अङ्गाङ्गिविचारः
शेषः—
श्रीमन्नारायणस्याथ अङ्गाङ्गविषयं तथा।
अङ्गाङ्गिबीजादिकं च वक्ष्यामि विधिना शुचे ॥
वेदान्तवेद्यो यज्ञेशो अङ्गीनारायणस्सदा।
तस्य नारायणस्याङ्गं वेदोपनिषदस्तथा ॥
तद्वेदानां षडङ्गानि छन्दश्शब्दश्चतुर्मुख।
कल्पस्तु ज्यौतिषं चैव शिक्षास्तत्तन्निरुक्ततः ॥
ततस्तु तत्षडङ्गानां मीमांसा तच्चतुःक्रमात्।
न्यायः पुराणं तद्वत्तु धर्मशास्त्रं तथा भवेत् ॥
ततस्तच्चतुरङ्गानां अङ्गाश्चत्वार एव च।
आयुर्वेदो धनुर्वेदो गान्धर्वश्च चतुर्मुख ॥
अस्त्रशास्त्रक्रमादेवं ज्ञात्वा खाङ्गानि भेदतः।
कुर्याद्धर्मादिकं सर्वं मदुक्तेनैव मार्गतः ॥
शुद्धसत्वं राजसं च तामसं सात्त्विकं तथा।
तद्वाक्यमन्त्र मन्त्रादीन् ज्ञात्वाकुर्याच्चतुर्मुख ॥
गायत्रीं प्रणवं मूलं द्वयं विष्णुं सुदर्शनम्।
नारसिंहं वराहं च हयग्रीवं तुरीयकम् ॥
रामं कृष्णं वासुदेवं केशवादीन् तदस्त्रकान्।
अङ्गिमन्त्रा इतिज्ञेया वेदान्तेषु सुनिश्चितम् ॥
एत एवं सदा जप्याश्शुद्धसत्वाश्शुभावहाः।
कर्मज्ञान सुभक्त्यादिप्रपत्यन्तफलप्रदाः ॥
प्रणवादि जपेद्भक्त्या विप्रास्तद्वेदमार्गतः।
नारायणाङ्गमन्त्राणां क्रमेण कमलासन ॥
राजसाङ्गादि मन्त्रादीन् शृणु सर्वं यथातथम्।
ब्रह्माग्नीन्द्रादिसोमादीनादित्यादीन् नवग्रहान् ॥
हनुमत्कार्यवीर्यादि मन्त्रा राजससंज्ञिताः।
तद्विष्णोरङ्गिमन्त्राणां तामसाङ्गान्मनून् शृणु ॥
शिवं रुद्रं पाशुपतं अघोरं नीलकण्ठकम्।
शम्भुं पिनाकिं त्रिपुरं महादेवं महेश्वरम् ॥
सदाशिवं कपर्दिंच शङ्करं चेन्दुशेखरम्।
मृत्युञ्जयं हरं चोग्रं भैरवं वीरभद्रकम् ॥
गाणायत्यं तामसादीन् दुर्गां तत्पार्वतीं शिवाम्।
रौद्रीं पाशुपतीं घोरां नीलकण्ठीं च शाम्भवीम् ॥
पिनाकीं त्रिपुरां तद्वद्देवीं माहेश्वरीं तथा।
सदाशिवां तु कापर्दीं शांकरीं चन्द्रशेखरीम् ॥
मृत्युंजयां जटींहारां उग्रां तद्भैरवीं तथा।
कालरात्रीं भद्रकालीं चण्डां कात्यायनीं उमाम् ॥
गौरीं भवानीं रुद्राणीं अम्बिकां चाण्डकां तथा।
पद्मावतीं पार्वतीं च कपर्दीं विघनां सदा ॥
तामसाङ्गा इति ज्ञेया एते सर्वे चतुर्मुख।
शुद्धसत्वं परं ब्रह्म वासुदेवस्य सर्वदा ॥
तद्विद्याद्यङ्गमन्त्राणां सात्त्विकाङ्गान् क्रमात् शृणु।
तच्छ्रीं भूमिं तथा नीलां तद्भक्तस्तत्वतस्तथा॥
अनन्तादीन् तथा ब्रह्मन् गारुडादीन् तथादितः।
चक्रादीन्वासुदेवस्य विष्वक्सेनादिकान् तथा ॥
धर्मादीन्कौस्तुभादींश्च पादुकादीन्विशेषतः।
द्वारपालान् तथादित्यान् कुमुदादीन् यथाविधि ॥
शुद्धसत्त्वऋषीन् देवान् यज्ञान् व्यूहान् तथाब्जज।
विप्रश्रेष्ठादिमुक्तादीन् सत्त्वकर्मरतान् तथा ॥
सत्त्वज्ञानरतस्तद्वत् सत्त्वभक्तियुतांस्तथा।
नित्यज्ञानप्रपत्त्यादियुक्तांस्तद्वत् च्चतुर्मुख ॥
पञ्चरात्ररतांस्तद्वत्क्रमेण कमलासन।
