लक्ष्मीनृसिंहबीजम्.
शेषः—
लक्ष्मीनृसिंहबीजं तु वासुदेवाख्यबीजकम्।
भूवराहं तथा वक्ष्ये न्यासध्यानादिपूर्वकम् ॥
ब्रह्म शान्तं विषयुतं वह्निवायुसमन्वितम्।
जतुर्दशस्वरेणाभियुक्तं वह्निसमप्रभम् ॥
षष्ठस्वरेण संयुक्तं संयुक्तं बिन्दुनादितम्।
लक्ष्मीनृहरिबीजं स्यात् सर्वसिद्धिप्रदायकम् ॥
ऋषिब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते।
देवता श्रीनृसिंहश्च क्षं बीजं शक्तिर्रोतथा ॥
श्रीं कीलकं र्ऐकवचं क्षीं अस्त्रं रक्तवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्य व्याप्यादींस्तद्वदज्जज ॥
सर्वाभरणभूषाङ्गं त्रिणेत्रं सौम्यविग्रहम्।
श्रीभूनीलाधिपं देवं नारसिंहमुपास्महे ॥
चातुरङ्गफलं सर्वं गोपालैकाक्षरस्यवत्।
वासुदेवबीजम्.
प्रणवान्तं समुद्धृत्य बिन्दुनादसमन्वितम्।
वासुदेवमिदं वीजं सर्वसिद्धिकरं नृणाम् ॥
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते।
देवता वासुदेवश्च ओं बीजं शक्तिश्री तथा ॥
ह्रीं कीलकं एं कवचं क्लींअस्त्रं श्वेतरक्तकम्।
न्यासध्यानादिकं सर्वं पूर्वोक्तप्रणवेयथा ॥
आदौ मूर्ध्नि समुद्धृत्य अभिवृत्तसमन्वितम्।
तथा मायां समुद्धृत्य अग्निना सह योजयेत् ॥
तद्वत्तद्वामकर्णेन अग्निमुद्धृत्य पूर्ववत्।
तद्वदूर्ध्वोष्ठसंयुक्तं यान्तं सम्यक् तथाब्जज ॥
द्वादशस्वरमुद्धृत्य तद्वदेवसमन्वितम्।
पञ्चावस्थाकरास्सम्यक् पञ्चबाणास्स्मरस्य तु ॥
एतानि पञ्चबीजानि महानन्दकराण्यथ।
यद्गायत्र्यादि मन्त्राणां तत्तत्कर्मसु मन्त्रवित् ॥
पञ्चावस्थाप्रसिद्ध्यर्थं योजयेस्कमलासन।
एकारैकारयुक्ताश्च हरिस्मररमास्तथा ॥
वासुदेवमथानन्दाः पञ्चबाणाः सरस्य तु।
सान्तं यान्तं मयायुक्तं वामकर्णसमन्वितम् ॥
मूवराहबीजम्.
बिन्दुना भूवराहस्स्यात् सर्वसम्पत्प्रदायकम्।
ऋषिर्धाताऽस्य मन्त्रस्य जगती छन्द उच्यते ॥
देवता भूवराहश्च हं बीजं शक्तिः ऊं तथा।
श्रीं कीलकं ह्रीं कवचं ऐं अस्त्रं श्वेतवर्णकम् ॥
षडङ्गं षट्स्वरैर्न्यस्य व्याप्यादिः पूर्ववद्भवेत्।
भूवराह महोत्साह सर्वशत्रुविनाशन ॥
शत्रुहिंसां हरन् रक्ष श्रियं दापय देहि मे।
चातुरङ्गफलं सम्यक् गोपालैकाक्षरं यथा ॥
इति शेषसंहितायां सप्तविंशोध्यायः.