सुदर्शननृसिंहयन्त्रः.
शेषः—
शृणु वक्ष्यामि सर्वेषां अष्टैश्वर्यशुभावहम्।
सर्वग्रहविनाशं च सर्वापस्मारनाशनम् ॥
सर्वशक्तिकरं पुण्यं पुत्रपौत्रप्रवर्तनम्।
सर्वशत्रुविनाशं च सर्वघोरनिवारणम् ॥
क्षुद्रयन्त्रादितन्त्रादिपरविद्याविनाशनम्।
परसेनाविनाशं च स्वसेनारक्षणं तथा ॥
सुदर्शननृसिंहस्य यन्त्राद्यैर्विजयो भवेत्।
ग्रामे वा नगरे वापि पट्टणे वा विशेषतः ॥
देवालये गृहे सम्यक् कंपोत्पातादिदर्शने।
अपमृत्यौ सुसंप्राप्ते दुर्भिक्षे युद्धसङ्क्रमे ॥
विदिक्षु च चतुर्दिक्षु मन्त्रवित् सम्यगब्जज।
सुदर्शननृसिंहस्य यन्त्रमुद्धार्य देशिकः ॥
स्थापयेत्तच्चतुर्दिक्षु चातुरङ्गप्रयुक्तिभिः।
विदिक्षु स्थापयेत्तद्वत् नारसिंहसुदर्शनम् ॥
यन्त्रमुद्धार्यसन्मन्त्री जपशीलैस्सहाब्जज।
मिताहाररतैश्शान्तैः काम्यकर्मादिवर्जितैः ॥
जितेन्द्रियरतैश्शुद्धैः मितभाषारतैर्द्विजैः।
सदाचाररतैस्सम्यक् ऋत्विग्भिर्वैष्णवैरिदम् ॥
एतत्सर्वगुणोपेतऋत्विग्भिस्सह कारयेत्।
मन्त्रविद्विधिना ब्रह्मन् ऋषिगुर्वाज्ञया मम ॥
धर्मसंस्थापनार्थाय लोकसंरक्षणाय च।
धार्मिको वा नृपो वाऽथ धनाढ्यो वा सुमन्त्रवित् ॥
मन्त्री वाऽथ गृहस्थो वा यन्त्रस्थापनमाचरेत्।
ग्रामस्य मध्यमे सम्यक् मण्टपोक्तविधानतः ॥
मण्डपं कारयेन्मन्त्री तद्ग्रामे चाष्टदिक्षु च।
सर्वेषां हितकामानां चतुरश्रं प्रशस्यते ॥
योन्याकारं त्रिकोणञ्च धनुः कुण्डं तथैवच।
षडश्रं तु सुपञ्चाश्रं पद्माकारमतःपरम् ॥
अष्टाश्रं वर्तुलं चैव कुर्यात्कुण्डानि तत्क्रमात्।
इन्द्रादीशानपर्यन्तं दिग्भागं क्रमयैद्बुधः।
मण्डले मध्यमे देशे वेदिं कुर्याद्विधानतः ॥
त्रिमेखलानि सर्वाणि हस्तमात्रप्रमाणतः।
अष्टहस्तं ततष्टकं चतुष्कं हस्तमेव वा ॥
अरत्निकं स्थण्डिलं च कुण्डनिर्माणलक्षणम्।
अष्टहस्तात्परं नास्ति ह्रस्वं नास्तीत्यरत्निकात् ॥
यावत्प्रमाणकुण्डानि तावदायामविस्तृतम्।
निखातं च समं कुर्यात् गदाकारन्तु मेखलम्।
नाभिं न कारयेत्पझे योनिं योनौ न कारयेत्॥
इन्द्रादीशानपर्यन्तं तत्कुण्डानि यथाविधि।
कोटिलक्षायुतं चैव सहस्रं वा यथाविधि॥
यजमानबलं ज्ञात्वा मध्यमं वाऽथ कारयेत्।
नगरे कोटिहामं च पट्टणे लक्षहोमकम् ॥
देवालये तु ह्ययुतं ग्रामे साहस्रकं विधिः।
क्षुद्रग्रामे शतं कुर्यात् यजमानबलेन वा ॥
अग्नेश्च वर्णजिह्वादीन् ज्ञात्वा होमं समाचरेत्।
