पञ्चगव्याविधिः.
शेषः—
अथ वक्ष्यामि सर्वेषां शुभानां शोभनक्रियाम् ॥
पञ्चगव्यप्रतिष्ठायां श्रुतः पद्मासन स्वनः।
वृष्ट्यर्थं चाथ पुष्ट्यर्थं शान्तिकामो विशेतः ॥
श्रीकामो वाऽर्थकामो वा पुत्रकामो विशेषतः।
वाहननां विशेषे तु गवां नाशे कुलक्षये ॥
मधुसञ्चयने गेहे भित्तिभेदे तथैव च।
रक्तस्त्रीदर्शने चैव वन्यसत्वप्रवेशने ॥
खद्योते वा गृहे स्थानं प्रतिष्ठाविधिमाचरेत्।
मध्योद्भवं यशो मृत्युः कीर्तिधर्मसुखासुखे ॥
आयुरारोग्यमैश्वर्यं मधुदंशपिपीलिकाः।
एतेषां दोषनाशाय पञ्चगव्यं प्रतिष्ठितम् ॥
गायत्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम्।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥
शुक्रमसीति सर्पिः स्यात् देवस्यत्वा कुशोदकम्।
ताम्रवर्ण्यास्तु गोर्मूत्रं कृष्णाया गोमयं तथा ॥
श्वेताया गोः पयश्चैव चित्राया दधि चैव हि।
कपिलाया धृतं ग्राह्यं कुशतोयसमान्वतम् ॥
अढकार्धं तु गोमूत्रं तम्मादर्धं, तु गोमयम्।
तदर्धं तु पयश्चैव तस्मादर्थं तु वै दधि ॥
तदर्धं तु धृतं ग्राह्यं घृततुल्यं कुशोदकम्।
दण्डयेत्ससिधोऽग्रेण कृष्णायैतत्समर्पयेत् ॥
स्पृष्ट्वापुरुषसूक्तेन जपेत्तम्मिन् समाहितः।
देवताः संप्रवक्ष्यामि आनुपूर्वेण यस्य या ॥
वरुणो देवता मूत्रे गोमये हव्यवाहनः।
सोमः क्षीरे दघ्नि वायुः घृते रविरुदाहृतः ॥
आपो हि ष्ठेति चालोक्य उद्यम्य प्रणवेन तु।
एतेषामाढकं प्रोक्तं शान्तिदं पुष्टिदं भवेत् ॥
अलाभे सर्ववर्णानां ग्राह्यमेतच्छभं तु वै।
संयोगक्रम एतेषां मन्त्रैः शक्तिभिरञ्जसा ॥
शुचौ चात्र क्रमेणोक्तं न संयोजनयेच्छुचिः।
अशेषात् पर्वताच्चैव सितगोश्च विशेषतः॥
वेदिकायाश्च संग्राह्यं पञ्चमृत्स्नमिदं पुनः।
पद्मस्य कुमुदस्यैव रक्तकोत्पलकेतकान् ॥
तगरस्य तु मूलानि पत्रमेतत्प्रशस्यते।
इक्षुशालियवांश्चैव मुद्गमाषक एव च ॥
सिद्धार्थकतिलादीनि वन्यपुञ्जः प्रकीर्तितः।
बिल्वाम्रश्रीफलानान्तु मातुलङ्गफलादितः ॥
पञ्चपल्लवमाहृत्य शुभपल्लवसंयुतम्।
मुक्ता शोणमणी कृष्णा पद्मशैलप्रवालकम् ॥
मरतकैवैदूर्याद्यै रत्नाद्यैस्सह योजयेत्।
वास्तुमध्य शुचौ देशे स्वस्ति वाच्य शुमैर्द्विजैः ॥
अङ्गुष्ठं त्रिगुणीकृत्य तत्सूत्रैणैव ताडयेत्।
प्रसृतिद्विगुणं खात्वा खरं पूज्यं नचोक्ष्य च ॥
तस्य पश्चिमतः पद्मं धान्यतण्डुलशोभितम्।
तिलैरगरुपर्णैश्च कृत्वा शोभनमर्चयेत् ॥
त्रिविधैर्गन्धपुष्पाद्यैः पद्मकुण्डे समाहितः।
पद्मोपरि निधायैनं गव्यपूर्णघटं शुभम् ॥
पुण्याहं वाचयित्वाऽथ चक्रमन्त्रैश्च पूजयेत्।
सावित्र्याऽष्टशतं जप्त्वास्पृष्ट्वा कुम्भं समाहितः ॥
