भूसूक्तविधिः
शेषः—
विष्णुसूक्तस्य मन्त्रस्य माहात्म्यं पूर्ववत्तथा।
श्रीसूक्तस्य च भेदोऽस्ति होमध्यानफलादिकम्॥
ह्रीश्च मे लक्ष्मीश्च पत्न्यौ नीला वक्षस्थले तथा।
मन्त्रभेदात्कर्मभेदः फलभेदः तथाब्जज ॥
अस्य भूसूक्तमन्त्रस्य पितामह ऋषिस्तथा।
छन्दश्च देवी गायत्री विष्णुपत्तीह देवता ॥
ह्रीं बीजं च तु एं शक्तिः ओं कीलकमथाब्जज।
श्रीं कवचं क्षौमित्यस्त्रं वर्णश्श्यामोऽथ रक्तकः ॥
भूबीजेन षडङ्गं तु कुर्याद्ध्यायन्करद्वये।
भूमिर्भूम्नेति वाक्येन हृदयं पूर्ववन्न्यसेत् ॥
आदित्याश्चेति वाक्येन न्यसेच्छिरसि संस्मरन्।
शृङ्केशृङ्गेति वाक्येन शिखायान्तु न्यसेद्बुधः ॥
वायुमतीति वाक्येन न्यसेद्बाह्रोः क्रमेण च।
मेदिनी देवीति वाक्येन नेत्राभ्यां न्यासमाचरेत् ॥
धनुर्धराय मन्त्रेण कुर्याद्दिग्बन्धनं क्रमात्।
व्याप्यं तद्व्यापकं सम्यक् तद्वीजेन न्यसेद्बुधः ॥
विष्णुपलीं महीं देवीं माघवीं माधवप्रियाम्।
लक्ष्मीप्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥
इति ध्यात्वा बुधश्रेष्ठो भूसूक्तजपमाचरेत्।
अयुतं जपमात्रेण सर्वलोकाधिपो भवेत् ॥
अर्धेनैव हुनेत्तेन वक्तुं शक्यं न मादृशैः।
विष्णुरेव विजानाति श्रीभूनीलादि तत्फलम्॥
चातुरङ्गविधानेन कुर्याद्ब्रह्मविदब्जज।
पूजयेत्तत्तुलस्या तु होमयेत्कमलैस्तिलैः ॥
मधुत्रयैः गुग्गुलैश्च अपामार्गैश्च लाजकैः।
सर्वराज्याधिपत्यर्थं कुर्यान्मोक्षार्थमुत्तमम्॥
उद्धरेत्सर्वसिद्ध्यर्थं भूसूक्तं यन्त्रमुत्तमम्।
भूबीजं विलिखेन्मध्ये बिन्दुसाध्यादिसंयुतम्॥
तद्बहिर्बिलिखेन्मन्त्री भूसूक्तं परितो लिखेत्।
भूबीजेन तु संबेष्ट्य तद्बहिर्बिलिख द्बुधः॥
चतुर्विंशद्दलं पद्मं तद्दलेषु स मन्त्रवित्।
विष्णुगायत्रमुद्धार्य तत्तत्कर्मादिभेदतः ॥
श्रीबीजेन तु संवेष्ट्य द्वात्रिंशद्दलमालिखेत्।
तद्बहिस्तद्दले सम्यक् मन्त्रराजं नृसिंहकम्॥
बहिस्स्वराणि विलिखेत् हंसद्वौ व्यञ्जनानि च।
तारापाशाङ्कुशैर्वेष्ट्य बहिरिन्द्रादिकं लिखेत्॥
एतत्सूक्तत्रयैस्सर्वं सर्वेषां सिद्ध्यति ध्रुवम्।
मान्त्रिकैः कारयेदेवं क्षत्रविशूद्रजातिकम्॥
राज्यभ्रंशे वंशनाशे ऋणमोक्षे ऋणे भये।
पूर्वोक्तदोषसंयुक्ते पूर्वोक्तफलसिद्धये ॥
पूर्वोक्तगुणसंयुक्तैः पुरुषसूक्तेन तत्तथा।
श्रीभूसूक्तेन सिद्भ्यन्ति सर्वेषां सर्वदा फलम्॥
इदं गोप्यतमं सत्यं सर्वदा कुरु चाब्जज।
पुरुषो नारायणः परं ब्रह्म भवति। नारायणमन्त्र एवाङ्गी भवति। पुरुषसूक्तादिविष्णुमन्त्राः अङ्गीभवन्ति। अग्नीन्द्रनीलकण्ठार्कार्घोरपाशुपतशैवशाक्तकापालगाणापत्यादयः राजसास्तामसा भवन्ति। धिष्णुमन्त्रस्याऽङ्गमन्त्रा भवन्ति। य एवं वेद। य एवमाचरति। ब्रह्मणस्सायुज्यं सलोकतामाप्नोति ॥
इति महेश्वरोपनिशत् ॥
अङ्गहीने नारायणाद्यङ्गिमन्त्राः फलप्रदा भवन्ति। नारायणाद्यङ्गिमन्त्रहीने शैवपाशुपतादितामसाङ्गमन्त्राः नरकफलप्रदा भवन्ति। यस्सर्वज्ञो य एवं वेद ब्रह्मणस्सायुज्यं सलोकतामाप्नोति ॥
इति शिवोपनिषत् ॥
एवं ज्ञात्वा विशेषाणि नित्यनैमित्तिकं कमात्।
जपपूजादिहोमान्तं कुर्याद्विप्रस्सदाब्जज ॥
**इति शेषसहितायां अष्टादशोध्ययः,