२९

हनुमद्बीजम्.

शेषः—

सम्यम्वक्ष्ये विधानेन हनुमद्बीजमुत्तमम्।
अन्नाधिपं कार्तवीर्यं हयग्रीवं नृकेसरिम् ॥

भान्तं यान्तसमायुक्तं हालाहलसमप्रभम्।
मर्कटेशस्य बीजं स्यात् सर्वसंहारकारकम् ॥

ऋषी रुद्रोऽस्य मन्त्रस्य जगती छन्द उच्यते।
देवता मर्कटेशश्च स्यं बीजं शक्ति यं तथा ॥

लं कीलकं यं कवचं रं अस्त्रं रक्तवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्य व्याप्यादीन् पूर्ववत्तथा ॥

दंष्ट्राकरालमत्युग्रं पिङ्गाक्षं मुष्टिधारिणम्।
उदाराङ्गं त्रिनेत्रं तं वन्दे लङ्काभयकरम् ॥

चातुरङ्गफलं सम्यक् बामनैकाक्षरादिवत्।

अन्नाधिपबीजम्.

तान्तं बिन्दुसमायुक्तं अन्नाधिपतिबीजकम्।
अन्नाभिवृद्धिदं सौम्यं भवेत्सर्वाभिवृद्धिदम् ॥

ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते।
अन्नाधिपो देवता च तं बीजं शक्तिवं तथा ॥

यं कीलकं यं कवचं वं अस्त्रं श्वेतवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्य व्याप्यादीन् पूर्ववत्तथा ॥

शङ्खचक्रधरं सौम्यं अमृताभयधारिणम्।
मुक्ताभरणभूषाङ्गं भजे अन्नाधिपं हरिम् ॥

कार्तवीर्यबजिम्.

कान्तं यान्तसमायुक्तं कालाग्निसदृशप्रभम्।
वामकर्णसमायुक्तं कार्तवीर्यं भवेत् शुभम् ॥

ऋषिश्शिवोऽस्य मन्त्रस्य जगती छन्द उच्यते।
कार्तवीर्यो देवता च आं बीजं शक्तिः ईं तथा ॥

लं कीलकं यं कवचं रं अस्त्रं रक्तवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्य व्याप्यं पूर्ववदब्जज ॥

रक्ताभरणभूषाङ्गं सहस्रायुधधारिणम्।
तेजोमयमुदाराङ्गं कार्तवीर्यमहं भजे ॥

पौरश्चरणहोमादीन् श्रीकूर्मैकाक्षरं यथा।

हयग्रीवनृसिंहबीजम्.

वान्तन्तु प्रणवान्तञ्च बिन्दुनादसमन्वितम् ॥

हयग्रीवनृसिंहाख्यं भवेद्विद्याप्रदायकम्।
ऋषिर्ब्रह्मास्य मन्त्रस्य छन्दो गायत्रमुच्यत्ते ॥

हयग्रीवनृसिंहाख्यो देवता सम्यगब्जज।
सं बीजं च तु रीं शक्तिः कीलकं लं तथा भवेत् ॥

श्रीं ह्रीं कवचं रं चास्त्रं श्वेतवर्णं विभुं स्मरेत्।
षडङ्गं षट्स्वरैर्न्यस्य व्याप्यादीन् पूर्ववत्तथा ॥

सर्वाभरणभूषाङ्गं सच्चिदानन्दविग्रहम्।
पद्मचक्रधरं वन्दे हयग्रीबनृकेसरिम् ॥

जपहोमादिकं सर्वं श्रीरामैकाक्षरं यथा।
एकाक्षरप्रयोगं तु यन्त्रतन्त्रादिसंयुतम् ॥

धर्मसंस्थापनार्थाय लोकसंरक्षणाय च।
वक्ष्येऽथ सुलभोपायं देवर्षीणां च दुर्लभम् ॥

मोक्षोपायकरं तद्बत् सृष्टिस्थित्यन्तकारकम्।
यतीनां च गृहस्थानां अदृष्टार्थं विधीयते ॥

पञ्चाशद्बर्णरूपेण नरयन्त्रं प्रकल्पयेत्।
तन्मूर्ध्नि नेत्रवक्त्रे च कर्णे हृदि स मन्त्रवित् ॥

नाभौ गुह्यै पादयोश्च तत्तदेकाक्षरं लिखेत्।
वाय्वग्निबीजयोस्सार्धमेतं कुरुकुरुष्विति ॥

