२१

भूबीजमन्त्रः

शेषः—

पर्यायेण प्रवक्ष्यामि भूबीजं प्रीतिपूर्वकम्।
नीलाबीजं ततस्सम्यक् न्यासहोमादिपूर्वकम् ॥

सान्तयान्तसमायुक्तं महामायाविभूषितम्।
भूबीजं बिन्दुसंयुक्तं भूलामादि प्रदापयेत् ॥

अस्य श्रीभूमिमन्त्रस्य पितामहऋषिस्तथा।
विष्णुपत्नी देवता च अं बीजं शक्तिरं तथा॥

श्री कीलकं ह्लीकवचं ऐेंअस्त्रं रक्तवर्णकम्।
तद्बीजेन षडङ्गं तु कुर्यात्पूर्ववदब्जज ॥

व्याप्यं तद्व्यापकं चैव तन्मन्त्रेणैव कारयेत्।
विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियाम् ॥

लक्ष्मींप्रियसखीं देवीं नमाम्यच्युतवल्लभाम्।
जपेलुक्षत्रयं मन्त्री चातुरङ्गैस्सहाब्जज ॥

स्मरन्विष्णुं श्रियाद्युक्तं हृत्कोष्ठे सततं जपेत्।

दहरविद्या.

क इति ब्रह्मणो नाम ष इति स्थानमुच्यते।
तदेव दहराकाशः इति वेदान्तबेदितम् ॥

द्वे ब्रह्मणी वेदितव्ये परं चापरमेव च।
द्वासुपर्णा सयुजा सखाया समानं वृक्षमिति क्रमात् ॥

दहराकाशे ब्रह्मनिष्ठःप्रणवार्थप्रकाशकम्।
नारायणं परं ब्रह्म वासुदेवं परात्परम् ॥

ध्यानं कुर्वन् जपेद्विद्वान् होमयेत्तर्पयेत्सदा।
एवं क्रमेण यः कुर्याद्विधिना सर्वदाऽब्जज ॥

स एव परमैकान्ती स प्रसन्नो गुरुस्सदा।
पञ्चरात्रेण मार्गेण एवं कुर्यादहर्निशम् ॥

संदेहश्वेत्क इत्यत्र शृणु वक्ष्यामि तत्त्वतः।
ब्रह्मादयः पञ्च एते ततो बोधायनः परम् ॥

आपस्तम्बः तथा तद्वत् तद्वद्विखनसः क्रमात्।
चक्रादयो ह्यनन्ताद्याः विष्वक्सेनादयस्तथा ॥

वसिष्ठाद्याश्च ऋषयः तच्छिष्यास्सात्त्विकाः स्मृताः।
पञ्चसंस्कारसंयुक्ताः पञ्चकालपरायणाः ॥

पञ्चरात्रागमोक्तादियुक्ता वैदिकतान्त्रिकाः।
एत एव ब्रह्मनिष्ठाः मद्भक्तास्सततं त्विह ॥

एत एव महापूज्या दहराकाशवेदिनः।
अन्ये च बहवस्सन्ति तामसाद्याः क्रमेण च ॥

कृपयामत्कटाक्षाद्वा तेपि यान्ति परां गतिम्।
सत्यं सत्यं पुनस्सत्यं निश्चयश्चायमब्जज ॥

दहराकाशसन्मार्गध्यानाचारादिकं शुभम्।
शास्त्रादिपाठकाः केचित् केचिद्वेदादिपाठकाः ॥

वेदान्तपाठकाः केचित् पुराणस्मृतिपाठकाः।
मद्भक्ताः अलसाः केचित् न जानन्त्यथ मां स्मृताः ॥