मण्डपे मध्यमे देशे वेदिकां कारयेद्बुधः ॥
मण्टपं वेदिकां सम्यक् गोमयेनोपलिप्य च।
प्राङ्मुखोदङ्मुखो भूत्वा आसीनस्सुसमाहितः ॥
अक्षतैस्सम्यगुच्चार्य कूर्माद्यासनमन्त्रकान्।
मन्त्री सदासने स्थित्वा प्रोक्षयेच्छुद्धवारिणा ॥
स्वगुरुं तद्गुरुं नत्वा गुरून् सर्वान् तथैव च।
पृथिव्ये नम इत्युक्तं गुरुवन्दनपूर्वकम् ॥
अतितिष्ठ महाकाय कल्पान्तदहनोपम।
श्रीनृसिंह नमस्तुभ्यं अनुज्ञां दातुमर्हसि ॥
ईशानदेशे संस्थाप्यः दुर्वासा नारदस्तथा।
मन्त्रं मन्त्रेश्वरं नत्वा ऋषिकल्पान् तथैव च ॥
स्थण्डिलं नवधान्यैश्च कुर्यादर्चां फलादिकैः।
षोडशाङ्गुलमानेन ताम्रयन्त्रं समुद्धरेत्।
पञ्चयन्त्राणि कुर्वीत नारसिंहसुदर्शनम्।
उपयन्त्राणि कुर्वीत नृसिंहैकाक्षरं शुचिः ॥
शुभनक्षत्रयोगादौ एकान्ते मण्डपे गुरुः।
पूर्वमुद्धार्य यन्त्राणि मन्त्रवित्साधकोत्तमः ॥
प्राणप्रतिष्ठां कुर्वीत यन्त्रस्योक्तविधानतः।
नवाहं वाऽथ सप्ताहं त्रिदिनं वा विशेषतः ॥
पूर्वादिमण्टपे स्थाप्य वेदिकोपरि मन्त्रवित्।
सम्यक् कुम्भानि संस्थाप्य कलशैर्नवसङ्ख्यया ॥
प्रथमं ग्राममध्ये तु पश्चात् ग्रामादिकं क्रमात्।
कुम्भस्योक्तविधानेन अन्नाद्यैः प्रतिमादिभिः॥
कुम्भानि स्थापयेत् पश्चात् यन्त्रान् संपूज्य मन्त्रवित्।
तत्तद्यन्त्रोक्तमार्गेण कुम्भमन्त्रैस्तथाब्जज ॥
षोडशैरुपचारैश्च कुम्भयन्त्राणि पूजयेत्।
ऋत्विजः कल्पयेन्मन्त्री षोडशाथ तदर्धकम् ॥
स्वयमेव प्रकुर्वीत सम्यक् साहस्रहोमकम्।
वेदपारायणैः स्तोत्रैः पुराणाद्यैश्च वैष्णवैः ॥
भाषागानैर्महावाद्यै रुपजप्यैस्सहाब्जज।
मध्यमं पूर्वमारभ्य पूर्वादौ क्रमशश्शुचिः ॥
आवाहनादिमन्त्रेण चक्रराजेन मन्त्रवित्।
क्षुद्रभूतग्रहव्याधीन् प्रेतादीन् ब्रह्मराक्षसान् ॥
महोत्पातादिकान् सम्यक् सर्वरोगं तथाह्यरीन्।
क्षुद्रशल्यादितन्त्रादीन् नालिकेरफलेषु च।
आवाह्य मन्त्रविद्ब्रह्मन् नालिकेरान् घटे क्षिपेत्।
तद्धटं तु महानद्यां समुद्रे व खनेद्बुधः ॥
मम नामेतिमन्त्रेण नारसिंहसुदर्शनैः।
रक्षोहणेति मन्त्रेण कृणुष्वेति च मन्त्रयेत् ॥
समुद्रं गच्छेति मन्त्रेण आयुषः प्राणसंयुतम्।
स्वसीमोल्लङ्घनं कृत्वा तद्धटै राहुमन्त्रकैः ॥
पश्चात् स्नानं प्रकुर्वीत मन्त्रविद्भिः द्विजैस्सह।
ऊर्ध्वपुण्ड्रादिकं धृत्वा मध्यमण्टपमाविशेत् ॥
परमन्त्रग्रासकेण चक्रराजेन चिन्तयेत्।
