३९

भूवराहाङ्गमन्त्रः

शेषः—

भूवराहस्य मन्त्रस्य अङ्गमन्त्रान् व्रवीम्यहम्।
अष्टैश्वर्यादिराज्यादिसमस्तफलदायकान् ॥

ह्रीं श्रीं हिरण्यवर्णायै नमोन्तं मनुमुद्धरेत्।
ऋषिर्ब्रह्मास्य मन्त्रस्य छन्दो गायत्रमुच्यते ॥

देवता श्रीर्महालक्ष्मीः ह्रीं शक्तिः श्राबीजमुच्यते।
क्लीं कीलकं ऐं कवचं सों अस्रं रक्तवर्णकम् ॥

श्रीबीजेन करन्यासं कुर्यात्पूर्वं चतुर्मुख।
तन्मन्त्रं तु द्विरावर्त्य षडङ्गं कारयेद्बुधः ॥

व्याप्यं तद्व्यापकं चैव तन्मन्त्रेणैव कारयेत्।
पौरश्चरणहोमादीन् श्रीबीजोक्तवदाचरेत् ॥

श्रीं ह्रीं पदमुच्चार्य हिरष्यै नम इत्यपि।
मनुरेतत्तथा ब्रह्मन् सर्वसिद्धिप्रदायकः ॥

ऐंह्रीं पदमुद्धार्य मनुं पूर्ववदब्जज।

सुवर्णरजतस्रजां स्वाहान्तं स्यान्महत्तरम् ॥

ह्रीं श्रीं पदमुच्चार्य चन्द्रायै नम उच्चरेत्।
न्यासध्यानादिकं सर्वं भूबीजवदपि स्मृतः ॥

श्रींह्रींपदमुद्धार्य चन्द्रायै नम इत्यपि।
मनुं पूर्ववदुद्धार्य जपेदैश्वर्यसिद्धये ॥

ह्रीं श्रीं क्लीं उद्धार्य तद्वदेव हिरण्मये।
हुंफट् स्वाहामनुस्स स्यात् सर्वसंहारकारकः ॥

श्रींह्रीं उद्धार्य लक्ष्म्यै च नमोन्तं पूर्ववन्मनुम्।
ह्रीं श्रीं क्लीं ऐं लक्ष्म्यै स्वाहा मनुस्स्यात्सर्वदायकः ॥

श्रींह्रींमनपगामिन्यै स्वाहा स्यात् पूर्ववन्मनुः।
श्रीं ह्रीं क्लीं अश्वपूर्वायै हुं फट् स्वाहामनुस्तथा ॥

ह्रीं श्रीं ऐं रथमध्यायै मनुस्स्वाहाऽथ पूर्ववत्।
श्रीं ह्रीं ऐं क्लीं प्रबोधिन्यै मनुस्स्यात्पूर्ववत्ततः ॥

ह्रीं क्लीं ए श्रीं श्रियै स्वाहा मनुः पूर्ववदब्जज।
क्लींह्रीं ऐं श्रीं तथा देव्यै मनुस्सर्वः नमोऽन्तकः ॥

ऐं क्लीं ह्रीं श्रीं जुषतायै पूर्ववदब्जज।
श्रीं ह्रीं क्लीं कां सोस्मितायै हुंफट्स्वाहाथ पूर्ववत् ॥

ह्रीं हिरण्यप्राकारायै नमस्स्यात्पूर्ववन्मनुः।
ऐं श्रींह्रीमार्द्रीयै स्वाहा मनुर्मोहप्रदायकः ॥

ह्रीं ज्वलन्त्यै हुंफट्स्वाहा मनुस्संहारकारकः।
श्रीं बं यमथ तृप्तायै स्वाहामनुस्स्याद्रोगनाशनः॥

श्रीं ह्रीं तर्पयन्त्ये स्वाहा मनुस्यात् पुष्टिवर्धनः।

ह्रीं पद्मेस्थितायै नमः पूर्ववन्मनुरुत्तमः ॥

ह्रीं पद्मवर्णायै स्वाहा स्यात्पूर्वत्तथा।
ह्रीं डं वं चन्द्रायै स्वाहा मनुस्स्यात् पुष्टिवर्धनः ॥

श्रीं देवजुष्टायै स्वाहा मनुस्यादुत्तमः तथा।
श्रीं ह्रीं उदाराङ्गायै नमः पूर्ववन्मनुरुत्तमः ॥

श्रीं ह्रीं आदित्यवर्णायै मनुस्स्वाहाथ पूर्ववत्।
श्रीं ह्रीं ऐं गन्धद्वारायै स्वाहा स्यात्पूर्ववन्मनुः ॥

श्रीं ह्रीं दुराधर्षायै नमः पूर्ववन्मनुरुत्तमः।
ह्रीं बं मं वं नित्यपुष्टायै स्वाहा सर्वार्थदायकः ॥

श्रीं ह्रीं कर्षिण्यै पूर्ववन्मनुरब्जज।
श्रीं ह्रीं पुष्करिण्यै स्वाहा मनुस्सर्वार्थदायकः ॥

श्रीं ह्रीं ऐं ष्ट्रां क्ष्रीं क्ष्रौंयष्ट्ये नमो मनुरिहोत्तमः।
श्रीं ह्रीं पिङ्गलायै स्वाहा मनुः जयात्मकस्तथा ॥

श्रीं ह्रीं पद्ममालिन्यै स्वाहा मनुः स्याहुत्तमोत्तमः।
क्ष्रूंपद्मप्रियायै नमः पूर्ववन्मनुरुत्तमः ॥

श्रीं ह्रीं ष्रांक्लीं पद्मिन्यै नमः पूर्ववदब्जज।
ह्रीं पद्महस्तायै स्वाहा मनुस्यादुत्तमोत्तमः ॥

क्ष्रौंपद्मालयायै नमः पूर्ववन्मनुरुत्तमः।
क्ष्रींपद्मदलायताक्ष्यै स्वाहा मनुरुत्तमः ॥

श्रीं ह्रीं विश्वप्रियायै नमः पूर्ववदब्जज।
क्ष्मीं विष्णुमनोनुकूलायै स्वाहा मनुरुत्तमः ॥

श्रीं ह्रीमथ महादेव्यै स्वाहा स्यान्मनुरुत्तमः।
श्रीं ह्रीं ऐं ह्रीं विष्णुपत्न्यै नमस्स्यादुत्तमोत्तमः ॥

तद्विष्ण्वाद्यङ्गमन्त्राणां अङ्गान्येवं तथाऽब्जज।
होमकाले विशेषेण योजयेन्मन्त्रसिद्धये ॥

एतल्लक्ष्म्यादिमन्त्राणां सर्वं श्रीसूक्तवद्भवेत्।
एवं कर्मविजानीयात् ततः कर्माणि योजयेत् ॥

इति शेषसंहितायां एकोनचत्वारिंशोध्यायः.