मत्स्यमूर्तिबीजम्
शेषः—
तत्तन्मूर्त्यादि बीजादीन् वक्ष्ये सम्यग्यथातथम्।
प्रतिष्ठाद्युत्सवाद्यादिसिद्धये मुक्तये सदा॥
प्रणवं तच्छ्रिया युक्तं भूनीलातत्समन्वितम्।
तत्तज्ज्ञानार्थसिद्ध्यर्थं मनुश्च चतुरक्षरी ॥
पर्यायेण न जानन्ति कपर्दीन्द्रशिवादयः।
वासुदेवस्स्वयंपूर्वं श्रीभूनीलादिनां तथा ॥
शङ्खचक्रादिकं दत्वा प्रणव संप्रयच्छति।
अनन्तगरुडादीनां विष्वक्सेनस्य तद्यथा ॥
चक्रादिधारणं कृत्वा पूर्वोत्कचतुरक्षरीम्।
उपदिश्य तथा ब्रह्मन् नरनारायणाश्रमे ॥
नरस्य तद्वत्कृत्वा च वसिष्ठाद्यादिकान् तथा।
वेदव्यासस्य भर्गस्य वैकुण्ठपदवासिनाम्॥
चतुर्मुखस्य वायोश्च चन्द्रसूर्याग्निनाकिनाम्।
स्वस्य चक्रादिकं कृत्वा ददौ च चतुरक्षरीम् ॥
चतुर्मुखस्य सृष्ट्यादौ मत्स्यरूपः हरिस्स्वयम्।
हयग्रीववपुर्ध्यात्वा पूर्वोक्तचतुरक्षरीम् ॥
हयग्रीवस्य बीजञ्च मत्स्यबीजं सहादितः।
तप्तचक्रादिकं कृत्वा मनुमतं प्रयच्छति ॥
उपदिश्य च वेदादिं अन्तर्धानमवाप्नुयात्।
तल्लक्षणं तथा वक्ष्ये तत्तद्बीजयस्य च ॥
विषं दक्षिणकर्णेन बिन्दुनादसमन्वितम्।
मत्स्यबीजमिदं प्रोक्तं भवेत्संहारकारकम् ॥
मन्त्रस्यास्य ऋषिर्ब्रह्मा गायत्री छन्द उच्यते।
मत्स्यरूपहरिर्देवो मंबीजं शक्तिश्श्रीं तथा ॥
ह्रीं कीलक मैं कवचं ऐैंअस्त्रं रक्तवर्णकम्।
श्वेतवर्णं तथा ब्रह्मन् षडङ्गं षट्स्वरैर्न्यसेत् ॥
व्याप्यं तद्व्यापकं चैव कुर्यान्मन्त्रेण मन्त्रवित्।
दंष्ट्राकरालमत्युग्रं शङ्खचक्रधरं विभुम् ॥
मत्स्यरूपं हरिं ध्यायेत् सर्वविद्याप्रदायकम्।
चातुरङ्गविधानेन जपेल्लक्षद्वयं शुचिः ॥
पूजयेत् श्री तुलस्या तु गोक्षीरेणैव तर्पयेत्।
अयुतं जुहुयान्मन्त्री बालरावैर्घृतैस्सह ॥
शत्रुनाशो भवेत्तस्य सर्वविद्यां लभेत्तथा।
अपामार्गस्य हवनात् सर्वसिद्धिं लभेत्सदा ॥
तत्तद्द्र व्यादिहोमेन तत्तत्फलमवाप्नुयात्।
हयग्रीवबीजम्
अतः परं प्रवक्ष्यामि हयग्रीवमनुं तथा ॥
सान्तं षान्तं बिन्दुयुतं प्रणवान्तसमन्वितम्।
हयग्रीवमिदं बीजं सर्वविद्याप्रदायकम् ॥
मन्त्रस्यास्य ऋषिर्ब्रह्मा विधिना तत्तथाब्जज ॥
