४१

  •   *
    

हयग्रीवमन्त्रोद्धारः

शेषः—

हयग्रीवमनुं वक्ष्ये यन्त्रतन्त्रादिसंयुतम्।
भुक्तिमुक्तिप्रसिद्ध्यर्थं वेदवेदान्तसिद्धये॥

ऋग्यजुस्सामरूपाय वेदाहरणकर्मणे।
प्रणवोद्गीथवपुषे महाश्वशिरसे नमः॥

एतदेव हयग्रीवमनुर्विद्याप्रदायकः।
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते॥

देवता श्रीहयग्रीवो ऋं बीजं शक्तिमं तथा।
वं कीलकं ठं कवचं यं अस्त्रं श्वेतवर्णकम्॥

न्यसेत्पादचतुष्केण तदर्धद्वयसंयुतम्।
षडङ्गंकारयेन्मन्त्री करे देहे तथाऽब्जज॥

तन्मन्त्रेण न्यसेद्विद्वान् व्याप्यं तद्व्यापकं स्मरन्।
द्वात्रिंशत्तु सहस्राणि जपेद्ध्यायन् चतुर्मुख॥

चन्द्रमण्डलमध्यस्थं हयग्रीवं विभुं प्रभुम्।
शङ्खचक्रधरं सौम्यं भजे विद्याप्रदायकम्॥

दशाङ्गंतर्पयेद्विद्वान् गोक्षीरेण च भक्तितः।
पूजयेद्बिल्वपत्रैश्च कमलैः जातिभिस्सह॥

वचाब्राह्मीत्रिमध्वक्तं मण्डिशोर्णिसमन्वितम्।

सर्वशास्त्रार्थसिद्ध्यर्थं जुहुयात्कमलासन।
एतत्कर्मकृतेनैव सर्वविद्याधिपो भवेत्।

हयग्रीवयन्त्रः,

अथयन्त्रं प्रवक्ष्यामि मन्त्रविद्यार्थासिद्धये॥

षट्कोणं चक्रमालिख्य तन्मध्ये साध्यसंयुतम्।
एकाक्षरं लिखेन्मन्त्री श्रीभूनीलादिसंयुतम्॥

कोणेषु विलिखेद्धीमान् हयग्रीवं विभुं तथा।
तत्सन्धौ विलिखेद्विष्णुं षडक्षरमतन्द्रितः॥

मायाबीजेन संवेष्ट्य बहिरष्टदलं लिखेत्।
दलेषु विलिखेत्सम्यक् महाश्वशिरसे नमः॥

तत्सन्धौ विलिखेन्मूलं हयं बीजेन वेष्टयेत्।
तद्बहिर्द्वादशदलं लिखेत् सम्यक् चतुर्मुख॥

तारं तारानुतारं च महामायां रमामपि।
हयग्रीवाय नम इति दलेषु विलिखेत् शुचिः॥

लिखेत्सन्धौ वासुदेवं श्रीबीजेन च वेष्टयेत्।
तद्बहिः षोडशदलं दलेषु विलिखेत्तथा॥

ओं नमो भगवते चैव हयग्रीवाय संयुतम्।
हुंफट् स्वाहां तथोद्धृत्य षोडशाक्षरमुत्तमम्॥

बहिस्स्वरान्विलिख्याथ मान्मथेनैव वेष्टयेत्।
चतुर्विशद्दलं लिख्य गायत्रीं तद्दलेषु च॥

तत्सन्धौ सौरगायत्रीं लिखेत्तद्बहिरुत्तमाम्।
तद्बहिर्द्वादशदलं विलिखेत्तद्दलेषु च॥

हयग्रीवमनुं लिख्य तत्सन्धौ सम्यगब्जज।
श्रीरामानुष्टुभं लिख्य नीलाबीजेन वेष्टयेत्॥

तद्बहिः हंसहंसेति रक्षरक्षेति साधकम्।
पाशाङ्कुशेन संवेष्ट्य इन्द्रादीन् तद्बहिर्लिखेत्॥

प्राणप्रतिष्ठां कृत्वाथ तद्यन्त्रं धारयेद्बुधः।
जिह्वास्तम्भं वाग्जयं च विद्यासिद्धिंशुभं जयम्॥

आरोग्यं लभते सर्वं एतद्यन्त्रस्य धारणात्॥

इति शेषसंहितायां एकचत्वारिंशोध्यायः