एकं जन्मावलम्ब्यापि वेदान्तश्रवणाच्च ते।
दहराकाशमभ्यस्य तेपि यान्ति परां गतिम् ॥

वेदान्तपाठकास्सर्वे दहराचारकश्शुकः।
तस्मात्सर्वप्रयत्नेन जपध्यानपरो भव ॥

हृत्पुण्डरीकसंस्थानब्रह्मवित् ब्राह्मणोत्तमः ॥

स्पर्शदोषः

क्षत्रविद्शूद्रजात्यादिस्पृष्टिदोषं परित्यजेत्।
स्पृष्टिदोषात्तथा सर्वजप्याद्यं निष्फलं भवेत् ॥

अकर्मकस्य संस्पृष्टिं त्यजेत् भिषजवाणिजान्।
स्वबन्धून् स्वगुरुं चापि त्यजेदेव न संशयः ॥

विवाह्यकन्याः

यो मातुलसुतां तद्वत् गुरुपत्नींसमां तथा।
तथा स्वगुरुशिष्यस्य भगिनीसमकन्यकाम् ॥

कन्यां मातृसमां तद्वत्सहौदर्यादिकां तथा।
विवाहं कुरुते मोहात् ताः कन्याः मातृवत्त्यजेत् ॥

गृहे भिन्ने तु निक्षिप्य रक्षेदन्नादिना सदा।
तस्यास्संस्कारकं कुर्यात् मृते पिण्डे नियोज्य च ॥

तत्कन्यासङ्गवान्मोहात् पुत्रोत्पत्त्या विवाहतः।
स द्विजः पशुरेव स्यात् सर्वकर्मबहिष्कृतः॥

स याति नरकं घोरं रौरवं रोमसंभ्यया।
कर्मज्ञानप्रपत्त्यादि तस्य निष्फलतां व्रजेत् ॥

अष्टैश्वर्यादिकं सर्वं तस्य वंशक्षयो भवेत्।
अज्ञानाद्गुरुशिष्याणां विवाहः लभ्यते तदा॥

स्वगुरोः गोत्रजां त्यज्य तदन्यं गुरुमाश्रयेत्।
कुलं संशोध्य संबन्धं तां कन्यां वरयेद्बुधः ॥

स्त्रीशुद्धिरर्थशुद्धिश्च द्वयमाचारकारणम्।
यस्यचैतद्द्वयं नास्ति तस्याचारो विडम्बना ॥

अयमेव परो धर्मः सर्वशास्त्रेषु निश्चितः।

वपनम्

न स्पृशेदिति चोक्तं चेत् वक्ष्यामि च चतुर्मुख।

केशश्मश्रूणि वपते नखानि निकृन्तते तथा।
शिखाभ्रूकोष्ठवर्ज्यं स्यात् सर्वाङ्गं न च नान्यथा।
अथ श्मश्रूण्यथो वक्षः अथ केशान्ते भवति विधिस्तथा ॥

स्वसूत्रेणैव मार्गेण आपस्तम्बादिना तथा।
अङ्गुष्ठमात्रा शिरसि वृत्तरूपा शिखा भवेत् ॥

विरोः षडङ्गुलादूर्ध्वे कल्पयेयुः द्विजातयः।
शिखाभ्रुवौ वर्जयित्वा कर्णादुपरि बुद्धिमान् ॥

श्मश्व्रादि कल्पयेत्पश्चात् सर्वाङ्ग वर्जयेत्तथा।
वेदोक्तवत्तद्वपनं तदाश्मश्व्राद्यनन्तरम् ॥

वक्षः नखानि कृन्त्येवं गृहस्थस्य तथाब्जज।
शिखाभ्रूवौ बर्जयित्वा सर्वाङ्गं तद्वदब्जज ॥

इमश्रू वक्षः तथा केशान् कर्णादुपरि सवदा।
अधस्ताद्वपनं सम्यक् ज्ञानधर्मार्थसिद्धये ॥

ब्रह्मचर्ये च सन्यासे भ्रूशिखावर्जनं तथा।
कर्णादुपरि वपनं यावज्जीवं न संशयः ॥

मासिमासि गृहस्थानांपक्षेपक्षे च यज्वनाम्।
ऋतौऋतौ यतीनां च वपनं श्रुतिबोधितम् ॥

अन्यथा ये करिष्यन्ति त एव श्रुतिघातकाः।
त एव च विकर्मस्थाः सर्वकर्मबहिष्कृताः ॥

कर्मज्ञानप्रपत्त्यादिः तस्य धर्मो निरर्थकः।
जपहोमादिसिद्ध्यादि मोक्षस्तस्य न विद्यते ॥