सात्त्विकाङ्गानीति विदुः एते सर्वेपि सात्त्विकाः ॥
वासुदेवाङ्गिमन्त्रस्य साङ्गास्तदितरे क्रमात्।
अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषथम् ॥
अयोग्यः पुरुषो नास्ति प्रयोक्ता तत्र दुर्लभः।
सात्त्विका ऋषयस्त्वेते प्रयोक्तारस्त एव हि ॥
एवं विशुद्धसत्त्वाच्च स प्रपन्नो जितेन्द्रियः।
स एव लोकान् जयति स याति परमं पदम् ॥
तच्छिष्यपुत्रभक्ताश्च प्रपन्नत्वमवाप्नुयुः।
तद्वज्जयति लोकेऽस्मिन् स या ते परमं पदम् ॥
राजसा ऋषयः ये तु ते वै स्वर्गप्रवर्तकाः।
तद्भक्तस्स्वर्गमाप्नोति निश्चितं सततं त्विहः ॥
तामसा ऋषयस्वेते युक्तास्ते निरये सदा।
तद्भक्ताः पुत्रशिष्याद्याः पाषण्डविघिगर्हिताः ॥
ते यान्ति नरकं घोरं रौरवं रोमसंख्यया।
सात्त्विका विष्णुभक्ताश्च राजसास्सत्यलोकिनः ॥
तामसाश्शिवभक्ताश्च रौद्रं परममब्जज।
ब्रह्मवादिनो बदन्ति रहस्यमिदमेव हि ॥
विप्रादिसर्ववर्णानां ज्ञातव्यं हरिसिद्धये।
एवं ज्ञात्वा जपेन्नित्यं मोक्षधर्मार्थसिद्धये ॥
वासुदेवाङ्गिमन्त्रस्य पञ्चाङ्गान् शृणु सर्वदा।
जपतर्पणहोमादिपूजातद्भोजनादिकम् ॥
पञ्चाङ्गा एत एव स्युः मन्त्रज्ञानात्मसिद्धये।
त्रिभिर्नर्षैःत्रिभिर्मासैः त्रिभिः पक्षैः त्रिभिर्दिनैः ॥
अत्युत्कटैः पुण्यपापैः इहैव फलमश्नुते।
हरदत्तं ब्रह्मदत्तं फलं दुर्घटमुत्तमम् ॥
तच्छक्त्या दत्तमत्युग्रं विष्णुमन्त्रेण नश्यति।
सुदर्शननृसिंहस्य मन्त्रेणैव च सर्वदा ॥
विष्णुमन्त्रेण सर्वेषां चतुरङ्गेण चाब्जज।
तन्निष्ठमान्त्रिकाचाररतेन विधिना सदा ॥
मान्त्रिकस्य च राज्ञां च षट्कर्माणि च दुर्लभम्।
लभते धर्मकामादीन् प्राप्नोति परमं पदम् ॥
शिवादिक्षुद्रमन्त्राद्यैः फलं क्षुद्रमवाप्नुयात्।
इहैव लभते सर्वं वत्सरत्रितयात्परम् ॥
शत्रोरायुष्यमैश्वर्यं सर्वं चापि क्षणत्रये।
नृसिंहाद्युग्रमन्त्रैश्च हिरण्यदशकादिवत् ॥
नश्यन्ति सततं ब्रश्चन् धर्मसंस्थापनाय च।
देवब्राह्मणरक्षार्थं मत्सायुज्यादिहेतवे ॥
प्रणवाद्यादिमन्मन्त्रान् जपेद्ब्रह्मविदब्जज।
ये जपन्ति च मन्त्राणि मदर्थे विनियुज्यते ॥
स एव मत्पिता माता स एव जगतः पिता।
तस्मै मुक्तिं प्रदास्यामि इहैव लभते फलम् ॥
बीजमन्त्रविधिः
प्रणवाद्यादिबीजाद्यैः वैष्णवैः बीजमन्त्रकैः।
सुरक्षां विजयं सौम्यात् परविद्यादिनाशकात् ॥
षट्कर्माणि तथा कुर्यान्मन्त्रतन्त्रादिवित्सदा।
जपमात्रं प्रतीकं स्यात् तर्पणं हय एव च ॥
होमः गजस्समाख्यातः रथः पुष्पाञ्जलिर्भवेत्।
कोशः तदन्नदानं स्यात् नृपो मन्त्रविदब्जज ॥
चातुरङ्गविधानस्य आचार्यः एक एवच।
अनजप्याः स्तोत्रमूलाः मालामन्त्रांस्तु वैष्णवान् ॥
उपजप्याधिकं कुर्यात्पुराणाध्ययनं ततः।
शक्त्यधीनं तु कृत्वा तु स्वगृहे च विशेषतः ॥
