श्रीरामबीजम्
शेषः—
श्रीरामैकाक्षरं वक्ष्ये बलरामविधानतः।
कृष्णबीजं ततः पश्चात् मोहदेवादिलक्षणम् ॥
यान्तवृत्तसमायुक्तं विन्दुनादविभूषितम्।
कालानलसमप्रख्यं रामबीजमिति स्मृतन् ॥
ऋषिर्ब्रह्मास्य मन्त्रस्य छन्दोनुष्टुभमेव च।
देवता रघुवीरश्च रं बीजं शक्तिश्रीं तथा ॥
ह्रीं कीलकं ऐं कवचं यमस्त्रं रक्तवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्य तद्बीजेन यथाविधि।
व्याप्यं तद्व्यापकं चैव कुर्यात्तन्मन्त्रविच्छुचिः।
आकर्णमाकृष्टधनुर्गुणोद्यद्ब्रह्मास्त्रलक्षीकृतराक्षसेन्द्रम्।
स्थाधिरूढं रणरङ्गधीरं रामं भजे रक्तसरोरुहाक्षम् ॥
श्रीरामैकाक्षरेणैव रुद्रश्च सततं पुरा।
सदाशिवत्वं प्राप्याथ गुरुत्वं चक्रधारणात् ॥
गौतमाद्यास्तथा देवाः पार्वती च सरस्वती।
तत्तत्स्थलमवाप्याथ सिद्धानाहुर्विशारदाः ॥
श्रीरामैकाक्षरजपात् रुद्रः पूज्योऽभवत्सदा।
तारकब्रह्ममित्युक्तं श्रीरामैकाक्षरं परम् ॥
श्रीसीतेति च तत् ज्ञात्वा जपेद्राममनुं सदा।
धर्मकामार्थमोक्षार्थी जपेद्रामं चतुर्मुख ॥
जपहोमफलं सर्वं नृसिंहैकाक्षरं यथा।
श्रीरामाङ्गप्रतिष्ठादि रामबीजेन कारयेत् ॥
बलरामबीजम्.
फकारान्तं बिन्दुयुतं सर्वव्याधिविनाशनम्।
बलराममिदं बीजं सर्वशान्तिकरं भवेत् ॥
ऋषिर्गार्ग्योऽथ मन्त्रस्य त्रिष्टुप् छन्दस्तथैव च।
देवता बलरामश्च ओं बीजं शक्तिरां तथा ॥
लं कीलकं यं कवचं अं अस्त्रं श्वेतवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्य व्याप्यादीन् पूर्ववच्चरेत् ॥
शङ्खचक्रधरं देवं वरदं हलधारिणम्।
सर्वशन्तिकरं देवं बलरामहरिं शुभम् ॥
श्रीमत्स्यमन्त्रवत्सर्वं बलराममनोस्सदा।
कृष्णबीजम्.
कान्तान्तमिन्द्र संयुक्तं महामायाविभूषितम्।
बिन्दुनादसमायुक्तं कृष्णबीजमिति स्मृतम् ॥
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते।
देवता मोहगोपालः क्लीं बीजं शक्तिह्रींतथा ॥
श्रीं कीलकं ऐं कवचं यं अस्त्रं श्यामवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्य तद्बीजेनैव संस्मरेत्।
व्याप्यं तद्व्यापकं चैव तन्मन्त्रेणैव कारयेत् ॥
अंसालम्बितहेमकुण्डलधरं मन्दोन्नतभ्रूलतं
किञ्चित्कुञ्चितकोमलाधरपुटं साचीप्रसारेक्षणम्।
आलोलाङ्गुलपल्लवैर्मुरलिकामापूरयन्तं मुदा
मूले कल्पतरास्त्रिभङ्गलसितं ध्यायेज्जगन्मोहनम् ॥
चातुरङ्गविधानेन कुर्यात्तन्मन्त्रसिद्धये।
ध्यानमण्डलभेदज्ञो जपेल्लक्षत्रयं बुधः॥
नीलोत्पलैः पूजयित्वा तर्पयेच्चन्दनाम्भसा।
वश्यार्थी जुहुयान्मन्त्री गुग्गुलं घृतसंयुतम् ॥
मोहार्थी जुहुयाद्धूपं चन्दनञ्च मधुत्रयैः।
आकर्षे जुहुयादग्नौ अपामार्गैः कटुत्रयैः ॥
कन्यार्थी लाजहोमात्तु राज्यार्थी पङ्कजैर्यजेत्।
द्रव्यार्थी बिल्वपत्रैस्तु सर्वार्थी तिलहोमतः ॥
