वराहबीजम्.
शेषः—
अथ वक्ष्ये विधानेन वराहकाक्षरं शुभम्।
नृसिंहकाक्षरं तद्वत् भुक्तिमुक्तिफलप्रदम्॥
सान्तदक्षिणकर्णेन बिन्दुनादसमन्वितम्।
वाराहं बीजमित्युक्तं लक्ष्मीधनधराप्रदम्॥
ऋषिर्तथाऽस्य मन्त्रस्य गायत्री छन्द उच्यते।
यज्ञवराहो देवता हं बीजं शक्तिश्रीन्तथा॥
ह्रीं कीलकं एं कवचं एं अस्त्रं श्वेतवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्य बाराहैकाक्षरेण च॥
व्याप्यं तद्व्यापकं चैव तद्बीजेनैव कारयेत्।
शङ्खचक्रधरं देवं सर्वाभरणभूषितम् ॥
श्रीभूनीलादिसहितं भजे यज्ञवराहकम्।
चातुरङ्गविधानेन जपेल्लक्षद्वयं शुचिः ॥
पूजयेच्छतपत्रैस्तु गोक्षीरेण च तर्पयेत् ॥
श्वेतपद्मैस्तु जुहुयाद्राज्यकामो यथाविधि।
अयुतं बिल्वपत्रैश्च लक्ष्मीकामस्तु पूर्ववत् ॥
धनकामो यजेन्मन्त्री चण्डपुष्पैस्तु पूर्ववत्।
लभते तिलहोमेन लक्ष्मीलाभमनुत्तमम् ॥
अपामार्गसमिद्धोमात्सर्वसिद्धिं लभेत्सदा।
तत्तद्द्रव्येण जुहुयात् तत्तत्फलमवाप्नुयात् ॥
शिवस्यापि च देवत्वं वराहैकाक्षरादभूत्।
नृसिंहबीजम्
नृसिंहैकाक्षरस्यापि प्रभावं तच्चरित्रकम् ॥
संग्रहेण तथा वक्ष्ये मृत्योस्स्यात्कालपञ्चकम्।
नृसिंहो भगवान् ब्रह्मन् अन्तर्यामी नृकेसरी ॥
भक्तसंरक्षणार्थाय लोकसंरक्षणाय च।
हिरण्यकसिपुं हत्वा तद्रूपेण सदाशिवम् ॥
हन्तुमभ्यागतं रौद्रं शरभं नरकेसरी।
नखैर्विदारयामास हिरण्यकशिपुं यथा।
वराहैकाक्षरयुतं नृसिंह्रैकाक्षरं तथा।
प्रह्लादाय सुभक्ताय प्रपन्नाय मुमुक्षवे ॥
तप्तचक्रादिकं कृत्वा तन्मन्त्रं संप्रयच्छति ॥
क्षकारं वह्निसंयुक्तं प्रणवान्तसमन्वितम्।
नृसिंहैकाक्षरं मन्त्रं इदं संहारकारकम् ॥
ऋषिर्ब्रह्मास्य मन्त्रस्य छन्दो गायत्रमुच्यते।
देवता नरसिंहश्च परमात्मा हरिस्स्वयम् ॥
क्षं बीजं तत्र नीं शक्तिः कीलकं ह्रीं चतुर्मुख।
यमस्त्रं रं तु कवचं रक्तवर्णं विभुं स्मरेत्।
षडङ्गं षट्स्वरैर्न्यस्य नृसिंहैकाक्षरेण च॥
व्याप्यं तद्व्यापकं चैव कुर्यात्सम्यक्स्मरन् शुचिः ॥
उद्यद्भास्वत्सहस्रप्रभमशनिनिभं त्रीक्षणैर्विस्फुरन्तं
वह्नावह्वाय विद्युत्ततिविततसटाभूषणं भूषणैश्च।
दिव्यैरादीप्तदेहं निशितनिखिलसद्बाहुदण्डैरनेकैः
संभिन्नं भिन्नदैत्येश्वरतनुमतनुं नारसिंहं नमामि ॥
चातुरङ्गविधानेन जपेल्लक्षचतुष्टयम्।
अशोकैः करवीरैश्च बिल्वपत्रैश्च पूर्वकैः ॥
रक्तपुष्पैः तुलस्या च पूजयेन्नृहरिं सदा।
