३४

मन्त्र प्रयोगः

शेषः—

मूलादिसर्वमन्त्राणां प्रयोगो वक्ष्यतेऽधुना।
षट्कर्मफलसिद्ध्यर्थ मोक्षज्ञानात्मशुद्धिदाः ॥

मूलमन्त्रद्वयं तद्वत् सुदर्शननृकेसरिम्।

सौदर्शनहयग्रीवं श्रीभूनीलान् चतुर्मुख।
वराहं नारसिंहं च रामं कृष्णं तु गारुडम्।
विष्णुमन्त्रं वासुदेवं गायत्रीं पुरुषसूक्तकम् ॥

एते सर्वे महामन्त्राः प्रभोगफलदायकाः।
दुर्गां भद्रां च सन्मन्त्री विष्णुक्रान्तं तिलाक्षतान् ॥

बिल्वपत्रं श्वेतपद्मं अपामार्गं मधुत्रयम्।
शतपत्रं कुङ्कुमं च दूर्वांतु करवीरकम् ॥

आयुः श्रीराज्यलाभार्थी सह योज्य हुनेद्बधः।
पुष्ट्यर्थे जुहुयान्मन्त्री गोधूमतिलगोघृतम् ॥

शतपत्रं कुमुदं च भवनाभिनवाद्भवेत्।
यशस्कामी यजेद्विद्वान् केसरस्य प्रसूनकैः ॥

चणप्रसूनात् कमलात् धनकामी यजेत्तथा।
जुहुयात्सर्वसिद्ध्यर्थे गोघृतेन तिलान् कुशान् ॥

अन्नकामी यजेद्धान्यानाज्येनान्नेन मन्त्रवित्।
फलान् सर्वान् पङ्कजांश्च बिल्वामलकपाटलान् ॥

लक्ष्मीलाभविचारज्ञो जुहुयन्निश्चयं भवेत्।
रणे मोक्षे यजेन्मन्त्री तिलहोमं घृतेन च॥
अपामार्गतिलान् पद्मान् दधिक्षीराज्यसंयुतम्।
तुष्टिपुष्टिसुखारोग्यं लक्ष्मीलाभमकृत्रिमम् ॥

पूर्वोक्तहवनात्सर्वं लभते तु त्रिपूरुषम्।
चन्दनागरुकर्पूरघृतपङ्कजदूर्वकान् ॥

सदैश्वर्यायुरारोग्ये यजेन्मण्डलभेदतः।

महतीं श्रियमाप्नोति रक्ताम्बुजतिलाक्षतैः ॥

राज्यार्थी चक्रमन्त्रेण सितपद्मान्यजेत्तिलान् ।
अश्वत्थब्रह्मपालाशानाज्येनैव च खादिरान् ॥

शत्रुक्षये तु भूलाभे यजेन्मन्त्रविदब्जज ।
ज्ञानार्थी जुहुयान्मन्त्री ब्रह्मशुष्ककुशाक्षतान् ॥

यजेदौदुम्बरं चार्थे श्रीकामो बिल्वमेव च ।
कन्यार्थी जुहुयाल्लाजान् वश्यार्थी जातिपुष्पकान् ॥

सर्वसिद्धावपामार्गं महाशान्तौ तु पङ्कजान् ।
घृत शर्करसंयुक्तं अगुरुं गुग्गुलं तथा ॥

अयुतं जुहुयान्मन्त्री सर्वसिद्धिर्भविष्यति ।
वृष्टिकामो यजेन्मन्त्री वैतसान् किंशुकांस्तथा ॥

तत्तत्कर्मसु तद्द्रव्यैर्यजेदयुतसङ्ख्यया ।
होमेन सर्वं लभते सत्यमेव चतुर्मुख ॥

इति शेषसंहितायां चतुस्त्रिंशोध्यायः.