिखेन्मन्त्रवित्तमः।
प्राणप्रतिष्ठां कृत्वाऽथ धारयेद्यन्त्रमुत्तमम्॥

जपहोमादिसिद्ध्यर्थं अष्टकर्मसु सिद्धये।
अष्टैश्वर्यादिसिद्ध्यर्थं मोक्षधर्मार्थसिद्धये॥

एतद्यन्त्रं लिखेद्ब्रह्मन् मन्त्रराजमनुत्तमम्।

इति श्रीशेषसंहितायां चतुश्चत्वारिंशोऽध्यायः