भूवराहमन्त्रः
शेषः—
भूवराहं तथा वक्ष्ये यन्त्रतत्रादिसंयुतम्।
न्यासध्यानादिकं सर्वं सम्यक् तद्वद्यथातथम् ॥
ओन्नमो भगवते चैव वराहरूपायेति च।
भूर्भुवस्स्वः पतये भूपतित्वं मे देहीति च ॥
ददापय स्वाहेति च हुंकारादि चतुर्मुख।
मनु तद्वराहस्य सर्वराज्यप्रदायकः ॥
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते।
देवता भूवराहश्च ओं बीजं शक्तिः श्रीं तथा ॥
ह्रीं कीलकं ऐं कवचं क्लीं अस्त्रं श्वेतवर्णकम्।
वराहैकाक्षरेणैव करन्यासं समाचरेत्॥
ओंनमोभगवतेत्युक्ता प्रथमं हृदये न्यसेत्।
वराहरूपाय तथा तद्वन्मूर्ध्नि क्रमेण च ॥
भूर्भुवस्स्वः पतये भूपतित्वं क्रमण तु।
मे देहीति तथा ब्रह्मन् ददापय स्वाहेति च ॥
षड्वाक्यैस्तु षडङ्गन्तु कुर्यात्तद्योगपल्लवैः।
व्याप्यं तद्व्यापकं चैव तन्मन्त्रेणैव कारयेत् ॥
चातुरङ्गविधानेन जपेल्लक्षं सुमन्त्रवित्।
जपहोमादिकं सर्वं यन्त्रहीनस्य नश्यति ॥
भूवराहयन्त्रः.
तद्यन्त्रंतु तथा वक्ष्ये राज्यदेशादिकांक्षिणाम्।
षट्कोणं चक्रमालिख्य सर्वमन्त्रविशारदः॥
हुंकारन्तु लिखेन्मध्ये कर्मसाध्यसमन्वितम्।
वराहाय स्वाहेति तत्कोणेषु विलिखेत् क्रमात् ॥
ओन्नमो विष्णव इति तत्सन्धौ विलिखेच्छुचिः।
मायाबीजेन संवेष्ट्य बहिरष्टदलं लिखेत् ॥
यज्ञवराहाय हुंफट् तद्दलेषु लिखेद्बहिः।
ओं जयजय नृसिंहं तत् सन्धौ सम्यगालिखेत् ॥
मायाबीजेन संवेष्ट्य बहिरष्टद्लेषु च।
श्रीबीजेन सुसंवेष्ट्य तद्बहिः सिद्धमन्त्रकः ॥
विलिखेद्द्वादशदलं दलेषु विलिखेद्गुरुः।
ओन्नमो भगवते चैव वासुदेवाय उद्धरेत् ॥
तत्सन्धौ किमभूत्तद्वत् जानकीवल्लभाय च।
स्वाहामनुं लिखेद्ब्रह्मन् तद्बहिः षोडशं दलम् ॥
लिखेत्सर्वान् तद्दलेषु नीलाबीजेन वेष्टयेत्।
तद्बहिर्विलिखेन्मन्त्री चतुर्विशद्दलान् क्रमात् ॥
दलेषु मन्त्रभेदज्ञो भूवराहं लिखेत्क्रमात्।
तद्बहिर्व्यञ्जनानि स्युः मान्मथेनैव वेष्टयेत् ॥
हंसहंसेति साध्यन्तु रक्षरक्षेतिसंयुतम्।
परितो विलिखेन्मन्त्री प्रणवेन तु वेष्टयेत् ॥
पाशाङ्कुशेन संवेष्ट्य दिक्षु चेन्द्रादिकं लिखेत्।
एतद्यन्त्रं लिखेद्ब्रह्मन् राज्यदेशादिसिद्धये ॥
प्राणप्रतिष्ठां तन्त्राद्यैः मन्त्रविद्विधिना तथा ॥
इति शेषसंहितायां अष्टत्रिशोध्यायः