छन्दश्च देवी गायत्री हयग्रीवश्च देवता।
हं बजिं तु च श्रीं शक्तिः कीलकं ऐं स्मरन् न्यसेत् ॥
क्लीं कवचं ह्रीमस्त्रं श्वेतवर्णं चतुर्मुख।
षडङ्गं षट्स्वरैर्न्यस्य पूर्वोक्तं संस्मरन् जपेत् ॥
ध्यानम्—
वन्दे पूरितचन्द्रमण्लगतं श्वेतारविन्दासनं
मन्दाकिन्यमृताब्जकुन्दकुमुदक्षीरेन्दुहासं हरिम्।
मुद्रापुस्तुकशङ्खचक्रविधृतश्रीमद्भुजामण्डलं
निर्यन्निर्मलभारतीपरिमलं विश्वेशमश्वाननम् ॥
चातुरङ्गविधानेन जपेल्लक्षचतुष्टयम्।
पूजयेत्कमलैस्सम्यक् तर्पयेद्गन्धवारिणा
ब्राह्मीघृतसमायुक्तमयुतं जुहुयाच्छुचिः।
तत्क्षणादेव सिद्धा स्यात् मूकस्यापि सरस्वती ॥
मुण्डीवचासमायुक्तं गुग्गुलं च मधुत्रयम्।
योजयेत्तत्क्षणात्सम्यक् सश्रुवश्शुभजन्मनि ॥
अश्रुतान्यपि वेदानि सर्वशास्त्राणि सर्वदा।
व्याख्यानं कुरुते सम्यक् मन्त्रवित्साधकोत्तमः ॥
त्रिसन्ध्यं यस्तथाऽऽहारे शतं जप्त्वाजलं पिबेत्।
अग्न्यादीनभिमन्त्र्याथ कुर्यादेवमहर्निशम् ॥
अब्दमेकं तु यः कुर्यान्मूकश्शास्त्री भवेत्तदा !
प्रत्यहं यः त्रिसंध्यायां अष्टाविंशति वा जपेत् ॥
क्रमेण लभते विद्यां हयग्रीवेण चाब्जज।
कूर्मबीजम्
ब्रह्माक्षरं वह्नियुतं वामकर्णेन संयुतम्।
बिन्दुना कूर्मबीजं स्यात् सर्वस्तम्भनकारकम् ॥
ऋषिश्शिवोऽस्य मन्त्रस्य पङ्क्तिश्छन्दः प्रजापते।
कूर्मरूपः हरिर्देवो ह्रीं बीजं शक्तिश्श्रीं तथा ॥
ऐैं कीलकं क्लीं कवचं लमस्त्रं श्वेतवर्णकम्।
षडङ्ग षट्स्वरैर्न्यस्य कूर्मबीजेन संयुतम् ॥
व्याप्यं तद्व्यापकं कुर्यात्तन्मन्त्रेण सुबुद्धिमान्।
शङ्खचक्रधरं देवं सर्वाभरणभूषितम् ॥
सर्वाकारमजं देवं कूर्मरूपं हरिं भजे।
चातुरङ्गविधानेन जपेल्लक्षत्रयं तथा ॥
पाटलैस्तु सुसंपूज्य तर्पयेत् कुङ्कुमाम्भसा।
अपामार्गेण जुहुयात् अयुतं घृतसंयुतम् ॥
सर्वसिद्धिं लभेत्सम्यक् तद्वल्लाजतिलैर्भवेत्।
भूलाभं लभते सोऽयं सन्देहो नास्ति निश्चयः ॥
तत्तद्द्रव्यादिहोमेन तत्तत्फलमवाप्नुयात्।
मण्ठलध्यानभेदादीन् ज्ञात्वा मन्त्रं जपेत्तथा ॥
मोक्षञ्च लभते सत्यं विधिना तच्चतुर्मुख।
इति श्रीशेषसंहितायां द्वाविंशोऽध्यायः.