शान्तिकर्मविधानेन कारयेन्मण्टपादिकम्।
शुभयोगादिकाले च तत्कर्तुरनुकूलभे ॥
पुण्याहं कारयेन्मन्त्री मन्त्राङ्गाद्यादिभेदतः।
दिनमेकमुपोष्याथ पङ्गगव्यं पिबेत्ततः ॥
शङ्खादिसर्ववाद्यैश्च स्वस्ति वाच्य समन्त्रकम्।
रक्षाबन्धं ततः कुर्यात् पश्चात्कर्म समारभेत् ॥
एकाक्षरादिपञ्चान्तं षड्गुणं कारयेद्बुधः।
षडादीन् द्वादशान्तं तु त्रिगुणं जीवसंङ्ख्यया ॥
द्वादशानुष्टुभान्तं च होमादि द्विगूणं भवेत्।
पूजातर्पणहोमादीन् एवमानुष्टुबङ्गके ॥
एकाङ्गैष्षड्गुणान् जप्त्वा द्व्याङ्गेषु त्रिगुणं भवेत्।
व्यङ्गैस्तु त्रिगुणं चैव चतुरङ्गे तथैव च ॥
स्वपक्षे त्रीणि षट्चैव अथ प्रायोगिकन्तथा।
चतुरङ्गबलं कुर्यान्न्यासादिकमतन्द्रितः ॥
कुण्डमण्डलमानेन तत्तत्कर्माणि योजयेत्।
तत्तद्द्रव्यादिभेदेन बीजमन्त्रान् प्रयोजयेत् ॥
बीजमन्त्रेण सिध्यन्ति विप्राणां सर्वमब्जज।
गुह्याद्गुह्यतमं लोके बीजमन्त्रादिनिर्णयः ॥
बीजमन्त्रप्रयोगो वै रहस्यतममब्जज।
सर्ववेदान्तसारं च सर्वविद्यान्तसारकम् ॥
सर्वेषां सर्वदा गोप्यं देवर्षीणां च दुर्लभम्।
मद्बीजाक्षरमन्त्राणां श्रियादीनां तथाब्जज ॥
वेदैश्शास्त्रैः सर्वविद्यैश्शक्यं वक्तुं न मादृशैः।
श्रीबीजमन्त्रः
वान्तं यान्तं समारूढं मायाबिन्दुविभूषितम्।
श्रियो बीजमिदं प्रोक्तं नृणां सद्यश्श्रियावहम् ॥
श्रीबीजस्यास्य मन्त्रस्य ब्रह्मा ऋषिरुदाहृतः।
छन्धश्च देवी गायत्री विष्णुपत्नीह देवता ॥
अं बीजं च तु रं शक्तिः कीलकं ह्रीं चतुर्मुख।
एं कवचं अं अस्त्रं रक्तवर्णमरे विभुम् ॥
इति कृत्वा ऋषिन्यासं कुर्यान्मन्त्रविदब्जज।
षडङ्गं षट्स्वरैर्न्यस्य करे देहे सुमन्त्रवित् ॥
व्याप्यं तद्व्यापकं चैव तद्बीजेनैव कारयेत्।
पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ॥
विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व।
पूर्वावरणसंयुक्तं जपेल्लक्षचतुष्टयम्।
चन्दनागरुकर्पूरजलेनैव च तर्पयेत्।
कमलैर्बिल्वपत्रैश्च पूजयेदङ्गसङ्ख्यया ॥
कमलायुतहोमेन याति श्रियमनुत्तमाम्।
बिल्वपत्रैश्च जुहुयात् अयुतं गोघृत्तैस्सह ॥
अष्टैश्वर्यमवाप्नोति सन्देहो नास्ति निश्चयः।
अयुतं बिल्वपत्रेण शत्रुराज्यं लभेत्सदा ॥
यद्बीजस्य विशेषेण वदन्ति फलमुत्तमम्।
तत्फलं शीघ्रमामोति क्रमेणान्यान्यवाप्नुयात् ॥
चातुरङ्गविधानेन सिद्ध्यन्त्यत्र न संशयः।
श्रीसूक्तयन्त्रमेव स्यात् श्रीयन्त्रं सम्यगब्जज ॥
प्रयोगभेदान् भेदन पञ्चावस्थान् चतुर्मुख।
स्वप्नजाग्रत्सुषुप्त्यादीन्मरुतां वक्ष्यते तवा ॥
प्रणवादिबीजमन्त्राणां अन्ते तद्विधिना सह।
स्वशिष्याय सुवृत्ताय सम्यग्ब्रह्मविदे वदेत् ॥
अन्येषां वक्ष्यते चेत्तु ब्रह्महत्त्या फलं लभेत्।
तस्मात्सर्वप्रयत्नेन गोपयेदेतदब्जज ॥
इति श्रीशेषसंहितायां विंशोध्यायः.