अनन्तबीजम्.
शेषः—
अथ वक्ष्ये विधानेन अनन्तं बीजमुत्तमम्।
तार्क्ष्यं तु वैष्वक्सेनं च बिष्वक्सेनस्य बीजकम् ॥
वृत्तं तत्तत्समुद्धृत्य बिन्दुनादसमन्वितम्।
अनन्तबीजमित्युक्तं सर्वाकर्षप्रदायकम्।
ऋषी रुद्रोऽस्य मन्त्रस्य जगती छन्द एव च ॥
अनन्तो देवता चैव अं बीजं शक्तिः ईं तथा।
ईं कीलकं यं कवचं अं अस्त्रं श्वेतवर्णकम् ॥
षडङ्गं षट्स्वरैर्न्यस्य व्याप्यादीन् पूर्ववत्तथा।
शङ्खचक्रधरं देवं सहस्रवदनं शुभम् ॥
वज्राभरणभूषाङ्गं अनन्तं सततं भजे।
होमादितत्फलं सम्यक् गोपालैकाक्षरं यथा ॥
गरुडबीजम्.
लान्तं मायासमायुक्तं विन्दुनादसमन्वितम्।
पक्षिराजस्य बीजं स्यात् सर्वसंहारकारकम् ॥
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते।
पक्षीन्द्रो देवता चैव क्षं बीजं शक्तिश्श्रीं तथा ॥
रं कीलकं यं कवचं ईं अस्त्रं श्वेतवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्य व्याप्यादीन् पूर्ववत्तथा ॥
शङ्खचक्रधरं देवं सर्वाभरणभूषितम्।
दंष्ट्राकरालमत्युग्रं पक्षिराजं भजाम्यहम् ॥
होमार्चनफलं सर्वं नृसिंहैकाक्षरं यथा।
विष्वक्सेनबीजम्.
लान्तं यान्तसमायुक्तं मायाबिन्दुविभूषितम्।
विष्वक्सेनस्य बीजं स्यात् सर्वसिद्धिप्रदायकम् ॥
ऋषिर्वसिष्ठो मन्त्रस्य त्रिष्टुप्छन्दस्तथैव च।
विष्वक्सेनो देवता च वं बीजं शक्तिः ईं तथा ॥
यं कीलकं यं कवचं रं अस्त्रं रक्तवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्य व्याप्यादीन् तद्वदब्जज ॥
शङ्खचक्रधरं देवं वरदाभयधारिणम्।
सर्वाभरणसंयुक्तं विष्वक्सेनमहं भजे॥
चातुरङ्गफलं तद्वत् वराहैकाक्षरं यथा।
बराहनृसिंहबजम्.
ब्रह्मयान्तसमायुक्तं ऊर्ध्वदन्तसमन्वितम् ॥
बिन्दुनादसमायुक्तं ज्वलिताग्निसमप्रभम्।
वराहनृहरेः बीजं सर्वाकर्षार्थसिद्धिदम्।
ऋषिश्शिवोऽस्य मन्त्रस्य गायत्री छन्द उच्यते ॥
देवो वराहनृहरिः अं बजिं शक्तिः ओं तथा।
कीं कीलकं ह्रीं कवचं यं अस्त्रं रक्तवर्णकम् ॥
षडङ्गं षट्स्वरैर्न्यस्य व्याप्यादीन् पूर्वमन्त्रवत्।
चक्राष्टकघरं देवं त्रिनेत्रं चोग्रविग्रहम् ॥
विश्वरूपमजं सौम्यं वराहनुहरिंभजे।
चातुरङ्गफलं तद्वत् नृृसिंहैकाक्षरं यथा ॥
**इति शेषसंहितायां अष्टाविशोध्यायः.