सूर्यमन्त्रः
शेषः—
भूवराहस्य मन्त्रस्य क्षत्रियाणां फलाय च।
वक्ष्ये अनाङ्गिमन्त्राणि न्यासध्यानादिभेदतः ॥
आसत्येन रजसा वर्तमानो निवेशयन् अमृतं मर्त्यं च।
हिरण्ययेन सविता रथेनादेवो याति भुवना विपश्यन् ॥
उद्वयं तमसस्परिपश्यन्तो ज्योतिरुत्तरम्।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते।
नारायणो देवता च अं बीजं शक्तिः अं तथा ॥
वं कीलकं वं कवचं रं अस्त्रं रक्तवर्णकम्।
आ सत्येन रजसा वर्तमानो निवेशयन्निति हृदये न्यसेत् ॥
अमृतं मर्त्यंचति स्यात् शिरसि न्यासमुत्तमम्।
हिरण्ययेन सविता रथेनेति शिखायामपि न्यसेद्बुधः ॥
आ देवो याति भुवना विपश्यन्निति न्यसेद्बाह्वास्सुमन्त्रवित्।
उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तममिति मन्त्रविन्नेत्रयोर्न्यसेत् ॥
देवंदेवत्रासूर्यमिति दिग्बन्धं कारयेद्बुधः।
व्याप्यं तद्व्यापकं चैव तन्मन्त्रेणैव कारयेत् ॥
ध्येयस्सदासवितृमण्डलमध्यवर्ती
नारायणस्सरसिजासनसन्निविष्टः।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥
सोममन्त्रः
अनन्तरं तथा वक्ष्ये सोममन्त्रं यथाविधि।
सोमो धेनुं सोमो अर्वन्तमाशुम्।
सोमो वीरं कर्मण्यं ददातु ॥ इति सोममन्त्रः ॥
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते ॥
हयग्रीवो देवता च सं बीजं शक्तियं तथा।
वं कीलकं यं कवचं यमस्त्रं श्वेतवर्णकम् ॥
सोमो धेनुं हृदि न्यस्य मूर्ध्नि सोमो अर्वन्तञ्च।
आशुं न्यसेच्छिखायान्तु सोमो वीरं करद्वये ॥
नेत्रद्वये तु कर्मण्यं दिग्बन्धः स्याद्ददात्विति।
व्याप्यादीन् पूर्ववन्न्यस्य ध्यायेच्चन्द्रगतं हरिम् ॥
ध्यानम्—
वन्दे पूरितचन्द्रमण्डलगतं श्वेतारविन्दासनं
मन्दाकिन्यमृताब्जकुन्दकुमुदक्षीरेन्दुहासं हरिम्।
मुद्रापुस्तकशङ्खचक्रविधृतश्रीमद्भुजामण्डलं
निर्यन्निर्मलभारतीपरिमलं विश्वेशमश्वाननम् ॥
अङ्गारकमन्त्रः
पर्यायेण तथा वक्ष्ये अङ्गारकमनुर्यथा।
अग्निर्मूर्धा दिवः ककुत् पतिः पृथिव्या अयम्।
अपां रेतांसि जिन्वतीत्यङ्गारकमन्त्रः।
ऋषी रुद्रोऽस्य मन्त्रस्य पङ्किच्छन्द उदाहृतः ॥
श्रीनृसिंहो देवता च कं बीजं शक्तिउं तथा।
यं कीलकं रं कवचं रं अस्त्रं रक्तवर्णकम् ॥
अग्निर्मूर्धा दिवः ककुत् पूर्ववत् हृदये न्यसेत्।
पतिःपृथिव्या अयं ज्ञानाद्यैः पूर्ववन्न्यसेत् ॥
अपां रेतांसि जिन्वतीति शिखायां तु न्यसेद्बुधः।
एतत्पादत्रयेणैव बाहुनेत्रास्त्रकं न्यसेत् ॥
व्याप्यं तद्व्यापकं चैव तन्मन्त्रेण न्यसेद्बुधः।
चतुश्चक्रधरं देवं अङ्गारान्तर्बहिःस्थितम् ॥
ज्वालामालाधरं वध्दे भजेदुग्रनृकेसरिम्।
बुधमन्त्रः.