नारसिंहेन बीजेन प्रणवेन समर्चयेत्।
यतइन्द्रेति मन्त्रेण शतमष्टात्तरं जपेत् ॥
कयानश्चित्रया चैव पावमान्या त्वनुष्टुभा।
द्रविणोदा जपेत् बोधे कर्मलिङ्गार्चया सुधीः ॥
यथाविधि जपं कृत्वा प्रार्थयेद्देवमुत्तमम्।
एवं कृत्वा पञ्चगव्यं वास्तुमन्त्रेण शोभनम् ॥
आममृत्कलशे हृत्वा पद्मपत्रेण वेष्टयेत्।
सर्वरत्नैस्समं योज्य प्रणवेन निवेशयेत् ॥
मध्येऽवटस्य तत्कुम्भं परितः परिपूरयेत्।
पञ्चमृद्भिः शुभैर्धान्यैः पञ्चमूलैश्च मल्लवैः ॥
तत्संवेष्ट्य मृदा सद्यः स्वस्ति वाच्यं ततः परम्।
दैवज्ञं पूजयित्वा तु विद्वासं पूजयेत्ततः ॥
सुमुहूर्ते सुनक्षत्रे शुभयोगे विचक्षणः।
श्रीकामः पुष्टिकामश्च पुत्रकामश्च कारयेत् ॥
भानुवारे निशादौ तु शान्तिकर्म प्रयोजयेत्।
आत्मद्रोहे पितृद्रोहे गुरुद्रोहे तथैव च ॥
वाहनानां विनाशे च बन्धुनाशे तथैव च।
वंशनाशे च संप्राप्ते पुण्यमेतत्समारभेत् ॥
येन पुण्यं कृतं तेन सर्वसिद्धिर्महात्मना।
सर्वशान्तिमथासाद्य सर्वपुष्टिमवाप्नुयात्॥
आहवादौ नृपाणां तु कृतं येन नृपेण तु।
एतेनैव रिपुं जित्वा सर्वक्षोणीं समाप्नुयात् ॥
रक्तस्त्रीदर्शने गेहे वल्मीके वा गृहादिषु।
भित्तीनां दारणे दृष्टे गृहे मधु भवेद्यदि ॥
वन्यसत्त्वप्रवेशे च तथाऽशनिनिपातने।
एवमादिभिरन्यैश्च महोत्पातादिसंभवे ॥
अभिभूते गृहे श्येनैः कर्तव्यमिदमग्रजैः।
दीर्घतीव्रामयग्रस्तो यस्तु कुर्यात्स्वके गृहे ॥
स मुच्यते गृहे रोगैः दीर्घमायुश्च विन्दति।
अलाभे सर्ववर्णानां यथालाभमथाचरेत् ॥
इत्युक्तं चतुरास्येन पृष्टे नियमपूर्वकम्।
इक्षुशालियवमुद्गमाभाषकैः
पद्मशैलतिलमुख्यगव्यकैः।
पद्मपत्रनिहितं तु भक्षकैः
रागयोगनिहतं श्रियावहम् ॥
करणर्क्षमुहूर्तानां भुजङ्गानां समागमे।
नाशयोगं वदन्त्यन्ये करणर्क्षं शुभावहम् ॥
वारयोगेऽथवा कुर्यात् नित्ययोगे शुभं फलम्।
नरनक्षत्रयोगे च शुभे सिद्धिं विनाशयेत् ॥
दैवज्ञं पूजयित्वा तु ब्राह्मणान् पूजयेत्सुधीः।
अस्मिन् कृते शुभे पुण्ये कर्मणि प्रवरैः जनैः ॥
गृहाधीशेन वा नित्यं वस्तव्यं भूतिमिच्छता।
भोक्तव्यश्चाप्यधीतव्यः स्तोतव्यश्च दिनेदिने ॥
एतत्पुण्ये कृते येन तेन सिद्धिर्महात्मना।
प्राप्यन्ते सकलाः कामाः महालक्ष्मीश्च लभ्यते ॥
वर्षेवर्षे शुभे गेहे मन्दिरग्राममध्ययोः।
राजसन्निधिराष्ट्रे च कृते सर्वसमृद्धिदा ॥
गजाश्वागारमध्ये च महाद्रिषु महीपतेः।
कोणेषु च कृतं येन वर्षेवर्षे कुलीरगे ॥
नाभौ चाशेषनक्षत्रे मुहूर्ते नागराह्वये।
अमावास्यापरार्धे तु भान्ते लक्ष्मीस्सुभुज्यते ॥
एतत्पुण्यं गृहे कुर्यात् सर्वान्कामानवाप्नुयात्।
इति शेषसंहितायां द्वात्रिंशोध्यायः.