३३

व्याधिशान्तिः.

शेषः—

सुदर्शननृसिंहस्य भजनाल्लभ्यते सदा।
आयुरारोग्यविजयं राज्यश्रीवर्धनं तथा ॥

सर्वव्याधिविनाशं च देहान्ते मोक्षमुत्तमम्।
महापातकयुक्तानां सर्वेषां च चतुर्मुख ॥

भवसागरमग्नानां तत्पापफलभोगिनाम्।
औषधं मूलमेव स्यात् वैद्यो नारायणो हरिः॥

अष्टाङ्गयोगयुक्तानां मन्त्रमेव विधीयते।
संसारयोगयुक्तानां मणिमन्त्रौषधादिकम् ॥

दानहोमादिकं सर्वं कल्पयेद्विधिनाऽब्जज।
आयुर्वेदप्रकारेण तदाचार्येण कारयेत् ॥

सर्वौषधानि मूलानि शास्त्रज्ञानार्थपूर्वकम्।
दरिद्रश्रोत्रियेभ्यो वै कुर्याद्दानं महत्तरम् ॥

उपोद्यानादिकं कुर्यात् अग्रहारादिकं तथा।
महारोगादिकं सर्वं तस्य शाम्यति निश्चयात् ॥

मन्त्रैरङ्गैर्जपं कुर्यात् मन्त्राचार्येण धीमता।
मन्त्रशीलेन कर्तव्यं यन्त्रोद्धरणमुत्तमम् ॥

तस्य मृत्युभयं नास्ति सद्यशन्तिर्भविष्यति।
होमेन कर्मभिः कुर्यात् समिदाज्यादिभेदतः ॥

सर्वग्रहविनाशः स्यात् होमेन तिलशर्करैः।
अपामार्गैस्तथा कुर्यात् सहस्रं वाऽयुतं तु वा ॥

शर्कराघृतसंमिश्रं गुग्गुलं अगुरुं तथा।
महाशान्तिर्भवेत्पद्महोमैस्सर्वं वशं नयेत् ॥

सर्वार्थं जुहुयान्मन्त्री अपामार्गं घृताक्तकम्।
क्षीरेण घृतसंयुक्त चूर्णैः होमेन मन्त्रवित् ॥

अन्तर्बहिः कपालादिमसूरी नश्यति ध्रुवम्।
दन्तरोगस्य शान्त्यर्थं नालिकेरतिलैर्यजेत् ॥

सर्वप्रमेहशान्त्यर्थं अयुतं जुहुयाद्बुधः।
जटामांसी हरिद्रा च शतावरि घृताक्तकम् ॥

श्वदष्टे मूत्रकृच्छ्रे च अश्विनीकुण्डलीघृतम्।
अपामार्गतिलांस्तद्वत् गोघृतेनाक्तकं हुनेत् ॥

अष्टादशादिकुष्ठानां सर्षपं तिलसंयुतम्।
हरिद्रागुडसंयुक्तं करवीरं घृताक्तकम् ॥

अङ्कोलतिलतैलेन हुनेत्तदयुतार्थकम्।
यजेज्ज्वरे रक्तपित्ते आज्यावतिलान् कुशान् ॥

कण्ठरोगे त्रिशूले च यजेल्लवणसंयुयतम्।
नासातुलसिसंयुक्तं अपामार्गार्कसंयुतम् ॥

तिन्त्रिणीपुष्पदूर्वांश्च तिलव्रीहियवांस्तथा।
महास्फोटे विसर्पे च महाग्रन्ध्येच विद्रवे ॥

पुनर्नविसुगन्धी च अश्वगन्धि मधुत्रयम्।
क्षीराणि जुहुयान्मन्त्री तिलचन्दनकुङ्कुमम्।
कर्णरोगे यजेन्मन्त्रीचन्दनागरुसंयुतम् ॥

कर्पूरतिलगोक्षीरसंयुतं घृतसंयुतम्।
खासश्वासे ज्वरे चैव कुण्डलीपुत्रहोमकम्॥

तिलतण्डुलमध्वक्तं गोक्षीरतिलकं यजेत्।
पुनर्नवी वज्रवल्ली भृङ्गी लवणसंयुतम् ॥

अर्कं च तिलतैलेन महोदरनिवारणम्।
अपामार्गार्कपत्रेण गुल्मशूले यजेत्तथा ॥

राजयक्ष्मे यजेन्मन्त्री शर्करात्रिमधुर्गुडम्।
हरिद्रामलकं चूर्णं अपामार्गतिलाक्षतान् ॥

क्षये यजेद्वचामाषान् मधुत्रययुताक्षतान् !
अश्वगन्धकभूंल च पायसं तिलगुग्गुलम् ॥

निम्बपर्णामृता वल्ली अपामार्गं च शर्करा।
मधुत्रयं च गोक्षीरं पित्ते मन्त्री यजेद्बुधः ॥

श्रेष्ठरोगस्यैवमेव कुर्यादयुतसंख्यया।
अपामार्गं च निर्गुण्ढी तिलकं शुकसर्षपान् ॥

हरिद्वाचूर्णमेकं च यजेद्वाते कटुत्रयम्।

तर्पणं चायुतं कुर्यात् ज्वरे गोक्षीरचन्दनैः।
चन्दनागरुकर्पूरजलेन ध्यानभेदतः।
सर्वरोगविनाशार्थं मन्त्री स्पृष्ट्वाऽयुतं जपेत् ॥

दर्शान्ते यो यजेद्ध्यायन् अयतद्वयमादरात्।
चन्दनागरुकर्पूरपञ्चामृतसुकुम्भकैः ॥

पुष्पाद्यैरर्च्य विन्यस्य प्रतिमावस्त्रसंयुतम्।
ज्वरशान्त्यै जपेन्मन्त्री अयुतं ध्यानभेदतः ॥

जलं स्पृष्ट्वाऽभिमन्त्र्याथ दद्यात्तज्ज्वरशान्तये।
आकण्ठान्तर्जले स्थित्वा जपेत्तज्ज्वरशान्तये ॥

अपामार्गं त्रिमध्वक्तं हुनेत्तज्जूरशान्तये।
अज्ञातज्ञातरोगाणां त्रिमध्वक्तान्तिलाक्षलान् ॥

अपामार्गान् भद्रमुस्तान् पूर्वपायससंयुतम्।
नृसिंहरामचक्रादिमहामन्त्रैर्यजेद्बुधः ॥

मण्डलध्यानभेदज्ञः कुर्यादेतच्चतुर्मुंख।
धर्मकामादिकं मोक्षः सर्वं होमेन सिद्ध्यति ॥

इति शेषसंहितायां त्रयस्त्रिंशोध्यायः