त्याज्योपादेयकं सर्वं स्वधर्मं सम्यगब्जज।
सम्यक् ज्ञात्वा शुचिर्भूत्वा स्वधर्मजपमाचरेत् ॥

शूद्रादिसर्ववर्णानां मद्भक्तानां तथाब्जज।
कर्णादुपरिमुण्डत्वं वपनं भ्रूं विना सदा ॥

वस्त्रादिवेषः

शूद्रादिसर्ववर्णानां वसनं चित्रकं भवेत्।
कृष्णवस्त्रन्तु शूद्राणां वैश्यानां रक्तवस्त्रकम् ॥

पीतवस्त्रं क्षत्रियाणां विप्राणां श्वेतवस्त्रकम्।
वृत्ताकारन्तु शूद्राणां चित्रकं क्षत्रवैश्ययोः ॥

अग्रे द्विनेत्रवत्कृत्वा पश्चादेकं निधाय च।
मद्भक्तानां तु विप्राणां शिरोवेष्टनलक्षणम् ॥

यः करोत्यन्यथा तस्मात् सर्वं नश्यति तस्य वै

अन्नशुद्धिः

नैमित्तिकादिकश्राद्धे अन्नशुद्धिश्चतुर्मुख।
विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् ॥

पितृभ्यश्चापि तद्देयं तदानन्त्याय कल्पते।
अन्नं भाण्डद्वये कुर्यात् द्वयं विष्णोस्समर्पयेत् ॥

एकेन नित्यमुक्तादीनर्पयेद्विधिपूर्वकम्।
अन्येन चाग्निहोत्रं च विश्वेदेवौ पितॄन् सदा ॥

वैश्वदेवादिकं कृत्वा तच्छेषैस्तद्वयं सदा।
वृद्धबालादिभिस्सम्यक् भुञ्ज्यादतिथिना सह ॥

अन्नशाकादिशुद्धिश्च पूर्वोक्तं दर्शयन् चरेत्।
तत्सूपान्नादिकं सर्वं एकीकृत्य समन्त्रकम् ॥

आर्द्रक्रमुकमात्रेण कारयेत्कबलानि तत्।
तत्तन्मन्त्रादिना सम्यक् भुञ्जीयात्संख्यया सदा ॥

अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनाम्।
द्वात्रिंशतं गृहस्थस्य अमितं ब्रह्मचारिणाम् ॥

एवं कुर्याद्विधानेन मोक्षधर्मार्थसिद्धये।
परमैकान्तिनां धर्मो गतिरन्यत्र नान्यथा ॥

एवं कुर्याद्विधानेन जपज्ञानात्मशुद्धये।

भूबीजशेषः

मन्त्रबीजादिशुद्ध्यर्थं एवमुक्तं चतुर्मुख।
भूबीजस्य च यच्छेषं वक्ष्यामि च यथातथम् ॥

पायसेन हुनेन्मन्त्री अयुतं गोघृतैस्सह।
स्वदेशं स्वस्ति लभते सर्वैश्वर्यादिना सह ॥

पूर्ववत्तिलहोमेन पूर्वदेशाधिपो भवेत्।
अपामार्गैःपूर्ववच्च याम्यदेशाधिपो भवेत् ॥

कमलैः पूर्ववद्धोमे जलदेशाधिपो भवेत्।
खादिरैः कमलैर्होमेकुबेरस्य दिशस्तथा ॥

अश्वत्थबिल्वहोमेन मोक्षधर्ममवाप्नुयात्।
तर्पयेद्विधिना ब्रह्मन् कर्पूरसहिताम्बुना ॥