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा ॥
पूर्वादीशानपर्यन्तं एवं कुर्यास्सुमन्त्रवित्।
तदात्मरक्षां मत्रेण पूर्वोक्तेनैव कारयेत् ॥
तन्मण्डपेषु सन्मन्त्री तत्तद्यन्त्रोक्तमन्त्रकैः।
बिम्बे कुम्भे च यन्त्रे च षोडशैरुपचारकैः ॥
पूजयित्वा सहस्रारं ध्यानमण्डलभेदतः।
शान्तिकर्म करिष्येति पुरस्सङ्कल्प्य देशिकः॥
उपजप्यादिकं सम्यक् वेदादीन् कल्पयेद्गुरुः।
रामकृष्णवराहादीन् नारसिंहसुदर्शनौ॥
हनुमद्गरुडौ ब्रह्मन् उपजप्याः प्रकीर्तिताः।
विष्णुं नारायणं चैव वासुदेवं नवग्रहान् ॥
तद्वत्तु पौरुषं सूक्तं श्रीभूसूक्तं तथैव च।
नामत्रयं च गायत्रीं अङ्गमन्त्राणि कल्पयेत्।
सर्वेषां कल्पयेद्ब्रह्मन् कृष्णाजिनकुशासनम्।
आचार्यः प्रारभेत्पूर्वं पश्चादृत्विज एव च ॥
कर्मसाधनकालं यत् वाग्यतो नियतश्शुचिः।
तद्भावभावितो मन्त्री मुद्राबन्धञ्च कारयेत् ॥
चक्रमुद्रां च शङ्खं च पाशाङ्कुशमसिं गदाम्।
इषुमस्त्रं च योनिं च यावत्कर्मावसानकम् ॥
पुरस्तात्तन्त्रमारभ्य स्वसूत्रेणोक्तमार्गतः।
मन्त्रोक्तविधिना चैव वह्निसंस्कारमेव च ॥
न्यासं कृत्वा विधानेन पश्चाद्धोमं समाचरेत्।
जपतर्पणहोमं च पुष्पाञ्जलिसमं भवेत् ॥
तन्मण्टपसमीपेषु वैष्णवान् भोजयेद्दिजान्।
तिलमिश्रविचित्रान्नैः ग्रामस्थास्सम्यगब्जज ॥
उत्सवान्नन्तु भुञ्जीरन् अष्टदिक्षु वनेषु च।
प्रथमे बिल्वकाष्ठं स्यात् द्वितीये ब्रह्मवृक्षकभू ॥
अक्षकाष्ठं तृतीये च चतुर्थे खादिरं तथा।
अपामार्गं पञ्चमे तु षष्ठ्यां औदम्बरीं तथा ॥
शर्करातिलसंपिष्टैः नालिकेरैस्तु सप्तमे।
अष्टमे पायसं चैव मन्त्रवित् नवमे तिलैः ॥
सुदर्शननृसिंहस्य मन्त्रेणैव हुनेद्बुधः।
नारसिंहसुदर्शेन अङ्गमन्त्रैरुपाङ्गकैः ॥
प्रत्येकं जुहुयाद्ब्रह्मन् अष्टाविंशति संख्यया।
नवरत्नैर्हेमपुष्टे शुद्धपुष्टैस्समस्कैः।
उपमन्त्रैरङ्गमन्त्रैः यन्त्रं मन्त्रेण चार्चयत्।
पौष्टिकं पथमं प्रोक्तं पश्चाच्छान्तिकमेव च ॥
पायसान्नं गुडान्नं च मुद्गान्नं शुद्धमोदनम्।
दघिक्षीराज्यसम्पन्नं नानापूपफलान्वितम् ॥
नैवेद्यं चक्रराजम्य रक्षरक्षेत्यनन्तरम्।
तत्कर्मशान्तिकं कुर्यात् आचार्यश्च ममेति च॥
जपतर्पणहोमं च पृथक् पुष्पांजलिः पृथक्।
यन्त्रं यन्त्रं सहस्रं वा चातुरङ्गं चरेद्बुधः ॥
इत्येवं जपहोमैश्च तर्पणाचनभोजनैः।
सर्वपापविनिर्मुक्तः सर्वान् कामान् अवापुयात् ॥
