१९

प्रणवबीजमन्त्रः

नारदः—

देवदेवमहादेव श्रोतुमिच्छामि तत्त्वतः।
बीजमन्त्रविधानादीन् वद मे परमं मम ॥

शेषः—

शृणु वक्ष्यामि देवर्षे प्राणास्थापनकारणात्।
बीजमन्त्राणि विधिना तत्प्रयोगाणि तत्त्वतः ॥

पञ्चरात्रोक्तयुक्तानां शापानुग्रहकारिणाम्।
वैखानसोक्तयुक्तानां प्रतिष्ठाजपसिद्धये ॥

रहस्यानि च बीजानि शृणु मन्त्राणि तत्त्वतः।
तत्तन्मूर्तिप्रतिष्ठां तु तत्तद्बीजेन कारयेत् ॥

विष्वक्सेनस्य बजेिन भक्तानां नान्यथा भवेत्।
नित्यानां नित्यबीजैश्च कारयेत् स्थापनादिकम् ॥

वैखानसस्थले सम्यक् तन्मन्त्रेणैव कारयेत्।
पञ्चरात्रस्थले सम्यक् पञ्चरात्रेण कारयेत् ॥

आवेशनादिसिद्ध्यर्थं अष्टैश्वर्यादिवृद्धये।
पञ्चरात्रस्थले सम्यक् प्रथमावरणाद्बहिः ॥

तद्विष्ण्वाद्यङ्गमूर्त्यादीन् भक्तद्वाराधिपान्विना।
पञ्चरात्रोक्तमार्गेण कुर्यात्तत्स्थापनादिकम्॥

मदुक्तैनैव बीजाद्यैः स्थापनार्चादिकं भवेत्।
तन्मन्त्रैश्च विधानाद्यैः देवसान्निध्यकारणम् ॥

पौरश्चरणकं कृत्वा तत्तद्बीजानि मन्त्रवित्।
तद्बीजन्यासहोमाद्यैः कुर्यात्तत्स्थापनादिकम् ॥

तद्देहं मलदेहं स्यात् यद्देहं मन्त्रहीनकम्।
तद्बीजं प्रतिरूपं स्याद्यद्बीजं मन्त्रहीनकम् ॥

विप्रो विप्रो भवेत्सर्वो वेदमन्त्रादिना सदा।
भृच्छिलादारुलोहाद्यैः बिम्बस्य विधिनाऽब्जज ॥

देवत्वं लभते सम्यक् बासुदेवो भवेत्सदा।
भक्त्यावेशो भवेत् क्षिप्रं सद्यो नश्यति अग्निवत् ॥

वेदमूलादिबीजाद्यैः आगमाद्यैश्च सात्त्विकैः।
आवाहनं भवेत्सम्यक्तत्तिष्ठति न संशयः ॥

यो विप्रस्सात्त्विाकाचारात् ब्राह्मणो वेदमार्गगः।
मन्त्रयोगात्स एव स्यात् ब्रह्मविद्ब्राह्मणो गुरुः ॥

तस्मात्सर्वप्रयत्नेन स मन्त्रज्ञो भवाब्जज।
यथा देहे तथा बिम्बे न्यासकर्म समाचरेत् ॥

जपहोमादिसर्वेषु प्रतिष्ठाद्युत्सवेषु च।
विप्राणां प्रणवाद्याश्च वेदमन्त्राः प्रकीर्तिताः ॥

स्मृत्यागमादिमन्त्राश्च सर्वेषां च श्रियादिकम्।
आदौ मूर्ध्नि समुद्धृत्य दक्षिणश्रवसंयुतम् ॥

तथा जठरमुद्धृत्य बिन्दुनादसमन्वितम्।
जपेद्ब्रह्मेति तद्ब्रह्मन् सर्वार्थं मोक्षदायकम् ॥

प्रणवस्य ऋषिर्ब्रह्मा गायत्री छन्द उच्यते।
नारायणः परं ब्रह्म देवतेति चतुर्मुख ॥

अं बीजं तत उं शक्तिः कीलकं एं ततः परम्।
श्रीं कवचं ह्रीमित्यस्त्रं श्वेतवर्णमिदं न्यसेत् ॥

षडङ्गं षट्स्वरैर्न्यस्य करे देहे यथाक्रमम्।
नारायणं विभुं शान्तं प्रणवार्थप्रकाशकम् ॥

श्रीभूसहितमानन्दं हृत्पद्मे सततं भजे।
व्याप्यं तद्व्यापकं तद्वत्कृत्वा तत्प्रणवेन च ॥

चक्रमुद्रां प्रदर्श्याथ पञ्चलक्षं जपेद्बुधः।
चतुरङ्गं प्रकुर्वीत मोक्षज्ञानात्मशुद्धये ॥

अश्वत्थब्रह्मसमिधैः गौघृतैस्तिलपायसैः।
जुहुयाद्ब्रह्मनिष्ठस्तु मोक्षधर्मार्थसिद्धये ॥

किमत्र बहुनोक्तेन बिप्रस्सर्वस्सदा जपेत्।
श्वेतपुष्पैस्तुलस्या च वासुदेवं समर्चयेत् ॥

गोक्षीरेण स मन्त्रज्ञः तर्पयेत्प्रणवेन तु।
एतद्योगाख्यविप्रस्य फलं वक्तुं न मादृशैः ॥

एतदुक्तप्रकारेण कल्पयेन्मन्त्रवित्तमः।
ब्रह्महत्त्यादिपापानां लक्षमेकं विधीयते ॥

सर्वोपपातकानां च कल्पयेच्चित्तमेव तु।
महारोगादीनां सम्यक् अयुतं कल्पयेद्द्विज ॥

क्षुद्ररोगादीनां चेदं पञ्चसाहस्रकं भवेत्।
पूर्वोक्तद्रव्यभेदेन षट्कर्मसु युजेत्तथा ॥

पौरश्चरणमार्गेण चातुरङ्गंः प्रयोजयेत्।
सर्वेषां बीजमन्त्राणां होमादिकमिदं भवेत्॥

मध्येतारं विलिख्याऽथ बिन्दुसाध्यसमन्वितम्।
तद्बहिर्विलिखेदष्टपद्मे मूलं लिखेन्मनुम् ॥

लिखेत्तु पौरुषं सूक्तं पतितं परितो बहिः।
श्रीबीजेन सुसंवेष्ट्य श्रीसूक्तं तद्बहिर्लिखेत् ॥

हंसहंसेति रक्षेति साध्यन्तु स्वरसंयुतम् ॥
पाशाङ्कुशेन संवेष्ट्य इन्द्रादीन् बहिरालिखेत् ॥

इति श्रीशेषसंहितायां एकोनविंशोऽध्यायः