साध्यनामादिकं योज्य यजेतायुतसङ्ख्यया।
तत्तद्धोमे तत्फलं स्यात् सत्यमेव न संशयः ॥
देवादिऋषयस्सर्वे मान्मथेनैव सर्वदा।
तत्तद्धोमजपादेव तत्तत्फलमवाप्नुयात् ॥
स्थापनं कृष्णबीजेन तदङ्गादिविधिः भवेत्।
बीजमन्त्राधिकारः
क्षत्र विशूद्रजातीनां विष्णुबिम्बार्चनं भवेत्।
तद्बिम्बस्य प्रतिष्ठां तु बीजमन्त्रं विना भवेत् ॥
प्रणवं बीजमित्युक्तं वेदास्तद्वच्चतुर्मुख।
बीजेन प्रणवेनैव वेदमन्त्रैश्शुचिर्गुरुः ॥
पञ्चरात्रेण तन्त्रेण तत्तद्बीजविधानतः।
विप्रार्चनादिबिम्बानां प्रतिष्ठां कारयेत्सदा ॥
विप्राणां मोक्षसिद्ध्यर्थं धर्मकामार्थसिद्धये।
पूर्वोक्तमन्त्रतन्त्राद्यैः विष्णुस्थापनकं भवेत् ॥
तद्बिम्बस्य तथा पूजां पूर्वमन्त्रक्रमाद्भवेत्।
तत्तन्मन्त्रेण यजनात् मुमुक्षुर्भवति ध्रुवम् ॥
अमन्त्रपूजनान्मोहाद्विप्रो निरयमाप्नुयात्।
श्रुतिरेव तु विप्राणां गतिरन्यत्र नान्यथा ॥
क्षत्रविट्शूद्रजात्यादिबिम्बानां स्थापनं सदा।
पञ्चरात्रेण तत्रेण वेदमन्त्रादिकं विना ॥
तत्तत्सूक्तादिमन्त्रेण विप्रस्तन्मन्त्रपारगः।
तत्तद्बीजप्रतिष्ठादीन् कुर्यादेव न संशयः ॥
कुर्याद्यः ह्यन्यथा चेत्तु विप्रो याति यमालम्।
यो वा अयथादैवतमग्निंचिनुते आ देवताभ्यो वृश्च्यते ॥
पापीयान् भवतीत्येतत् प्रत्यक्षं श्रूयते श्रुतिः।
क्षत्रियाद्यादिबिम्बानां वेदमन्त्रादिकं विना ॥
पञ्चरात्रेण मन्त्राद्यैः प्रतिष्ठां कारयद्द्विजः।
क्षत्रविट्शूद्रजात्यादि मद्भक्तानां च तद्विधिः ॥
तत्तन्त्रमन्त्रबीजस्य पूजां तद्वच्चतुर्मुख।
यः पूजयति मद्भक्तो मन्त्ररत्नादिकैस्सह ॥
पञ्चरात्रेण तन्त्रैण विट्कर्म प्रणवं विना।
स एव ब्रह्मवेत्ता च स याति परमं पदम्।
स च पूज्यो द्विजश्रेष्ठः एतद्बिम्बं न संस्पृशेत् ॥
तत्तत्तद्विधिना भिन्ने तत्तद्बिम्बान्प्रपूजयेत्।
तत्तज्जातिप्रभेदेन तत्तद्धर्मादिमन्त्रकैः॥
तत्तन्मन्त्रैस्तु तद्बिम्बान् पूजयेन्मोक्षसिद्धये।
धर्मकामार्थसर्वार्थं तत्तद्बीजान् प्रकल्पयेत् ॥
अन्यमन्त्रेणान्यबिम्बः पूजितश्चेत्फलं न हि।
न च मोक्षो न धर्मश्च तस्य नास्ति शुभं कुलम् ॥
तस्माद्रामादिमूर्त्यादीन् तत्तन्मत्रेण पूजयेत्।
अन्यथा ये करिष्यन्ति तेऽपि यान्ति यमालयम् ॥
रामागारे कृष्णमूर्तेः स्थापनं तद्विधिस्तथा।
तत्तद्बिम्बप्रतिष्ठायां तत्तन्मन्त्रास्तथाऽब्जज ॥
तथा पूजा तथा मन्त्रः तथा ध्यानादिकं फलम्।
कर्तव्यं सर्ववर्णानां विधिरन्यत्र नान्यथा ॥
बहुबिम्बे यथा पूजा प्रधानस्यैव कारयेत्।
यद्बिम्बं कुलदेवस्तु तद्बिम्बन्तु प्रधानकम् ॥
तद्बिम्बपूजनादेव सर्वस्तृप्तो भवेत्सदा।
नित्यमुक्तान् श्रियाद्यादीन् पूजयेत्तद्वदब्जज ॥
चातुरङ्गप्रसिद्ध्यर्थं उक्तमेतद्विधानकम्।
सन्तानगोपालबीजम्.
