गायत्र्यङ्गम्.
शेषः—
गायत्रेरङ्गमन्त्राणि वक्ष्ये सम्यग्यथातथम्।
न्यासध्यानादिसहितं गायत्रीमन्त्रसिद्धये ॥
अष्टाक्षरा गायत्रीति मनुमुपसंहारमन्त्रकम्।
ॐभूरिति प्रथमतः ओं भुवश्च ततः परम् ॥
ओं सुवश्च ततश्चैव ओं महश्च चतुर्मुख।
ओं जनश्च तथा सम्यक् र्ओ तपश्च ततः परम् ॥
आं सत्यं व्याहृतीस्सप्त गायत्रेः पूर्वमुच्चरेत्।
ओमापो ज्योतिरित्युक्त्वारसोऽमृतमनन्तरम् ॥
ब्रह्म भूर्भुवस्सुवरोमिति चापि ततः परम्।
प्राणायामे इदं कुर्यात् जपे तच्छीर्षकं विना ॥
ओंभूर्भुवस्सुवरिति गायत्रीं मूलविद्यया।
पदत्रयाङ्गमन्त्राणि वक्ष्ये सम्यग्यथाविधि॥
आसत्येन रजसाऽऽदि अगन्मज्योतिरुत्तमान्तं पूर्ववदङ्गमन्त्रकम्।
उदुत्यं जातवेदसादि सूर्य आत्मा जगतस्तस्थुषश्चान्तं द्विपदस्याङ्गमन्त्रकम्।
वेदाहमेतं पुरुषादि अयनाय विद्यतेत्यन्तं त्रिपदस्याङ्गमन्त्रकम् ॥
त्रिसन्ध्यायां जपान्तेतु अङ्गमन्त्रास्त्रयस्त्रयः।
गायत्र्या अङ्गमन्त्राणि जपेन्मोक्षार्थसिद्धये ॥
एतान्येवाङ्गमन्त्राणि सत्यमेव चतुर्मुख।
इति शेषसंहितायां षट्त्रिंशोध्यायः.