सर्वरोगविनाशं च सर्वारोग्यशुभं भवेत्।
सर्वोत्पातादिनाशश्च सर्वं यत्रेण सिध्यति ॥
यन्त्रेणैव सुसिद्धिः स्यात् यन्त्ररूपमिदं जगत्।
सुदर्शननृसिंहस्य शान्तिहोमं च कारयेत् ॥
होमेन षट्कं लभते होमात् यत्सर्वमिच्छ तत्।
होमेनसर्वं लभते होमो लोकान् परान्नयेत् ॥
होमेन देवतातृप्तिः होमे सर्वं प्रतिष्ठितम्।
सर्वदेवमयो ह्यग्रिः अग्नेस्साहस्रमावृतम् ॥
सहस्रारो नेमिसंज्ञः प्रत्यक्षं श्रूयते श्रुतिः।
कर्मावसाने नैवेद्यं विष्णुभूतमनन्तरम् ॥
देवीनां परिवाराणां तत्तन्नामानि होमयेत्।
प्रधानाग्नौ हुनेद्विद्वान् एकैकं च पृथक् पृथक्।
भूतवैष्णवतृप्त्यर्थं बलिदानं दिने दिने॥
महालक्ष्मीबलिं चैव त्रिसन्ध्यं कारयेद्बुधः।
ओंनमो भगवते चैव विष्णुभूतमनन्तरम्॥
सुदर्शननृसिंहाय सर्वरक्षाकराय च।
परिवारपतेश्चैव देवस्य च बलिं ददौ॥
माषपायसकूश्माण्डदधिमध्वाज्यसंयुतम्।
फलमोदकसंयुक्तं बलिमन्त्रं वदेत्पुनः ॥
ओन्नमो भगवते विष्णुमहामायेति पदं वदेत्।
सर्वश्रीभूतशक्त्याधिपतये षट्कोणान्तरवर्तिने॥
सुदर्शननृसिंहाय ओन्नमो भगवते बलिं ददामि।
स्वाहान्तेन पुना रात्रौ बलीन् दद्यात् विचक्षणः ॥
उत्सवान्तदिने सम्यक् पञ्चगव्यविधानतः।
पञ्चगव्यप्रतिष्ठां च कुर्यात् सम्यक् सुमन्त्रवित्॥
तद्यन्त्रसंङ्ख्या चैव क्रमात् मृत्कलशेषु च।
तद्गव्यन्तु सुसम्पूज्य पञ्चगव्योक्तमार्गतः॥
यन्त्रेण कलशं ब्रह्मन् निखनेन्मन्त्रवित्तमः।
प्रथमं ग्राममध्ये तु पूर्वादिक्रमयोगतः ॥
तत्तद्यन्त्रोक्तमार्गेण निखनेन्मङ्गलादिभिः।
तद्गव्यशेषं सर्वेषां दद्यान्मन्त्रेण मन्त्रवित्॥
समाप्योत्तरकर्मादीन् षोडशैरुपचारकैः।
देवं सम्पूजयेत्पश्चात् देवमुद्वास्य कुम्भगम्॥
यन्त्रकर्ता शुचिर्भूत्वा प्राङ्मुखस्स्वसमीपके।
तस्य मङ्गलशब्दैश्च ब्राह्मणैः स्वस्तिवाचकैः ॥
आचार्यश्चक्रगायत्रीं स्मृत्वा मन्त्राभिषेचयेत्।
अन्यत्र वस्त्रैराच्छाद्य मन्त्रदानं तथा गुरुः ॥
तच्छेषेणच सन्मन्त्री सर्वेषां प्रोक्षणं तथा।
गृहदेवालयाद्यांश्च प्रोक्षणेषु विधीयते ॥
एतत्कर्मकृतेनैव सर्वसिद्धिमवाप्नुयात्।
गृहे देवालये ग्रामे पट्टणे राजमन्दिरे ॥
अगनेः पतने सद्यः एतत्कर्म समाचरेत्।
ब्रह्मविक्षत्रशूद्राणां तथादेशाधिवासिनाम् ॥
अपमृत्यौ सुसम्प्राप्ते महारोगादिसम्भवे।
चातुर्ग्रहादियोगादौ स्वनक्षत्रादिराशिषु ॥
सूर्यादिग्रहणे प्राप्ते संग्रामादेश्च सम्भवे।
