४२

  •      * 
    

हयग्रीवाङ्गमन्त्रः

हयग्रीवाङ्गमन्त्राणि वक्ष्ये न्यासादिसंयुतम्।
तारं मायां रमां नीलां माम्मथं लक्ष्मिसंयुतम्॥

लक्ष्मीनृसिंहं श्रींं चैव नारसिंहं वराहकम्।
उद्धरेद्बीजमालायां गोप्येनैव जपेत्सदा॥

ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते।
परमात्मा देवता च श्रीं बीजं शक्तिश्रीं तथा॥

लीं कीलकं ऐं कवचं यं अस्त्रं रक्तवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्य व्याप्यं तद्वच्चतुर्मुख॥

नारायणं महाज्ञेयं विश्वात्मानं परायणम्।
नारायण परोज्योतिरात्मा नारायणः परः॥

इदमेव रहस्यं हि सर्वमन्त्रेषु दुर्लभम्।
जपेद्गोप्यतमं मन्त्रं सर्वदा सर्वसिद्धये॥

इति शेषसंहितायां द्विचत्वारिंशोध्यायः.