पूजयेच्छ्रीतुलस्या तु चतुरङ्गविधानतः।
तत्तद्द्व्येण हुत्वा वै तत्तत्फलमवाप्नुयात् ॥

उच्चारणविधिः

उच्चारणविधिं वक्ष्ये मन्त्राणां सिद्धये सदा।
अनुस्वारो ध्रुवो बिन्धुः यष्टिश्चन्द्रार्थ उच्यते ॥

अनुस्वारो न्दकारश्च ध्रुवो विन्दुमकारकः।
यष्टिश्चन्द्रार्थक इति रहस्यं मन्त्रसिद्धये ॥

सर्वेषां न वदेदेवं धार्मिकाय वदेत्सदा।
वेदपाठे अनुस्वारः जपादिष्वसबिन्दुकम्॥

सामगानां तु आकारः विनियोगमिदं परम्।
श्लोकत्रयेण संक्षिप्तं प्रयोगमिदमद्भुतम् ॥

तवोपरिकृपा जाता तस्मादुक्तं चतुर्मुख।
यन्त्रतन्त्रादिकर्माणि वदेत्सर्वं यथातथम् ॥

श्लोकत्रयन्तु न वदेत् वदेच्छुश्रूषा कचित्।
तद्बिन्दोर्लक्षणं त्रीण अथ मात्राश्च नादकम् ॥

नादातीतन्तु विज्ञेयं पूर्वोक्तार्थार्थसिद्धये।
मोक्षे तु अर्धमात्रा च नादस्सौम्ये चतुर्मुख ॥

नादातीतं क्रूरकर्मण्येतन्मूले प्रयोजयेत्।

मालामन्त्रोक्तवद्ध्यायन् जपेदब्दमहर्निशम् ॥

लंकाधिपं राघवेशो यथा कृत्वा तथा सदा।
जयमाप्नोति सर्वत्र मोक्षार्थं च सुदुर्लभम् ॥

मासत्रयेण सौम्यानि सिद्ध्यन्ति च न संशयः।
दिनत्रयेण सिद्ध्यन्ति क्षुद्रकार्याणि सर्वदा ॥

यस्य स्मरणमात्रेण वाग्विभूतिर्विजृम्भते।
तांस्तान् लोकान् क्षोभयन्ति दर्शनादेव साधकः ॥

सृष्टिस्थित्यन्तकर्माणि सिध्यन्ति स्मरणात् ध्रुवमू।

हयग्रीवसिद्धिः

एतद्व्यानेहयग्रीवः अब्देनैकेन सिद्ध्यति।
स्नानभोज्यदिकं सर्वं मन्त्रेणैव न संशयः ॥

इह जन्मनि सिद्ध्यन्ति वेदव्यासवदद्भुतम्।
अश्रुतानखिलान्वेदान् साङ्गोपाङ्गान् सशास्त्रकान् ॥

मान्त्रिकस्यैव सिद्ध्यन्ति व्याख्यानं कुरुते स वै।
आकर्षणादिमुद्रां च ध्यानमण्डलभेदकः॥

सुविद्याकर्षणं कृत्वा स्तम्भनं तद्वदाचरेत्।
स्ववक्त्रेतु हयग्रीवं श्वेतचन्द्रार्थमण्डले ॥

तन्मण्डलं चाग्निमध्ये ध्यायन्सम्यक् चतुर्मुख।
पीतं वादिमुखे तद्वत् पतिं पार्थिवमण्डले ॥

पाशबीजेन बध्नीयात् अङ्कुशेन गजं यथा।
भावं वादिमुखे ध्यात्वा स्तम्भयेत्तस्य भारतीम् ॥

इत्येवं वासना कार्या मन्त्राणां सिद्धये सदा।

रहस्यमुक्तं सर्वं च नास्ति किंचिदितः परम् ॥

बीजमन्त्राणि तन्त्राणि वक्ष्ये यन्त्राणि चाब्जज।
सम्यग्लोकहितार्थाय प्रपन्नानां चतुर्मुख ॥