तद्बहिर्वेष्टयेत्पश्चात् तद्बहिर्बिलिखेद्बुधः।
अकारादिक्षकारान्तं तद्बहिः कर्ममण्डलम् ॥

वश्याकृष्ये मोहने च एतद्यन्त्रं समुद्धरेत्।
जपेद्यन्त्रोपरि ब्रह्मन् तत्तद्द्रव्येण होमयेत् ॥

विषामृतानि संयोज्य अष्टषट्चतुरेव च।
सापत्नये देवतास्सर्वा मान्त्रिकस्य गृहे सदा ॥

किङ्करा इव तिष्ठन्ति देवाद्याः कमलासन।
गुह्याद्गुह्यतमं यन्त्रं सर्वदा गोपनीयकम् ॥

मायया च श्रिया चैव मान्मथेनैव मन्त्रवित्।
षट्कोणं च क्रमाल्लिख्य प्रागादिषु यथाक्रमम् ॥

श्रीरामैकाक्षरं लिख्य अग्रे सन्धिषु तल्लिखेत्।
कर्णिकायां लिखेत् बीजं तद्बहिः साध्यनाम च ॥

हयग्रीवेण वा कुर्यात् पक्षिराजादिबीजकैः।
तस्मात्सर्वप्रयत्नेन एतत्कर्म समाचरेत् ॥

पञ्चलक्षं जपेद्भक्त्याअङ्गह्रीने शुचिस्स्मरन्।
षट्कोणं चक्रमालिख्य प्रागादिषु यथाक्रम् ॥

श्रीरामैकाक्षरं लिख्य अग्रे सन्धिषु तल्लिखेत्।
कर्णिकायां लिखेद्बीजं तद्बहिः साध्यनाम च ॥

एवं कुरुकुरुष्वेति तत्तत्कर्मोक्तमार्गतः।
कोणाद्बहिर्लिखेन्मन्त्री साध्यपूर्ववदग्रिना ॥

पाशाङ्कुशेन संवेष्ट्य तद्बीजेनैव वेष्टयेत्।
एतद्गुह्यतमं यन्त्रं सम्यक्शीघ्रफलप्रदम् ॥

यन्त्रोपरि तथा ब्रह्मन् कुर्यात्तर्पणहोमकान्।
चातुरङ्गविधानेन शीघ्रं सिद्धिमवाप्नुयात् ॥

एतद्यन्त्रविधानेन तत्तद्बीजाक्षरैस्सह।
अभ्यस्य क्रियते चैव तत्तत्फलमवाप्नुयात् ॥

तत्तत्पक्षान्तरं वक्ष्ये कोणाग्रे सन्धिषु क्रमात्।
रामं नृसिंहं हनुमदेवमेकाक्षरान् क्रमात् ॥

विलिख्य पूर्ववत्साध्यं वेष्टनं पूर्ववद्भवेत्।
एकनैव प्रकारेण माया श्रीमान्मथैर्लिभेत् ॥

यद्बीजेन लभेद्यन्त्रंतद्बीजफलमाप्नुयात्।
बीजमन्त्रप्रभावं यत् वक्तुं शक्यं न चेदिह ॥

तस्मात्सर्व विधानेन बीजमन्त्र जपेत्सदा।
तन्मान्त्रिकस्य दासस्य क्रियते वाञ्छितं तु यत् ॥

तस्य मुक्तिं प्रदास्यामि तद्बीजादिप्रभावतः।
स्तम्भनादौ यथा ब्रह्मन् शकटं यन्त्रमुद्धरेत् ॥

चतुर्वृत्तं कर्णिकावत् चतुर्दिक्षु लभेद्बुध।
तत्सन्धौ विलिखेत्तद्वत् पूर्वोक्तेनैव संलिखत्॥

क्रूरे क्रूरान् समायोज्य सौम्ये सौम्यान् लिखेत्तथा।
ध्यानमण्डलभेदज्ञः कुर्यादेतत्क्रियां शुचिः ॥

पौरश्चरणकं कृत्वा मन्त्रवित्तु चतुर्मुख।
बीजान् साध्यं पल्लवांश्च ज्ञात्वा मन्त्रं प्रयोजयेत् ॥

इति शेषसंहितायां एकोनत्रिंशोभ्यायः.