स्वगृहे तु स्वदेहे वा वेतालाद्यादिसम्भवे ॥
एककुण्डविधानेन पूर्वोक्तैर्मन्त्रतन्त्रकैः।
एकयन्त्रविधानेन कुम्भं तद्वच्चतुर्मुख ॥
गुरुरेव प्रकुर्वीत मन्त्रतन्त्राद्रिसंयुतम्।
तन्नक्षत्रे समारभ्य कुर्यान्मण्डलमेव वा ॥
तदर्धं तु तदर्धं वा त्रिदिनं वा सुमन्त्रवित्।
पातकादौ दिनं तद्वत् तद्दिने ग्रहणादिषु ॥
उपद्रवादिकं ज्ञात्वा कुर्यादेतच्चतुर्मुख।
स्वगृहे स्वस्य वा तद्वत् महोत्पादिदर्शने ॥
वन्यसत्वप्रवेशे तु दुस्स्वप्नादिनिदर्शने।
पूर्वोक्तमेव तत्कुर्यात् जीवेद्यद्बुद्धिमांस्तथा ॥
सद्यः शान्तिं न कुर्याच्चेत् मृतत्वं तु स गच्छति।
पुत्रपौत्रादिकं वापि तस्य वंशक्षयो भवेत् ॥
एतत्कर्मकृतेनैव सर्वसिद्धिं लभेत्पुनः।
एतस्य सदृशं कर्म नास्ति सत्यं चतुर्मुख ॥
स एव मृत्युं तीर्त्वा तु सर्वान् कामानवाप्नुयात्।
यन्त्रमन्त्रादिहोमश्च यत्र विद्याऽधितिष्ठति ॥
तद्देशं मङ्गलं पुण्यं मन्त्रविद्याऽधितिष्ठति।
धनधान्यगवां चैव अष्टैश्वर्यादिकं सदा ॥
दुर्वृत्तदुःखदुर्व्याधिः न च दुर्भिक्षतस्कराः।
सुवृष्टिं लभते देशः पूर्णसस्या बसुन्धरा ॥
दीर्घायुषस्तथा मर्त्याः यथा कृतयुगे तथा।
तस्मात्सर्वप्रयत्नेन चक्रराजं समर्चयेत् ॥
दैविकं मानुषं चैव चातुरङ्गमिहोच्यते।
दैविकं मान्त्रिकं चैव मानुषं भूपतेर्भवेत् ॥
दैविकं मानुषं युंज्यात् शापादपि शरादपि।
जपहोमार्चनपरः आचार्यो मन्त्रविद्भवेत् ॥
तद्यन्त्रकर्ता भक्त्याद्यैराचार्यं पूजयेत्ततः।
मुक्ताहारविचित्राद्यैः कटकैरङ्गुलीयकैः ॥
दुकूलपट्टवस्त्राद्यैः महाशब्देश्च मण्टमे।
तं मान्त्रिकं तु संपूज्य दद्याद्देशं सधान्यकम् ॥
ग्रामं वाऽथ महद्दद्यात् शिबिकान्दोलिकादिकम्।
छत्रचामरसंयुक्तं दद्यात्स्वर्णायुतं तु वा ॥
सहस्रं वा तदर्थं वा प्रयोज्याद्यैस्समर्चयेत्।
ऋत्विग्भिः क्षेत्रदानं च सुक्षेत्रं धान्यसंकुलम् ॥
स्वर्णयज्ञोपवीतैश्च कुण्डलैः रत्नभूषणैः।
दुकूलैः क्षौमबस्त्रैश्च कार्पासपटसूक्ष्मकैः ॥
दद्यात्सुवर्णं ऋत्विग्भ्यः शतं वा दश वा भवेत्।
आचार्यमृत्विजं चैव पूजयित्वा ततःपरम् ॥
आवभृथ्योक्तविधिना वैष्णवान् भोजयेत्ततः।
तादृशोत्कृष्टकर्मभ्यो द्विजातिभ्योऽपि दक्षिणाम् ॥
इह कर्म प्रयोक्तव्यं नृपाणां च विशेषतः।
पठतां शृण्वतां चैव चक्रराजप्रभावकम् ॥
सर्वपापविनिर्मुक्तः स याति परमं पदम्।
यन्त्ररूपम्.