उद्बुध्यस्वाग्ने प्रतिजागृह्येन
मिष्टापूर्ते संसृजेथामयञ्च।
पुनः कृण्वंस्त्वा पितरं युवान
मन्वातांसि त्वयि तन्तुमेतमितिबुधमन्त्रः ॥
ऋषिर्गार्ग्योऽस्य मन्त्रस्य त्रिष्टुप्छन्द उदाहृतः।
मत्स्यरूपो हरिर्देवो उं बीजं शक्ति तं तथा ॥
लं कीलकं वं कवचं यं अस्त्रं श्वेतवर्णकम्।
उद्बुध्यस्वाग्नेति हृदि न्यसेत् ज्ञानादिसंयुतम् ॥
शिरसि प्रतिजागृह्येनमिष्टापूर्ते शिखायाञ्च
बाह्वोःसंसृजेथामयञ्च नेत्रयोः।
पुनः कृण्वंस्त्वा पितरं युवानमन्वातांसि
त्वयि तन्तुमेतं दिग्बन्धेयोजयेद्गुरुः ॥
व्याप्यादीन् पूर्ववत्सम्यक् तन्मन्त्रेणैव कारयेत्।
बुधान्तर्यामिणं देवं मत्स्यरूपहरिं विभुम् ॥
शङ्खचक्रधरं सौम्यं भजे बेदान्तवेदितम्।
बृहस्पतिमन्त्रः
बृहस्पते अतियदर्यो अर्हाद्द्युमद्विभाति तनुमज्जनेषु।
यद्दीदयच्छवसर्तप्रजात तदस्भासु द्रविणं देहि चित्रम् ॥ इतिबृहस्पतिमन्त्रः ॥
ऋषिश्शिवोऽस्य मन्त्रस्य छन्दस्त्रिष्टुप् तथाऽब्जज।
देवता च हयग्रीवो अं बीजं शक्ति अं तथा ॥
वं कीलकं ठं कवचं ऐेंअस्त्रं श्वेतवर्णकम्।
बृहस्पते अतियदर्य इति हृदये न्यसेत्।
अर्हाद्द्युमद्विभाति योगाद्यैश्शिरसि न्यसेत् ॥
तनुमज्जनेषु शिखायान्तु न्यसेद्बुधः।
यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविणं बाह्वोर्न्यसेत्।
द्रविणं देहि नेत्रयोः चित्रमस्त्रे न्यसेत्तथा ॥
व्याप्यं तद्व्यापकं चैव तन्मन्त्रेण न्यसेद्गुरुः।
शङ्खचक्रधरं देवं बृहस्पतिहृदि स्थितम्॥
हयग्रीवं विभुं सौम्यं भजे विद्याधिदैवतम्।** **
शुक्रमन्त्रः
शुक्रन्ते अन्यद्यजतन्ते अन्यत्
विषुरूपे अहनी द्यौरिवासि।
विश्वाहि माया अवसि स्वधा वो
भद्रा ते पूषन्निह रातिरस्तु॥इति॥
ऋषिर्गौतम इत्युक्तो छन्दस्त्रिष्टुप् प्रजापते।
देवता वामनः प्रोक्तो शुं बीजं शक्तिः इं तथा॥
यं कीलकं यं कवचं यं अस्त्रं श्यामवर्णकम्।
शुक्रन्ते अन्यद्धृदये न्यासमाचरेत्॥
यजतं ते अन्यत् शिरसि ज्ञानादिभेदतः॥
विषुरूपे अहनी द्यौरिवासि शिखायां विन्यसेत्ततः।
विश्वा हि माया अवसि स्वधा वो बाह्वोर्न्यासं समाचरेत्॥
भद्रा ते पूषन्नेत्रयोरिह रातिरस्तु अस्त्रं विन्यसेत्।
व्याप्यं तद्व्यापकं चैव तन्मन्त्रेणैव कारयेत्॥
शुक्रान्तर्यामिणं देवं सृष्टिस्थित्यन्तकारिणम्।