प्रणवार्थः

अकारादिमकारान्तं देवतानिर्णयं श्रृणु।
इति चैकप्रकारोऽस्ति सिद्धान्तमिदमब्जज ॥

आकारार्थोऽथ विष्णुस्स्यात् अव्ययः पुरुषः प्रभुः।
उकारार्थश्श्रीहि यैव लोकमाता सदा रमा ॥

जीव एव मकारार्थः पीताभस्स्यात्तनूपमा।
पवित्रोग्निस्सहस्रारो बिन्द्वर्थस्स्यात्सुदर्शनः ॥

नादार्थश्च नृसिंहस्स्यात् ऊर्ध्वरेतास्त्रिलोचनः।
हरिरेवार्धमात्रार्थः बहुलक्ष्मीपतिर्भवेत् ॥

नारायणस्स्याद्यज्ञेशो नादान्तार्थैकगोचरः।
नादातीतार्थको ब्रह्मा सूर्यनारायणो भवेत् ॥

नादातीतान्तार्थकस्स्यात् रामचन्द्रः परात्परः।
नादातीतान्तार्थकस्स्यात् सर्वेशः केशवः परः ॥

नादातीतान्तार्थ एव भवेद्ब्रह्मा परात्परः।
सर्वं स्यात् बासुदेवोऽयं अव्ययः पुरुषोत्तमः ॥

नादातीतान्तान्तरस्य अर्थस्स्यात् भगवान् हरिः।
परात्परो वासुदेवो आनन्दाख्यस्सुमूर्तिकः ॥

नादस्य नादातीतस्य नादान्तान्तस्य च लक्षणम्।
स्वच्छद्रव्यकृतैव स्यात् दीर्घघण्टा निनादवत् ॥

एतन्मात्रात्परं सर्वं वक्तुं शक्यं न मादृशैः।
अकाराद्यर्थान्तान्तं च प्रणवं तच्चतुर्मुख ॥

सर्वं खल्विदं ब्रह्म ओमिति ब्रह्म उच्यते।
आनन्दमयो ब्रह्मेति स एको ब्रह्मण आनन्द इति च ॥

ब्रह्मा नारायणस्सिद्धः नारायणाद्ब्रह्मादयो जायन्त इति स्यात्।
नारायण परं ब्रह्म तत्त्वं नारायणः परः।
नारायण परो ज्योतिरात्मा नारायणः परः।
स एको ब्रह्मण आनन्द इति सर्वं चतुर्मुख ॥

न चासनसमासिद्धिः न कुम्भसदृशो यमः।
न खेचरीसमा विद्या न नादसदृशो लयः ॥

यमादिनादपर्यन्तमुक्तं सर्वं चतुर्मुख।

लयनिरूपणम्

लयः किमिति वेद्वक्ष्ये श्रोतॄणां वस्सुदुर्लभम् ॥

लयः प्रकृतिनाशः स्यात् त्रैगुण्यमलमब्जज।
शेषशेषिप्रकारेण शेषी नारायणस्सदा ॥

जीवस्तु शेषस्तस्यैव लय एतदिति स्मृतः।
इत्युक्त्वासततं ब्रह्मन् तथाभोगलयं सदा ॥

स्वांशविङ्कलयं तद्वत् स्याल्लयं हृदयङ्गमम्।
तद्वद्योग्यलयं सम्यक् आराधनलयं सदा ॥

तत्तद्भोग्यलयं तद्वत् लयं तदुपचारिकम्।
सर्व वस्तुलयं तद्वत् तत्तथाश्रवणं लयम् ॥

तच्छास्त्रपाठकलयं साहित्यादिविना भिषक्।

तत् षट्कर्मलयं तद्वत् तद्गानलयमब्जज ॥

तद्वन्नत्यलयं तच्च तल्लास्यलयमुत्तमम्।
तच्छुश्रषालयं तद्वदलंकारलयं तथा ॥

तत्प्रतिष्ठालयं तद्वत्तद्भक्तस्थापनं लयम्।
धर्मसंस्थापनलयं सदाचारलयं तथा।
अन्नशुद्धिलयं तद्वन्नित्यनैमित्तिकं लयम् ॥