अतः परं प्रवक्ष्यामि यन्त्र रूपमनुत्तमम् ॥
सुदर्शननृसिंहस्य विधानं सम्यगब्जज।
मध्ये चैकाक्षरं लिख्य परितस्साध्यमालिखेत् ॥
रक्षरक्षेति संयोज्य ओमित्येकाक्षरं भवेत्।
षट्कोणं तद्बहिर्लिख्य सहस्रारेति हुंफट् ॥
षट्कोणे विलिखेत्सन्धौ ओन्नमोविष्णवेति च।
प्रणवेन सुसंवेष्ट्य तद्बहिर्मन्त्रविच्छुचिः ॥
लिखेदष्टदलं पद्मं ॐनमो नारायणाय।
दले लिखेत्ततस्सन्धौ ओं जयजय नृसिंह ॥
लिखेच्छ्रिया सुसंवेष्ट्य तद्बहिः द्वादशं दलम्।
लिखेद्दले ओंनम इति भगवतेति पदं ततः॥
वासुदेवायेति मनुं लिखेत्सन्धौ तथाऽब्जज।
ज्वलज्वलेति च ततो ज्वालाचक्राय तेति च ॥
स्वाहामनुं लिखेन्मन्त्री मायाबीजेन वेष्टयेत्।
तद्बहिष्षोडशदलं दलेषु विलिखेत्स्वरान् ॥
तारतारानुतारांश्च महामायां रमामपि।
कामराजं नृसिंहं च महाचक्राय मन्त्रवित् ॥
हुंफट्स्वाहेति च मनुं तत्सन्धौ बिलिखेत् क्रमात्।
कामबीजेन संवेष्ट्य पूर्वादिक्रमतो लिखेत्॥
तद्बहिः पञ्चविंशं च दलं लिख्य दलेषु च।
ओं सहस्रारेति च ततो ज्वालावर्तिनेति च ॥
क्षौं क्षौं द्रेमित्युक्त्वाज्वलज्वलपदं ततः।
हनहन हुंफट् स्वाहा मनुं तद्विलिखेत्ततः ॥
सन्धौ क्षौं सह गायत्रीं लिखेत् क्षौमित्यनेन च।
वेष्टयेत्तद्बहिः ब्रह्मन् द्वात्रिंशद्दलमालिखेत् ॥
दलेषु बिलिखेन्मन्त्री नृसिंहानुष्टुभं ततः।
सौदर्शनानुष्टुभं च तत्सन्धौ विलिखेद्बुधः ॥
तद्बहिः परितस्सम्यक् व्यञ्जनानि लिखेद्बुधः।
हंसहंसेति रक्षेति परितस्साध्यसंयुत्तम् ॥
पाशाङ्कुशेन संवेष्ट्य लिखेदिन्द्रादिबीजकान्।
सुदर्शननृसिंहस्य यन्त्रमेतच्चतुर्मुख॥
नृसिंहयन्त्रः
नृसिंहचक्रराजस्य यन्त्रमुद्धारयेत्ततः।
षट्कोणं चक्रमालिख्य तन्मध्ये विलिखेद्बुधः॥
क्ष्मौमित्येकाक्षरं सम्यक् परितस्साध्यमालिखेत्।
रक्षरक्षेति संलिख्य कोणेषु विलिखेत्ततः ॥
क्ष्म्रौंनृसिंहेतिमदं हुंफट्चेति ततो मनुम्।
ओंनमो विष्णवे सन्धौ लिखेत्तद्वेष्टयेत् श्रिया॥
तद्बहिर्विलिखेन्मन्त्री अष्टकोणमतन्द्रितः।
कोणेषु विलिखेन्मन्त्री ओंजयजयनृसिंहेति ॥
ओंनभोनारायणाय सन्धौ मन्त्रं लिखेद्गुरुः।
प्रणवेन सुसंवेष्ट्य तद्बहिर्विलिखेदिदम्॥
कोणं द्वादशसङ्ख्येन कोणेषु विलिखेन्मनुम्।
क्ष्म्रौंज्वलज्वलेतिपदं ज्वालावक्राय स्वाहेति च॥
ओंनमो भगवतेति पदं वासुदेवाय सन्धिषु।
लिखेत्तन्माययाऽऽवेष्टच तद्वाहेर्बिलिखेद्बुधः॥
षोडशं दलमित्येव दलेषु विलिखेत्स्वरान्।
तारतारानुतारांश्च महामायां रमामपि ॥
कामराजं नृसिंहं च ज्वालाचक्राय हुं ततः !
