गायत्र्यङ्गाङ्गम् .
शेषः—
सम्यग्वक्ष्येऽथ गायत्रेरङ्गाङ्गादिमनुं तथा।
गायत्रीमन्त्रसिद्ध्यर्थं मोक्षज्ञानात्मशुद्धये ॥
ओमित्येकाक्षरं ब्रह्मादिसायुज्यादिविनियोगान्तं जपादावुच्चरेत्ततः।
आयातु वरदादेव्यादि बलमावाह्य गायत्र्यादौ जपेत्ततः ॥
गायत्री सावित्री सरस्वती छन्दर्षिस्तथा।
श्रियं बलमिति ज्ञात्वा षावाहं क्रमात् स्मरेत् ॥
ऋषिन्यासं ततः कुर्यात् षडङ्गन्तु ततः परम्।
प्राणायामं ततो ध्यानं पूर्वोक्तक्रमयोगतः ॥
यथाविधि जपं चाथ कृत्वा न्यासं पुनस्तथा।
मित्रस्यादि ततस्तिष्ठन् अन्तितो न दूरान्तं सूर्यं दृष्ट्वा जपेत्ततः ॥
संध्यायै नम इत्युक्त्वासावित्र्यै नम इत्यपि।
गायत्र्यै नम इत्युक्त्वासरस्वत्यै नमस्तथा ॥
गुरुभ्यो नम इत्युक्त्वापितृभ्यो नम इत्यपि।
कामोऽकार्षीन्मन्युरकार्षीन्नमो नमो नम इति ॥
मुक्तेभ्यो नम इत्युक्ता नित्येभ्यो नम इत्यपि।
श्रीमन्नारायणायेति नमोन्तन्तु वदेद्बुधः॥
ध्येयस्सदेति पूर्वोक्तध्यानं कुर्याद्धरिंस्मरन्।
अभिवन्दनकं कार्यं स्वगोत्रप्रवरान्वितम् ॥
तद्वन्मध्याह्नसंध्यायां जपान्ते सन्मुसुक्षुभिः।
उपस्थाने तु भेदोऽस्ति तद्भेदः चोच्यते मया ॥
आसत्येन रजसा सूर्यो विपश्चिन्मनसा पुनात्वित्यन्तं जपेत्तथा।
सायंकाल उपस्थाने इमम्मे वरुणेत्यादि आयुः प्रमोषीरित्यन्तं पूर्ववज्जपेत् ॥
नमस्कारादिकं सर्वं प्रातःकालवदाचरेत्।
प्रातः काले प्राङ्मुखस्स्यात् अन्ते पश्चिमतो मुखः ॥
ध्यात्वैवमथ गायत्रीं मुमुक्षुः सततं जपेत्।
अन्यथा ये करिष्यन्ति ते यान्ति नरकं ध्रुवम् ॥
अयमेव मुमुक्षूणां परमैकान्तिनां विधिः।
तस्मात्सर्वप्रयत्नेन नित्यकर्म समाचरेत् ॥
कर्मादिब्रह्मयोगान्तं नित्यकर्म इति स्मृतम्।
शुद्धसत्वमिदं ब्रह्म गुह्याद्गुह्यतमं सदा ॥
इति शेषसंहितायां सप्तत्रिंशोध्यायः