चूर्णाम्भसा तर्पयित्वा होमं कुर्याच्चतुर्मुख ॥
अयुतं जुहुयान्मन्त्री अर्ककाष्ठैः कटुत्रयैः।
निम्बकाष्ठैस्तथा तैलैः शीघ्रमुच्चाटकारकम् ॥
खादिरैर्निम्बतैलाक्तैः अर्ककाष्ठैः कटुत्रयैः।
मारणे जुहुयान्मन्त्री ध्यानमण्डलभेदतः ॥
स्तम्भने जुहुयान्मन्त्री करवीरैस्सभीतकैः।
क्रूरकर्मसु सर्वेषु अपामार्गैः कटुत्रयैः ॥
ध्यानमण्डलभेदज्ञः पूर्वोक्तेनैव संख्यया।
मारयेदद्भुतं मोहात् रक्षितं दैवतैस्तु वा ॥
तत्तद्द्रव्येण जुहुयात्तत्तत्फलमवाप्नुयात्।
चिरकालनिवासार्थं कर्मज्ञानात्मशुद्धये ॥
त्रैगुण्यमलनाशार्थं तदेतद्ध्यानमाचरेत्।
तन्तुपञ्जरमध्यस्थं यथा भ्रमति लूतिका ॥
प्राणारूढश्चरति यो जीवस्तेन विना न हि ॥
तत्रापि दह्रंगगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम्।
इदन्तमिष्टं वैनन्मध्यं नामिरिष्यते ॥
तत्र चक्रं द्वादशारं आहुर्मासाक्षराणि च।
विष्ण्वादिमूर्तयस्तेषु द्वादश द्वादशस्वपि ॥
अहं तत्र स्थितश्चक्रं भ्रामयामि स्वमायया।
अरेषु भ्रमते जीवः क्रमेण कमलासन ॥
स्वराशेरष्टमे वापि चतुष्के द्वादशेपि वा।
सप्तमे मेषराशौ वा तज्जीवस्थितराशिषु ॥
चातुर्ग्रहादिसंप्राप्ते कूर्मग्रहसुयुक्तके।
जीवस्य पार्श्ववेद्यादौ समदृष्टौ ग्रहोदये ॥
पार्श्वे वेधादिसंप्राप्ते गण्डान्ते ग्रहसन्धिषु।
दशाच्छिद्रेषु गोचारे ग्रहे वक्रगते सति ॥
विचार्य विधिवद्ब्रह्मन् देहे जीवदले हृदि।
बाह्ये तत्तत्तार्क्ष्यरूढं नृहरिं संस्मरन्विभुम् ॥
श्वेतवर्णं विरूपाक्षं विश्वाक्षं विश्वतोमुखम्।
षट्कोणस्थं तथा ध्यायन् नृसिंहैकाक्षरं जपेत् ॥
ग्रहवेधान्तपर्यन्तमित्येव कारयेद्बुधंः।
यद्येवं कुरुते ज्ञात्वा परदेहं कृपां तदा ॥
तस्य मृत्युभयं नास्ति स चिरायुश्च जीवति।
ब्रह्मविट्छूद्रजातीनां महारोगादिसम्भवे ॥
एवमेव प्रकुर्वीत ध्यानमन्त्रविशारदः।
देवता ऋषयस्सर्वे जीवन्त्येतत्क्रमात्सदा ॥
नास्त्येतत्सदृशं कर्म भुक्तिमुक्तिप्रसिद्धये।
स्वचराद्यादिसिद्ध्यर्थं इममेव विधिं चरेत् ॥
मण्डलाद्रोगनाशस्स्यात् ऋषित्वं वत्सरात्सदा।
अब्दत्रयात्तु देवत्वं ब्रह्मत्वं पञ्चवत्सरात् ॥
मोक्षसिद्धिस्तु निमिषात् पातकानां क्षयो भवेत्।
अश्वमेधादिकं सर्वं दिनेनैकेन सिद्ध्यति ॥
एतद्ध्यानस्य सदृशं वक्तुं शक्यं न मादृशैः।
एतद्ध्यानादियोगेन जपेदेतच्चतुर्मुख ॥
इति शेषसंहितायां त्रयोविंशोध्यायः