तत्सत्कर्मलयं तद्वतत्तज्ज्ञानलयं तथा।
तत्सद्भक्तिलयं तद्वत् शुद्धसत्त्वलयं तधा ॥

सन्मानसलयं सर्वं वासुदेवस्य चार्पणात्।
शेषशेषिप्रकारेण विष्णौ जीवं समर्पयेत् ॥

श्रवणं पूर्वमेव स्यात् मननं तदनन्तरम्।
तन्निदिध्यासैव लयं तस्माज्जपलयं कुरु ॥

तन्निदिध्यासनलयं आप्नोति विधिनाऽब्जज।
एतद्गुणसमायुक्तो जीवो यस्तु प्रसन्नकः ॥

स एव परमैकान्ती स सन्न्यासी चतुर्मख।
एतत्क्रमेण सर्वन्तु अभ्यस्यन्जन्मभेदतः ॥

जपध्यानलये सम्यक् विष्णुसायुज्यमाप्नुयात्।
पापक्षयादि जीवानां एकजन्मनि संभवेत् ॥

एतल्लयक्रमेणैव जीवात्मपरमात्मनोः।
सत्यमेव तथा ब्रह्मन् विष्णुसायुज्यमुच्यते ॥

यदेतन्निश्चितार्थं वै पीताभा स्यात्तनूपमा।
तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः ॥

इति सिद्धान्तः स्यात्—

वेदान्तविज्ञानसुनिश्चितार्थास्संन्यासयोगाद्यतयश्शुद्धसत्वाः।
ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे ॥

दह्रंविपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम्।
तत्रापि दह्रंगगनं विशोकं तस्मिन्यदन्तस्तदुपासितव्यम् ॥

यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥

इदं शृणोत्यखिलं शृणोति न हि प्रवेद सुकृतस्य पन्थाम्।
इति मुमुक्षुः ब्रह्म उपासीत सिद्धमेव न संशयः ॥

विष्णोस्संबन्धसंबन्धादिदानीमपि पावनी।
यथा गङ्गा तथा जीवः स्याद्विष्णुस्मरणाच्छुचिः ॥

दूर्वासाश्शिव इन्द्राद्या वाल्मीक्याद्यास्तु तत्समाः।
विष्णुसंबन्धसंबन्धात् पूज्यत्वं तदवानुयुः ॥

देवताविचारः

चतुर्थ्यन्तो देवतेति उक्तश्चेत्तदयुक्तकम्।
आयेति च चतुर्थ्यन्तो द्व्यक्षरं नमनं न हि !!

यज्ञमुख एव ब्रह्म अग्निर्वै यज्ञमुखस्तथा।
यज्ञो वै विष्णुरित्युक्तं न जानाति विमूढधीः ॥

विष्णवेति मनुस्सिद्धं विष्णुशब्दो हि देवता।
आयेति च चतुर्थ्यन्तस्तदेव मनुरुत्तमः ॥

विष्णोरेवेदं सर्वं आयेत्यर्थस्सुनिश्चयः।
विष्णोरेव हि तुभ्यं स्यात् नममेतीति निश्चयः ॥

अहं नारायणस्साक्षात् अङ्गं आय चतुर्मुख।
अङ्गिहीने फलं नास्ति अङ्गहीने फलं भवेत् ॥

प्रार्थना वा चतुर्थ्यन्तः फलं दास्यति वा नवा।
विष्णुरेव ददातीह चतुर्थ्यन्ताङ्गसेवनात् ॥

चतुर्थ्यन्तोऽङ्ग इति चेत् एकाङ्गेन न सिद्ध्यति।
होमतर्पणपूजादि भोजनाद्याः चतुर्मुख ॥

अङ्गाश्चत्वार एवैते मन्त्रस्य फलदायकाः।
मन्त्रार्थोऽङ्गी देवता च होमाद्या अङ्गतां गताः ॥

