वामनबीजम्
शेषः—
वामनैकाक्षरं सम्यक् त्रैविक्रममनुं तथा।
तत्तन्मार्गेण वक्ष्येथ पररामस्य लक्षणम् ॥
लान्तं वृत्तसमायुक्तं बिन्दुनादसमन्वितम्।
वामनं बीजमित्युक्तं सर्वाकर्षप्रदं शुभम् ॥
ऋषिर्वसिष्ठो मन्त्रस्य पङ्क्तिश्छन्द उदाहृतम्।
देवता वामनः प्रोक्तो वं बीजं शक्तिह्रीन्तथा ॥
अं कीलकं यं कवचं मं अस्त्रं रक्तवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्य तद्बीजेन यथाक्रमम् ॥
व्याप्यं तद्व्यापकं चैव स्मरन् सम्यक् चतुर्मुख।
कमण्डलुं यज्ञसूत्रं सशिखं छत्रधारिणम् ॥
तेजः पुञ्जमयं देवं बामनं पुरुषं भजे।
भूसूक्तस्य प्रकारेण भवेद्धोमादिकं फलम् ॥
त्रिविक्रमबीजम्
णान्तं वह्निसमायुक्तं मायाबिन्दुसमन्वितम्।
त्रैविक्रममिदं बीजं सर्वैश्वर्यप्रदायकम् ॥
ऋषिर्ब्रह्मास्य मन्त्रस्य छन्दो गायत्रमुच्यते।
त्रिविक्रमो देवता च तं बीजं शक्तिश्रीं तथा ॥
ह्रीं कीलकं ऐं कवचं यं अस्त्रं रक्तवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्य व्याप्यादीन् पूर्ववन्न्यसेत् ॥
शङ्खचक्रधरं देवं विभुं तेजोमयं प्रभुम्।
त्रिविक्रमं वासुदेवं तं भजे विश्वरूपिणम् ॥
भूबीजवत् सर्वविधं भवेद्धोमफलादिकम्।
पररामादिमूर्तीनां आवेशानां चतुर्मुख ॥
नास्ति तद्वद्बीजमन्त्रं संस्काराणां तु शैववत्।
**इति शेषसंहितायां पञ्चविंशोध्यायः