अन्यत्रैकाक्षरान्नास्ति पुत्रगोपालमुत्तम् ॥
खान्तमिन्द्रानिलयुतं प्रणवान्तं सबिन्दुकम्।
पुत्रगोपालबीजं स्यात् पुत्रसन्तानकारणम् ॥
ऋषिर्नारद इत्युक्तो गायत्रं छन्द उच्यते।
देवता पुत्रगोपालो गं बीजं शक्तिरां तथा ॥
ह्रीं कीलकं श्रीं कवचं क्लीं अस्रं श्वेतवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्थ व्याप्यादीन् पूर्ववत्क्रमात्॥
चक्रपद्मधरं देवं श्वेतपद्मोपरिस्थितम्।
तं देवं पुत्रगोपालं अच्युतं विभुमव्ययम्॥
लक्षमेकं जपेद्भक्त्या चत्वारिंशत्सहस्रकम्।
चातुरङ्गविधानेन कुर्याद्ध्यानं चतुर्मुख ॥
पूजयेद्बिल्वपत्रेश्च गोक्षीरेण च तर्पयेत्।
जुहुयात्पायसान्नेन गोघृतेनैव साधकः॥
अयुतेन लभेत् पुत्रं श्रीकृष्णसदृशं विभुम्।
तिलैर्वा जुहुयातत्तल्लाजहोमं घृतेन तु ॥
प्रातःकाले त्रिसन्ध्यं वा जलं धृत्वा शतं जपेत्।
ध्यात्वा जप्त्वाकृष्णरूपं पुरुषस्तज्जलं पिबेत्॥
प्रातःकाले तु मां ध्यात्वा शयने मन्त्रविद्द्विजः।
विष्णुर्योनं कल्पयतु अक्षीभ्यां तज्जपेत्स्मरन्॥
स वर्षार्धे लमेत्पुत्रं मान्त्रिकस्तु न संशयः।
स्त्रीणां चेदाज्यमामन्त्र्य बीजेनायुतमब्जज॥
अनुष्टुभं शतं जप्त्वा विष्णुर्योन्यादिकान् दश।
दुर्वाम्लान् घृते स्थाप्य तथाश्वत्थस्य चन्दनम्॥
तद्द्घृतं प्रत्यहं सम्यक् पिबेत्प्रातः वधूस्तथा।
एतत्कर्मघृतेनैव तत्पुत्रं समवाप्नुयात् ॥
यन्त्रविधिः
तद्यन्त्रधारणं कुर्यात् वक्ष्ये यन्त्रस्य लक्षणम्।
षट्कोणं चक्रमालिख्य कोणे त्वेकाक्षरं लिखेत् ॥
कोणान्ते मान्मथं लिख्य मुद्रां सन्धौ लिखेद्बुधः।
स्वराणि तद्बहिर्लिख्य हंसहंसेत्यनन्तरम् ॥
रक्षरक्षपदं योज्य साधुकर्मविदङ्कितम्।
परितो लिख्य सन्मन्त्री पौरश्चरणसाधकः ॥
पाशाङ्कुशेन संवेष्ट्य बीजादिन्द्रादिकान् लिखेत्।
तन्मध्ये साध्यसंज्ञां तु तद्बीजं विलिखेद्बुधः ॥
प्राणप्रतिष्ठां कृत्वाऽथ यन्त्रस्योक्तविधानतः।
सा पुत्रं प्राप्नुयात्तद्वत् एतद्यन्त्रस्य लक्षणम् ॥
सम्यक्सन्तानकामानां गतिरन्यत्र नान्यथा।
बौद्धादिदेवदेवानां मन्त्रतन्त्रादिकं न च ॥
वेदबाह्यादि देवाद्यास्तामसा निधनप्रदाः।
वेदबाह्यप्रतिष्ठादीन् ये कुर्वन्ति विमोहिताः॥
ते यान्ति नरकं घोरं रौरवं रोमसङ्ख्यया।
सौगतज्ञानदेवादीन् सन्त्यजेद्बौद्धमब्जज ॥
अशुद्धमार्गसंस्पर्शात् बौद्धशास्त्रप्रवर्तनात्।
नरो निरयमाप्नोति रौरवं रोमसङ्ख्यया ॥
कृष्णमन्त्रं जपेद्भक्त्या श्रीरामं सम्यगब्जज।
तस्य मृत्युभयं नास्ति तस्य मोक्षश्च लभ्यते ॥
इति शेषसंहितायां षड्विंशोध्यायः.