घटकोऽत्र चतुर्थ्यन्तः स्यादनन्यार्ह इत्यपि।
अनन्यार्होन भवतीत्युक्तिमात्रेण किं फलम् ॥

चतुर्थ्यन्तो गुरुसमो मन्त्राणां सिद्धये क्वचित्।
गुरोस्समः चतुर्थ्यर्थः श्रोतुं वक्तुं न शक्यते ॥

मन्त्राणां पल्लवास्सन्ति बहुबोधः प्रवर्तते।
हुंफडादीन् नमोन्तांश्च परिहर्तुं न शक्यते ॥

अङ्गाङ्गि इति मन्त्राणामङ्गीकुर्मस्सदाब्जज।
चतुर्थ्यन्तश्शब्दो देव इति चेदज्ञ एव सः॥

श्वभ्यश्च श्वपतिभ्यश्च वो नमो नमः।
कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः ॥

इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नमः।
ग्रावाणः प्लवन्ते एते च देवशब्दाः चतुर्थ्यन्ताः ॥

क्षुद्रस्य स्यात्फलं किञ्चित् चतुर्थ्येव च निष्फलं।
केरलद्राविडाद्यश्च तथा राक्षसशब्दवत् ॥

आकारार्थो हि लक्ष्मी स्यात् यकारार्थोऽनिलस्तथा।
आयशब्दो द्विदैवत्यः शब्दस्यार्थो हि देवता ॥

लक्ष्मीवाय्वादिदेवाद्या विष्णोरङ्गाश्चतुर्मुख।
देवता परमात्मा च परं ज्योतिः परात्परः ॥

श्रीभूनीलाधिपश्चक्री भगवान्यज्ञनायकः।
यज्ञेशो यज्ञभोक्ता च यज्ञाङ्गो यज्ञवाहन ॥

सर्वेश्वरो जगन्नाथो बासुदेवः परात्परः।
युष्मत्संदर्शनार्थाय रहस्यमिदमब्जज ॥

नीलाबीजम्

अधरोष्ठं समुद्धृत्य मायाबिन्दुसमन्वितम्।
नीलाबीजमिदं ब्रह्मन् सर्वेषां मोहकारणम् ॥

नीलामन्त्रऋषिर्धाता छन्दोऽनुष्टुप्तथा भवेत्।
देवता विष्णुपत्नी च नीं बीजं शक्तिः एं ततः ॥

ह्रीं कीलकं ह्रीं कवचं क्लीमस्त्रं श्यामवर्णकम्।
तद्बीजेन षडङ्गन्तु कुर्यात्तत्तत्स्वरैस्सदा ॥

व्याप्यं तद्व्यापकञ्चैव तद्बीजेनैव कारयेत्।
अविभक्तसदानन्दां विष्णुवक्षस्थलस्थिताम्॥

सर्वाभरणभूषाङ्गीं नीलां तां सततं भजे।
चातुरङ्गविधानेन जपेल्लक्षत्रयं ततः ॥

तुलस्या पूजयेत्पश्चात् तर्पयेत्कुङ्कुमाम्भसा।
मधुत्रयेण जुहुयात् अयुते त्रिशतं जपेत् ॥

धूपद्रव्येण जुहुयात् तद्वद्राजा वशो भवेत्।
चणपुष्पैर्यजेत्तद्वत् जगदृश्यं भवेदिह ॥

लाजहोमेन लभते अन्यां विद्याश्रियं तथा।
तत्तद्द्रव्येण जुहुयात् तत्तत्सिद्धिमवाप्नुयात् ॥

कमलैः श्रीतुलस्या च अर्चयेद्विष्णुवक्षसि।
सुकर्मादि प्रपत्त्यन्तं पाञ्चरात्रं तु सात्त्विकम् ॥

लभेत पञ्चरात्रेण सर्वान् कामान् चतुर्मुख।

इति शेषसंहितायां एकविशोऽध्यायः