सर्वमोहकरं धीरं वामनं सततं भजे॥
शनिमन्त्रः
शं नो देवीरभिष्टय आपो भवन्तु पीतये।
शंयोरभिस्रवन्तु नः। इति शनिमन्त्रः॥
ऋषिर्धातास्य मन्त्रस्य पङ्क्तिश्छन्दस्तथैव च।
पातालनृहरिर्देवो शं बीजं शक्ति नं तथा॥
वं कीलकं लं कवचं यं अस्त्रं श्यामवर्णकम्।
शं नो देवीरभिष्टयेति ज्ञानाद्यैर्हृदि विन्यसेत्॥
आपो भवन्तु पीतयेति शिरसि न्यस्य मन्त्रवित्।
शंयोरभि स्रवन्तु नेति शिखायां विन्यसेद्गुरुः॥
एतत्पदत्रयेणैव बाहुनेत्रास्त्रकं न्यसेत्।
व्याप्यादीन्पूर्ववन्न्यस्य घ्यायन् सम्यक् चतुर्मुख॥
अष्टचक्रधरं देवं विभुं शनिहृदि स्थितम्।
नीलाभरणभूषाङ्गं पातालनुहरिं भजे॥
राहुमन्त्रः
कयानश्चित्र आभुवदूती सदावृधस्सखा।
कया शचिष्ठया वृता॥इति॥
ऋषिः रुद्रोऽस्य यन्त्रस्य छन्दस्त्रिष्टुप् तथाऽब्जज।
परशुरामो देवता च अं बीजं शक्तिः औं तथा॥
अं कीलकं लं कवचं यं अस्त्रं रक्तवर्णकम्।
कयानश्चित्र आभुवत् ज्ञानाद्यैर्हृदि विन्यसेत्॥
ऊतीसदावृधस्सखा शिरसि न्यासमाचरेत्।
कया शचिष्ठया वृता इति शिखायान्तु विन्यसेत्॥
एतत्पदत्रयेणैवं बाहुनेत्रास्त्रकं न्यसेत्।
व्याप्यं तद्व्यापकं चैव तन्मन्त्रेणैव कारयेत्॥
रक्तवर्णमुदाराङ्गं रक्ताभरणभूषितम्।
भजे परशुरामं तं सर्वशत्रुविदारणम्॥
केतुमन्त्रः
केतुं कृण्वन्न केतवे पेशो मर्या अपेशसे।
समुषद्भिरजायथा इति॥इति॥
केतुं कृण्वन्न केतवे इतिज्ञानाद्यैर्हृदि विन्यसेत्।
पेशो मर्या अपेशसेति शिरसि न्यसेत्॥
समुषद्भिः शिखायान्तु बाह्वोस्तद्वदजायथाः।
केतुं कृण्वन्न केतवे पेशसेति नेत्रयोर्न्यसेत्॥
समुषद्भिरजायथा इति अस्त्रे स योजयेत्।
व्याप्यादीन्पूर्ववन्न्यस्य कुर्यान्मण्डलभेदतः॥
कार्तवीर्यमन्त्रः
कार्तवीर्यं महाकायं कालानलसमप्रभम्।
भजे सर्वहरं क्रर सर्वदुःखहरं प्रभुम्॥
ऋषिः शिवोऽस्य मन्त्रस्य छन्दस्त्रिष्टुप् तथैव च।
देवता कार्तवीर्यश्च रं बीजं शक्तिरं तथा॥
यं कीलकं यं कवचं रं अस्त्रं श्यामवर्णकम्।
कुर्यात् षडङ्गं सन्मन्त्री ऋष्यादिन्यासपूर्वकम्॥
ग्रहवक्रे महोत्पात क्षुद्ररोगाद्युपद्रवे।
नवग्रहस्य पूजां च शुचिविप्राः सवैष्णवाः॥
भूवराहस्य मन्त्रेण सहैव जपपूर्वकम्।
कुर्युः तत्फलसिद्ध्यर्थं होमाद्यैस्तच्चतुर्मुख॥
इति शेषसंहितायां चत्वारिंशोऽध्यायः