फट्स्वाहान्तं समालिख्य सन्धौ सम्यग्विचक्षणः ॥
रामबीजेन संवेष्ट्य तद्बहिर्विलिखेत् गुरुः।
पञ्चविंशदलान्लिख्य दलेषु बिलिखेन्मनुम् ॥
ओं ज्वलज्वल क्षौंक्षौमिति तज्जालानारसिंह च ॥
सहस्रारहनहनेति हुंफट्स्वाहां ततःपरम्।
तत्सन्धौ बिलिखेदों च गायत्रीं सम्यगब्जज ॥
क्षौंकारेण तथाऽऽवेष्ट्य तद्बहिर्विलिखत्क्रमात्।
द्वात्रिंशद्धलसङ्ख्येन दलेषु परितो बुधः ॥
नृसिंहानुष्टुभं लिख्य सन्धौ सौदर्शनं तथा।
रामबीजेन संवेष्ट्य व्यञ्जनानि बहिर्लिखेत् ॥
पाशाङ्कुशेन संवेष्ट्य हंसहंसेति च क्रमात्।
रक्षेति संयुतं साध्यं तद्वहिः परितो लिखेत् ॥
इन्द्रादिबीजानि.
लं रं हं षं तथा वं यं सं शमिन्द्रादि संलिखेत्।
पूर्वोक्तस्तत्र होमस्स्यात् एतद्यत्राणि चोद्धरेत् ॥
पूजायां धारणे चैव सर्वव्याधिनिवारणे।
एतद्यन्त्राणि कुर्वीत तत्फलं सिध्यति क्षणात् ॥
सर्वपापविनिर्मुक्तः स चिरायुश्च जीवति।
सम्यक् गुह्यतमं ब्रह्मन् तत्तद्यन्त्रविधानकम् ॥
रहस्यं सर्वशास्त्राणां सर्वदा गोपनीयकम्।
तस्मात्सर्वप्रयत्नेन मेधावात् भव सर्वदा ॥
उपयन्त्रम्.
उपयन्त्रं प्रवक्ष्यामि सर्वेषां हितकाम्यया।
बीजाङ्कं फणपञ्चके प्रविलिखेच्छेषस्य भोगे पुनः
द्वात्रिंशत्पदसंयुतं प्रविलिखेत् तन्त्राक्षराणि क्रमात्।
बीजे नामपदानि साधितमिदं होमेन संपादितं
रोगापस्मृतिदुःखशोकशमने यन्त्रं रिपुध्वंसनम्।
अभिषेकादिपूजाद्यैः पः एतद्यन्त्रस्य धारणात् ॥
सर्वेषां सर्वदा सम्यक् अष्टैश्वर्यादिकं तथा।
कर्तुमकर्तुं सामर्थ्यं अन्यथा कर्तुमब्जज ॥
लभते पौरुषीं सिद्धिं एतदेकाक्षरात्सदा।
श्रीरामैकाक्षरजपात् नारासिंहात्सुदर्शनात् ॥
एतदेकाक्षराद्यन्त्रात् सर्वसिद्धिं लभेन्नरः।
यन्त्रपूजाधाणं च कुर्यादेवं स्वयं गुरुः ॥
एककुण्डविधानेन पूर्वादीन् तद्वदब्जज।
तम्मात्सर्वप्रयत्नेन कुर्यात्साहस्रसंख्यया ॥
किमत्र बहुनोक्तेन कर्तव्यं शान्तिरब्जज।
इति शेषसंहितायां महाशान्तिविथानं नाम एकत्रिंशोऽध्यायः