२४

सुदर्शनबीजम्

शेषः—

सम्यग्वक्ष्ये विधानेन बीजं सौदर्शनं तथा।
सुदर्शननृसिंहस्य बीजमन्त्रादिरूपकम् ॥

बीजं तद्वद्विशेषेण नारसिंहसुदर्शनम्।
षान्तं सान्तं वह्नियुतं द्वन्द्वं वह्निसमप्रभम् ॥

सौदर्शनमिदं बीजं सर्वसंहारकारकम्।
ऋषिर्ब्रह्मास्य मन्त्रस्य छन्दो गायत्रमुच्यते ॥

सुदर्शनो देवता च सं बीजं शक्तिरं तथा।
हं कीलकं यं कवचं ह्रीं अस्त्रंरक्तवर्णकम् ॥

षडङ्गं षट्स्वरैर्न्यस्य तद्बीजेनैव संस्मरन्।
व्याप्यं तद्व्यापकं कुर्यात् स्मरंश्चक्रवदब्जज ॥

सहस्रादित्यसङ्काशं सहस्रवदनाम्बुजम्।
सहस्रदोस्सहस्रारं प्रपद्येहं सुदर्शनम् ॥

चातुरङ्गफलाद्यादि नृसिंहैकाक्षरं यथा।
सर्वेषां नित्यमुक्तानां देवर्षिणां नृणां तथा ॥

सृष्टिस्थित्यन्तहेत्वर्थं तत्तद्दोषनिवृत्तये।
सर्वबन्धविनाशार्थं मोक्षघमार्थसिद्धये ॥

चक्रादिधारणं कृत्वा वासुदेवस्स्वयं हरिः।
इदं च त्र्यक्षरं मन्त्रं चक्रस्य द्वन्द्वरूपकम् ॥

दत्वा सम्यक् विधानेन रक्षिष्यति पुनःपुनः।

सुदर्शननृसिंहबीजम्

तद्वक्ष्ये द्व्यक्षरं चेदं एकं पूर्वं सुनिश्चितम्।
वान्तं वह्निसमायुक्तं उत्तरोष्ठसमावृतम् ॥

बिन्दुनादसमायुक्तं सर्वसंहारकारकम्।
सौदर्शननृसिंह्मस्य बीजमेतच्चतुर्मुख ॥

ऋषिर्धाताऽस्य मन्त्रस्य छन्दो गायत्रमुच्यते।
सुदर्शननृसिंहेति देवता च चतुर्मुख ॥

फं बीजं तु च हं शक्तिः कीलकं रं महामते।
कवचं यं रक्तवर्णं स्मरन् सर्वो जपेद्बुधः ॥

षडङ्गं षट्स्वरैर्न्यस्य तद्बीजेन यथाविधि।
व्याप्यं तद्व्यापकं चैव कुर्यान्मण्डलभेदतः॥

ध्यानम्—

विश्वरूपमुदाराङ्गं सुदर्शननूकेसरिम्।
ज्वालामालाधरं देवं भजे तं विश्वतोमुखम् ॥

चातुरङ्गान् फलान् तद्वत् नृसिंहैकाक्षरं यथा।
लान्तं विषसमायुक्तं वह्निमान्तसमन्वितम् ॥

षष्ठस्वरं बिन्दुयुतं लोकसंहारकारकम्।
नृसिंहचक्रराजस्य बीजं स्यात् ज्योतिरूपकम् ॥

ऋषिर्ब्रह्मास्य मन्त्रस्य छन्दो गायत्रमुच्यते।
नृसिंहचक्रराजस्तु देवता च चतुर्मुख ॥

क्षं बीजं तु च ऊं शक्तिः कीलकं यं तथा स्मरन्।
कवचं रं तदेवास्त्रं रक्तवर्णं विभुं स्मरम् ॥

षडङ्गं षट्स्वरैर्न्यस्य तद्बीजेनैव कारयेत्।
व्याप्यं तद्व्यापकं चैव स्मरन् तत्रादिभेदतः ॥

ज्योतिर्मुखमुदाराङ्गं साकारं सर्वतोमुखम्।
नृसिंहचक्रराजं तं भजे वैकुण्ठनायकम् ॥

होमादींस्तत्फलं तद्वत् नृसिंह्रैकाक्षरं यथा।
एतत्तत्र्यक्षरेणैव सर्वसिद्धं लभेत्सदा ॥

इति शेषसंहितायां चतुर्विंशोध्यायः