गायत्रीकल्पः.
शेषः—
अथ वक्ष्ये विधानेन गायत्रीकल्पमुत्तमम् ।
नित्यकर्मप्रकारेण प्रयोगाद्यादिकं विना ॥
अष्टाक्षरं च गायत्रीं मुमुक्षुर्न प्रयोजयेत् ।
प्रपत्तिस्तद्वदेव स्यात् सत्यमेव न संशयः ॥
शैवं पौराणिकं तन्त्रं पञ्चसंस्कारहीनकम् ।
द्विजश्रेष्ठः त्यजेद्ब्रह्मन् कर्म संसारकारकम्॥
नित्यनैमित्तिकोक्तेन पञ्चरात्रेण कारयेत्।
यावज्जीवं द्विजश्रेष्ठः कुर्यात्सन्ध्यादिकं सदा ॥
चतुर्विशत्यक्षरा गायत्री सम्यगब्जज।
प्रणवं पूर्वमुद्धृत्य तद्वत्तत्सवितुस्तथा ॥
वरेण्यं सम्यगुद्धृत्य भर्गो देवस्य धीमहि।
धियो यो नस्समुद्धृत्य तद्वत्सम्यक्प्रचोदयात् ॥
ॐ भूर्भुवस्स्वरित्यादौ योज्यं स्यान्मूलविद्यया।
तदङ्गं मन्त्रसंयुक्तं गायत्रीं च जपेद्द्विजः ॥
त्रिसन्ध्यायां हरिं ध्यायन् धर्ममोक्षार्थसिद्धये।
प्राणायामविधानेन शोषणाद्यादिपूर्वकम् ॥
वाय्वग्र्यमृतबीजैश्च शोषणादिकमाचरेत्।
पश्चाद्विद्वान् द्विजश्रेष्ठः प्राणायामन्तु मन्त्रवित् ॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह।
त्रिः पठेदायतप्राणः प्राणायामस्स उच्यते ॥
प्रणवन्यासकं पूर्वे कुर्याद्गायत्रमेव च।
गायत्र्याश्च ऋषिस्सम्यक् ब्रह्म तद्वत्सदा भवेत् ॥
गायत्री छन्द इत्युक्तो देवता विष्णुरुच्यते।
नीं बीजं तु च श्रीं शक्तिः कीलकं ह्रीं तथाऽब्जज ॥
कवचं ऐं च रं शस्त्रं वर्णं हैरण्मयं स्मरेत्।
प्रणवेन षडङ्गं तु करन्यासं समाचरेत् ॥
पदत्रयं द्विरुच्चार्य षडङ्कं कारयेद्बुधः।
व्याप्यं तद्व्यापकं चैव तन्मन्त्रेणैव कारयेत् ॥
एतदेव प्रकुर्वीत नित्यं कर्म चतुर्मुख।
अन्यत् न्यसादिकं सर्वं प्रयोगादौ न्यसेद्बुधः ॥
ध्यानम्—
ध्येयस्सदा सवितृमण्डलमध्यवर्ती
नारायणस्सरसिजासनसन्निविष्टः।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥
ध्यानं कृत्वा नमस्कुर्यात् स्वगोत्रप्रवरान्वितम्।
ब्रह्मयज्ञादिकं पश्चात् पञ्चकालविधानतः ॥
तत्तदाश्रमभेदेन नित्यनैमित्तिकं चरेत्।
गायत्रीयन्त्रम्.
गायत्रीयन्त्ररूपं च वक्ष्ये तन्मन्त्रसिद्धये ॥
लिखेदष्टदलं पद्मं तन्मध्ये प्रणवं लिखेत्।
श्रीं मायां च तथा नीलां नृसिंहं परितो लिखेत् ॥
दलेषु विलिखेन्मूलं लिखेत्सन्धौ नृसिंहकम्।
श्रीबीजेन सुसंवेष्ट्य तद्बहिर्विलिखेद्बुधः॥
चतुर्विंशद्दलानि स्युः गायत्रीं तद्दलेषु च।
सन्धौ तु चक्रगायत्रीं वेष्टयेन्मायया लिखेत् ॥
तद्बहिः पौरुषं सूक्तं श्रीभूसूक्ते तथाऽब्जज।
क्रमेण विलिखेन्मन्त्री तद्बहिः परितो लिखेत् ॥
ककारादिक्षकारान्तं हंसहंसेत्यनन्तरम् ॥
रक्ष रक्षेति संयोज्य साध्यं कर्म सदर्हितम्।
विलिखेस्तद्बहिस्तद्वत् माययाऽऽवेष्टयेद्बहिः ॥
पाशाङ्कुशेन संवेष्ट्य इन्द्रादीन्विलिखेद्बुधः।
लिखेद्यन्त्रवरं घीमान् धर्ममोक्षार्थसिद्धये ॥
गायत्री पौरुषं सूक्तं एकमेव सुनिश्चयः।
अर्थेक्यं देवतैक्यं च सत्यमेव न संशयः ॥
नित्यनैमित्तिके चैव प्रायश्चित्तादिकर्मसु।
धर्मकामार्थमोक्षेषु गयत्रीं तच्च सूक्तकम् ॥
मूलमन्त्रं मन्त्ररत्नं नारसिंहं सुदर्शनम्।
रामं कृष्णं वराहं च तर्कयेद्विधिनाब्जज ॥
**इति शेषसंहितायां पञ्चत्रिंशोध्यायः.